श्रमदानम्
(गीतिका) (भुजङ्गप्रयात वत्तम्)
श्रमं सौख्यमूलं श्रमं शान्तिमूलं
श्रमो दैन्यहर्ता श्रमो व्याधि हन्ता ।
श्रमं साधनं भुक्ति-मुक्तेरजस्रं
श्रमो मानवानां चरित्रं पवित्रम् ॥
श्रमो राजते यत्र ज्योतिः स्वरूपं,
श्रमो भासते यत्र वह्नि-प्रकाशः ।
श्रमो द्योतते यत्र भानुः प्रतापो
न तत्रास्ति देन्यं न वा रोग-शोकः ॥
सुधादीधितिः प्राणिनां ताप हर्ता
खरांशु-प्रभश्चित्त-चैतन्य-दाता ।
कुबेर श्रियं, शक्ररूपश्च शक्तेः
श्रमः सर्वन्दुःखाऽऽधि-नाशैक-हेतुः ॥
श्रमस्यैव दानेन नित्यं विकासो
विलासं प्रहासं सुवासं प्रकाशम् ।
विनोबो-पदिष्टं श्रियो मूलमैतत्
स्वदेशोन्नतेर्मूलमेतत् प्रकृष्टम् ॥
श्रमस्यैव दानेन कूपा सरण्यः
शुभा ग्राममार्गाः घनाः वाटिकाश्च ।
प्रकाश-प्रबन्धः, पुरे स्वच्छता सा
वनालि प्रणालि शिवा सेचनार्था ॥
श्रमस्यैव दानेन स्वार्थाऽवरोधः
परार्थार्पणं त्याग-भावोदयश्च ।
सहास्तित्व-भावाभिवृद्धिः प्रमोदः
क्रियाशीलकत्वं जनाऽऽह्लादकत्वम् ॥
श्रमस्यैव दानेन ग्रामोन्नतिः स्यात्
पुराणां विकासो नराणां प्रहासः ।
वनानां विवृद्धिः, जलानां सुयोगः
सदैवाऽऽर्थिकी उन्नतिर्वृद्धिरिष्टा ॥
श्रमस्यैव दानं शुभं सौख्य-मार्गः
सदा भ्रातृ-भावोदयस्यास्ति मूलम् ।
शुभा विश्व-बन्धुत्व-भावाभिवृद्धिः
सदैवोन्नतिर्मानसी दैहिकी च ॥
पुरेयं सहास्तित्व-भावाऽभिसक्तिः
सदा संस्थिता भारते बद्धमूला ।
श्रमो वा धनं वा निजं देहमेव
स्वभूतिः परार्थोपयोगाय दत्ता ॥
यदीष्टा हृदा भारतस्याऽभिवृद्धिः
विकासः प्रसादोऽथवा सौख्य-सिद्धिः ।
श्रमस्यैव दानेन साध्यं समस्तं
श्रमो मूलमन्त्रं सुखस्योन्नतेश्च ॥
Proofread by Mandar Mali