सदाशिवप्रोक्ता तीर्थेश्वरमहिमा

सदाशिवप्रोक्ता तीर्थेश्वरमहिमा

तीर्थेश्वराभिधं लिङ्गं मङ्गलाकारमव्ययम् । तत् सर्वे मङ्गलं दिव्यं सर्वमङ्गलदायकम् ॥ १॥ तस्य लिङ्गस्य महिमा मया विज्ञायतेऽम्बिके । तस्य स्मरणमात्रेण सम्पदायाति सादरम् ॥ २॥ स्मरणं तस्य लिङ्गस्य कोटिजन्मार्जितैः परम् । पुण्यैः प्रजायते गौरि तल्लिङ्गं गौरवप्रदम् ॥ ३॥ तलिङ्गस्मरणादेव मुक्तिकान्ता कराश्रिता । सम्पद्भिः सह सम्पन्ना विपन्नैवोपजायते ॥ ४॥ न तस्य विपदार्तिः स्यात् दौर्मनस्यं भयानि च । यस्य तीर्थेशलिङ्गस्य स्मरणं हृदि वर्तते ॥ ५॥ एतदाराधनं पूर्वं कृत्वा बिल्वदलादिभिः । प्राप्तमैश्वर्यमतुलं स्वर्गप्राप्तिः ततः परम् ॥ ६॥ पुरा मुनीश्वराः सर्वे कोटिशङ्करपूजकाः । भस्मोद्धूलितसर्वाङ्गाः त्रिपुण्ड्राङ्कितमस्तकाः ॥ ७॥ रुद्राक्षमालाभरणाः शिवध्यानपरायणाः । जटामण्डलवीताङ्गाः सर्वे लिङ्गार्चनप्रियाः ॥ ८॥ ते सर्वे गौतम दृष्ट्वा शिवयात्रापरायणाः । शिष्यकोटिसमाकीर्ण शिवभक्तवरं परम् ॥ ९॥ ॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्ता तीर्थेश्वरमहिमा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। १-९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 1-9 .. Proofread by Ruma Dewan
% Text title            : Sadashivaprokta Tirtheshvara Mahima
% File name             : tIrtheshvaramahimAsadAshivaproktA.itx
% itxtitle              : tIrtheshvaramahimA sadAshivaproktA (shivarahasyAntargatA)
% engtitle              : tIrtheshvaramahimA sadAshivaproktA
% Category              : misc, shivarahasya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 36| 1-9 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org