तीर्थाष्टकम्
मातृतीर्थम्-- नास्ति मातृसमं तीर्थं पुत्राणां तारणाय च ।
हितायाऽत्र परत्रार्थं यैस्तु माता प्रपूजिता ॥ १॥
पितृतीर्थम्-- वेदैरपि च किं पुत्र ! पिता येन प्रपूजितः ।
एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह ॥ २॥
गुरुतीर्थम्-- अज्ञान-तिमिरान्धत्वं गुरुः शीघ्रं प्रणाशयेत् ।
तस्मात् गुरुः परं तीर्थं शिष्याणां हितचिन्तकः ॥ ३॥
भक्ततीर्थम्-- तीर्थभूतो हरेर्भक्तः स्वयं पूतश्च पावकः ।
येन भस्मीकृतो लोके पापपुञ्जो हि सुव्रत! ॥ ४॥
पतितीर्थम्-- प्रयाग-पुष्करसमौ पत्युः पादौ स्मृतावतः ।
स्नातव्यं सततं स्त्रीभिस्तीर्थभूते सरोवरे ॥ ५॥
पत्नीतीर्थम्-- नास्ति पत्नीसमं तीर्थं भूतले तारणाय तु ।
यस्य गेहे सती नारी स धन्यः पुरुषो मतः ॥ ६॥
मित्रतीर्थम्-- सम्पत्तौ च विपत्तौ च यस्तिष्ठति सदाऽत्र वै ।
मित्रतीर्थं परं लोके मुनिभिः परिभाषितम् ॥ ७॥
विप्रतीर्थम्-- जङ्गमं विप्रतीर्थं तद् वेदपूतं च निर्मलम् ।
यस्य वाक्-सलिलेनैव शुद्ध्यन्ति मलिनो जनाः ॥ ८॥
तीर्थाष्टकमिदं पुण्यं श्री''द्विजेन्द्र''विनिर्मितम् ।
सेवितव्यं सदा भक्त्या भुक्ति-मुक्तिप्रदायकम् ॥ ९॥
इति श्रीगार्ग्यमुनि''द्विजेन्द्र''कविकृतं तीर्थाष्टकं समाप्तम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com