स्वीकारः
स्वीकारः स्वातन्त्र्यं सामीप्यं प्रीतिः ।
संवेदः वात्सल्यं सान्निध्यं प्रीतिः ।
नवीना भावना वशीकारभावना ।
अतीन्द्रिया परस्परा स्नेहधारा ॥
सद्भावः जीवैक्यं सर्वस्वं प्रीतिः ।
संयोगः माधुर्यं सौन्दर्यं प्रीतिः ।
सहकारभावना सामरस्यभावना ।
संस्पर्शा अन्योन्या दिव्यधारा ॥
सम्भ्रमः ऐश्वर्यं सामर्थ्यं प्रीतिः ।
समभोगः सौभाग्यं सार्थक्यं प्रीतिः ।
पूर्णताभावना अमूल्याभावना ।
निर्मला निर्भया अमृतधारा ॥
सार्थम्
स्वीकारः स्वातन्त्र्यं सामीप्यं प्रीतिः ।
Love is acceptance; Love is freedom; Love is closeness.
संवेदः वात्सल्यं सान्निध्यं प्रीतिः ।
Love is awareness; Love is affection; Love is intimacy.
नवीना भावना वशीकारभावना ।
Love is fresh; Love is an engulfing feeling.
अतीन्द्रिया परस्परा स्नेहधारा ॥
Love is beyond our senses; Love is mutually existent;
Love is a flow of friendship.
सद्भावः जीवैक्यं सर्वस्वं प्रीतिः ।
Love is upright; Love is the unison of souls; Love is everything.
संयोगः माधुर्यं सौन्दर्यं प्रीतिः ।
Love is togetherness; Love is sweetness; Love is beauty.
सहकारभावना सामरस्यभावना ।
Love is helpfulness; Love is coexistence.
संस्पर्शा अन्योन्या दिव्यधारा ॥
Love is heart-touching; Love is mutual; Love is a divine stream.
सम्भ्रमः ऐश्वर्यं सामर्थ्यं प्रीतिः ।
Love is celebration; Love is glory; Love is strength.
समभोगः सौभाग्यं सार्थक्यं प्रीतिः ।
Love is fair and equal; Love is destiny; Love is fulfilment.
पूर्णताभावना अमूल्याभावना ।
Love is a wholesome feeling; Love is an incredible feeling.
निर्मला निर्भया अमृतधारा ॥
Love is pure; Love is fearless; Love is a cascade of ambrosia.
Courtesy : Dr. Swaroop Ranganath
Samskritam Academy for Teacher's Training
and Value Addition (S.A.T.T.V.A.)