शिवप्रोक्तं मुक्तिमार्गोपदेशम्
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवपार्वतीसंवादे -
पार्वती उवाच ।
देव देव महादेव हर गङ्गाधर प्रभो ॥ २७॥
अन्तकान्तक कामारे अन्धकासुरसूदन ।
महाकैलासनिलय विश्वनाथ हराव्यय ॥ २८॥
किं तत्त्वं मुक्त्युपायं किं साधनं तद्वदस्व मे ।
असह्यजनतास्वान्तपापतापनिवारकम् ॥ २९॥
मह्यं विश्वाधिक ब्रूहि निस्तारं विस्तराच्छिव ।
- -
इत्युक्तो भगवान् रुद्रो गिरिजाजायया तदा ॥ ३०॥
मुदा हृदि चिरं ध्यात्वा मुक्त्युपायं हरोऽवदत् ॥ ३१॥
सदाशिव उवाच ।
धन्ये मान्येऽद्रिकन्ये त्वयि वरकरुणापूर्णदृष्ट्याऽभिवक्ष्ये
सम्पूर्णं कुरु कर्णपत्रसुरसामोदास्पपदं ते मनः ।
मुह्यन्त्यक्तापि गुह्यप्रकथनमहिमासह्यपापौघनाशं
पास्यस्मत्कृपयैव लोकमभितोऽप्यूह्यं त्वया शैलजे ॥ ३२॥
यातायातपरम्परासु भवजैर्दुःखाभिघातैः शिवे
मोमुह्यत्यपि पातशातनमिषैरुन्मेषमेषोन्मिषैः ।
दुर्द्दा(न्त)द्रुहिणे नता हतधियो भक्तिं परां मुक्तिदा-
मित्येवं श्रुतिसूक्तिगर्भितवचो मुञ्चन्ति मे पामराः ॥ ३३॥
वारं वारमुमासहायचरणं पारं भवाब्धेः परं
द्वारं मुक्तिनिकाय मार्गमवरं जानान्ति हाराः परम् ।
घोरं पातकपञ्जरं प्रविजहात्येवाद्भुतं नो बुधे
बोधायैव भविष्यति प्रियतरं मज्ज्ञानमेकं शिवे ॥ ३४॥
कलौ खलु रसायनं हरमहाजने पावनं
सदैव सुखसाधनं गिरिशतुङ्गलिङ्गार्चनम् ।
महाघगिरिभेदनं प्रबलदुःखसन्दीपनं
जनेऽनुजनिनाशनं हृदयमोहसम्भेदनम् ॥ ३५॥
श्रृणुष्व शशिशेखरे त्रिणयनेन्दुबिम्बानने
सदैव सुकृती कृती भवति भस्मभूषोज्ज्वलः ।
स रुद्रसदृशो भवेत्सकलदेहरुद्राक्षधृक्
सदेशि मम सम्मतो भवति भाग्यपूर्णो जनः ॥ ३६॥
मत्पञ्चाक्षरपावनोत्तममतिर्या मास्तु ते तां गतिं
संसारेषु विरज्य निर्ममहृदा त्यक्तेषणो वा यतिः ।
नैतामेति गतागतिप्रचलितो ब्रह्माण्डलोकोर्ध्वगः
सत्यं रुद्रपरायणोऽपि गिरिजे नारायणस्याघहृत् ॥
हरहर शिव शङ्कर त्रिशूलिन्
इति नाम्नैव विमुक्तपापसङ्घः ।
यदि हृदि मम पाद ध्यानधारानुरक्तो
भवति किल स मर्त्यो मुक्तिसक्तो विशिष्टः ॥ ३८॥
मदङ्घ्रिभक्तः शतरुद्रमन्त्र-
जापी परां मुक्तिमुपैति शश्वत् ।
नित्यं हि पञ्चाक्षरमन्त्रजापी
क्षेत्रे वसेदस्य कुतो जनुर्हि ॥ ३९॥
भुवि भारतवर्षमेतदग्र्यं
गिरिजे राजति पुण्यमार्गदाने ।
इदमासाद्य नरोत्तमोऽवरो वा
न हि तिष्ठेद्विषयेषु सक्तचित्तः ॥ ४०॥
क्षपापतिकलाधरं क्षपितपापविक्षेपहृ-
त्क्षणं हृदि समर्चयन् सकलपुण्यनिक्षेपकृत् ॥ ४१॥
शर्वस्पर्शेन सर्वो भवति हि विमलः सर्वपापादिहीनो
हीनोऽपि स्यादहीनाध्वरवरफलभृच्चोर्वरादानकृत्सः ।
यो वा कोवापि लोके प्रथितजनिजरानाशदोषेऽस्तदोषे
देवि श्रीमत्प्रदोषे ह्यपचितिपरमो नोचितो दुःखभागे ॥ ४२॥
यः शाङ्गसङ्गजनितोत्तमपापभङ्गो
लिङ्गार्चनेन निरयं विलयं व्रजेत ।
यो मत्कथास्तुतिविधौ सकलाघधूतो
धातुः प्रमार्ष्टि फलके लिपिजातरेखाम् ॥ ४३॥
मदालयकरोऽम्बिके भवति पूर्वपुण्योदयैः
सुदीपवरदानकृद्विमलधूपमोदप्रदः ।
भवेत विभवेऽपि यः प्रतिभवेऽपि भावादरो
भवाय जगतां शिवे स भवेत् गणेषूत्तमः ॥ ४४॥
प्रातः सङ्गवपुङ्गवोरुवहनश्रीदिव्यलिङ्गार्चकः
सायं वापि उमासहायमगजे वीक्षेत वा हृष्टधीः ।
तेनैवाध्वरकोटयो विधिहुतास्तेनैव दत्तोर्वरा
तेनानर्ध्यगजाश्वकाञ्चनवरं दत्तं द्विजेभ्यः शिवे ॥ ४५॥
एवं दशैव विहिता मम तोषधर्मा
मुक्तिप्रदा भुवि नरेषु शिवे सदैव ।
अस्येतिहासमधुना मधु सारभूतं
धार्यं त्वयां शिवरहस्यसमुद्रमध्ये ॥ ४६॥
नाम्नाख्यातेश्वरोऽयं जनिमृतिविदशानाशकोऽयं भवानि
अंशोऽयं दशमः सदाशिवकलाचूडाङ्घ्रिभक्तिप्रदः ।
अध्यायाध्ययनेन संसृतिभवं दुःखं न स ध्यायति
ध्वान्तध्वंसनमेतदेव गिरिजे पुण्यं शताध्यायकम् ॥ ४७॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं मुक्तिमार्गोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः १ शिवगौरीसंवादः । २७-४७॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 1 shivagaurIsaMvAdaH . 27-47..
Notes:
Upon being requested, Śiva शिव tells Pārvatī पार्वती about the MuktiMārga मुक्तिमार्ग. He tells Her about the PañcākṣaraMantra पञ्चाक्षरमन्त्र and His Names HaraHara Śiva Śankara Triśūlin हरहर शिव शङ्कर त्रिशूलिन्.
He concludes by mentioning about the DaśDharma दशधर्म that appease Him; and that the ŚivaRahasyam Īshvarākhyaḥ Daśamāmśa शिवरहस्यं ईश्वराख्यः दशमांशः bestows devotion to the Feet of SadāSiva सदाशिव.
Proofread by Ruma Dewan