स्वागतगीतं शुभवन्दनम्
प्रणतिभावैर्व्याहरामः स्वागतं शुभवन्दनम् ।
शब्दपुष्पैराचरामः श्रीमतामभिनन्दनम् ॥ ध्रुवपदम्॥
भवन्तो निरतः सदा सुरभारती समुपासने ।
अमृतकामारतावाङ्मय-पयः सागरमन्थने ।
दर्शनं भवताङ्किमपि पुण्योदयस्य निदर्शनम् ॥ १॥
अतिथि देवा वयं हृदयं सभाजनपात्रं विधाय ।
प्रीतिकुङ्कुममक्षतैर्भावैः समं तस्मिन्निधाय ।
नयनदीपैर्वयं कुर्मो मति मतां नीराजनम् ॥ २॥
यथाज्योतिष्मती जाता निशा शशिना शोभते ।
भवद्भिर्विहिता तथा धन्यासभेयं मोदते ।
उपकृता कुरुते सतां भवतां हि गुणगणकीर्तनम् ॥ ३॥
-- डाॅ हरिराम आचार्य