स्वागतगीतम्
स्वागतं शुभ स्वागतं
अभिनन्दनं अभिनन्दनम् ।
स्वागतं सुस्वागतं
अभिवन्दनं अभिनन्दनम् ॥ १॥
शुभ सुवासित दिग्दिगन्तं
मङ्गलं नव मङ्गलम् ।
अतिथि देवाराधनं
हर्षपूरित-मन्दिरम् ॥ २॥
हरितघासे चरति हरिणः
कमल विकसित सरे हंसः ।
सघन कुञ्जे खगकुलं
वहति नीरं कलकलम् ॥ ३॥
स्नेह सौरभ वर्षणं
प्रेम तरुवर सिञ्चनम् ।
नव लता संवर्धनं
भवतु सर्वं सुखमयम् ॥ ४॥
श्याम धन छाया समा
भूयात् समन्वय भावना ।
शुभगन्धयुत नव चन्दनम्
कुर्वन्ति सर्वे स्वागतम् ॥ ५॥
स्वागतं शुभ स्वागतम् ।
अभिनन्दनं अभिनन्दनम् ॥
- डाॅ उमा पाण्डेय, डाॅ कृष्ण नारायण पाण्डेय
Encoded and proofread by Mohan Chettoor