श्रावणमासे कृष्णारात्रिः
श्रावणमासे कृष्णारात्रिः दिशि दिशि विकरति रागं रे !
पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे !! ०
प्रियं विना मे सदनं शून्यम् ।
तेन विना को हरति नु दैन्यम् ?
दामिनि ! विहरसि सदा घनाङ्के, नौमि सुतनु! ते भाग्यं रे!
पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे !! १
रिमझिम रिमझिम मेघो वर्षति ।
तप्तं गात्रं सोऽपि न शमयति ॥
स्वप्ने नयति सुदीर्घा रजनी, व्योमं विना विमानं रे!
पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे!! २
अहर्निशं मे हृदयं वेलति ।
अन्तर्ज्वाला स्वैरं खेलति ॥
याहि सुनयने! प्रियतमदेशं, बोधय विगतविमोहं रे !
पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे !! ३
पिव- पिव कुञ्जे रटति चातकः ।
श्रुत्वा तमापि न सरति वञ्चकः ॥
चपले! सफलङ्कुरु मे नयनं कुशलं प्रेषय कान्तं रे !
पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे !! ४
निधाय हृदये कामिनिवार्ताम् ।
दृष्ट्वा नवाञ्च मन्मथयात्राम् ॥
उपनय रागिणि! मे सन्देशं, पूरय विरहिणिकाङ्क्षा रे !
पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे!! ५
-- लेखक- केशव प्रसाद गुप्त
Encoded and proofread by Mohan Chettoor