तस्मै श्री गुरवे नमः
गुरुः ब्रह्मेति सङ्कल्पो भारतेषु प्रवर्धते ।
पुरुषस्यास्य संसृष्टौ गुरुरेव हि शक्तिमान् ॥
अध्येता ध्यानशीलश्च परिष्कर्ता तथा पुनः ।
कथाप्राणसमत्वाच्च सो.अध्यापक इहोच्यते ॥
हितानुभवदाता स छात्रेभ्यो मार्गदर्शकः ।
दोषाणां परिहर्ता च समदर्शी सत्यवागपि ॥
मनसा कर्मणा वाचा छात्राणामुन्नतिं बहु ।
सततं काङ्क्षते योगी निस्पृहः सत्यपालकः ॥
आचार्यो भावनायुक्तः कलाकारश्च सात्विकः ।
आशयग्रहणे दक्षो वाग्मी च क्षमायुतः ॥
हारकः छात्रचित्तानां वर्धको मूल्यसंस्कृतेः ।
चोदकः साधुवृत्तीनां नाशको दुष्टकर्मणः ॥
पाठ्यांशान् सम्यगासूत्र्य यथाकालं सविस्तरं ।
छात्रस्तरानुसारञ्च पाठ्यते तेन धीमता ॥
पठनानुभवांस्तूर्णं मधुरैरनुभवैः समं ।
समायोज्य यथाकालं सन्ददाति स पण्डितः ॥
कालिकासु च वृत्तिषु यथाशक्ति यथोचितं ।
छात्रशक्तिं समायोज्य लोकानुद्धरते गुरुः ॥
छात्राणां प्रियमित्राणां चित्तपद्मेषु संश्रयन् ।
कल्पान्तं जीवति प्राज्ञः पितृकल्पो नराग्रणीः ॥
किं कर्म किमकर्मेति साधुबोधप्रदायिने ।
उपदेशकवर्याय तस्मै श्री गुरवे नमः ॥
--- विजयन् वि. पट्टाम्बि