श्रीकृष्ण-गीतिका
भज माधवं परमालयम्,
भव-वैभवं सुजनाभयम् ।
रक्षकेशं केश-वेशं
केशवं शिव-नन्दितं सच्चिन्मयम् ।
भज माधवं परमालयम् ॥ (ध्रुवम्)॥
शाश्वतं परमेश्वरं
तमचिन्त्य-रूप-चिरन्तनम् ;
विश्वमयमविनश्वरं
सन्तापितान्तर-चन्दनम् ।
मङ्गलकरं शार्ङ्ग-सुकरं
सुर-मुनि-तपो-वेदितं प्रणवोदयम् ।
भज माधवं परमालयम् ॥ १॥
साधु-जन-हृद्-रञ्जनं
वृन्दावनेन्दुं सुन्दरम् ;
राधिका-नयनाञ्जनं
गोपाङ्गना-रङ्गाधरम् ।
घनश्यामं पश्य कामं
मधुर-मुरली-नादितं सुभगाशयम् ।
भज माधवं परमालयम् ॥ २॥
दुष्ट-कंस-विनाशकं
परिपूत-साचल-जङ्गमम् ;
लोकजननी-नायकं
शयनार्थ-कलित-भुजङ्गमम् ।
भक्ति-तृष्णं विष्णु-कृष्णं
नन्द-यशोदयान्वितं जगदाश्रयम् ।
भज माधवं परमालयम् ॥ ३॥
दीनबन्धु- जनार्दनं
शरणार्त्त-तमोहरारुणम् ;
मुरारिं मधु-मर्दनं
खल-दर्प-दारण-दारुणम् ।
सर्व-देवं वासुदेवं
देवकी-गर्भोदितं दैत्यादयम् ।
भज माधवं परमालयम् ॥ ४॥
धर्म-सङ्कट-हारिणं
द्रौपदी-प्रियधव-बान्धवम् ;
चक्रिणं हित-कारिणं
वैकुण्ठपुर-कण्ठीरवम् ।
अम्बुदाभं पद्मनाभं
कम्बु-गदादि-मोदितं प्रभुमव्ययम् ।
भज माधवं परमालयम् ॥ ५॥
-- गीत-रचना : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher