वज्रमहाकालस्तोत्रम्
हां हां हाङ्कारनादैः किलिकिलितरवैः भूतवेतालवृन्दैर्
हु हुङ्कारैः समन्तान्नरपिशितमुखै रक्तमालाकुलाङ्गैः ।
खट्वाङ्गस्कन्नपाणिर्नरकरकधरः कामरूपी विरूपी
पिङ्गाक्षः पिङ्गकेशः शवगणनलकः क्षेत्रपालोऽवताद्वः ॥ १॥
फें फें फेङ्कारनादैः प्रतिजनितबृहद्वह्निगर्भाङ्गवक्त्रे
मालां कण्ठे निधाय प्रकटभयवपुर्भूषिताङ्गोपशोभः ।
ईषद्रक्ताधरोष्ठोऽसृकसकलवृतामालिना मुक्तपाणिः
क्लीं डां क्लीं डां निनादैर्वरदहनभुवि क्षेत्रपः पातु युष्मान् ॥ २॥
क्षं क्षं क्षं क्षान्तिमूर्तिः कलकलकलकृत् क्षान्तिवृद्धिं प्रकुर्वन् ।
क्रान्ताक्रान्तैकविश्वः कहकहकथनो नीलजीमूतवर्णः ।
ह्रीं श्रीं क्लीं मन्त्रदेहः पच पच दहनैर्जातमन्त्रः समन्ताद्
विघ्नानुत्सार्यमाणः शमयतु नियतं शात्रवान् क्षेत्रपालः ॥ ३॥
हा हा हा हाट्टहासैरतिशयभयकृत् सर्वदाऽसत्पशूनां
पापानाम्, विघ्नहन्ता प्रतिदिवसमसौ प्राप्तसम्बोधिलाभः ।
हुं फट् हुम्फटनिनादैस्त्रिभुवनकुहरं पूरयन् पूर्णशक्तिः
पायाच्छ्रीक्षेत्रपालः कपिलतरजटाजूटक्लेशाङ्गभारः ॥ ४॥
खं खं खं खङ्गपाणिर्ललललललितो रूपतो रक्तपाणिः
रं रं रं रक्तनेत्रो रु रु रुधिरकरश्चर्चितश्चण्डवेगः ।
क्रुं क्रुं क्रुं क्रोधदृष्टिः कुह कुह कुटिलः कुञ्चिताशेषदुष्टः
डं डं डं डामराङ्गो डमरुकसहितो रक्षतात् क्षेत्रपालः ॥ ५॥
यं यं यं याति विश्वं यमनियमयुतो यामिनोऽयामिनो वा
वं वं वं वातवेगो झटिति करकधृत् प्राप्तलोकोपचारः ।
भ्रूं भ्रूं भ्रूं भीषणाङ्गो भृकुटिकृतभयो मुक्तिवान् साधकानां
क्षं क्षं क्षं क्षेमकारी क्षपयतु दुरितं रक्षतात् क्षेत्रपालः ॥ ६॥
क्लां क्लां क्लां क्रान्तिमूर्तिस्त्रिभुवनमनिशं क्लेदयन् सर्वदा यः
पं पं पं पाशहस्तः परशुधृतकरः पालयन् पालनीयान् ।
मुद्राणां मन्त्रमूर्तिस्त्वमभिमतफलदो मन्त्रिणां मन्त्रतुल्यः
क्षेत्राणां पालकोऽसौ सकलजिततनुः पातु युष्मांश्चिरायुः ॥ ७॥
क्लीं क्लीं क्लीं कृत्तिवासा कृतरिपुनियमः क्लेशितानां सदेशः
कं कं कं कपालमाली कलिकलुषहरः कालवृन्दाभकायः ।
चं चं चं चण्डवेगः प्रचरितसमयाः कालभूतैकलोकः
सं सं सं संयतात्मा समयशुभफलं लक्ष्यतां पातु युष्मान् ॥ ८॥
मन्त्राणां मन्रकायो नियतयमद्युतिः सत्पथे शूद्धतीरे
आचार्यः साधको वा जपति च नियतं पुण्यवान् जायतेऽसौ ।
आयुः श्रीः कीर्तिलक्ष्मीर्धृतिबलमतुलं शान्तिपुष्टी प्रभा च
सर्वज्ञत्वं च नित्यं दिननिशमतुलं नश्यते विघ्नजातम् ॥ ९॥
इति आचार्यनागार्जुनकृतं श्रीवज्रमहाकालस्तोत्रं सम्पूर्णम् ॥