श्रीसुखानन्दाचार्यप्रणीतं श्रीचित्रकूटमङ्गलम्
श्रीसीतेशसमारम्भां श्रीशुकाचार्यमध्यमाम् ।
अस्मदाचार्यम्पर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥
सीतारामपदाम्भोजैरङ्किता यद्वसुन्धरा ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ २॥
मञ्जुमन्दाकिनी यत्र राजते भक्तिमुक्तिदा ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ३॥
रम्या विहारभूमिश्च यत्रास्ति रामसीतयोः ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ४॥
यस्मिंश्च श्रूयते नित्यं कथाकीर्त्तनजो ध्वनिः ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ५॥
लभते यत्र वासाद्धि पुरुषार्थचतुष्टयम् ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ६॥
सदैव सेव्यते यश्च दैवैः सिद्धैर्महर्षिभिः ।
तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ७॥
द्वारपीठाधिपश्रीमत्सुखानन्दविनिर्मितम् ।
मङ्गलं भवतादेतत् पठतां मङ्गलप्रदम् ॥ ८॥
इति श्रीसुखानन्दाचार्यप्रणीतं श्रीचित्रकूटमङ्गलं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey