स्वाधीनता स्वातन्त्र्यम्
(गीतिका) (भुजङ्गप्रयातम्)
स्वतन्त्राप्तिरेषा सदा सौख्य-दात्री
भयानां प्रहर्त्री गुणानां प्रदात्री ।
त्वमेवासि लोके सदा मानदात्री
सदा कीर्तिदात्री सदा मोददात्री ॥ स्व०॥
न त्वत्तः परं मानदं लोकमध्ये
न त्वत्तः परं सौख्यदं किञ्चिदस्ति ।
त्वमेवासि लोकस्य चैतन्य दात्री
सदा प्रेरणाभू सदा शक्ति-स्रोतः ॥ स्व०॥
विना त्वां जनाः शक्ति-कीर्त्यादि हीना
सुबुद्धविहीना सदा मान हीना ।
नराः पामरास्ते क्षुधा दैन्य-त्रस्ता,
अविद्याऽन्ध-ग्रस्ता सदा शोक ध्वस्ता ॥ स्व०॥
विना त्वां नृणां जीवनं मोघमेव
विना त्वां गतिः सर्वदा दुःखदैव ।
विना त्वां शिरस्थः सदा मृत्युरेव
विना त्वां विकासो न हर्षाप्तिरेव ॥ स्व०॥
न यत्रास्ति ते दीधिति सौख्यमूला
न यत्रास्ति ते श्री सदा कीर्तिशीला ।
न राष्ट्रं न देशं प्रदेशो विशेषो
विना त्वाश्रितं कीर्तिमिष्टा श्रिया वा ॥ स्व०॥
त्वमेवासि सौख्यस्य मूलं समन्तात्
त्वमेवासि कीर्त्यादिमूलं पुरस्तात् ।
त्वमेवासि मानस्य शक्तेश्च हेतुः
त्वमेवासि शस्त्रं त्वमेवासि हेति ॥ स्य०॥
त्वदीये पदाब्जे मुदा देशभक्ताः ।
बलिं दत्तवन्तौ मुदं प्राप्तवन्तः ।
त्वदर्चापरा ये नरा मातृ भक्ता
सदा स्यास्नु तेषां यशो राजतेऽत्र ॥ स्व०॥
त्वमेवासि शक्तिः, त्वमेवानुरक्ति
त्वमेवासि सिद्धिः, त्वमेवासि, ऋद्धिः ।
त्वमेवासि मन्त्रः, त्वमेवासि तन्त्रः,
त्वमेवासि शान्तिः, त्वमेवासि क्रान्तिः ॥ स्व०॥
त्वमेवासि दुर्गा, त्वमेवासि लक्ष्म्या,
अधृष्या त्वमेवामसि दुर्धषरूपा ।
सदा स्नेह-स्रोतः, सदा शक्तिस्रोतः
त्वदीया कृपा याचते सर्वलोक ॥ स्व०॥
सदा भारते ते कृपा सन्तता स्यात्,
त्वदचर्चापरा भारतीयाः भवेयुः ।
विहाय स्वयं स्वार्थजातं जघन्य
मुदा जीयनं तेऽर्पयेयुः पदाब्जे ॥ स्य०॥
Proofread by Mandar Mali