महामहनीय मेधाविन् त्वदीयं स्वागतं कुर्मः
महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः ।
गुरो गीर्वाणभाषायाः, त्वदीयं स्वागत कुर्मः ॥ १॥
दिनं नो धन्यतममेतत्, इयं मङ्गलमयी वेला ।
वयं यद् बालका एते, त्वदीयं स्वागत कुर्मः ॥ २॥
न काचिद् भावना भक्तिः, न काचित् साधना शक्तिः ।
परं श्रद्धा-कुसुमाञ्जलिभिः, त्वदीयं स्वागतं कुर्मः ॥ ३॥
किमधिकं ब्रूमहे श्रीमन्, निवेदनमेतदेवैकम् ।
न बाला विस्मृतिं नेयाः, त्वदीयं स्वागतं कुर्मः ॥ ४॥