श्रीरामानन्दवेदान्तसारः
(श्रीटीलाचार्य) (सिद्धान्त रत्नमाला)
प्रणम्य भाष्यकृद् रामानन्दं गुरुं च राघवम् ।
औश्रीरामानन्दवेदान्तसारं वक्ष्ये यथामति ॥ १॥
तत्त्वज्ञानं च मोक्षे हि मुमुक्षोर्हितकारकम् ।
तद्विज्ञानर्था मित्येतच्छ्रुतेरर्ज्यं च तद् गुरोः ॥ २॥
प्रमाणप्रतिपन्नोऽर्थ बुधैस्तत्त्वं प्रकीर्त्तितम् ।
तत्त्वं च द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः ॥ ३॥
तत्र द्रव्यमुपादानमद्रर्व्य तद्विलक्षणम् ।
जाजडविभेदाच्च द्रव्यं द्विधा मतं बुधैः ॥ ४॥
स्वयम्प्रकाशमजडं जडं तस्माद्विलक्षणम् ।
प्रकृतिकालभेदाच्च जडं तत्र द्विधा मतम् ॥ ५॥
विज्ञेया प्रकृतिस्तत्र समगुणत्रयाश्रयः ।
चतुर्विंशतिधा सा हि सावयवा मता बुधैः ॥ ६॥
विकारोत्पादकत्वात् सा प्रकृतिरिति कथ्यते ।
अविद्या कथ्यते सा हि यतो ज्ञानविरोधिनी ॥ ७॥
मायाऽभिधीयते सा यत् विचित्रसृष्टिकारिणी ।
अव्यक्तं सेश्वरेच्छातः कार्योन्मुखी यदा भवेत् ॥ ८॥
महदुत्पद्यतेऽव्यक्तात् त्रिधा तद् गुणभेदतः ।
अहङ्कारस्त्रिधा तस्मात् सात्विकादिविभेदतः ॥ ९॥
एकादशेन्द्रियाणि स्युः सात्विकाहङ्कृतेः किल ।
ज्ञानकर्मेन्द्रियत्वाभ्यां द्विधा तानि मतानि हि ॥ १०॥
ज्ञानप्रसरणे हेतुरादिमं षड्विधं च तत् ।
मनःश्रवणचक्षुस्त्वग्रसनघ्राणभेदतः ॥ ११॥
ज्ञानेन्द्रियं सुखादेश्च शब्दादेग्रहकं मतम् ।
कर्मण्युच्चारणादौ तु शक्तं कर्मेन्द्रियं खलु ॥ १२॥
वाक्पाणिपादपायूपस्थभेदात् पञ्चधा च तत् ।
तामसाहङ्कृतेर्जातं तन्मात्रं शब्दसंज्ञकम् ॥ १३॥
तस्मान्नभस्ततः स्पर्शतन्मात्रं च ततो मरुद् ।
ततो रूपं ततश्चानिर्जलहेतुस्ततो रसः ॥ १४॥
जलाद् गन्धस्ततो भूतं जायते क्षितिसंज्ञकम् ।
एतैः पञ्चीकृतैर्भूतैरण्डोत्पत्तिर्मता बुधैः ॥ १५॥
त्रिभिः सत्वादिभिर्हीनो जडः कालतया मतः ।
द्विविधः सम्मतः कालश्चाखण्डाखण्डभेदतः ॥ १६॥
तत्राखण्डो विभुनित्यो भूतादिबुद्धिकारकः ।
अनित्यास्तु मुहूर्त्ताद्या भेदाः खण्डस्य कीर्त्तिताः ॥ १७॥
अजडं तु द्विधा बोध्यं पराक्प्रत्यग्विभेदतः ।
भासमानं परस्मै हि पराक्तत्त्वं द्विधा मतम् ॥ १८॥
तत्र नित्यविभूतिर्हि शुद्धसत्त्वमयी मता ।
धर्मभूतं च यज्ज्ञानं तन्मतश्चापरः पराक् ॥ १९॥
अचेतनं मतं ज्ञानं शुद्धसत्वं च पण्डितः ।
प्रमाणं तु श्रुतिश्चाद्ये त्रिपादस्यामृतं दिवि ॥ २०॥
मता नित्यविभूतिः सा मुक्तानां ब्रह्मणस्तया ।
भोग्यभोगोपकरणभोगस्थानमयी खलु ॥ २१॥
ऊर्ध्वदेशेऽपरिच्छिन्ना साऽधस्तान्न मता तथा ।
नित्या चैतन्यहीना च साऽऽनन्दादिपदेरिता ॥ २२॥
ज्ञातुर्ज्ञेयावभासो हि ज्ञानत्वेन प्रकीर्त्तितः ।
धर्मधर्मिविभेदाद्धि ज्ञानं द्विधेति वक्ष्यते ॥ २३॥
आत्मधर्मतया भाति प्रभावत् तत्र चादिमम् ।
सत्यं ज्ञानमि तिश्रुत्या ज्ञानस्य द्रव्यता मता ॥ २४॥
न विज्ञातुरि तिश्रुत्यां श्रुता ज्ञानस्य नित्यता ।
ईश्वरे नित्यजीवेषु ज्ञानं नित्यं मतं विभु ॥ २५॥
कर्मावृतं हि बद्धेषु मुक्तेषु प्राक् तदावृतम् ।
नष्टोत्पन्नप्रतीतिस्तु सङ्कोचाच्च विकासतः ॥ २६॥
स्वापे ज्ञानतिरोधानं तमोविशेषसन्निधेः ।
ज्ञाने द्रव्यत्वसत्त्वेऽपि प्रभेव गुणता मता ॥ २७॥
विषयसत्यताहेतोर्ज्ञाने स्वतः प्रमाणता ।
स्वान्यनिर्वाहकत्वेन सूर्यवत् स्वप्रकाशता ॥ २८॥
जीवोऽणुश्चेतनो व्याप्तो ज्ञानेनाखिलवर्ष्मण ।
झटिति तेन जानाति सर्वदेहसुखादिकम् ॥ २९॥
दधाति युगपद् योगी शरीराणि बहूनि च ।
याति लोकान्तरं जीव आयात्यत्र ततः पुनः ॥ ३०॥
ततो जीवविभुत्वं न मन्यते ज्ञानिभिर्जनैः ।
जीवात्मनस्ततोऽणुत्वं दोषहीनं मतं बुधैः ॥ ३१॥
अदृष्टं राघवेच्छेव सर्वत्र व्यापकं हि तत् ।
ततस्तत् तत् पदार्थास्तु तत्र तत्रोद्भवन्ति च ॥ ३२॥
जीवस्य मध्यमे माने त्वनित्यत्वं घटादिवत् ।
अकृतस्य च सम्प्राप्तिर्नाशस्तथा कृतस्य च ॥ ३३॥
आत्मनित्यत्ववक्त्रीणां श्रुतीनां च विरोधिता ।
अन्यदेहे च सम्प्राप्ते शैथिल्यमात्मनश्च हि ॥ ३४॥
जानामीति प्रतीत्या च जीवो ज्ञानाश्रयो मतः ।
श्रुतौ ज्ञानस्वरूपत्वं वर्णितं प्रत्यगात्मनः ॥ ३५॥
ज्ञानद्वयं मतं तस्माद् धर्मधर्मिप्रभेदतः ।
उभयोर्ज्ञानयोर्वेदे वर्णिता नित्यताऽपि च ॥ ३६॥
एकनाशे हि नष्टा स्यादिन्द्रियसङ्घजीवता ।
एकैकस्य तु जीवत्वे तत्तन्नाशे विनाशिता ॥ ३७॥
मते देहस्य जीवत्वे व्यभिचारो मृते भवेत् ।
अनित्यत्वं भवेज्जीवे देहेन सदृशं तथा ॥ ३८॥
ममन्द्रियं तनुः प्राणो बुद्धिश्चेतिप्रतीतितः ।
मन्यते नात्मनः प्राज्ञैरिन्द्रियादिस्वरूपता ॥ ३९॥
श्रुतिस्मृत्यो रजोनित्य मित्येवं नित्यता मता ।
प्रत्यगात्माऽजडस्तस्माज् ज्ञेयो ज्ञाता च सम्मतः ॥ ४०॥
सुखमस्वाप्तमित्येतत्प्रतीत्या सुखरूपकः ।
यथेष्टविनियोगः शेषो रामस्य शेषिणः ॥ ४१॥
धार्यत्वाच्च नियाम्यत्वादात्मा देहः परात्मनः ।
भिन्नो जीवो विभोः स्वस्य चात्मनः परमात्मनः ॥ ४२॥
तत्त्वत्पदोक्तयोरैक्यं परान्तर्यामिणोः खलु ।
तत्त्वमसीतिवाक्ये हि नैक्यं जीवेशयोर्मतम् ॥ ४३॥
प्रभावतः प्रभातुल्यो विशिष्टस्य विशेषवत् ।
ब्रह्मणेंऽशो मतो जीवो जीवस्य ब्रह्मता न तत् ॥ ४४॥
प्रतिबिम्बस्त्वविद्यायां जीवश्च ब्रह्मणो ननु ।
मैवं सिध्यति नाविद्या ह्याश्रयानुपपतितः ॥ ४५॥
प्रतिबिम्बे हि दुःखादेरभावाज्जीवता न च ।
मैवं यत् प्रतिबिम्बोऽसौ विद्वद्भिर्बिम्बवन्मतः ॥ ४६॥
इति वक्तुं न शक्यं हि कुतश्चेदुच्यते यतः ।
सर्वैर्लोकैर्विलोक्यन्ते जीवा दुःखादिसंयुताः ॥ ४७॥
न च दुःखादयो बिम्बे निर्विशेषे तु ब्रह्मणि ।
प्रतिबिम्बे न जीवत्वं तस्मात् सम्भवेन्न हि ॥ ४८॥
किं च रूपविहीनस्य प्रतिबिम्बो न जायते ।
दृश्यते प्रतिबिम्बो नु रूपहीनविहायसः ॥ ४९॥
मैवं यत् प्रतिबिम्बोऽसौ प्रकाशादेर्मतो बुधैः ।
कुतो नीरूपवायोश्च प्रतिबिम्बो न दृश्यते ॥ ५०॥
परिच्छिन्नविधोरेव प्रतिबिम्बो जले खलु ।
प्रतिबिम्बः कथं जीवोऽपरिच्छिन्नस्य ब्रह्मणः ॥ ५१॥
प्रतिबिम्बोऽस्ति जीवश्चेदेकदेशस्य ब्रह्मणः ।
हन्त तदा ह्यनित्यत्वं सांशत्वाद् ब्रह्मणो भवेत् ॥ ५२॥
अविद्ययाऽद्वितीयत्वं नश्यति ब्रह्मणो यतः ।
नातोऽवच्छेदिकाऽविद्या जीवभावे तु ब्रह्मणः ॥ ५३॥
ब्रह्मणो भेदशून्यत्वाज्जीवस्य न विवर्त्तता ।
सर्पभ्रमो न सर्पे हि किन्तु रज्जौ बुधैर्मतः ॥ ५४॥
आचार्यसार्वभौमेन रामानन्देन धीमता ।
वेदान्तदर्शनानन्दभाष्ये जीवास्त्रिधा मताः ॥ ५५॥
बद्धा मुक्तास्तथा नित्या बद्धा बद्धाश्च कर्मणा ।
रामब्रह्मानुकम्पातः पुण्यात् सतामनुग्रहाद् ॥ ५६॥
मुमुक्षा जायते भव्या जीवस्य हृदये शुचौ ।
तदा सत्सङ्गतिं कुर्वन् गुरुं चासौ प्रपद्यते ॥ ५७॥
रामपादप्रपन्नोऽसौ ततो गुरुमुखाद् भवेत् ।
श्रीमद्रामप्रपत्त्या च छिन्नमायान्वयस्ततः ॥ ५८॥
ततोऽर्चिरादिमार्गं च याति हार्दानुकम्पया ।
ततश्च विरजास्नानाद् दिव्यदेहो भवेद्धि सः ॥ ५९॥
साकेते च समाप्नोति रामं ब्रह्म परात्परम् ।
स्वं रूपं तत्र सम्प्राप्य रामं चानुभवत्यपि ॥ ६०॥
भोगसाम्यमवाप्नोति रामस्य ब्रह्मणस्तदा ।
ततो नावर्त्तते मुक्तो मृत्युलोकेऽथ कर्हिचित् ॥ ६१॥
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ।
इत्येतद् भगवद्वाक्यं प्रमाणं तत्र चास्ति हि ॥ ६२॥
सर्वलोकगतौ शक्तो मुक्तः सृष्ट्यादिवर्जितः ।
संसारितां च न प्राप्ता नित्या हनुमादादयः ॥ ६३॥
ईश्वरो ब्रह्म रामश्च शब्दा ह्येकार्थबोधकाः ।
तत्र वेदान्तिभिश्चोक्तं ब्रह्म हि विभु चेतनम् ॥ ६४॥
महान्तं विभुमि त्येवं विभुत्वं ब्रह्मणः श्रुतौ ।
विभु ब्रह्म स्वरूपेण स्वभावाच्च मतं बुधैः ॥ ६५॥
ज्ञः कालकाल इत्येवं श्रुतं ब्रह्म हि चेतनम् ।
वेदाहं समतीतानि इत्युक्तावपि तादृशम् ॥ ६६॥
कालस्य विभुतायां चाचेतनत्वान्न ब्रह्मता ।
जीवस्य चेतनत्वेऽपि ब्रह्मता नाविभुत्वतः ॥ ६७॥
सदा दोषविहीनश्च स्वत एव हि राघवः ।
स्वतः सोऽथ मतो नित्यं कल्याणगुणसागरः ॥ ६८॥
रामेऽपहतपाप्मे ति हेया गुणा हि वर्जिताः ।
श्रुतास्तु सत्यकामश्चे त्येवं दिव्या गुणाः खलु ॥ ६९॥
एते चान्ये च भगवन् नित्या यत्र महागुणाः ।
इत्येवं रामचन्द्रस्य गुणानां नित्यता मता ॥ ७०॥
स्वाभाविकी तिवेदोक्तेः स्वाभाविका हरेर्गुणाः ।
ब्रह्मस्वभावो नाविद्या तेऽविद्योपाधिका न तत् ॥ ७१॥
तद्यथा रथस्यारेषु इत्यादिश्रुतिमानतः ।
सर्वाधारो मतो रामः प्राणाख्यः परमेश्वरः ॥ ७२॥
स भगव कस्मिन्ने तच्छ्रुतिवाक्यप्रमाणतः ।
स्वे महिम्नि स्थित्वाद्धि रामाधारो न कश्चन ॥ ७३॥
चिदचिदां च सर्वेषां नियन्तृत्वं निरङ्कुशम् ।
आन्तरबाह्यभेदाभ्यां द्विधा तत् परमात्मनः ॥ ७४॥
अन्तर्यामितया चाद्यं श्रुत्या स्मृत्याऽन्तिमं मतम् ।
एष सर्वेश्वरः एषोऽन्तर्यामी ति श्रुतेश्च हि ॥ ७५॥
प्रधानक्षेत्रज्ञपतिः इत्येतच्छ्रुतिमानतः ।
रामशेषा मताः सर्वे सर्वशेषी च राघवः ॥ ७६॥
सर्वन्देहकता रामे सर्वात्मे ति श्रुतौ श्रुता ।
जगत् सर्वं शरीरं ते इतिवाक्ये च ब्रह्मणः ॥ ७७॥
तच्चैतन्यापृथक्सिद्धद्रव्यं हि तत्तनुः किल ।
रामं प्रति तथा भूताः सर्वे रामतनुर्मताः ॥ ७८॥
सर्वकर्मसमाराध्यः सर्वकर्मफलप्रदः ।
सर्वदेहश्च सर्वस्थो राम एव न चापरः ॥ ७९॥
यतो वे यादिरूपेण ब्रह्मणि निखिलात्मनि ।
भृगुवल्ल्यां श्रुता रामे जगज्जन्मादिहेतुता ॥ ८०॥
उपादानं निमित्तं च जगतो राम एव हि ।
निमित्तान्तरसद्भावे कुप्येदद्वयताश्रुतिः ॥ ८१॥
वैदिकं सम्मतं प्राज्ञै रामे च हेतुताद्वयम् ।
सृष्ट्यादौ हि श्रुतावुक्तमूर्णनाभिनिदर्शनम् ॥ ८२॥
उपादानं यथा ह्यात्मा निमित्तं च सुखं प्रति ।
तथोपादानता रामे जगतश्च निमित्तता ॥ ८३॥
सूक्ष्माचिच्चिद्विशिष्टो हि रामो विश्वस्य कारणम् ।
स्थूलाचिच्चिद्विशिष्टश्च श्रीरामो जगदात्मकः ॥ ८४॥
अभेदश्चानयोर्यस्मात् कार्यकारणब्रह्मणोः ।
विशिष्टाद्वैत सिद्धान्तः सम्मतो वैदिकैस्ततः ॥ ८५॥
भेदस्य वादिकाश्चाथाभेदस्य वादिकाः खलु ।
सङ्गताः श्रुतयश्चात्र सिद्धान्ते युक्तयस्तथा ॥ ८६॥
सद्वारकमुपादानं जगतो राघवो यतः ।
ततो विकारदोषस्य श्रीरामे सम्भवो न हि ॥ ८७॥
रामो विश्वस्य हेतुत्वान्निर्विशेषो न सम्मतः ।
समाधिकनिषेधात् स न मायोपाधिको मतः ॥ ८८॥
तमेव विदित्वा चेतद्वेदवाक्यप्रमाणतः ।
मुमुक्षूणामुपास्यश्च श्रीरामः सकलेश्वरः ॥ ८९॥
रुक्मवर्णमितिश्रुत्या रामोऽलौकिक विग्रहः ।
दिव्यरूपादिवैशिष्ट्यं ``भारूप'' इति तत्र हि ॥ ९०॥
न तस्य प्राकृता मूर्तिर्मासमेदोऽस्थिसम्भवा ।
निषिद्धः प्राकृतो देहो रामे दिव्यतनाविति ॥ ९१॥
तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।
वर्जितं प्राकृतं रूपं दिव्यरूपे हराविति ॥ ९२॥
नाकारणात् कारणाद्वा कारणाकारणान्न च ।
इत्याद्युक्तया च रामस्य देहग्रहों निजेच्छया ॥ ९३॥
श्रुत्यन्वितश्च सर्वज्ञः सर्वशक्तिः श्रुतिश्रुतः ।
मुक्तिदः परया भक्तया श्रिताघं नैव पश्यति ॥ ९४॥
साधनसप्तकाज्जाता ज्ञानकर्माङ्गिणी तथा ।
रामस्मृतिरविच्छिन्ना भक्तिः सम्मता बुधै ॥ ९५॥
साध्यसाधनभेदाभ्यां सा द्विधा परिकीर्त्तिता ।
नवधा साधनभक्तिर्हि श्रवणादिर्मता बुधैः ॥ ९६॥
साध्यभक्तिः प्रपत्तिर्हि रामायात्मनिवेदनम् ।
प्रारब्धनाशिनी चैषा त्वानुकूल्यादिकाङ्गिनी ॥ ९७॥
जनान् संरक्षितुं रामोऽवतारी पञ्चधा स्थितः ।
अन्तर्यामी परो व्यूहो विभवोऽर्चावतारकः ॥ ९८॥
अनन्तकरुणाशालिसीतया सह शोभितः ।
परात्परे च साकेते रामो परतया मतः ॥ ९९॥
दिव्यदेहगुणो दिव्यशास्त्रास्त्रभूषणस्तथा ।
अर्चिरादिकपद्धत्या सम्प्राप्यो मोक्षसौख्यदः ॥ १००॥
वासुदेवादयो व्यूहा गुणद्वयविभूषिताः ।
उपासितुं जनानां च कर्त्तुं च सर्जनादिकम् ॥ १०१॥
मत्स्यादयोऽवताराश्च विभवत्वेन सम्मताः ।
अन्तर्यामी च रामोहि सर्वान्तःस्थः प्रकीर्त्तितः ॥ १०२॥
रामस्यार्चावतारस्तु हेमाद्रिप्रतिमातनुः ।
षाड्गुण्येन विशिष्टश्च सुलभो मुक्तिदस्तथा ॥ १०३॥
अद्रव्यं द्रव्यभिन्नं हि दशधा तत् प्रकीर्त्तितम् ।
सत्वं हि ज्ञानकृत् तत्र प्रवृत्तेः कारणं रजः ॥ १०४॥
प्रमादमोहहेतुस्तु तमश्च प्रकृतेर्गुणाः ।
श्रोत्रस्य विषयः शब्दः स्पर्शस्त्वचश्च सम्मतः ॥ १०५॥
रूपं च चक्षुषस्तद्वद् रसनाया रसो मतः ।
घ्राणस्य च मतो गन्धश्चैते व्योमादिपञ्चके ॥ १०६॥
शक्तिस्तु हेतुहेतुत्वनिर्वाहिका मता बुधैः ।
संयुक्तंव्यवहारस्य संयोगः कारणं मतम् ॥ १०७॥
शक्तिस्तथा च संयोगः सर्वद्रव्यगुणौ स्मृतौ ।
सिद्धान्ते ज्ञानतत्त्वे तु नाद्रव्यत्वं हि सम्मतम् ॥ १०८॥
श्रीसाकेतनिवासाख्यटीलाचार्येण निर्मिता ।
सिद्धान्तरत्नमालेयं भूयात् सिद्धान्तबोधिनी ॥ १०९॥
इति श्रीसाकेतनिवासाचार्यविरचितः श्रीरामानन्दवेदान्तसारः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey