उद्धव! स्मारय प्रेमविधानम्
उद्धव! स्मारय प्रेमविधानम् ॥
प्रेमपथिक इह प्रियसुखजनकं तनुते प्रीतिवितानम् ।
उद्धव! स्मारय प्रेमविधानम् ॥
असिधारासंचलनं कठिनं तस्मात् कठिनतरम् ।
प्रेममार्गमनुसरन् तपस्वी तपति तपः प्रखरम् ।
उद्धव! स्मारय प्रेमविधानम् ॥
विहसति शिशौ यथा तज्जननी विहसति क्रन्दति क्रन्दति ।
स्वपिति शयाने क्रीडति गायति पिबति पयः संजीवति ।
खादति खदति चलति संचरते तेन यथा संप्रवदति ।
प्रेमपथिकहृदयं तथैव सन्ततमनुभवति च कलयति ।
उद्धव! स्मारय प्रेमविधानम् ॥
प्रेमास्पदसुखतः सुखित्वमिति प्रेमलक्षणं कुरुते ।
विस्मारं विस्मारं स्वसुखं स्वयं च सुसुखं लभते ।
उद्धव! स्मारय प्रेमविधानम् ॥
अणिममहिमलघिमादिकसिद्धिं भक्तिमुक्तिसमवेताम् ।
तिरस्कृत्य मनुते प्रियसेवानीतिं लक्ष्यविशुद्धाम् ।
उद्धव! स्मारय प्रेमविधानम् ॥
व्रजवल्लभ एवं जानीते कुरुते ललति च लीलाम् ।
स्मरति तथापि स्मारयन् श्रावय लीलापुरुषं लीलाम् ।
उद्धव! स्मारय प्रेमविधानम् ।
उद्धव! स्मारय प्रेमविधानम् ॥
-- आचार्य डाॅ जयमन्त मिश्र
Encoded and proofread by samskrit.samvadah at gmail.com