सुरभारतीभजनम्
सुरभारति हे ।
तव पादयोः प्रणतिः
गायामि ते नाम गच्छामि ते धाम
सदा भवतु ते युतिः
तव पादयोः प्रणतिः । सुरभारति हे ॥ ध्रुवम्॥
कोमलवाचने शान्तिरसधारा
दर्शने विपुलकान्तिः
पठने पाठने स्मरणे कीर्तने
विराजते शिवशक्तिः
लोकभाषा भव सारदे सरले
त्वयि सदा अनुरक्तिः । सुरभारति हे ॥ १॥
अभिन्नसुन्दर-दिव्यशब्दराशि-
रनन्तकोटिभाण्डारः
शिवसूत्रमयी कालिदासगीति-
परिपूर्णपारावारः
वाल्मीकि-कोकिल-कविता-सुन्दरी-रमणे भाति सुकीर्तिः
तव पादयोः प्रणतिः । सुरभारति हे ॥ २॥
वैज्ञानिकी भाषा प्रवहमाना या
निगम-आगमपुरी
पुराणपुरुषी सर्वाङ्गसुन्दरी
संस्कृत-सुषमा-सौरी
भारतवैभवी चिरसुखदात्री
भगवती ज्योतिष्मती । सुरभारति हे ॥ ३॥
- प्रदीप्त कुमार नन्दः
Composed, encoded, proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com