तीर्थमाहात्म्यं कूर्मपुराणे अध्यायाः ३४-४२
३४
कूर्मपुराणे उत्तरभागे चतुस्त्रिंशत्तमोऽध्यायः
व्यास उवाच ।
मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च ।
वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ ३४.१॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः ।
चरेत् सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ३४.२॥
धान्यान्नधनचौर्यं तु कृत्वा कामाद्द्विजोत्तमः ।
स्वजातीयगृहादेव कृच्छ्रार्द्धेन विशुद्ध्यति ॥ ३४.३॥
भक्ष्यभोज्योपहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ३४.४॥
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ३४.५॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयःकान्तोपलानां च द्वादशाहं काणाशनम् ॥ ३४.६॥
कार्पासकीटजीर्णानां द्विशफैकशफस्य च ।
पुष्पगन्धौषधीनां च पिबेच्चैव त्र्यहं पयः ॥ ३४.७॥
नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् ।
काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ॥ ३४.८॥
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ।
क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ॥ ३४.९॥
गोगोमायुकपीनां च तदेव व्रतमाचरेत् ।
शिशुमारं तथाचाषं मत्स्यमांसं तथैव च ॥ ३४.१०॥
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद्घृतम् ।
नकुलोलूकमार्जारं जग्ध्वा सान्तपनं चरेत् ॥ ३४.११॥
श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति ।
व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ ३४.१२॥
बकं चैव बलाकाञ्च हंसं कारण्डवं तथा ।
चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥ ३४.१३॥
कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च ।
उलूकं जालपादं च जग्ध्वाऽप्येतद्व्रतं चरेत् ॥ ३४.१४॥
शिशुमारं तथा चाषं मत्स्यमांसं तथैव च ।
जग्ध्वा चैव कटाहारमेतदेव चरेद्व्रतम् ॥ ३४.१५॥
कोकिलं चैव मत्स्यांश्च मण्डूकं भुजगं तथा ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ ३४.१६॥
जलेचरांश्च जलजान् प्रणुदानथविष्किरान् ।
रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ ३४.१७॥
शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् ।
भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ ३४.१८॥
वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा ।
प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥ ३४.१९॥
पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ।
नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ ३४.२०॥
अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति ।
प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥ ३४.२१॥
अलाबु किंशुकं चैव भुक्त्वा चैतद्व्रतं चरेत् ।
उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥
वृथा कृसरसंयावं पायसापूपसङ्कुलम् ।
भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥
पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः ।
गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥
अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च ।
सन्धिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ।
एतेषां च विकाराणि पीत्वा मोहेन वा पुनः ॥ ३४.२२॥
गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ।
भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ॥ ३४.२३॥
चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ।
यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते ॥ ३४.२४॥
चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ।
अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ॥ ३४.२५॥
अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥
चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ॥ ३४.२६॥
बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ।
असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ॥ ३४.२७॥
अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ।
विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् ॥ ३४.२८॥
अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ।
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥ ३४.२९॥
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥ ३४.३०॥
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।
क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् ॥ ३४.३१॥
महासान्तपनं मोहात् तथा कुर्याद्द्विजोत्तमः ।
भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ ३४.३२॥
प्राजापत्येन शुद्ध्येत ब्राह्मणोच्छिष्टभोजने ।
क्षत्रिये तप्तकृच्छ्रं स्याद्वैश्ये चैवातिकृच्छ्रकम् ॥ ३४.३३॥
शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ।
सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् ॥ ३४.३४॥
समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।
गोमूत्रयावकाहारः पीतशेषं च वा गवाम् ॥ ३४.३५॥
अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद्यदा ।
तदा सान्तपनं प्रोक्तं व्रतं पापविशोधनम् ॥ ३४.३६॥
चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् ।
चरेत् सान्तपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ ३४.३७॥
चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।
त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ ३४.३८॥
महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि ।
बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ ३४.३९॥
स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् ।
प्रमादाद्भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ ३४.४०॥
स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति ।
बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ ३४.४१॥
शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः ।
भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ ३४.४२॥
संवत्सरान्ते कृच्छ्रं तु चरेद्विप्रः पुनः पुनः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ३४.४३॥
व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ३४.४४॥
ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः ।
गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ ३४.४५॥
तैलाभ्यक्तोऽथवा कुर्याद्यदि मूत्रपुरीषके ।
अहोरात्रेण शुद्ध्येत श्मश्रुकर्माणि मैथुने ॥ ३४.४६॥
एकाहेन विहायाग्निं परिहार्य द्विजोत्तमः ।
त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ ३४.४७॥
दशाहं द्वादशाहं वा परिहार्य प्रमादतः ।
कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ ३४.४८॥
पतिताद्द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति ।
चरेत् सान्तपनं कृच्छ्रमित्याह भगवान् मनुः ॥ ३४.४९॥
अनाशकान्निवृत्तास्तु प्रव्रज्यावसितास्तथा ।
चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ ३४.५०॥
पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः ।
शुद्ध्येयुस्तद्व्रतं सम्यक् चरेयुर्धर्मवर्द्धनाः ॥ ३४.५१॥
अनुपासितसन्ध्यस्तु तदहर्यावके वसेत् ।
अनश्नन् संयतमना रात्रौ चेद्रात्रिमेव हि ॥ ३४.५२॥
अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः ।
गायत्र्यष्टसहस्रस्य जप्यं कुर्याद्विशुद्धये ॥ ३४.५३॥
उपवासी चरेत् सन्ध्यां गृहस्थोऽपि प्रमादतः ।
स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ ३४.५४॥
वेदोदितानि नित्यानि कर्माणि च विलोप्य तु ।
स्नातकव्रतलोपं तु कृत्वा चोपवसेद्दिनम् ॥ ३४.५५॥
संवत्सरं चरेत् कृच्छ्रमन्योत्सादी द्विजोत्तमः ।
चान्द्रायणं चरेद्व्रात्यो गोप्रदानेन शुद्ध्यति ॥ ३४.५६॥
नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद्द्विजः ।
देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ ३४.५७॥
उष्ट्रयानं समारुह्य खरयानं च कामतः ।
त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ ३४.५८॥
षष्ठान्नकालता मासं संहिताजप एव च ।
होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ ३४.५९॥
नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि ।
अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ ३४.६०॥
वेदधर्मपुराणानां चण्डालस्य तु भाषणे ।
चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ ३४.६१॥
उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ ३४.६२॥
उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद्द्विजः ।
प्रमादाद्वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ ३४.६३॥
द्रुपदानां शतं वापि ब्रह्मचारी समाहितः ।
त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ ३४.६४॥
चण्डालपतितादींस्तु कामाद्यः संस्पृशेद्द्विजः ।
उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ ३४.६५॥
चाण्डालसूतकिशवांस्तथा नारीं रजस्वलाम् ।
स्पृष्ट्वा स्नायाद्विशुद्ध्यर्थं तत्स्पृष्टपतितास्तथा ॥ ३४.६६॥
चाण्डालसूतिकशवैः संस्पृष्टं संस्पृशेद्यदि ।
प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ ३४.६७॥
तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।
आचमेत् तद्विशुद्ध्यर्थं प्राह देवः पितामहः ॥ ३४.६८॥
भुञ्जानस्य तु विप्रस्य कदाचित् संस्पृशेत् यदि ।
कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद्व्रतम् ॥ ३४.६९॥
चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद्विशुद्धये ।
स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ ३४.७०॥
सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः ।
पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ ३४.७१॥
ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।
नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ ३४.७२॥
स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् ।
स्नात्वा जपेद्वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ ३४.७३॥
अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः ।
अनातुरः सति धने कृच्छ्रार्द्धेन स शुद्ध्यति ॥ ३४.७४॥
आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि ।
ऋतौ न गच्छेद्भार्यां वा सोऽपि कृच्छ्रार्द्धमाचरेत् ॥ ३४.७५॥
विनाऽद्भिरप्सु नाप्यार्त्तः शरीरं सन्निवेश्य च ।
सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ ३४.७६॥
बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः ।
गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद्व्रती ॥ ३४.७७॥
अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः ।
गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ ३४.७८॥
कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् ।
सचैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ ३४.७९॥
पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति ।
छायां श्वपाकस्यारुह्य स्नात्वा सम्प्राशयेद्घृतम् ॥ ३४.८०॥
ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा ।
मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ ३४.८१॥
कृत्वा तु मिथ्याध्ययनं चरेद्भैक्षं तु वत्सरम् ।
कृतघ्नो ब्राह्मणगृहे पञ्चसंवत्सरं व्रती ॥ ३४.८२॥
हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ।
स्नात्वाऽनश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ ३४.८३॥
ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा ।
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ३४.८४॥
अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३४.८५॥
गुरोराक्रोशमनृतं कृत्वा कुर्याद्विशोधनम् ।
एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ ३४.८६॥
देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते ।
उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ ३४.८७॥
देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद्द्विजः ।
छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ ३४.८८॥
देवतायतने मूत्रं कृत्वा मोहाद्द्विजोत्तमः ।
शिश्नस्योत्कर्त्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ ३४.८९॥
देवतानामृषीणां च देवानां चैव कुत्सनम् ।
कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ ३४.९०॥
तैस्तु सम्भाषणं कृत्वा स्नात्वा देवान् समर्चयेत् ।
दृष्ट्वा वीक्षेत भास्वन्तं स्मृत्वा विशेश्वरं स्मरेत् ॥ ३४.९१॥
यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति ।
न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ ३४.९२॥
चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रकम् ।
प्रपन्नः शरणं देवं तस्मात् पापाद्विमुच्यते ॥ ३४.९३॥
सर्वस्वदानं विधिवत् सर्वपापविशोधनम् ।
चान्द्रायणं च विधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ ३४.९४॥
पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम् ।
अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ॥ ३४.९५॥
ब्राह्मणान् पूजयित्वा तु सर्वपापैः प्रमुच्यते ॥ ३४.९६॥
कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ।
सम्पूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ ३४.९७॥
त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् ।
दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ ३४.९८॥
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४.९९॥
वैवस्वताय कालाय सर्वप्रहरणाय च ।
प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ॥ ३४.१००॥
स्नात्वा दद्याच्च पूर्वाह्णे मुच्यते सर्वपातकैः ।
ब्रह्मचर्यमधःशय्यामुपवासं द्विजार्चनम् ॥ ३४.१०१॥
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ।
अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ॥ ३४.१०२॥
ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः ।
षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ॥ ३४.१०३॥
सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः ।
भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ॥ ३४.१०४॥
पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥ ३४.१०५॥
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ।
तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ॥ ३४.१०६॥
ग्रहणादिषु कालेषु महापातकशोधनम् ।
यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ॥ ३४.१०७॥
नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ।
ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ॥ ३४.१०८॥
भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ।
एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ॥ ३४.१०९॥
सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ।
पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका ।
न तस्या विद्यते पापमिह लोके परत्र च ॥ ३४.११०॥
पतिव्रता धर्मरता भद्राण्येव सभेत् सदा ।
नास्याः पराभवं कर्त्तुं शक्नोतीह जनः क्वचित् ॥ ३४.१११॥
यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ ३४.११२॥
रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।
सीतां विशालनयनां चकमे कालचोदितः ॥ ३४.११३॥
गृहीत्वा मायया वेषं चरन्तीं विजने वने ।
समाहर्त्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ ३४.११४॥
विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् ।
जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥ ३४.११५॥
उपतस्थे महायोगं सर्वदोषविनाशनम् ।
कृताञ्जली रामपत्नी साक्षात् पतिमिवाच्युतम् ॥ ३४.११६॥
नमस्यामि महायोगं कृतान्तं गहनं परम् ।
दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ ३४.११७॥
नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् ।
योगनं कृत्तिवसनं भूतेशं परमम्पदम् ॥ ३४.११८॥
आत्मानं दीप्तवपुषं सर्वभूतहृदि स्थितम् ।
तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् ।
महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ ३४.११९॥
प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ३४.१२०॥
प्रपद्ये त्वां विरूपाक्षं भूर्भुवः स्वः स्वरूपिणम् ।
हिरण्मये गृहे गुप्तं महान्तममितौजसम् ॥ ३४.१२१॥
वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् ।
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ३४.१२२॥
प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवम् ।
भार्गवाग्निः परं ज्योतिः रक्ष मां हव्यवाहन ॥ ३४.१२३॥
इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ३४.१२४॥
अथावसथ्याद्भगवान् हव्यवाहो महेश्वरः ।
आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव ॥ ३४.१२५॥
सृष्ट्वा मायामयीं सीतां स रावणवधेप्सया ।
सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ ३४.१२६॥
तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।
समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ ३४.१२७॥
कृत्वाऽथ रावणवधं रामो लक्ष्मणसंयुतः ।
समादायाभवत् सीतां शङ्काकुलितमानसः ॥ ३४.१२८॥
सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।
विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ ३४.१२९॥
दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः ।
रामायादर्शयत् सीतां पावकोऽभूत् सुरप्रियः ॥ ३४.१३०॥
प्रगृह्य भर्त्तुश्चरणौ कराभ्यां सा सुमध्यमा ।
चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ ३४.१३१॥
दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः ।
ननाम वह्निं सिरसा तोषयामास राघवः ॥ ३४.१३२॥
उवाच वह्निर्भगवान् किमेषा वरवर्णिनी ।
दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ ३४.१३३॥
तमाह देवो लोकानां दाहको हव्यवाहनः ।
यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ ३४.१३४॥
इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् ।
आराध्य लब्ध्वा तपसा देव्याश्चात्यन्तवल्लभा ॥ ३४.१३५॥
भर्त्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता ।
भवानीपार्श्वमानीता मया रावणकामिता ॥ ३४.१३६॥
या नीता राक्षसेशेन सीता सा भस्मतां गता ।
मया मायामयी सृष्टा रावणस्य वधाय सा ॥ ३४.१३७॥
तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः ।
मयोपसंहृता चैव हतो लोकविनाशनः ॥ ३४.१३८॥
गृहाण विमलामेनां जानकीं वचनान्मम ।
पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ ३४.१३९॥
इत्युक्त्वा भगवांश्चण्डो विश्वार्चिर्विश्वतोमुखः ।
मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ ३४.१४०॥
एतत् पतिव्रतानां वै माहात्म्यं कथितं मया ।
स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ ३४.१४१॥
अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः ।
स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ ३४.१४२॥
पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः ।
मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ ३४.१४३॥
व्यास उवाच ।
इत्येष मानवो धर्मो युष्माकं कथितो मया ।
महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ ३४.१४४॥
योऽनेन विधिना युक्तो ज्ञानयोगं समाचरेत् ।
स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ ३४.१४५॥
स्थापयेद्यः परं धर्मं ज्ञानं तत्पारमेश्वरम् ।
न तस्मादधिको लोके स योगी परमो मतः ॥ ३४.१४६॥
यः संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः ।
स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ ३४.१४७॥
तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः ।
धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ ३४.१४८॥
यः पठेद्भवतां नित्यं संवादं मम चैव हि ।
सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ ३४.१४९॥
श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ ।
पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ ३४.१५०॥
योऽर्थं विचार्य युक्तात्मा श्रावयेद्ब्राह्मणान् शुचीन् ।
स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ ३४.१५१॥
एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः ।
समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ ३४.१५२॥
इती श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
त्रयस्त्रिशोऽध्यायः ॥ ३४॥
३५
कूर्मपुराणे उत्तरभागे पञ्चत्रिंशत्तमोऽध्यायः
ऋषय ऊचुः ।
तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च ।
तानि त्वं कथयास्माकं रोमहर्षण साम्प्रतम् ॥ ३५.१॥
रोमहर्षण उवाच ।
शृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च ।
कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ ३५.२॥
यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।
एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ ३५.३॥
पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः ।
प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ ३५.४॥
अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् ।
ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ ३५.५॥
तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः ।
ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ ३५.६॥
गयातीर्थं परं गुह्यं पितॄणां चाति दुर्ल्लभम् ।
कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ ३५.७॥
सकृद्गयाभिगमनं कृत्वा पिण्डं ददाति यः ।
तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ ३५.८॥
तत्र लोकहितार्थाय रुद्रेण परमात्मना ।
शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ ३५.९॥
गयाऽभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति ।
शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ ३५.१०॥
गायन्ति पितरो गाथाः कीर्त्तयन्ति महर्षयः ।
गयां यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति ॥ ३५.११॥
यदि स्यात् पातकोपेतः स्वधर्मपरिवर्जितः ।
गयां यास्यति वंश्यो यः सोऽस्मान् सन्तारयिष्यति ॥ ३५.१२॥
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ ३५.१३॥
तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः ।
प्रदद्याद्विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ ३५.१४॥
धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः ।
कुलान्युभयतः सप्त समुद्धृत्याप्नुयुः परम् ॥ ३५.१५॥
अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् ।
प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ ३५.१६॥
तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् ।
कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ ३५.१७॥
तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् ।
पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ ३५.१८॥
सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् ।
ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद्ध्रुवम् ॥ ३५.१९॥
सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः ।
सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ ३५.२०॥
तीर्थानां परमं तीर्थं विजयं नाम शोभनम् ।
तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ ३५.२१॥
षण्मासनियताहारो ब्रह्मचारी समाहितः ।
उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ ३५.२२॥
अन्यच्च तीर्थप्रवरं पूर्वदेशेषु शोभनम् ।
एकान्तं देवदेवस्य गाणपत्यफलप्रदम् ॥ ३५.२३॥
दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् ।
सार्वभौमो भवेद्राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३५.२४॥
महानदीजलं पुण्यं सर्वपापविनाशनम् ।
ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ ३५.२५॥
अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता ।
तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ ३५.२६॥
तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् ।
तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ ३५.२७॥
पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः ।
ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ ३५.२८॥
तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् ।
सर्वपापहरं शम्भोर्निवासः परमेष्ठिनः ॥ ३५.२९॥
दृष्ट्वा लिङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् ।
ईप्सिताँल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ ३५.३०॥
उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः ।
महादेवं अर्चयित्वा शिवसायुज्यमाप्नुयात् ॥ ३५.३१॥
तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः ।
तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ ३५.३२॥
अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः ।
सम्पूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ ३५.३३॥
यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा ।
कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ ३५.३४॥
समन्ताद्योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् ।
पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ ३५.३५॥
अन्यत् कोकामुखे विष्णोस्तीर्थमद्भुतकर्मणः ।
मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ ३५.३६॥
शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् ।
प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ ३५.३७॥
अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् ।
आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ ३५.३८॥
तीर्थं त्रैलोक्यविख्यातं सिद्धवासं सुशोभनम् ।
तत्रास्ति पुण्यदं तीर्थं ब्रह्मणः परमेष्टिनः ॥ ३५.३९॥
पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ।
मनसा संस्मरेद्यस्तु पुष्करं वै द्विजोत्तमः ॥ ३५.४०॥
पूयते पातकैः सर्वैः शक्रेण सह मोदते ।
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ ३५.४१॥
उपासते सिद्धसङ्घा ब्रह्माणं पद्मसम्भवम् ।
तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ॥ ३५.४२॥
पूजयित्वा द्विजवरं ब्रह्माणं सम्प्रपश्यति ।
तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ॥ ३५.४३॥
सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ।
सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ॥ ३५.४४॥
पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ।
यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ॥ ३५.४५॥
आराधयामास शिवं तपसा गोवृषध्वजम् ।
प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ॥ ३५.४६॥
ननर्त्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ।
तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ॥ ३५.४७॥
दृष्ट्वाऽपि देवमीशानं नृत्यति स्म पुनः पुनः ।
सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ॥ ३५.४८॥
स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ।
पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ॥ ३५.४९॥
माहात्म्यमेतत् तपसस्त्वादृशोऽन्योऽपि विद्यते ।
यत् सगर्वं हि भवता नर्तितं मुनिपुङ्गव ॥ ३५.५०॥
न युक्तं तापसस्यैतत् त्वत्तोऽप्यत्राधिको ह्यहम् ।
इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ॥ ३५.५१॥
आस्थाय परमं भावं ननर्त्त जगतो हरः ।
सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् ॥ ३५.५२॥
दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः ।
सोऽन्वपश्यदथेशस्य पार्श्वे तस्य त्रिशूलिनः ॥ ३५.५३॥
विशाललोचनामेकां देवीं चारुविलासिनीम् ।
सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ ३५.५४॥
सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तममितद्युतिम् ।
दृष्ट्वा सन्त्रस्तहृदयो वेपमानो मुनीश्वरः ॥ ३५.५५॥
ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ।
प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ॥ ३५.५६॥
पूर्ववेषं स जग्राह देवी चान्तर्हिताऽभवत् ।
आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयं शिवः ॥ ३५.५७॥
न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ।
प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ॥ ३५.५८॥
विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ।
नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ॥ ३५.५९॥
किमेतद्भगवद्रूपं सुघोरं विश्वतोमुखम् ।
का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ॥ ३५.६०॥
अन्तर्हितेव च सहसा सर्वमिच्छामि वेदितुम् ।
इत्युक्ते व्याजहारेशस्तदा मङ्कणकं हरः ॥ ३५.६१॥
महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ।
अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ॥ ३५.६२॥
दाहकः सर्वपापानां कालः कालकरो हरः ।
मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ॥ ३५.६३॥
सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ।
तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ॥ ३५.६४॥
प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ।
स एष मायया विश्वं व्यामोहयति विश्ववित् ॥ ३५.६५॥
नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ।
एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ॥ ३५.६६॥
योजयामि प्रकृत्याऽहं पुरुषं पञ्चविंशकम् ।
तथा वै सङ्गतो देवः कूटस्थः सर्वगोऽमलः ॥ ३५.६७॥
सृजत्यशेषमेवेदं स्वमूर्त्तेः प्रकृतेरजः ॥
स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ॥ ३५.६८॥
तवैतत् कथितं सम्यक् स्रष्टृत्वं परमात्मनः ।
एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद्विभुः ॥ ३५.६९॥
समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ।
मम वै साऽपरा शक्तिर्देवी विद्येति विश्रुता ॥ ३५.७०॥
दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ।
एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ॥ ३५.७१॥
विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ।
त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ॥ ३५.७२॥
तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ।
आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ॥ ३५.७३॥
आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ।
एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ॥ ३५.७४॥
सम्पूज्यो वन्दनीयोऽहं ततस्तं पश्यसीश्वरम् ।
एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ॥ ३५.७५॥
तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ।
एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् ।
संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ ३५.७६॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
पञ्चत्रिंशोऽध्यायः ॥ ३५॥
३६
कूर्मपुराणे उत्तरभागे षड्त्रिंशत्तमोऽध्यायः
सूत उवाच ।
अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ ३६.१॥
पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ ३६.२॥
अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्योऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३६.३॥
तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपोऽभवद्रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ३६.४॥
ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियोऽभवन् ॥ ३६.५॥
अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन् ॥ ३६.६॥
अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम् ॥ ३६.७॥
एतत् स्वदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ३६.८॥
अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्द्धासनं लभेत् ॥ ३६.९॥
अथान्या पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ ३६.१०॥
कालञ्जरं महातीर्थं रुद्रलोके महेश्वरः ।
कालं जरितवान्देवो यत्र भक्तप्रियो हरः ॥ ३६.११॥
श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारैः पूजयामास शूलिनम् ॥ ३६.१२॥
संस्थाप्य विधिना लिङ्गं भक्तियोगपुरःसरः ।
जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥ ३६.१३॥
सितं कालोऽथ दीप्तात्मा शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ ३६.१४॥
वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीपितम् ॥ ३६.१५॥
उभाभ्यामथ हस्ताभ्यां स्पृट्वाऽसौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ ३६.१६॥
जपन्तमाह राजानं नमन्तं मनसा भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ ३६.१७॥
तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यान्निषूदय ॥ ३६.१८॥
इत्युक्तवन्तं भगवानब्रवीद्भीतमानसम् ।
रुद्रार्चनरतो वाऽन्यो मद्वशे को न तिष्ठति ॥ ३६.१९॥
एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजाऽपि जजाप शतरुद्रियम् ॥ ३६.२०॥
अथान्तरिक्षे विमलं दीप्यमानं तेजोराशिं भूतभर्त्तुः पुराणम् ।
ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं सन्ददर्श ॥ ३६.२१॥
तन्मध्येऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् ।
तेजोरूपं पश्यति स्मातिहृष्टो मेने चास्मन्नाथ आगच्छतीति ॥ ३६.२२॥
आगच्छन्तं नातिदूरेऽथ दृष्ट्वा कालो रुद्रं देवदेव्या महेशम् ।
व्यपेतभीरखिलेशैकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥ ३६.२३॥
आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्त्ता पुराणः ।
एवं भक्तं सत्वरं मां स्मरन्तं देहीतीमं कालरूपं ममेति ॥ ३६.२४॥
श्रुत्वा वाख्यं गोपतेरुग्रभावः कालात्माऽसौ मन्यमानः स्वभावम् ।
बद्ध्वा भक्तं पुनरेवाऽथ पाशैः रुद्रो रौद्रमभिदुद्राव वेगात् ॥ ३६.२५॥
प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः ।
सावज्ञं वै वामपादेन कालं राज्ञश्चैनं पश्यतो व्याजघान ॥ ३६.२६॥
ममार सोऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक् ॥ ३६.२७॥
निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ ३६.२८॥
नमो भवाय हेतवे हराय विश्वसम्भवे ।
नमः शिवाय धीमते नमोऽपवर्गदायिने ॥ ३६.२९॥
नमो नमो नमो नमो महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३६.३०॥
नमोऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन ।
अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ ३६.३१॥
नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते शिवाय शङ्कराय ते ॥ ३६.३२॥
अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३६.३३॥
सहोमया सपार्षदः सराजपुङ्गवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३६.३४॥
काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवोऽयं भवत्विति ॥ ३६.३५॥
नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६.३६॥
स देवदेववचनाद्देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सोऽपि तादृग्विधोऽभवत् ॥ ३६.३७॥
इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् ।
गत्वाऽभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३६.३८॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
षट्त्रिंशोऽध्यायः ॥ ३६॥
३७
कूर्मपुराणे उत्तरभागे सप्तत्रिंशत्तमोऽध्यायः
सूत उवाच ।
इदमन्यत् परं स्थानं गुह्याद्गुह्यतमं महत् ।
महादेवस्य देवस्य महालयमिति श्रुतम् ॥ ३७.१॥
तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा ।
शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ ३७.२॥
तत्र पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः ।
उपासते महादेवं वेदाध्ययनतत्पराः ॥ ३७.३॥
स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरःसरम् ।
नमस्कृत्वाऽथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ ३७.४॥
अन्यच्च देवदेवस्य स्थानं शम्भोर्महात्मनः ।
केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ ३७.५॥
तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् ।
पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ ३७.६॥
श्राद्धदानादिकं कृत्वा ह्यक्षयं लभते फलम् ।
द्विजातिप्रवरैर्जुष्टं योगिभिर्ज्जितमानसैः ॥ ३७.७॥
तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् ।
तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ ३७.८॥
अन्यच्च मगधारण्यं सर्वलोकगतिप्रदम् ।
अक्षयं विन्दते स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ ३७.९॥
तीर्थं कनखलं पुण्यं महापातकनाशनम् ।
यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ ३७.१०॥
तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः ।
मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ ३७.११॥
महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् ।
तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं स गच्छति ॥ ३७.१२॥
अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् ।
तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ ३७.१३॥
तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः ।
स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ ३७.१४॥
गोदावरी नदी पुण्या सर्वपापविनाशनी ।
तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि ॥ ३७.१५॥
सर्वपापविशुद्धात्मा गोसहस्रफलं लभेत् ।
पवित्रसलिला पुण्या कावेरी विपुला नदी ॥ ३७.१६॥
तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः ।
त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ ३७.१७॥
द्विजातीनां तु कथितं तीर्थानामिह सेवनम् ।
यस्य वाङ्मनसी शुद्धे हस्तपादौ च संस्थितौ ॥ ३७.१८॥
अलोलुपो ब्रह्मचारी तीर्थानां फलमाप्नुयात् ।
स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ३७.१९॥
तत्र सन्निहितो नित्यं स्कन्दोऽमरनमस्कृतः ।
स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् ॥ ३७.२०॥
आराध्य षण्मुखं देवं स्कन्देन सह मोदते ।
नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः ॥ ३७.२१॥
तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि ।
पापकर्तॄनपि पितॄंस्तारयेन्नात्र संशयः ॥ ३७.२२॥
चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम् ।
तीर्थे तत्रभवेद्दत्तं मृतानां स्वर्गतिर्ध्रुवा ॥ ३७.२३॥
विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् ।
भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ ३७.२४॥
देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ ३७.२५॥
दशाश्वमेधिकं तीर्थं सर्वपापविनाशकम् ।
दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ ३७.२६॥
पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् ।
तत्राभिगम्य युक्तात्मा पुण्डरीकफलं लभेत् ॥ ३७.२७॥
तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् ।
ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ ३३.२८॥
सरस्वत्या विनशनं प्लक्षप्रस्रवणं शुभम् ।
व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् ॥ ३७.२९॥
यमुनाप्रभवं चैव सर्वपापविनाशनम् ।
पितॄणां दुहिता देवी गन्धकालीति विश्रुता ॥ ३७.३०॥
तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् ।
कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् ॥ ३७.३१॥
प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् ।
उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा ॥ ३७.३२॥
तत्राभ्यर्च्य महादेवीं गोसहस्रफलं लभेत् ।
भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् ॥ ३७.३३॥
कुलान्युभयतः सप्त पुनातीति मतिर्मम ।
काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ॥ ३७.३४॥
तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया ।
दशार्णायां तथा दानं श्राद्धं होमस्तपो जपः ॥ ३७.३५॥
अक्षयं चाव्ययं चैव कृतं भवति सर्वदा ।
तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् ॥ ३७.३६॥
दत्त्वा तु दानं विधिवद्ब्रह्मलोके महीयते ।
वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च ॥ ३७.३७॥
धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे ।
भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ॥ ३७.३८॥
महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् ।
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥ ३७.३९॥
हिताय सर्वभूतानां नास्तिकानां निदर्शनम् ।
अल्पेनापि तु कालेन नरो धर्मपरायणः ॥ ३७.४०॥
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ।
नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् ॥ ३७.४१॥
उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् ।
तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः ॥ ३७.४२॥
दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् ।
ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ ३७.४३॥
मानसे सरसि स्नात्वा शक्रस्यार्द्धासनं लभेत् ।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ ३७.४४॥
तस्मान्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम् ।
कामान् स लभते दिव्यान् मोक्षोपायं च विन्दति ॥ ३७.४५॥
पर्वतो हिमवान्नाम नानाधातुविभूषितः ।
योजनानां सहस्राणि साशीतिस्त्वायतो गिरिः ॥ ३७.४६॥
सिद्धचारणसङ्कीर्णो देवर्षिगणसेवितः ।
तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः ॥ ३७.४७॥
तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति ।
श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् ॥ ३७.४८॥
तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान् ।
सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः ॥ ३७.४९॥
नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः ।
बदर्याश्रममासाद्य मुच्यते कलिकिल्बिषात् ॥ ३७.५०॥
तत्र नारायणो देवो नरेणास्ते सनातनः ।
अक्षयं तत्र दानं स्यात् जप्यं वाऽपि तथाविधम् ॥ ३७.५१॥
महादेवप्रियं तीर्थं पावनं तद्विशेषतः ।
तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ ३७.५२॥
देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् ।
महादेवेन देवेन तत्र दत्तं महद्वरम् ॥ ३७.५३॥
मोहयित्वा मुनीन् सर्वान् समस्तैः सम्प्रपूजितः ।
प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ ३७.५४॥
इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा ।
मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ ३७.५५॥
येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः ।
तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ ३७.५६॥
अत्र नित्यं वसिष्यामि सह नारायणेन च ।
प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ ३७.५७॥
संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः ।
तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ ३७.५८॥
श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा ।
ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ ३७.५९॥
तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ॥
देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ ३७.६०॥
यत्रेश्वरो महादेवो विष्णुर्वा पुरुषोत्तमः ।
तत्र सन्निहिता गङ्गा तीर्थान्यायतनानि च ॥ ३७.६१॥
इती श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
सप्तत्रिंशोऽध्यायः ॥ ३७॥
३८
कूर्मपुराणे उत्तरभागे अष्टात्रिंशत्तमोऽध्यायः
ऋषय ऊचुः ।
कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः ।
मोहयामास विप्रेन्द्रान् सूत तद्वक्तुमिहार्हसि ॥ ३८.१॥
सूत उवाच ।
पुरा दारुवने रम्ये देवसिद्धनिषेविते ।
सपुत्रदारतनयास्तपश्चेरुः सहस्रशः ॥ ३८.२॥
प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि ।
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ ३८.३॥
तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् ।
व्याख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ ३८.४॥
कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः ।
ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः ॥ ३८.५॥
आस्थाय विपुलञ्चैष जनं विंशतिवत्सरम् ।
लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ ३८.६॥
चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः ।
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ ३८.७॥
कुशेशयमयीं मालां सर्वरत्नैरलङ्कृताम् ।
दधानो भगवानीशः समागच्छति सस्मितः ॥ ३८.८॥
योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।
स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शूलिनम् ॥ ३८.९॥
सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् ।
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ ३८.१०॥
सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।
उदारहंसचलनं विलासि सुमनोहरम् ॥ ३८.११॥
एवं स भगवानीशो देवदारुवने हरः ।
चचार हरिणा सार्द्धं मायया मोहयन् जगत् ॥ ३८.१२॥
दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् ।
मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ ३८.१३॥
विस्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।
सहैव तेन कामार्त्ता विलासिन्यश्चरन्तिहि ॥ ३८.१४॥
ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः ।
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ ३८.१५॥
गायन्ति नृत्यन्ति विलासयुक्ता
नारीगणा नायकमेकमीशम् ।
दृष्ट्वा सपत्नीकमतीवकान्त-
मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ ३८.१६॥
पार्श्वे निपेतुः स्मितमाचरन्ति
गायन्ति गीतानि मुनीशपुत्राः ।
आलोक्य पद्मापतिमादिदेवं
भ्रूभङ्गमन्ये विचरन्ति तेन ॥ ३८.१७॥
आसामथैषामपि वासुदेवो
मायी मुरारिर्मनसि प्रविष्टः ।
करोति भोगान् मनसि प्रवृत्तिं
मायानुभूतान्स इतीव सम्यक् ॥ ३८.१८॥
विभाति विश्वामरभूतभर्त्ता
स माधवः स्त्रीगणमध्यविष्टः ।
अशेषशक्त्यासनसन्निविष्टो
यथैकशक्त्या सह देवदेवः ॥ ३८.१९॥
करोति नृत्यं परमं प्रधानं
तदा विरूढः पुनरेव भूयः ।
ययौ समारुह्य हरिः स्वभावं
तदीशवृत्तामृतमादिदेवः ॥ ३८.२०॥
दृष्ट्वा नारीकुलं रुद्रं पुत्रानपि च केशवम् ।
मोहयन्तं मुनिश्रेष्ठाः कोपं सन्दधिरे भृशम् ॥ ३८.२१॥
अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् ।
शेपुश्च र्विविधैर्वाक्यैर्मायया तस्य मोहिताः ॥ ३८.२२॥
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे ।
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ ३८.२३॥
ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् ।
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ ३८.२४॥
सोऽब्रवीद्भगवानीशस्तपश्चर्तुमिहागतः ।
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ ३८.२५॥
तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः ।
ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ ३८.२६॥
अथोवाच विहस्येशः पिनाकी नीललोहितः ।
सम्प्रेक्ष्य जगतां योनिं पार्श्वस्थं च जनार्दनम् ॥ ३८.२७॥
कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ ३८.२८॥
ऋषय ऊचुः ।
व्यभिचाररता भार्याः सन्त्याज्याः पतिनेरिताः ।
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ ३८.२९॥
महादेव उवाच ।
न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३८.३०॥
ऋषय ऊचुः ।
दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम ।
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ ३८.३१॥
एवमुक्ते महादेवः सत्यमेव मयेरितम् ।
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ ३८.३२॥
सोऽगच्छद्धरिणा सार्द्धं मुनीन्द्रस्य महात्मनः ।
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ॥ ३८.३३॥
दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती ।
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ ३८.३४॥
प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् ।
सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।
सन्धयामास भैषज्यैर्विषण्णवदना सती ॥ ३८.३५॥
चकार महतीं पूजां प्रार्थयामास भार्यया ।
को भवान् कुत आयातः किमाचारो भवानिति ।
उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम् ॥ ३८.३६॥
यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा ।
एषैव देवता मह्यं धारयामि सदैव तत् ॥ ३८.३७॥
हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् ।
ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ ३८.३८॥
दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् ।
प्रोचुरेतद्भवाँल्लिङ्गमुत्पाटयतु दुर्मते ॥ ३८.३९॥
तानब्रवीन्महायोगी करिष्यामीति शङ्करः ।
युष्माकं मामके लिङ्गे यदि द्वेषोऽभिजायते ॥ ३८.४०॥
इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा ।
नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ ३८.४१॥
तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः ।
न राजते सहस्रांशुश्चचाल पृथिवी पुनः ।
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ ३८.४२॥
अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता ।
कथयामास विप्राणां भयादाकुलितेक्षणा ॥ ३८.४३॥
तेजसा भासयन् कृत्स्नं नारायणसहायवान् ।
भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥ ३८.४४॥
तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः ।
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसम्भवम् ॥ ३८.४५॥
उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः ।
चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ ३८.४६॥
आसीनमासने रम्ये नानाश्चर्यसमन्विते ।
प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ ३८.४७॥
विभ्राजमानं वपुषा सस्मितं शुभ्रलोचनम् ।
चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ ३८.४८॥
विलोक्य देवपुरुषं प्रसन्नवदनं शुभम् ।
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ ३८.४९॥
तान् प्रसन्नमना देवश्चतुर्मूर्त्तिश्चतुर्मुखः ।
व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ ३८.५०॥
तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः ।
ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ ३८.५१॥
ऋषय ऊचुः ।
कश्चिद्दारुवनं पुण्यं पुरुषोऽतीवशोभनः ।
भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ ३८.५२॥
मोहयामास वपुषा नारीणां कुलमीश्वरः ।
कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ ३८.५३॥
अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः ।
ताडितोऽस्माभिरत्यर्थं लिङ्गं तु विनिपातितम् ॥ ३८.५४॥
अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च ।
उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः ॥ ३८.५५॥
क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ३८.५६॥
त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् ।
अनुग्रहेण विश्वेश तदस्माननुपालय ॥ ३८.५७॥
विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः ।
ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ ३८.५८॥
ब्रह्मोवाच ।
हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् ।
धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ ३८.५९॥
सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् ।
उपेक्षितं वृथाऽऽचारैर्भवद्भिरिह मोहितैः ॥ ३८.६०॥
काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् ।
यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६१॥
यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यै वेदवादिनः ।
महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६२॥
यं समासाद्य देवानामैश्वर्यमखिलं जगत् ।
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ।
यत्समापत्तिजनितं विश्वेशत्वमिदं मम ।
तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ ३८.६३॥
यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् ।
तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ ३८.६४॥
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ ३८.६५॥
देवतानामृषीणां च पितॄणां चापि शाश्वतः ।
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ॥ ३८.६६॥
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ।
एष चैव प्रजाः सर्वाः सृजत्येषः स्वतेजसा ॥ ३८.६७॥
एष चक्री चक्रवर्ती श्रीवत्सकृतलक्षणः ।
योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ ३८.६८॥
रुद्रस्य मूर्त्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् ।
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ ३८.६९॥
मूर्त्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।
यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम् ॥ ३८.७०॥
या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।
सा हि नारायणो देवः परमात्मा सनातनः ॥ ३८.७१॥
तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् ।
स एष मोचयेत् कृत्स्नं स एष परमा गतिः ॥ ३८.७२॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
एकशृङ्गो महानात्मा पुराणोऽष्टाक्षरो हरिः ॥ ३८.७३॥
चतुर्वेदश्चतुर्मूर्त्तिस्त्रिमूर्त्तिस्त्रिगुणः परः ।
एकमूर्त्तिरमेयात्मा नारायण इति श्रुतिः ।
रेतोऽस्य गर्भो भगवानापो मायातनुः प्रभुः ।
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्मोक्षकाङ्क्षिभिः ॥ ३८.७४॥
संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः ।
शेते योगामृतं पीत्वा यत् तद्विष्णोः परं पदम् ॥ ३८.७५॥
न जायते न म्रियते वर्द्धते न च विश्वसृक् ।
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ ३८.७६॥
ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् ।
अजस्य नाभौ तद्बीजं क्षिपत्येष महेश्वरः ॥ ३८.७७॥
तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् ।
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ ३८.७८॥
न तं जानीथ जनकं मोहितास्तस्य मायया ।
देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ ३८.७९॥
एष देवो महादेवो ह्यनादिर्भगवान् हरः ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥ ३८.८०॥
न तस्य विद्यते कार्यं न तस्माद्विद्यते परम् ।
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ ३८.८१॥
स मायी मायया सर्वं करोति विकरोति च ।
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ ३८.८२॥
इतीरिता भगवता मरीचिप्रमुखा विभुम् ।
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुःखिताः ॥ ३८.८३॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
अष्टाचत्वारिंशोऽध्यायः ॥ ३८॥
३९
कूर्मपुराणे उत्तरभागे नवत्रिंशत्तमोऽध्यायः
मुनय ऊचुः ।
कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।
ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ३९.१॥
पितामह उवाच ।
यद्दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ३९.२॥
पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥ ३९.३॥
संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसम्भवैः ।
तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ३९.४॥
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ३९.५॥
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ३९.६॥
ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।
जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ३९.७॥
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।
अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ३९.८॥
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ३९.९॥
शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।
केचिदभ्रावकाशास्तु पादाङ्गुष्ठे ह्यधिष्ठिताः ॥ ३९.१०॥
दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।
शाकपर्णाशनाः केचित् सम्प्रक्षाला मरीचिपाः ॥ ३९.११॥
वृक्षमूलनिकेताश्च शिलाशय्यास्तथापरे ।
कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ३९.१२॥
ततस्तेषां प्रसादार्थं प्रपन्नार्त्तिहरो हरः ।
चकार भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ३९.१३॥
देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे ।
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ३९.१४॥
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ ३९.१५॥
क्वचिच्च हसते रौद्रं क्वचिद्गायति विस्मितः ।
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ ३९.१६॥
आश्रमे ह्यटते भिक्षुः याचते च पुनः पुनः ।
मायां कृत्वाऽऽत्मनो रूपं देवस्तद्वनमागतः ॥ ३९.१७॥
कृत्वा गिरिसुतां गौरीं पार्श्वे देवः पिनाकधृक् ।
सा च पूर्ववद्देवेशी देवदारुवनं गता ॥ ३९.१८॥
दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ ३९.१९॥
वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ ३९.२०॥
नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ ३९.२१॥
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ ३९.२२॥
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ ३९.२३॥
नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥ ३९.२४॥
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ३९.२५॥
अघोरघोररूपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥ ३९.२६॥
गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ३९.२७॥
प्राणाय च नमस्तुभ्यं नमो भस्माङ्गधारिणे ।
नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे ॥ ३९.२८॥
ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे ।
आगतिं ते न जनीमो गतिं नैव च नैव च ॥ ३९.२९॥
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।
नमः प्रमथनाथाय दात्रे च शुभसम्पदाम् ॥ ३९.३०॥
कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ३९.३१॥
नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः ।
नमो भुजङ्गहाराय कर्णिकारप्रियाय च ।
किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ३९.३२॥
वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ३९.३३॥
चरितानि विचित्राणि गुह्यानि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शङ्कर ॥ ३९.३४॥
अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः ।
तत्सर्वं भगवानेन कुरुते योगमायया ॥ ३९.३५॥
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ ३९.३६॥
तेषां संस्तवमाकर्ण्य सोमः सोमविभूषणः ।
स्वमेव परमं रूपं दर्शयामास शङ्करः ॥ ३९.३७॥
तं ते दृष्ट्वाऽथ गिरिशं देव्या सह पिनाकिनम् ।
यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ ३९.३८॥
ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।
भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ ३९.३९॥
गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।
मरीचिः कश्यपश्चापि संवर्त्तकमहातपाः ।
प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ ३९.४०॥
कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।
ज्ञानेन वाऽथ योगेन पूजयामः सदैव हि ॥ ३९.४१॥
केन वा देवमार्गेण सम्पूज्यो भगवानिह ।
किं तत् सेव्यमसेव्यं वा सर्वमेतद्ब्रवीहि नः ॥ ३९.४२॥
देवदेव उवाच ।
एतद्वः सम्प्रवक्ष्यामि गूढं गहनमुत्तमम् ।
ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ ३९.४३॥
साङ्ख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।
योगेन सहितं साङ्ख्यं पुरुषाणां विमुक्तिदम् ॥ ३९.४४॥
न केवलेन योगेन दृश्यते पुरुषः परः ।
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ ३९.४५॥
भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।
विहाय साङ्ख्यं विमलमकुर्वत परिश्रमम् ॥ ३९.४६॥
एतस्मात् कारणाद्विप्रा नृणां केवलधर्मिणाम् ।
आगतोऽहमिमं देशं ज्ञापयन् मोहसम्भवम् ॥ ३९.४७॥
तस्माद्भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ ३९.४८॥
एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत् साङ्ख्यदर्शनम् ॥ ३९.४९॥
एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ ३९.५०॥
आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ ३९.५१॥
एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।
अहं हि वेद्यो भगवान् मम मूर्त्तिरियं शिवा ॥ ३९.५२॥
बहूनि साधनानीह सिद्धये कथितानि तु ।
तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः ॥ ३९.५३॥
ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।
ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ ३९.५४॥
मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।
नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ ३९.५५॥
प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।
ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ ३९.५६॥
निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।
गुह्याद्गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ ३९.५७॥
यद्वा कौपीनवसनः स्याद्वा दिग्वसनो मुनिः ।
वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ ३९.५८॥
एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।
भस्मच्छन्नैर्हि सततं निष्कामैरिति हि श्रुतम् ॥ ३९.५९॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवोऽनेन योगेन पूता मद्भावमागताः ॥ ३९.६०॥
अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानि तु ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥ ३९.६१॥
वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।
असेव्यमेतत् कथितं वेदबाह्यं तथेतरम् ॥ ३९.६२॥
वेदमुर्त्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ ३९.६३॥
स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।
अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ ३९.६४॥
मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।
ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ ३९.६५॥
इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत ।
तेऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् ॥ ३९.६६॥
ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ।
समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ॥ ३९.६७॥
विचक्रिरे बहून् वादान्स्वात्मज्ञानसमाश्रयान् ।
किमस्य जगतो मूलमात्मा चास्माकमेव हि ॥ ३९.६८॥
कोऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ।
इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।
आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ ३९.६९॥
कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।
स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ ३९.७०॥
तामन्वपश्यन् गिरिजाममेयां ज्वालासहस्रान्तरसन्निविष्टाम् ।
प्रणेमुरेतामखिलेशपत्नीं जानन्ति चैतत् परमस्य बीजम् ॥ ३९.७१॥
अस्माकमेषा परमेशपत्नी गतिस्तथाऽऽत्मा गगनाभिधाना ।
पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः ॥ ३९.७२॥
निरीक्षितास्ते निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् ।
पश्यन्ति शम्भुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ ३९.७३॥
आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्र्यम् ।
ज्ञानं तदीशं भगवत्प्रसादादाविर्बभौ जन्मविनाशहेतुः ॥ ३९.७४॥
इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च ।
माहेश्वरी शक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ ३९.७५॥
अस्यां महत्परमेष्ठी परस्तान्महेश्वरः शिव एकः स रुद्रः ।
चकार विश्वं परशक्तिनिष्ठं मायामथारुह्य च देवदेवः ॥ ३९.७६॥
एको देवः सर्वभूतेषु गूढो मायी रुद्रः सकलो निष्कलश्च ।
स एव देवी न च तद्विभिन्नमेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ ३९.७७॥
अन्तर्हितोऽभूद्भगवान्महेशो देव्या तया सह देवादिदेवः ।
आराधयन्ति स्म तमादिदेवं वनौकसस्ते पुनरेव रुद्रम् ॥ ३९.७८॥
एतद्वः कथितं सर्वं देवदेवस्य चेष्टितम् ।
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ ३९.७९॥
यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।
श्रावयेद्वा द्विजान् शान्तान् स याति परमां गतिम् ॥ ३९.८०॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
नवत्रिंशोऽध्यायः ॥ ३९॥
४०
कूर्मपुराणे उत्तरभागे चत्वारिंशत्तमोऽध्यायः ।
सूत उवाच ।
एषा पुण्यतमा देवी देवगन्धर्वसेविता ।
नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ ४०.१॥
तस्याः शृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम् ।
युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ ४०.२॥
युधिष्ठिर उवाच ।
श्रुतास्ते विविधा धर्मास्त्वत्प्रसादान्महामुने ।
माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ ४०.३॥
नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता ।
तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ ४०.४॥
मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता ।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ ४०.५॥
नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् ।
इदानीं तत्प्रवक्ष्यामि शृणुष्वैकमनाः शुभम् ॥ ४०.६॥
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ ४०.७॥
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ ४०.८॥
कलिङ्गदेशपश्चार्द्धे पर्वतेऽमरकण्टके ।
पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ ४०.९॥
सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः ।
तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ ४०.१०॥
तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः ।
उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ ४४०.११॥
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ।
विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ ४०.१२॥
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ।
पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके ॥ ४०.१३॥
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ।
सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ ४०.१४॥
एवं शुद्धसमाचारो यस्तु प्राणान् समुत्सृजेत् ।
तस्य पुण्यफलं राजन् शृणुष्वावहितो नृप ॥ ४०.१५॥
शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव ।
अप्सरोगणसङ्कीर्णो दिव्यस्त्रीपरिवारितः ॥ ४०.१६॥
दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ।
क्रीडते देवलोके तु दैवतैः सह मोदते ॥ ४०.१७॥
ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः ।
गृहं तु लभतेऽसौ वै नानारत्नसमन्वितम् ॥ ४०.१८॥
स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैदूर्यभूषितम् ।
आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ ४०.१९॥
राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ।
जीवेद्वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ ४०.२०॥
अग्निप्रवेशेऽथ जले अथवाऽनशने कृते ।
अनिवर्त्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ ४०.२१॥
पश्चिमे पर्वततटे सर्वपापविनाशनः ।
ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ ४०.२२॥
तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा ।
दशवर्षसहस्राणि तर्पिताः स्युर्न संशयः ॥ ४०.२३॥
दक्षिणे नर्मदाकूले कपिलाख्या महानदी ।
सरलार्जुनसञ्च्छन्ना नातिदूरे व्यवस्थिता ॥ ४०.२४॥
सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता ।
तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ ४०.२५॥
तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् ।
नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ ४०.२६॥
द्वितीया तु महाभागा विशल्यकरणी शुभा ।
तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ ४०.२७॥
कपिला च विशल्या च श्रूयते राजसत्तम ।
ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ ४०.२८॥
अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४०.२९॥
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ।
ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ ४०.३०॥
सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर ।
समं स्नानं च दानं च यथा मे शङ्करोऽब्रवीत् ॥ ४०.३१॥
परित्यजति यः प्रणान् पर्वतेऽमरकण्टके ।
वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ ४०.३२॥
नर्मदायां जलं पुण्यं फेनोर्मिसमलङ्कृतम् ।
पवित्रं शिरसा धृत्वा सर्वपापैः प्रमुच्यते ॥ ४०.३३॥
नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी ।
अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ ४०.३४॥
जालेश्वरं तीर्थवरं सर्वपापविनाशनम् ।
तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ ४०.३५॥
चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् ।
अश्वमेधाद्दशगुणं पुण्यमाप्नोति मानवः ॥ ४०.३६॥
एष पुण्यो गिरिवरो देवगन्धर्वसेवितः ।
नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ ४०.३७॥
तत्र सन्निहितो राजन् देव्या सह महेश्वरः ।
ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ ४०.३८॥
प्रदक्षिणं तु यः कुर्यात् पर्वतं ह्यमरकण्टकम् ।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ४०.३९॥
कावेरी नाम विपुला नदी कल्मषनाशिनी ।
तत्र स्नात्वा महादेवमर्चयेद्वृषभध्वजम् ।
सङ्गमे नर्मदायास्तु रुद्रलोके महीयते ॥ ४०.४०॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
चत्वारिंशोऽध्यायः ॥ ४०॥
४१
कूर्मपुराणे उत्तरभागे एकचत्वारिंशत्तमोऽध्यायः ।
मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।
मुनिभिः कथिता पूर्वमीश्वरेण स्वयम्भुवा ॥ ४१.१॥
मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।
रुद्रगात्राद्विनिष्क्रान्ता लोकानां हितकाम्यया ॥ ४१.२॥
सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।
संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ ४१.३॥
उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते ।
नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ॥ ४१.४॥
तत्र स्नात्वा नरो राजन् दैवतैः सह मोदते ।
ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ॥ ४१.५॥
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ।
ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ॥ ४१.६॥
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ॥ ४१.७॥
तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ।
निष्फलेशं ततो गच्छेत् सर्वपापविनाशनम् ॥ ४१.८॥
तत्र स्नात्वा महाराज रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ॥ ४१.९॥
तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ।
ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.१०॥
तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत् ।
शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे ॥ ४१.११॥
स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् ।
ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ॥ ४१.१२॥
तत्र स्नात्वार्चयेद्देवं गोसहस्रफलं लभेत् ।
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ ४१.१३॥
आराधयेन्महायोगं देवं नारायणं हरिम् ।
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ ४१.१४॥
ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ ४१.१५॥
नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.१६॥
यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ ४१.१७॥
ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४१.१८॥
ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।
वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ ४१.१९॥
भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ ४१.२०॥
ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ ४१.२१॥
तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ ४१.२२॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥
यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ॥ ४१.२३॥
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।
नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ॥ ४१.२४॥
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।
ततो दीप्तेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ॥ ४१.२५॥
निवर्त्तिता पुरा तत्र व्यासभीता महानदी ।
हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ ४१.२६॥
प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।
प्रीतस्तस्य भवेद्व्यासो वाञ्छितं लभते फलम् ॥ ४१.२७॥
ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु सङ्गमम् ।
त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ॥ ४१.२८॥
तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् ।
स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.२९॥
आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।
तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ॥ ४१.३०॥
उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ।
ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ॥ ४१.३१॥
गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ।
अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ॥ ४१.३२॥
तपसाऽऽराध्य विश्वेशं लब्धवान् योगमुत्तमम् ।
कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.३३॥
स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् ।
कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ ४१.३४॥
आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।
चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.३५॥
स्नातमात्रो नरस्तत्र सोमलोके महीयते ।
नर्मदादक्षिणे कूले सङ्गमेश्वरमुत्तमम् ॥ ४१.३६॥
तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ।
नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ॥ ४१.३७॥
आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ।
तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ॥ ४१.३८॥
तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ।
दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ॥ ४१.३९॥
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ।
मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४१.४०॥
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ।
ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ॥ ४१.४१॥
तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः ।
काञ्चनं तु द्विजो दद्याद्यथाविभवविस्तरम् ॥ ४१.४२॥
पुष्पकेण विमानेन वायुलोकं स गच्छति ।
ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।
स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ ४१.४३॥
चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ।
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ ४१.४४॥
यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् ।
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ ४१.४५॥
अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.४६॥
सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ ४१.४७॥
सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।
त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ ४१.४८॥
यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ ४१.४९॥
अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।
जले चानशनं वापि नासौ मर्त्योऽभिजायते ॥ ४१.५०॥
स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ४१.५१॥
ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।
योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ ४१.५२॥
असुरा योधितास्तत्र वासुदेवेन कोटिशः ।
तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ॥ ४१.५३॥
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ।
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ॥ ४१.५४॥
कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद्धरिम् ।
तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ॥ ४१.५५॥
कुसुमायुधरूपेण रुद्रोलोके महीयते ।
ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ॥ ४१.५६॥
उमाहकमिति ख्यातं तत्र सन्तर्पयेत् पितॄन् ।
पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि ॥ ४१.५७॥
गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ।
तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यान्तु विशेषतः ॥ ४१.५८॥
स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ ४१.५९॥
विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ ४१.६०॥
ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ ४१.६१॥
यत्र नारायणो देवो मुनीनां भावितात्मनाम् ।
स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ ४१.६२॥
अकोल्लन्तु ततो गच्छेत् सर्वपापविनाशनम् ।
स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ॥ ४१.६३॥
पिण्डप्रदानं च कृतं प्रेत्यानन्तफलप्रदम् ।
त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ॥ ४१.६४॥
अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि ।
तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ ४१.६५॥
ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ ४१.६६॥
शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।
नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ॥ ४१.६७॥
दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ॥ ४१.६८॥
योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।
शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ ४१.६९॥
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः ॥ ४१.७०॥
कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।
कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ ४१.७१॥
देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुङ्गवाः ॥ ४१.७२॥
रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा ।
आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ॥ ४१.७३॥
स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥
शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ॥ ४१.७४॥
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ ४१.७५॥
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।
घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् ॥ ४१.७६॥
एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् ।
तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ॥ ४१.७७॥
न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ।
शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ॥ ४१.७८॥
तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ।
अयने वा चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा ॥ ४१.७९॥
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ।
दानं दद्याद्यथाशक्ति प्रीयेतां हरिशङ्करौ ॥ ४१.८०॥
एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।
अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ॥ ४१.८१॥
उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु ।
यावत् तद्रोमसङ्ख्या तु तत्प्रसूतिकुलेषु च ॥ ४१.८२॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र यमतीर्थमनुत्तमम् ॥ ४१.८३॥
कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।
स्नानं कृत्वा नक्तभोजी न पश्येद्योनिसङ्कटम् ॥ ४१.८४॥
ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् ।
सङ्गमे तु नरः स्नायादुपवासपरायणः ॥ ४१.८५॥
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ।
एरण्डीसङ्गमे स्नात्वा भक्तिभावात्तु रञ्जितः ॥ ४१.८६॥
मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।
नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः ॥ ४१.८७॥
ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम् ।
गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ ४१.८८॥
तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४१.८९॥
नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ ४१.९०॥
ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।
तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ ४१.९१॥
तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।
रूपवान् जायते लोके धनभोगसमन्वितः ॥ ४१.९२॥
ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ४१.९३॥
ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या दद्याद्दीपं घृतेन तु ॥ ४१.९४॥
घृतेन स्नापयेद्रुद्रं सघृतं श्रीफलं दहेत् ।
घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ ४१.९५॥
सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।
शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ ४१.९६॥
अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं दद्याद्ब्राह्मणेभ्यस्तु भोजनम् ॥ ४१.९७॥
सर्वभोगसमायुक्तो विमाने सर्वकामिके ।
गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ ४१.९८॥
ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् ।
अङ्गारकनवम्यां तु अमावास्यां तथैव च ॥ ४१.९९॥
स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ।
ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥ ४१.१००॥
श्रावणे मासी सम्प्राप्ते कृष्णपक्षे चतुर्दशी ।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ ४१.१०१॥
पितॄणां तर्पणं कृत्वा मुच्यते स ऋणत्रयात् ।
गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥ ४१.१०२॥
अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ ४१.१०३॥
तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।
दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ४१.१०४॥
उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।
अमावस्यां नरः स्नात्वा पूजयेद्वृषभध्वजम् ॥ ४१.१०५॥
काञ्चनेन विमानेन किङ्किणीजालमालिना ।
गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ ४१.१०६॥
सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ ४१.१०७॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
एकचत्वारिशोऽध्यायः ॥ ४१॥
४२
कूर्मपुराणे उत्तरभागे द्विचत्वारिंशत्तमोऽध्यायः ।
मार्कण्डेय उवाच
ततो गच्छेत राजेन्द्र भृगुतीर्थमनुत्तमम् ।
तत्र देवो भृगुः पुर्वं रुद्रमाराधयत् पुरा ॥ ४२.१॥
दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते ।
एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ ४२.२॥
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।
उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् ॥ ४२.३॥
भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ।
क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ॥ ४२.४॥
अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर ।
तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ॥ ४२.५॥
सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ।
ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् ॥ ४२.६॥
यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्तवान् ।
तत्र स्नात्वा नरो राजन् उपवासपरायणः ॥ ४२.७॥
काञ्चनेन विमानेन ब्रह्मलोके महीयते ।
वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् ॥ ४२.८॥
न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः ।
धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु ॥ ४२.९॥
नर्मदायां स्थितं राजन् सर्वपातकनाशनम् ।
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ४२.१०॥
तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।
चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ॥ ४२.११॥
वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ।
कालेन महता जातः पृथिव्यामेकराड् भवेत् ॥ ४२.१२॥
ततो गच्छेत राजेन्द्र हंसतीर्थमनुत्तमम् ।
तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४२.१३॥
ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः ।
वराहतीर्थमाख्यातं विष्णुलोकगतिप्रदम् ॥ ४२.१४॥
ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् ।
पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ॥ ४२.१५॥
स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् ।
देवतीर्थ ततो गच्छेत् सर्वदेवनमस्कृतम् ॥ ४२.१६॥
तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ।
ततो गच्छेत राजेन्द्र शङ्कितीर्थमनुत्तमम् ॥ ४२.१७॥
यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ।
ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् ॥ ४२.१८॥
यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् ।
सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् ॥ ४२.१९॥
विधूय सर्वपापानि ब्रह्मलोके महीयते ।
मनोहरं तु तत्रैव तीर्थं परमशोभनम् ॥ ४२.२०॥
स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते ।
ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् ॥ ४२.२१॥
स्नात्वा तत्र नरो राजन्सर्वपापैः प्रमुच्यते ।
शुक्लपक्षे तृतीयायां स्नानमात्रं समाचरेत् ॥ ४२.२२॥
स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् ।
स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् ॥ ४२.२३॥
तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति ।
अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ ४२.२४॥
क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते ।
ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् ॥ ४२.२५॥
उपोषितोऽर्चयेदीशं रुद्रलोके महीयते ।
अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ॥ ४२.२६॥
कार्त्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् ।
अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ ४२.२७॥
वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् ।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ ४२.२८॥
एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४२.२९॥
जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥ ४२.३०॥
एरण्ड्या नर्मदायास्तु सङ्गमं लोकविश्रुतम् ।
तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ ४२.३१॥
उपवासकृतो भूत्वा नित्यं व्रतपरायणः ।
तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ ४२.३२॥
ततो गच्छेत राजेन्द्र नर्मदोदधिसङ्गमम् ।
जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥ ४२.३३॥
तत्र स्नात्वा नरो राजन् नर्मदोदधिसङ्गमे ।
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ ४२.३४॥
ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ॥ ४२.३५॥
तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।
सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ॥ ४२.३६॥
ततो गच्छेत राजेन्द्र अलिकातीर्थमुत्तमम् ।
उपोष्य रजनीमेकां नियतो नियताशनः ॥ ४२.३७॥
अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया ।
एतानि तव सङ्क्षेपात् प्राधान्यात् कथितानि तु ॥ ४२.३८॥
न शक्या विस्तराद्वक्तुं सङ्ख्या तीर्थेषु पाण्डव ।
एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ॥ ४२.३९॥
नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ।
मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ॥ ४२.४०॥
चान्द्रायणशतं साग्रं लभते नात्र संशयः ।
अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ॥ ४२.४१॥
पतन्ति नरके घोरे इत्याह परमेश्वरः ।
नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ ४२.४२॥
इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे
द्विचत्वारिंशोऽध्यायः ॥ ४२॥
इति तीर्थमाहात्म्यं समाप्तम् ।
Proofread by PSA Easwaran