सदाशिवप्रोक्ता तीर्थेश्वरमहिमा
तीर्थेश्वराभिधं लिङ्गं मङ्गलाकारमव्ययम् ।
तत् सर्वे मङ्गलं दिव्यं सर्वमङ्गलदायकम् ॥ १॥
तस्य लिङ्गस्य महिमा मया विज्ञायतेऽम्बिके ।
तस्य स्मरणमात्रेण सम्पदायाति सादरम् ॥ २॥
स्मरणं तस्य लिङ्गस्य कोटिजन्मार्जितैः परम् ।
पुण्यैः प्रजायते गौरि तल्लिङ्गं गौरवप्रदम् ॥ ३॥
तलिङ्गस्मरणादेव मुक्तिकान्ता कराश्रिता ।
सम्पद्भिः सह सम्पन्ना विपन्नैवोपजायते ॥ ४॥
न तस्य विपदार्तिः स्यात् दौर्मनस्यं भयानि च ।
यस्य तीर्थेशलिङ्गस्य स्मरणं हृदि वर्तते ॥ ५॥
एतदाराधनं पूर्वं कृत्वा बिल्वदलादिभिः ।
प्राप्तमैश्वर्यमतुलं स्वर्गप्राप्तिः ततः परम् ॥ ६॥
पुरा मुनीश्वराः सर्वे कोटिशङ्करपूजकाः ।
भस्मोद्धूलितसर्वाङ्गाः त्रिपुण्ड्राङ्कितमस्तकाः ॥ ७॥
रुद्राक्षमालाभरणाः शिवध्यानपरायणाः ।
जटामण्डलवीताङ्गाः सर्वे लिङ्गार्चनप्रियाः ॥ ८॥
ते सर्वे गौतम दृष्ट्वा शिवयात्रापरायणाः ।
शिष्यकोटिसमाकीर्ण शिवभक्तवरं परम् ॥ ९॥
॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्ता तीर्थेश्वरमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३६। १-९ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 36. 1-9 ..
Proofread by Ruma Dewan