सिद्धान्तरत्नाकरस्त्रोत्रम् अथवा श्रीधरसन्देशः
मोक्षानन्दनिधिं सुशान्तिनिलयं भ्रान्तिच्छिदं ज्ञानदं
संसारार्णवतारकं मुनिसुतं वेदान्तवेद्यं विभुम् ।
भूमाख्येयमनन्तवीर्यमतुलं मोक्षार्थिनां जीवनं
वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ १॥
धर्मोद्धारधुरीणमद्भुतमहो धर्मध्वजं ध्यानिनं
ध्यानेनोद्गतशुद्धबुद्धिमभयं धर्मिष्ठगेयं सदा ।
वेदान्ताम्बुधिमन्दरोद्भवसुधावाङ्माधुरीधारिणं
वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ २॥
सद्बोधामृतवर्षिणं सुखघनं कामेभ-पञ्चाननं
अज्ञानान्धतमोविदारणपटुश्रेष्ठप्रभाभास्करम् ।
मायारण्यविनाशनोद्यतमहाप्रज्वालदावानलं
वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ ३॥
सद्भक्तान्तरमोहसर्पगरुडं त्रैताप-चन्द्रोदयं
संसाराम्बुधिकुम्भजं शुभतमं भक्तेष्टकल्पद्रुमम् ।
प्रारब्धोद्यत-मोहविघ्नघनभिद्वायुं प्रचण्डं परं
वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ ४॥
स्वाज्ञानस्थितविश्वमेवमखिलं जीवेशबन्धार्दितं
मत्वा दुःखमतीव संसरणतः सोऽध्वश्रमार्तं यतः ।
विश्वस्योद्धरणार्थमेव हि मुदा तद्ब्रह्मरूपादिकं
वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ ५॥
ज्ञानवैराग्यमैश्वर्यं भक्तिं मुक्तिं सुविद्यताम् ।
अस्य स्तोत्रस्य पाठेन सदाभीष्टमवाप्नुयात् ॥
इति श्रीधरसन्देशः अथवा सिद्धान्तरत्नाकरस्त्रोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar