स्वस्तिवाचन-गीतिका
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ॥ ध्रुवपदम्॥
स्वमातृभूमी भारत-राष्ट्रम्,
जगत्यर्चितं चर्चित-शास्त्रम् ।
धाम सुधान्यं कला-निधानम्, मणी-काञ्चनम् ।
सदा तदर्थं हृदा वन्दनम्, स्वस्तिवाचनम् ॥ १॥
भारतीय-संस्कृतेर्महत्त्वम्,
मानवताया दर्शन-तत्त्वम् ।
इहैक-नीड़ं विश्वजनीनम्, शाश्वतं धनम् ।
सदा तदर्थं सद्-विवेचनम्, स्वस्तिवाचनम् ॥ २॥
ध्वजं त्रिरङ्गं देश-गौरवम्,
समता-मैत्री-शान्ति-वैभवम् ।
राजते रम्यं सौम्य-पावनम्, शौर्य-केतनम् ।
सदा तदर्थं मुदा वन्दनम्, स्वस्तिवाचनम् ॥ ३॥
भारते त्रयी सैन्यवाहिनी,
सैव वैरिणां दैन्यदायिनी ।
देश-रक्षणे दत्त-जीवनम्, सत्प्रयोजनम् ।
अस्ति तदर्थं हार्द-वन्दनम्, स्वस्तिवाचनम् ॥ ४॥
भारतभूति-र्गिरा संस्कृतम्,
भाषा-जननी जनैरादृतम् ।
नित्य-नूतनं युग-स्पन्दनम्, सुधासेचनम् ।
अस्ति तदर्थम्, आस्तिकायनम्, स्वस्तिवाचनम् ॥ ५॥
विश्वमङ्गला विविधा विद्या,
सादर-वेद्या सदानवद्या ।
ज्ञानमुज्ज्वलं तमोनाशनम्, दिव्य-लोचनम् ।
अस्ति तदर्थं समाराधनम्, स्वस्तिवाचनम् ॥ ६॥
आद्य-गुरुवरौ मातापितरौ,
सन्तान-हिते नित्य-तत्परौ ।
तयोः सुगन्धं परमानन्दम्, प्रेम-बन्धनम् ।
अस्ति तदर्थं भक्ति-पूजनम्, स्वस्तिवाचनम् ॥ ७॥
हन्ति गुरुर्वै हृदय-ध्वान्तम्,
ज्वालयन् सदा ज्ञान-सुदीपम् ।
मार्गदर्शनं शुभालोकनम्, दोषमोचनम् ।
तस्मै नमनं साभिवादनम्, स्वस्तिवाचनम् ॥ ८॥
चराचरमिदं येन निर्मितम्,
ऊर्मिल-नादं रम्य-नामितम् ।
स हि परमेशः सदा नमस्यः, भक्तिभाजनम् ।
सदा तदर्थं सुनीराजनम्, स्वस्तिवाचनम् ॥ ९॥
नारी-पुरुषौ रथे द्वि-चक्रम्,
द्वयोः साध्यते गृहस्थ-लक्ष्यम् ।
सृष्टि-विधाने सन्निबन्धनम्, सुसङ्कल्पनम् ।
अस्ति तदर्थं भाव-चन्दनम्, स्वस्तिवाचनम् ॥ १०॥
सुरसा भव्याः प्रतिमा देव्याः,
वहन्ति महिला गुणान् पृथिव्याः ।
सुन्दरतायाः सन्निदर्शनम्, स्वान्त-मोहनम् ।
अस्ति तदर्थं प्रणत्यर्च्चनम्, स्वस्तिवाचनम् ॥ ११॥
प्रकृतेर्जन्या वन्य-सम्पदा,
उद्भित्-सकला लोक-जीवदा ।
स्थल-जल-नभगं जगन्मण्डनम्, समं साधनम् ।
अस्ति तदर्थं काम्य-सेवनम्, स्वस्तिवाचनम् ॥ १२॥
प्रिय-सङ्गीतं रामणीयकम्,
साहित्य-कला-नाटकादिकम् ।
सुप्रसादनं रसास्वादनम्, मनोमोदनम् ।
अस्ति तदर्थं स्ववातायनम्, स्वस्तिवाचनम् ॥ १३॥
सन्तः समाज-सुसंस्कारकाः,
सन्ति लेखका दिशां दर्शकाः ।
सुप्रतिभाया नव्य-सर्जनम्, समुद्भावनम् ।
अस्ति तदर्थं पुण्य-चिन्तनम्, स्वस्तिवाचनम् ॥ १४॥
वैज्ञानिकाश्च वर-क्रीड़काः,
देश-सम्मान-समुन्नायकाः ।
विविधे क्षेत्रे महदवदानम्, यशोवर्धनम् ।
अस्ति तदर्थं साभिनन्दनम्, स्वस्तिवाचनम् ॥ १५॥
स्वस्तिवाचका भारतार्च्चकाः,
लोक-हितार्थं लग्न-मनस्काः ।
कृते च तेषां ससम्माननम्, सुवर्धापनम् ।
अस्ति तदर्थं पूत-भावनम्, स्वस्तिवाचनम् ॥ १६॥
-- रचयिता - डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher