स्वदेशानुराग
(उपजातिवृत्तम्)
न यत्र देशोद्धृति-कामनाऽऽस्ते
न मातृभूमेर्हितचिन्तनं च ।
न राष्ट्ररक्षा-बलिदान-भावं
श्मशान-तुल्यं नरजीवनं तत् ॥
देशस्य रक्षा जनता-समृद्धिः
परोपकाराश्रयणेन वृत्तिः ।
परार्थ चिन्ता पतितानुरागो
येष्वस्ति तेषां जनेरेव धन्याः ॥
विनश्वरं मानव-वर्ष्म नित्यं
विनश्वरं भौतिकमीश्वरत्वम् ।
अनश्वरं शाश्वत-कीर्ति दायि
स्वराष्ट्र-हेतोर्निज-देह-दानम् ॥
यस्मिन् स्वदेशस्य न गौरवं स्याद्
न चाभिमानं निज-देश-कीर्तेः ।
नराधमोऽयं नृ पशुर्मतो मे
स्वदेशभक्त्या रहितो हितोऽपि ॥
देशोऽस्तु लक्ष्यं परमं त्वभीष्टं
देशानुरागं परमोऽनुरागः ।
स्याज्जीवनं वा मरणं च सद्यः
तत् सर्वमेवास्तु स्वदेश-हेतोः ॥
राष्ट्रस्य हेतोर्बलिदानभावो
राष्ट्रस्य कल्याणविधौ प्रयत्नः ।
रात्रिन्दिवः राष्ट्र-समृद्धि चिन्ता
स्याज्जीवनस्य प्रथमोऽभिलाषः ॥
यस्मिन् सुधाऽऽसारं-रसः प्रसारा
स्वदेश-भक्तिस्तनुते स्वजालम् ।
कर्तव्यमास्थाय तनुत्यजो ये
ते एव धन्याः कृतकृत्यवर्याः ॥
सेवाधर्मो यत्र न देशभक्तिः
जागर्ति विद्युज्ज्वलनोपमानाः ।
सा स्नेहदात्री सुख-शान्ति-दात्री
धात्री गुणानां यशसां श्रियां च ॥
स्व-जीवनोत्सर्ग-व्रता अजस्त्रं
प्राणान् जहुर्ये निज-राष्ट्रहेतो ।
शान्तिश्च क्रान्तिश्च व्रतं चरन्तः
ते एव देवाः अमरा सुराश्च ॥
स्व मातृ-हेतोर्निज राष्ट्र हेतो
प्राणार्पण्णं स्याज्जनता हिताय ।
समपर्णं लोकहीताय सर्वं
स्याच्चेतमो मे परमोऽभिलाष ॥
Proofread by Mandar Mali