उद्धव! याहि कथय व्रजबालाम्
उद्धव! याहि कथय व्रजबालाम् ॥
परित्यज्य सांसारिकरागं श्रयतु यमादिकमालाम् ।
उद्धव! याहि कथय व्रजबालाम् ॥
फलति विषं खलु रागलतायां कुरुतां योगविधानम् ।
प्रेम रागमतिहाय सन्ततं तनुतां मुक्तिवितानम् ।
उद्धव! याहि कथय व्रजबालाम् ॥
योगपथे चिरशान्तिं लभते लभते तं परमेशम् ।
शमदमादिसम्पत्तिं तनुते सम्बोधय सन्देशम् ।
उद्धव! याहि कथय व्रजबालाम् ॥
प्रीतिर्भवति वासना भरिता वासनया संसारः ।
दुःखालयसंसारमोचनं मनुजजीवनासारः ।
उद्धव! याहि कथय व्रजबालाम् ॥
उद्धव सम्बोधय व्रजबालाम् ।
परित्यज्य सांसारिकरागं श्रयतु यमादिकमालाम् ।
उद्धव! याहि कथय व्रजबालाम् ॥
-- आचार्य डाॅ जयमन्त मिश्र
Encoded and proofread by samskrit.samvadah at gmail.com