ऋषिगौतमप्रोक्ता तीर्थेश्वरमहिमा
साधु पृष्टमिदं क्षेत्र तीर्थोत्तममिति स्मृतम् ।
अयं तीर्थेश्वरो देवो लिङ्गं तीर्थेश्वराभिधम् ॥ १॥
अस्य तीर्थस्य महिमा वेदैर्विज्ञायते परम् ।
मयाऽपि तत्प्रसादेन कथञ्चित् ज्ञायते खलु ॥ २॥
अत्र पूर्वं मुनिवराः शङ्कराराधनोत्सुकाः ।
बहवस्तीर्थनाथस्य पूजाध्यानरताः सदा ॥ ३॥
ते लब्ध्वा कामनिचयं भुक्त्वा भोगान् यथेच्छया ।
अन्तर्हिताः प्रयतेन लिङ्गे तीर्थेश्वराभिधे ॥ ४॥
इदं तु कामदं लिङ्गं भुक्तिदं च मुनीश्वराः ।
एतन्निर्माल्यपूजापि मुक्तिसाधनमुच्यते ॥ ५॥
पुरा विजयया सृष्टं जययापि पुरं परम् ।
धीरे क्षीरनदीतीरे गौरीतीर्थेश्वराज्ञया ॥ ६॥
रत्नप्राकारसङ्कीर्णं रत्नगोपुरसङ्कुलम् ।
ततस्ताभ्यां महादेवस्तीर्थेशः प्रार्थितः स्तवैः ॥ ७॥
त्वया त्वदाज्ञया सृष्टे नगरे रत्नमन्दिरे ।
वसतिः सततं कार्या दयया परयेत्यपि ॥ ८॥
तयोस्तद्वचनं श्रुत्वा तथास्त्वित्याह शङ्करः ।
ततः परं गतं ताभ्यां सन्तोषेण शिवाज्ञया ॥ ९॥
स्वभक्तानुग्रहं कर्तुं स्वनिर्माल्येऽपि शङ्करः ।
स्थितः समर्चितो भक्त्या सर्वाभीष्टप्रदो भवेत् ॥ १०॥
ततः स्वभक्तमीतेऽपि स्थितो निर्माल्यचन्दने ।
शिवस्तन्नगरं प्राप तदभीष्टप्रदो बुधाः ॥ ११॥
तत्राभीष्टप्रदो जातः स्वभक्तेभ्यः सदाशिवः ।
करिष्यन्त्यत्र बहवः तत्पूजां भाग्यलिप्सवः ॥ १२॥
ये नित्यं तीर्थनाथस्य निर्माल्यस्यापि पूजनम् ।
करिष्यन्ति प्रयत्नेन ते पूज्याः स्युः सुरैरपि ॥ १३॥
यदा यदा यत्र स तीर्थनाथो ध्यातः स्वभक्तैरपि पूजितः स्यात् ।
तत्र स्थितस्तत्कृतपूजयैव दास्यत्यवश्यं तदभीप्सितानि ॥ १४॥
एतन्निर्माल्यमादाय दिव्यचन्दनलक्षणम् ।
विजया पट्टणं प्राप्य कञ्चिल्लिङ्गं करिष्यति ॥ १५॥
तल्लिङ्गपूजया तावत् ज्ञानं भाग्यं च भासुरम् ।
प्राप्तव्यमस्य यत्नेन शिवभक्तेन तेन हि ॥ १६॥
तत्सन्ततिप्रवृद्धिश्च भविष्यति दिने दिने ।
तल्लिङ्गचन्दनेनैव प्रवृत्तिं स करिष्यति ॥ १७॥
तस्य पुत्राश्च पौत्राश्च तल्लिङ्गार्चनतत्पराः ।
सर्वे सौभाग्यसम्पन्नाः वृद्धिं यास्यन्ति सर्वथा ॥ १८॥
तल्लिङ्गदर्शनं कर्तुं शाङ्करः कश्चिदुत्तमः ।
आगत्य तस्य लिङ्गस्य पूजनं स करिष्यति ॥ १९॥
तद्भावलिङ्गमालोक्य प्रत्यहं तस्य पूजनम् ।
कृत्वा स्थास्यति तद्गेहे तदन्नैरेव पोषितः ॥ २०॥
सोऽपि शाम्भवमालोक्य तेन स्नेहं करिष्यति ।
शृण्वन् शिवकथास्तस्मात् तुष्टः स्थास्यति सर्वथा ॥ २१॥
काले काले प्रयत्नेन तस्य लिङ्गस्य सेवया ।
तच्चित्तं निर्मलं तेन स तत्सेवां करिष्यति ॥ २२॥
सन्निधानं महेशस्य तीर्थेशस्यास्य सर्वदा ।
सिद्धिप्रदायकस्यास्य भावलिङ्गे भविष्यति ॥ २३॥
भावलिङ्गालयस्यास्य बहुभाग्यप्रदस्य च ।
स्मरणादेव सिद्धयन्ति फलानि विविधान्यपि ॥ २४॥
सिद्धलिङ्गेष्विदं लिङ्गं प्रसिद्धं सर्वकामदम् ।
एतदभ्यर्चनेनैव मुक्तिः करतलाश्रया ॥ २५॥
॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्ता तीर्थेश्वरमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। ५३-७७ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 53-77 ..
Proofread by Ruma Dewan