शुभदीपावलिः गीतम्
उत्सवेषु मे प्रियोत्तमः, मङ्गलमयः दीपोत्सवः ।
शुभाशयाः नवचैतन्यं, हृदये हृदये हर्षोल्लासः ॥ १॥
तेजद्योतकोऽयं दीपः, परोपकारं पाठयति ।
नाशयित्वा तमोन्धकारं, ज्ञानप्रकाशं वर्धयति ॥ २॥
विविधवर्णा रङ्गवल्ली, वातावरणं वर्णयति ।
प्रच्छन्नदीपः द्वारस्थः, उच्चध्येय्यं दर्शयति ॥ ३॥
धेनुवत्सपूजनेन वै, द्वादशीयं परिपूर्णा ।
आरोग्याय त्रयोदश्यां, भवति धन्वन्तरिपूजा ॥ ४॥
चतुर्दश्यां दुर्गुणानां, नरकासुरं ज्वालयामः ।
दीपवल्यामुत्साहेन, शुभलक्ष्मीं पूजयामः ॥ ५॥
नवसङ्कल्पं नवोल्लासः, प्रतिपत्प्राप्तं नूतनवर्षम् ।
यमद्वितीया प्रेरयति, बन्धुभगिनीनां स्नेहम् ॥ ६॥
दीपावलीयं शुभा मङ्गला, कीर्तिमृद्धिं ददातु ते ।
सुख-समृद्धिं, तृप्तिं, शान्तिं, सर्वेषार्थं कामये ॥ ७॥
-- अर्चना मितेश कतिरा
Credits: archanA mitesha katirA of https://www.youtube.com/@SanskritMaitri