वन्दना
करुणावरुणालय देव ! पितः!
सवितः परितः शिवमातनुयाः ।
सरलां विरलां विमलां सकलां
सुषमां सुतमां सततं सनुयाः ॥ १॥
निजदेशबलं प्रथतां विपुलं
प्रियमीप्सितमाप्तुमलं सफलम् ।
भगवन् ! मघवन् ! अघवन्न भवेद्
इति नम्रवचो मृदु नः शृणुयाः ॥ २॥
स्फुरितं दुरितं त्वरितं शमयन्
रमयन् परमां चरमां च रमाम् ।
महितं स्वहितं सुहितं नमयन्
बहुशस्त्वममुष्य यशश्चिनुयाः ॥ ३॥
हृदयं सदयं विनयः सनयः
प्रणयः कृतपुण्यगुणाभ्युदयः ।
वदनं सुमहःसदनं भवतान्
मदनं कदनीयमदं क्षिणुयाः ॥ ४॥
अयि पालक! चालक ! वालकजाः
प्रसमीक्ष्य विशिष्य तु शिष्यगणे ।
क्षमतां क्षमतां दधदाशु भवान्
इह ता अहितास्त्रुटयो ननु याः ॥ ५॥
-- विद्यानिधिः
(व्याकरणाचार्यः, प्रधानाचार्यः, गुरुकुल भैंसवाल (रोहतक))
Encoded and proofread by Rishbha Bhagi