वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम् २

वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम् २

लेखकः - नन्दप्रदीप्तकुमारः विभागमुख्य उपाचार्यः सर्वदर्शनविभागः श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, श्रीविहारः, पुरी शोधसारः- अस्माकं सुरभारती संस्कृतभाषा अतीव मधुरा, भावगम्भीरा, सरला, सर्वांगपूर्णा सर्वासां भाषाणां जननीति निर्विवादमेव । अस्यां भाषायामुपनिवद्धाः सर्वा आर्यसंस्कृतयः सर्वज्ञानपरंपरा इति सर्वे विद्वत्तल्लजा स्वीकुर्वन्ति । संस्कृतभाषायां वैदिकज्ञानपरंपरा, वेदांगज्ञानपरंपरा, श्रौतज्ञानपरंपरा, स्मार्तज्ञानपरंपरा, धर्मशास्त्रज्ञानपरंपरा, पौराणिकज्ञानपरंपरा, दार्शनिकज्ञानपरंपरा, साहित्यज्ञानपरंपरा, सामाजिकज्ञानपरंपरा, भौतिकज्ञानपरंपरा, वैज्ञानिकज्ञानपरंपरा, ऐतिहासिकज्ञानपरंपरा, नैतिकज्ञानपरंपरा, मनोवैज्ञानिकज्ञानपरंपरादयः अन्ये बहुपरंपरा दरीदृश्यन्ते । तेषु तेषु परांपरातः सारभूता काचिद्दार्शनिकपरंपरा वरीवर्ति । तासु दार्शनिकपरंपरासु भक्तिवादीया-वैष्णवीय-धाराविषये किमपि संक्षिप्ततथ्यं प्रकाशयामीति मे मतिः । सर्वादौ दर्शनशब्दार्थो विवक्ष्यते । दर्शनम् ``दृशिर् प्रेक्षणे'' इत्यस्माद्धातोरनुबन्धलोपे ``ल्युट् च'' (१) ``करणाधिकरणयोश्च'' (२) इत्याभ्यां सूत्राभ्यां करणे भावे च ल्युटि ``युवोरनाकौ'' (३) इत्यनादेशे ``कृत्तद्धितसमासाश्च'' (४) इति प्रातिपादिकत्वात् सु प्रत्यये ``अतोऽम्'' (५) इत्यनेन सोरमि ``दर्शनम्'' इति पदं निष्पद्यते । तत्र दर्शनीयं वस्तु संसारः आत्मतत्त्वञ्च । अपरपक्षे दृश्यमानस्य संसारस्य किं तावत्तात्त्विकस्वरूपमिति दर्शनशब्दार्थो बोध्यः । यद्वा संसारे कोऽहं कुतः आयातः देहपाते कुत्र गच्छामि किमधुना मम कार्य्यमित्यादीनि सर्वाणि आत्मसाक्षात्काररूपं दर्शनमिति विवक्ष्यन्ते मनिषिणः । ``आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्योनिदिध्यासितव्यः'' (६) इत्यत्र दृश्यते ज्ञायते परमतत्त्वमत्र मुख्यतयाऽभिप्रेयते दर्शनशब्देन । तद्दर्शनं द्विविधम् । आस्तिकनास्तिकभेदेन । अस्ति परलोके ईश्वरे वेदे च मतिर्यस्य स आस्तिकः । तद्विपरितो नास्तिकः । न्याय-वैशेषिक-सांख्य-योग-वेदान्त-मीमांसाः षडास्तिकाः स्वीकृताः । बौद्ध-जैन-चार्वाकाः षड् नास्तिकाश्च विख्याताः । विषयोपक्रमः सर्वान्तर्यामिनोऽखिललोकाधिष्ठातुरानन्दकन्दस्य सच्चिदानन्दस्य सर्वेश्वरस्य श्रीजगन्नाथस्य श्रीहरेः सत्तामधिगन्तुं यद्यपि अजस्रपन्था स्थिरीक्रियते विद्वद्भिस्तथापि अनपायिन्या भक्त्या भक्तः अचिरमेवानन्दघनं भगवन्तमुपलभ्य कृतकृत्यो जायते । तथाह श्रुतिः- ``विज्ञानघनानन्दघनासच्चिदानन्दैकरसे भक्तियोगे स तिष्ठति'' इति । मोक्षसाधनोपायेषु प्रसिद्धेषु योगज्ञानकर्मभक्तिषु भक्तिरेव सर्वश्रेष्ठा प्रतिपादिता । स्मृतिरपि- सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच ॥ (भगवद्गीता-१८/६६) इत्यत्र त्वां निश्चितबुद्धिमन्तं सर्वपापेभ्यः सर्वधर्माधर्मरूपबन्धनेभ्योऽहं नूनं मोक्षयिष्यामीति अर्जुनं प्रति भगवतः समुपदेशः स्पष्टः । ईश्वरदर्शनहेतोः भक्तिरत्यावश्यकी । मन्दमतीनामत्यल्पशक्तीनामल्पायुषां च मनुष्याणां मनसः प्रसादाय चित्तप्रशान्तये परमानन्दप्राप्तये भक्तिरहितः कश्चन सुगमो मार्गो नास्ति । सुतरां सर्वसाधनसहजा समर्पणात्मिका भक्तिर्गरीयसी वरीयसी च । तथा हि भगवता वासुदेवेन- मां च यो व्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ अपि च तत्र- भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ (भगवद्गीता १४/२६,१८/५५) इति भगवदनुग्रहद्वारा एव सकलपुरुषार्थसिद्धिर्यस्मात् तस्मात् कर्मयोगो ध्यानयोगो ज्ञानयोगो वा अन्यो वा यः कश्चित् स सर्वोऽपि भक्तिद्वारेणैवार्थकरो भवेन्नान्यथा । इत्यत्र कर्मयोग-ध्यानयोगयोः रहस्यं भक्तियोगोक्तः । श्रीमद्भागवतं तु श्रीकृष्ण-परब्रह्मणोरभेदो मनुते । ब्रह्मसूत्रेषु प्रतिपादितं ब्रह्म, श्रीमद्भगवद्गीतायां वर्णितः पुरुषोत्तमः, श्रीमद्भागवते चित्रितः श्रीकृष्णश्चेति भिन्नाः प्रतीयमाना सन्तोऽपि त्रयो वस्तुतः एकमेव तत्त्वमास्ते । यच्चोक्तं भागवते- वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति कथ्यते ॥ (१/२/११) औपनिषदा अद्वैतवादिनो मुख्यतत्त्वं बह्मरूपेण कथयन्ति । योगविशारदास्तु परमात्मशब्देन परिचिन्वन्ति । भक्तास्तु सच्चिदानन्दस्वरूपं तत्त्वं भगवानिति गायन्ति । भक्तानां मतानुसारं वासुदेव-जगन्नाथ-नायायण-श्रीकृष्ण-गोविन्दप्रभृतीनि नामानि पर्यायवाचकानि भवन्ति, नान्यथा । यद्यपि परमार्थज्ञानेन जीव-भगवतोरभेदस्तथापि व्यवहारदृशा भेद एवेति निश्चप्रचम् । जीवः सेवको मायायुक्तो भगवान् सेव्यो मायामुक्त इत्यनयोः महान् भेदः । भक्तः कदापि मुक्तिर्नेच्छति । भक्तस्य कृते मुक्तेरपेक्षया भक्तेरेव प्राधान्यमिति वैष्णवीयसिद्धान्तः । यच्चोक्तं भागवते- सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युतः । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ ( भा०३/२९/२३ ) भगवत्सेवा व्यतिरिक्तं मुक्तिमपि तुच्छमिति मन्यमानस्य भक्तस्य कृते नूनमेतादृशो भक्तियोगः परमपुरुषार्थो वरीवर्ति । एतस्मात्कारणात् भक्तिमतसमर्थिनानां वैष्णवानां मतानि संप्रति प्रवेदयिष्यामि । वैष्णवलक्षणम्- तत्र नारदपञ्चरात्रादि आगमोक्तविधिना विष्णुमन्त्रग्रहितारो वैष्णवाः । विष्णुपूजनरताः । ते च रामकृष्णनारायणविष्ण्वादिशब्दब्रह्मसमर्च्चयन्तः नामरूपचिन्तनपरायणा भवन्ति । वैष्णवलक्षणं तु - ``परमापदमापन्नो हर्षे वा समुपस्थिते । नैकादशीं त्येजेद्यस्तु यस्य दीक्षास्ति वैष्णवी ॥ विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ॥(७) इति । षड् विधा वैष्णवा विद्यन्ते । तेषु द्वैतवादिमध्वाचार्य्य आद्यः । अनेन पूर्णप्रज्ञ भाष्यं विहितम् । द्वितीयो वेदान्तपारिजातसौरभकर्त्ता निम्बार्काचार्य्यो द्वैताऽद्वैतसमर्थकः । तृतीयो विशिष्टाद्वैतवादी रामानुजाचार्य्यः श्रीभाष्यकर्त्ता । चतुर्थ अणुभाष्यकर्त्ता वल्लभाचार्य्यः शुद्धाद्वैतवादी । पञ्चम औपाधिक भेदाभेदवादी भास्कराचार्य्यः भास्करभाष्यकर्त्ता । षष्ठः श्रीचैतन्यमहाप्रभुः । अचिन्त्यभेदाभेदसमर्थकः । अत्र बलदेवविद्याभूषणस्य गोविन्दभाष्यं प्रसिद्धम् । एतेषां मतानि प्रदर्श्यन्ते क्रमशः । पाञ्चरात्रमतम्- तत्रादौ पाञ्चरात्रे ब्रह्मणो नारायणस्य सगुण-निर्गुणभेदेन रूपद्वयं प्रसिद्धम् । ज्ञान-शक्ति-ऐश्वर्य्य-बल-बीर्य्य-तेजांसि षड्गुणाः । तद्गुणविग्रहवान् वासुदेवः । लक्ष्मीः भगवत आत्मभूता शक्तिः । सृष्ट्यारम्भे क्रियाशक्ति-भूतिशक्तिभेदाभ्यां द्विधा विभक्ता । जगदुत्पादनात्मकः संकल्पः क्रियाशक्तिरिति परिचिता । जगद्रूपेण परिणतिर्हि भूतिशक्तिरित्युच्यते । यच्चोक्तम्- क्रियाख्यो योऽयमुन्मेषः स भूतिपरिवर्तकः । लक्ष्मीमयः प्राणरूपो विष्णोः संकल्प उच्यते ॥(८) इति । लक्ष्म्या अनुग्रहेण विश्वसृष्टिर्जायते । पाञ्चरात्र मतेन व्यूह-विभव-अर्च्चावतार-अन्तर्यामी भेदेन चत्वार अवताराः । वासुदेवात्संकर्षणः । संकर्षणात्प्रद्युम्नः । प्रद्युम्नात् अनिरुद्ध इति चत्वारो व्यूहाः । भागवतेऽपि व्यूहा उक्ताः । यदुक्तम्- नमस्ते वासुदेवाय नमः संकर्षणाय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥(९) इति पाञ्चरात्रपरंपरा धार्मिकविकाशरूपेण प्रस्तुता सति वैष्णवपुराणेषु दरीदृश्यते । निष्कामकर्मणा भगवति भक्तिर्जायते । भक्त्या भगवच्छरणागतिरूपा ब्रह्मभावापत्तिर्मोक्षः । तदर्थं भगवदाराधनं सर्वश्रेष्ठमिति निश्चप्रचम्(१०) । प्रत्यपादि भगवता व्यासेन- समाराध्यैव गोविन्दं गता मुक्तिं महर्षयः । तस्माद्भज हृषीकेशं कृष्णं देवकीनन्दनम् ॥ तद्ब्रह्म परमं प्रोक्तं तद्द्धाम परमं पदम् । तद् गत्वा कालविषयाद् विमुक्ता मोक्षमाश्रिताः ॥(११) इति । मध्वमतम्- आनन्दतीर्थनामा मध्वाचार्य्यो द्वैतवादस्य प्रधानः । तेन उपनिषदां ब्रह्मसूत्रस्य च आख्यायेन यन्मतं प्रतिष्ठापितं तदेव माध्वमतं माध्वदर्शनं माध्ववेदान्तो वा व्यवह्रियते । विष्णु ईश्वरः, लक्ष्मीः ईश्वरस्य शक्तिः, विष्णुः अप्राकृतेन नित्यदेहेन निरन्तरं युक्तः अनन्तकल्याणादिगुणैः सुसंपन्नः सर्वज्ञः सर्वकर्त्ता सर्वव्यापकः परमकृपालुश्च भवति । भक्तानामनुग्रहाय संसारत्राणाय च स मत्स्याद्यवतारान् गृह्णाति । जीवः प्रकृतिश्च चत्वारो मुख्याः परस्परभिन्नाः पदार्थाः स्वीकृताः । तन्नये जीवेश्वरयोरशेषपार्थक्यं स्वीकृतम् । जीव अज्ञः स्वकर्मानुरूपं संसरणशीलः सर्वदा परमेश्वराधीन उपासकः सेवको भक्तश्च । ब्रह्म उपास्यं सेव्यं पूजनीयं च । अनयोर्मध्ये ऐक्यं नास्ति । तत्र द्रव्यगुणकर्मसामान्यविशेषविशिष्टांशिशक्तिसाहचर्याभावाः दशपदार्थाः स्वीकृताः । द्रव्याणि विंशतिसंख्यकानि । परमात्मा भगवान् विष्णुरेव । लक्ष्मीः भगवतः शक्तिः । जीवा अनुचरा अज्ञानदुःखदूषिताः । एतत्सर्वं- श्रीमन्मध्वमते हरिः परतरः सत्यं जगत्तत्त्वतो भेदाः जीवगणाः हरेरनुचरा नीचोच्चभावं गताः । मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं अक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥(१२) इति व्यासतीर्थेन मध्वमतं संकीर्त्तितम् । भगवतो विष्णोः विग्रहे अन्तः प्रविश्य तदीयेन अप्राकृतेन देहेन आनन्दस्यानुभवो मुक्तिः । एषा भगवत्सायुज्यरूपा सालोक्य- सामीप्य- सारूप्यरूपेण क्रमेण लभ्या । सालोक्यादिकं च अर्चिरादिमार्गेण प्राप्तम्, स च प्राकृतदेहतो जीवस्य उत्क्रान्त्या लभ्यः । उत्क्रान्तिश्च कर्मक्षयसाध्या । कर्मक्षयश्च भगवदनुग्रहेण प्राप्यः । स च वेदविहितकर्मणामनुष्ठानेन भगवत्स्वरूपज्ञानेन च भगवद्भक्त्या साध्यः ।(१३) इति । निम्बार्कमतम्- कदाचिद् द्वेताद्वैतवादी निम्बार्काचार्यः । तन्नये ब्रह्म सगुणं निर्गुणं चेत्यस्मिन्नर्थे द्वैताद्वैतवादः । जीवब्रह्मणो भेदौ अभेदौ वेत्यस्मिन्पक्षे तु द्वैताद्वैतौ भेदाभेदवादौ वा स्वीकृतौ ।(१४) आत्मानात्मकभेदेन तत्त्वं द्विविधम् । आत्मा जीवात्मपरमात्मभेदेन द्विविधौ । जीवो ज्ञानवान् ज्ञातृत्वादिधर्माधाररूपः । अणुः परतन्त्रः प्रतिशरीरं भिन्नो बन्धमोक्षयुक्त इति वदन्ति । प्रकृतिपुरुषकालकर्मणां नियन्ता परंब्रह्म वासुदेवः श्रीकृष्णः । तस्य हरिरिति नामान्तरं विद्यते । जीवेश्वरयोरंशाशिभावसम्बधः स्थिरीकृतः । प्रकृतिस्तत्कार्यदेहादिकमनात्मतत्त्वम् । तदुक्तम्- ज्ञानस्वरूपं च हरेरधीनं शरीरसंयोगवियोगयोग्यम् । अणुं हि जीवं प्रतिदेहभिन्नं ज्ञातृत्ववन्तं यदनन्तमाहुः ॥(१५) इति । मुक्तौ श्रीकृष्णपदसेवनं विना अन्यत् साधनं नास्ति । ``तस्मात् कृष्ण परो देवः तं ध्यायेत् । तं रसेत् तं भजेत् तं यजेत् ॐ तत्सदिति । '' (१६) राधा श्रीकृष्णस्याह्लादिनी शक्तिः सर्वेश्वरी । राधाकृष्णयोर्मध्ये विम्बप्रतिविम्बभावः स्वीकृतः । तथा हि भागवते- रेमे रमेशौ व्रजसुन्दरिभिर्यथार्भकः स्वप्रतिविम्बविभ्रमः ।(१७) इति । अपि चात्र- कृत्वा तावन्तमात्मानं यावती गोपयोषितः । रेमे च भगवांस्ताभिरात्मारामोऽपि लीलया ॥(१८)इति जीवस्य भगवद्भावापत्तिः मुक्तिः । भगवद्भावापत्तिर्नाम जगत्कर्तृत्वव्यतिरिक्तानां भगवतो धर्माणामवाप्तिः । एतत्सिद्धिः प्रेमापरपर्यायया रागात्मिक्या भगवतो भक्त्या संजायते । सा च भगवतः कृपया निष्कामकर्मपूर्विकाय शरणागत्या हि स्वयंसंपूर्णा जायते । रामानुजमतम्- विशिष्टाद्वैतवादी रामानुजाचार्य्यः श्रीवैष्णवसंप्रदायस्य प्राथम्येन प्रथितो महान् दार्शनिको मनीषी । तेन ब्रह्मसूत्रस्य उपनिषदां च विशिष्टाद्वैतपरं व्याख्यानमुपस्थाप्य विशिष्टाद्वैतदर्शनस्य महती प्रचेष्टा प्रतिष्ठापिता । विशिष्टं च विशिष्टं च विशिष्टे विशिष्टयोः स्थूलचिदचिद्विशिष्टब्रह्मणः सूक्ष्मचिद्विशिष्टब्रह्मण्श्चाद्वैतं भेदभाव ऐक्यमिति विशिष्टाद्वैतम् । अत्र त्रयः पदार्था विवेचिताः चिदचिदीश्वरभेदात् । चिदत्र जीवात्मानो बहवः । अचित्तुजडरूपं जगत् । सकलकल्याणकरः करुणावरुणालयः सर्वज्ञः सर्वशक्तिमान् स्वयंप्रकाशः जगत्प्रभुः श्रीमन्नारायणोऽद्वितीयश्चेतनः साध्यः ईश्वरो जीवं जडं जगच्च व्याप्नोति । स च तयोः जीवजडयोरन्तः स्थित्वा तयोर्नियामकत्वात् अन्तर्यामीति व्यपदिश्यते । जीवो जगच्च ईश्वरस्य देहौ । ईश्वरः कदापि ताभ्यां शून्यो न भवति । चतुर्दशब्रह्माण्डा अनन्तजीवाश्च तच्छरीरम् । साध्यसिद्ध्यर्थं न ज्ञानं नापि ज्ञानकर्मसमुच्चयः किन्तु भक्तिरेव मान्या । रामानुजमते वैकुण्ठलोके भगवतः किंकररूपेण अवस्थानं कैवल्यम् । तत्प्राप्तिश्च ज्ञानकर्मभ्यां साध्यया भगवत्प्रपत्तिलक्षणया भक्त्या । भगवत्प्रपत्तिश्च भगवतः शरणागतिः । वेदविहितकर्मणामनुष्ठानेन चित्ते निष्कलुषे सति ब्रह्मणो जिज्ञासा समुदेति । ततः गुरुप्रप्रत्तिः । गुरुपदेशेन च ज्ञानं प्रकाशते । ततः ज्ञानकर्मणोरुभयोः संपन्नत्वे भगवत्प्रपत्तिलक्षणा भक्तिर्जायते । भक्तिपूर्णचेतस्कं जीवं भगवान् अनुगृह्णाति तद्वशाश्च जीवस्य भगवतोऽपरोक्षानुभवो जायते । ततः मुक्तिरिति । वल्लभमतम्- पुष्टिमार्गप्रवर्त्तको वल्लभ अणुभाष्यकर्त्ता शुद्धाद्वैतवादी । तन्मतानुसारं-'' वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं तत् चतुष्टयम् ॥ '' (१९) इति कर्तृत्व भोक्तृत्वत्वात् भगवान् श्रीकृष्णः एव परमात्मा ब्रह्म । श‍ृंगाररसप्रधानस्वरूपः । जीव अणुः । ब्रह्मणोंऽशः । जीवस्य भगवद्धर्माणां तिरोभाव एव जीवभावः । जगदिदं ततो भेदमापन्नं तस्यैव लीलामात्रं शाश्वतम् । साधनं ज्ञानभक्तिरूपमुक्तम् । श्रवणमननोपासनादिभिः पापक्षये सति भगवत्प्रेमोत्पत्तिस्ततो मुक्तिरित्युच्यते । भक्तिश्च द्विधा मर्यादाभक्तिः पुष्टिभक्तिश्च । मर्यादानाम शास्त्रवर्णिता पद्धतिः परमात्मनः चरणारविन्दमकरन्दमिलिन्दायमानत्वप्रधाना । पुष्टिभक्तिश्च सततं श्रीकृष्णमुखचन्द्रचकोरायमाणता भगवत्प्रीतिरूपा भगवदनुग्रहसाध्या, प्रथमा भगवत्सायुज्यजननी द्वितीया च जीवे भगवदभेदानुभवाभिव्यञ्जनी उक्ता । चैतन्यमतम्- असौ चैतन्यमहाप्रभुः भगवत अवतारभूत इति जीवगोस्वामिना भागवतसन्दर्भे उक्तम् । तद्यथा- अन्तः कृष्णं बहिर्गौरं दर्शितांगादिवैभवम् । कलौ संकीर्तनादैः स्मः कृष्णचैतन्यमाश्रिताः ॥(२०) इति । स्वरूपाद्यभिन्नत्वेन चिन्तयितुमशक्यत्वाद् भेदः,भिन्नत्वेन चिन्तयितुमशक्यत्वाद् अभेदश्च प्रतीयते । अनेन शक्तिशक्तिमतो भेदाभेदौ अंगीकृतौ । तौ च अचिन्त्यौ ।(२१) चैतन्यमहाप्रभुणा न कोऽपि ग्रन्थः लिखितः । केवलं ``शिक्षाष्टकं'' रचितवानीति केचिद्वदन्ति । यद्यपि चैतन्यसंप्रदायः माध्वमतस्य शाखाविशेषस्तथापि माध्वमत-चैतन्यमतयोः महान् भेदः स्वीक्रियते । चैतन्यमतस्य प्रधानाचार्यः बलदेवविद्याभूषणः । तेन ब्रह्मसूत्रोपरि अचिन्त्यभेदाभेदमतीयं गोविन्दभाष्यं विलिखितम् । तन्नये ईश्वर-जीव-प्रकृति-काल-कर्माणि पञ्चतत्त्वानि श्रूयन्ते । ईस्वरो विभुचैतन्यम् नित्यज्ञानादिगुणकं श्रीकृष्ण एव परमोत्तमं वस्तु । जीवात्मा अणुचैतन्यम् । ईश्वरवन्नित्यज्ञानादिगुणविशिष्टोऽस्मच्छब्दवाच्यः । विश्वं सत्यम् । जीवमात्रो हरेर्दासः । श्रीकृष्णस्य चरणलाभ एव मुक्तिः । भक्तिरेव मुक्तिप्राप्तये चरमसाधनम् । यच्चोक्तम्- आराध्यो भगवान् व्रजेशतनयस्तद्धामवृन्दावनं रम्या काचिदुपासना व्रजवधूवर्गेण या कल्पिता । शात्रं भागवतं प्रमाणममलं प्रेमा पुमर्थो महान् श्रीचैतन्यमहाप्रभोर्मतमिदं तत्रादरो नः परः ॥(२२) इत्यत्र श्रीकृष्णसेवा एव मुक्तिरुक्ता । यद्यपि कृष्णसेवा समयविशेषे संसारेऽपि कदाचित् केषांचित् सम्भवति परं सा न मुक्तिः । किन्तु ब्रह्मात्मभावप्राप्तिपूर्विका कृष्णसेवैव मुक्तिः । जगन्नाथदर्शनम्- वैष्णवदर्शनेषु जगन्नाथदर्शनं स्वतन्त्रम् । तन्नये श्रीजगन्नाथ एव सर्ववैष्णवानामाधारपुरुषः । स एव भुक्तिमुक्तिप्रदाता । परंब्रह्मस्वरूपः । सर्वदर्शनादर्शः भगवान् श्रीजगन्नाथ एव परमेश्वरः । यच्चोक्तमभियुक्तैः- ``यद्ब्रह्मेति निनादितं हि परमाऽद्वैतप्रियैः शांकरैः विष्णुर्वैष्णवशेखरैश्च भणितो माध्वैस्तथा भास्करैः । निम्बार्कैः खलु वल्लभैर्व्रजसुतो रामश्च रामानुजैः सोऽयं दारुमयः सुगोपललितश्चैतन्यकान्तोऽवतु ॥ '' (२३) इति द्वैताद्वैतीनां सारभूतः सिद्धान्तः दारुब्रह्म निश्चितः स च जगन्नाथ-बलभद्र-सुभद्रा-सुदर्शनभेदेन चतुर्धाविभक्तः । दारुविग्रहाणां निर्माणं भगवता विष्णुना संपादितम् । उक्तं च- निर्ववाह स्वयं देवः क्रमात्पञ्चदशे दिने । चतुर्मूर्त्तिः स भगवान् यथापूर्वं मयोदितः ॥(२४) इति लक्षशालग्रामशिलाभिः पूर्णे नानामणिमये कोटिसूर्यसमप्रभे दिव्यसिंहासने(२५) प्रणवात्मिके(२६) मुख्यरूपेण चतुर्धामूर्त्तयः शोभन्ते । वस्तुतः श्रीजगन्नाथ बलभद्रः सुभद्रा सुदर्शनः भुदेवी श्रीदेवी माधवश्च एवं सर्वे मिलित्वा सप्तधा मूर्त्तय भवन्ति । एतेषां ध्यानानि नीलाद्रिमहोदये उक्तानि(२७) । तथाहि- नीलजीमूतसंकाशः पद्मपत्रायतेक्षणः । शोणाधरधरः श्रीमान् भक्तानामभयंकरः ॥ बलभद्रस्तथा सप्तफणाविकटमस्तकः । कुन्देन्दुशंखधवलः प्रकाशोम्बुजलोचनः ॥ गुप्तपादकराम्भोजः समुत्तलितसद्भुजः । भक्तानामवनायैव तथा भद्रापि भद्रदा ॥ अधिलम्बितहस्ताब्जा कुंकुमाभा शुभानना । सुदर्शनः स्तम्भरूपी बभूव विजितेन्द्रियः ॥ प्रभोः स्वरूपमभजन्माधवो ह्रस्वरूपकः । लक्ष्मीश्चतुर्भुजा विप्रा वराभयधरा तदा ॥ तथैव साब्जयुगलं धारयन्ती स्मितानना । चतुर्गजकरोत्क्षिप्तसुवर्णकलसाकृतैः ॥ कृताभिषेका कमला कमलासनसंस्थिता । पद्मासनागता देवी विश्वधात्री तथा द्विजाः ॥ ज्ञानमुद्रां करे दक्षे वामे च चारुपंकजम् । धारयन्ती धरादेवी प्रकाशा धवलाकृतिः ॥ इति । केवलं जगन्नाथमूर्त्तिस्वरूपं तु श्रीजगन्नाथदर्शने- गोलाकाराक्षयुक्ता निखिलमणिमयी हेमभूषांगशोभा श्यामा कामाभिरामा स्वजनसहरता प्रेमधारावहन्ती । या सा संसारसारा श्रितजनविषया ब्रह्मरूपा प्रसन्ना पायात्संभ्रान्तनीलाचलभुवनसुखा स्रग्धरा दारुमूर्त्तिः ॥(२८) इति । त्रिमूर्त्तिस्वरूपं तत्र- स्वस्रा रामगदाग्रजेन समलंकाराय दार्वात्मने भेदाभेदविधूतभोगपतये श‍ृंगाररागात्मने । नीलाद्रौ मणिमण्डपे प्रियपुरी-श्रीमन्दिरस्वामिने तस्मै प्राञ्जलिरस्मि कृष्णनिधये राधाप्रियजानये ॥(२९) इति असौ मूलनारायणः । स एव शैवानां प्रियः शिवः । गाणपत्यानां गणपतिः । सौराणां सूर्य इति निश्चितः । पञ्चविंशतितत्त्वानि जगन्नाथविग्रहे सम्मिलितानि भवन्ति । अष्टांगयोगसारो जगन्नाथः । न द्रव्यादयः सप्तपदार्था मोक्षप्रदायिकाः । नापि मोक्षे षोडशपदार्थज्ञानस्य काचिदावश्यकता विद्यते । मायावादिमतं कुहकवद् हेयम् । पाञ्चरात्रव्युहातीतः परमेश्वरो महाकारुणिको दारुदेवः सर्वतन्त्रलक्ष्यः । उक्तं चात्र श्रीजगन्नाथदर्शने - व्यूहातीतसमस्तदृश्यपटलं तद्दारुदेहाश्रितः सूक्ष्मस्थूलचतुष्टयैर्विलसितो वेदान्तसारोपमः । नित्यं तत्त्वमसि प्रधानपुरुषो मायामयो निर्जर आस्ते मिष्टमहाप्रसादजनकः कैवल्यदाता हरिः ॥(३०) निःश्रेयशब्दसार्थकत्वं परमार्थतत्त्वं च वासुदेवाख्यं जगन्नाथशब्दगोचरीभूतम् । तत्तु साध्यतत्त्वमिति प्रवाच्य भक्तिसाधनेन तस्य साक्षात्कारः सम्भव इति परमपुरुषार्थो निगदितः । उपसंहारः मुक्तिर्भगवद्वशीकाररूपा । भक्तद्वारा भगवतो वशीकरणमेव मुक्तिरिति भक्ता मन्यन्ते । सा तु वस्तुतः मुक्तेरपि बलीयसी । पञ्चसख- बन्धुमहान्ति- सालवेग- दासिआ वाउरि- बलरामदासादयः अत्र केचन भक्ता उदाहरणरूपेण प्रस्तूयन्ते । तथाहि- अस्पृश्य प्रियसालवेगहृदये श्रीदासिआमानसे प्रेम्णा बन्धुमहान्ति भक्तितरले चिरं कदा राजते । संसारे बलरामदासनिलये भक्ताश्रये प्रायशः सोऽयं श्रीपुरुषोत्तमो विजयते ब्रह्माण्डनाथेश्वरः ॥(३१) इत्यत्र भक्तवाञ्छाकल्पद्रुमो जगन्नाथः सर्वेश्वरः सिद्धान्तितः । अस्य दारुब्रह्मणो महाप्रसादभोजनेन भक्त्या च कैवल्यप्राप्तिर्जायतेति महती श्रुतिः । अलमतिविस्तरेण । टिप्पणी (footnotes) (१) अष्टाध्यायी सूत्रर्पाथ -१/३/११५ (२) अष्टाध्यायी सूत्रर्पाथ -३/३/११७ (३) अष्टाध्यायी सूत्रर्पाथ -७/१/१ (४) अष्टाध्यायी सूत्रर्पाथ -१/२/४६ (५) अष्टाध्यायी सूत्रर्पाथ -७/१/२४ (६) बृहदारण्यक उपनिषत् -२/४/५ (७) निर्णयसिन्धु (८) अहिर्बुध्न्य संहिता-३/२१ (९) भागवते-१०/४०/२१ (१०) भक्तिचन्द्रिका पृ-२१ (११) महाभारते शान्तिपर्वे-२०६/१४ (१२) सामान्यदर्शनम् पृ- (१३) भा०@द०@कै०@अ०@ पृ- १२४ (१४) सर्वदर्शनकौमुदी पृ-२०३ (१५) दशश्लोकी-१ (१६) दशश्लोकीटीका पृ-३६ (१७) भा०@ग०@-१०/३३/३७ (१८) तत्र-१०/३३/२० (१९) वै०@सं०@ सा०@सि०@- पृ-११५ (२०) भागवतसन्दर्भे -१२/३२ (२१) भागवतसन्दर्भे (२२) वै०@सं०@ सि०@ पृ-४४३ (२३) श्रीजगन्नाथदर्शनम् श्लोक-१ (२४) स्कन्दपुराण- १९/७ (२५) महापुरुषविद्या - ३/१०१ (२६) महापुरुषविद्या - ४/४४ (२७) नीलाद्रिमहोदयः -४/१०/-१७ (२८) श्रीजगन्नाथदर्शनम् - १२७ (२९) श्रीजगन्नाथदर्शनम् - १२६ (३०) श्रीजगन्नाथदर्शनम् - २४ (३१) श्रीजगन्नाथदर्शनम् - १७५ सहायकग्रन्थाः १. अष्टाध्यायी सूत्रर्पाथ २. निर्णयसिन्धुः ३. अहिर्बुध्न्यसंहिता ४. श्रीमद्भागवतम् ५. भक्तिचन्द्रिका ६. भक्तिरत्नावली ७. महाभारतम् ८. सामान्यदर्शनम् ९. भारतीयदर्शन १०. सर्वदर्शनकौमुदी ११. दशश्लोकी १२. वैष्णवमताब्जभास्करः १३. भागवतसन्दर्भः १४. भारतीयदर्शनोंका शास्त्रार्थपद्धति १५. सांख्यकारिका १६. वेदान्तसारः १७. तर्कभाषा १८. न्यायसिद्धान्तमुक्तावली १९. सर्वदर्शनसंग्रहः २०. षड्दर्शनसमुच्चयः २१. बृहदारण्यक उपनिषत् २२. श्रीजगन्नाथदर्शनम् २३. श्रीक्षेत्रसुधानिधिः २४. नीलाद्रिमहोदयः २५. महापुरुषविद्या २६. श्रीमद्भगवद्गीता --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Vaishnava Darshanam, a brief study 2
% File name             : vaiShNavadarshanam.itx
% itxtitle              : vaiShNavadarshanam diNmAtraparishIlanam 2 (lekhaH)
% engtitle              : vaiShNavadarshanam 2
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda pknanda65 at gmail.com
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : June 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org