उद्धव! याहि कथय यदुनाथम्
उद्धव! याहि कथय यदुनाथम् ॥
सम्प्रदर्श्य विहसितविधुवदनं कुरुताद् व्रजं सनाथम् ।
उद्धव! याहि कथय यदुनाथम् ॥
त्रुटिरपि युगमानाय कल्पते तद्विरहेऽति विशेषम् ।
मधुरनगरविहरणवशतो नहि जानीते परिवेशम् ।
उद्धव! याहि कथय यदुनाथम् ॥
व्रजवल्लभविरहानलतापेनोत्तपते मृदुहृदयम् ।
अविरलराधानयननीरधारापि तापयति निरतम् ।
उद्धव! याहि कथय यदुनाथम् ॥
कृतसमयं विस्मृत्य निष्ठुरः कुरुते यत् परिहासम् ।
स्नेहहार्दसद्भावरागमतिजहद् याति उपहासम् ।
उद्धव! याहि कथय यदुनाथम् ॥
-- आचार्य डाॅ जयमन्त मिश्र
Encoded and proofread by samskrit.samvadah at gmail.com