श्रावणगीतम्
आधयो व्याधयो नासन् देशे बालमरणानि श्रोतुं नैव ।
दुष्टजनान् द्रष्टुं नैव साध्यं शिष्टजना एव सर्वतोपि ॥ १॥
नानृतमल्पं न चौर्यमेवं नास्ति दुराचारवञ्चनञ्च ।
नाधर्मचिन्ता कदापि गेहे आपणे ग्राम वा पत्तनेपि ॥ २॥
कुत्रापि दुर्जना नैव देशे कुत्रापि दुःखिता नैव केचित् ।
सर्वतो भद्रं सुभिक्षमासीत् सर्वस्वमेवं सदाश्रितञ्च ॥ ३॥
कृषयोपि सर्वाश्च सम्यगासन् शतगुणमासीत् कृषिफलञ्च ।
कोशस्सम्पूर्णाश्च संस्थिताः पर्याप्तधान्यधनैश्च नित्यम् ॥ ४॥
सुष्ठु सुवर्णविरचितानि धृत्वा विविधानि भूषणानि ।
नारीजनाश्च ते बालकाश्च अन्ये तथावसन् नीतिपुष्टाः ॥ ५॥
माबालिशासनकाले देशे मानवास्सर्वे समाना एव ।
आवसन् सामोदेमेव सर्वे आपदो नासन् कदापि केषाम् ॥ ६॥
मलयालम गीतम् - Maveli Nadu Vaneedum Kalam
संस्कृतानुवादः - मुत्तलपुरं मोहनदासः
केरलानां परम्परागतं ग्रामीणगीतमिदं महाबलिचक्रवर्तिनः
शासनकाले राज्यस्य सामूहिकां सुवर्णदशां वर्तयति ।
This extremely popular traditional ballad of
Kerala Maveli Nadu Vaneedum Kalam narrates
a glorious past period when the country was
gloriously prosperous under the eminent
king Maveli (Mahabali).
Translated in Sanskrit by Muthalapuram Mohandas
Encoded and proofread by Sumedh Sathaye