वन्देहं भारताम्बाम्
वन्देहं भारताम्बां जन्मदायिनीम् ।
वन्देहं मातृभूमिं मोक्षदायिनीम् ॥
रत्नजलनिधिसंयुतां, प्राज्ञऋषिगणशोभिताम् ।
त्यागिमुनिवरभूषितां, चारुपर्वतराजिताम् ॥
पूतचरितैः शजितां, कविजनैः सङ्कीर्तिताम् ।
ज्ञानवृद्धैः चर्चिताम्, भावभक्तिसमर्चिताम् ॥
वीरसुतसन्तोषितां, महितचरितैः संसेविताम् ।
भक्तवृन्दैर्वन्दिताम्, साधुसद्भिर्भाविताम् ॥
वन्देहं भारताम्बां जन्मदायिनीम् ॥
- लक्ष्मीनारायणः
Encoded and proofread by Shubha shubhazero at gmail.com