उदिते सूर्ये धरणी विहसति
(लालनगीतम्)
उदिते सूर्ये धरणी विहसति ।
पक्षी कूजति कमलं विकसति ॥ १॥
नदति मन्दिरे उच्चैर्ढक्का ।
सरितः सलिले सेलति नौका ॥ २॥
पुष्पे पुष्पे नानारङ्गाः ।
तेषु डयन्ते चित्रपतङ्गाः ॥ ३॥
वृक्षे वृक्षे नूतनपत्रम् ।
विविधैर्वर्णैविभाति चित्रम् ॥ ४॥
धेनुः प्रतार्यच्छति दुग्धम् ।
शुद्धं स्वच्छं मधुरं स्निग्धम् ॥ ५॥
गहने विपिने व्याघ्रो गर्जति ।
उच्चैस्तत्र च सिंहः नर्दति ॥ ६॥
हरिणोऽयं खादति नवघासम् ।
सर्वत्र च पश्यति सविलासम् ॥ ७॥
उष्ट्रः तुङ्गः मन्दं गच्छति ।
पृष्ठे प्रचुरं भारं निवहति ॥ ८॥
घोटकराजः क्षिप्रं धावति ।
धावनसमये किमपि न खादति ॥ ९॥
पश्यत भल्लूकमिमं करालम् ।
नृत्यति थथथै कुरु करतालम् ॥ १०॥
-- सम्पदानन्दमिश्रः ।