त्यागिवर्यः
(गान्धीमहाभागः)
जीवन्नस्ति सदा चित्ते महात्मा जननायकः ।
अहिंसावादिने तस्मै त्यागिवर्याय मे नमः ॥ १॥
अहिंसा परमो धर्म इत्येवं येन दर्शितम् ।
महात्ममे नृवर्याय गान्धिने मे नुतिस्सदा ॥ २॥
आदरं काङ्क्षते नैव स्थानमानादिकं पुनः ।
सत्यं दानं तथा त्यागः सर्वं तेन सुकाङ्क्षितम् ॥ ३॥
एकं वस्त्रं शरीरे तु मुखे तदुपलोचनम् ।
ललितं जीवनं तस्य कोफ़्स्ति लोकेषु तत्समः ॥ ४॥
मनसा वचसा चापि कर्मणा विपुलेन च ।
जीवनं नीतवान् लोके सर्वेभ्यो हितमाचरन् ॥ ५॥
जपन्तं राम रामेति सर्वलोकहिताय तम् ।
गुरुश्रेष्ठं सदा वन्दे देवतासमयोगिनम् ॥ ६॥
जीजीवेत्स महात्यागी जनानां चित्तसद्मनि ।
वासं क्वान्यत्र सः कुर्यादासूर्यचन्द्रतारकम् ॥ ७॥
-- विजयन् वि. पट्टाम्बि