श्रावणकालः
गगनमश्रुविमुक्तं पश्यत
श्रावणकालः सम्प्राप्तः ।
पुष्पाणां हा सुरभिलगन्धः
पुष्यति मानसमस्माकम् ॥
रजतककान्तिसमेतं वानं
श्रावणरजनी ह्यायाता ।
मधुना मत्ताः चित्रपतङ्काः
मादककेलिषु संलग्नाः ॥
धान्यं बहुतरं सम्भृतमेतत्
कर्षकचित्तं हर्षभरम् ।
हा! हा! पश्यत श्रावणकालः
मानवचित्तमिहायातः ॥
डिण्डिमि डिण्डिं नादं श्रृणुत
श्रावणव्याघ्राः विलसन्ति ।
तित्तै तित्तै घोषं श्रृणुत
नौकाकेलिः समारब्धा ॥
पूप्पोलि पूप्पोलि गानं भरितं
बालाः पुष्परतास्तत्र ।
हू हू हू हू नादं श्रृणुत
दोलादोलनमारब्धम् ॥
हा हा पश्यत श्रावणकालः
मानवचित्तमिहायातः ।
पीतं सर्वं कदलीवृन्दं
पक्वं जातं मधुरतरम् ॥
पर्पटभर्जनगन्धो भरितः
लालावर्धकशक्तियुतः ।
क्वथितं सूपं भर्जितसहिता
श्रावणसग्धिः समारब्धा ॥
आगच्छत भोः मित्रक रुचितैः
उदरं पूर्णं करवाम ।
सुतलादद्य समागच्छन्तं
माबलिराजं स्वीकुर्म ॥
--- विजयन् वि. पट्टाम्बि