वन्देहमीश्वर
वन्देहमीश्वर! श्रूयतां मे वचः
पाहि मां साधुमनारतमास्थया ।
त्वद्भक्तिवर्धनमस्तु मन्मानसेः
दृश्यो मे भूयास्त्वं चित्ते च नित्यशः ॥
मां नय साधुपथेन निरन्तरं
वारय सङ्कटमायातं मामकम् ।
दुष्टजनैस्सह सङ्गतिर्मास्तु भोः
शिष्टजनास्सन्तु मित्राणि मे सदा ॥
मच्चित्ते सत्कर्मप्रेम संवर्धय
सद्वचनाय प्रदीयतां प्राभवम् ।
कृत्येषु श्रधा भवतु मे सन्ततं
सत्यकथनाय शक्तिञ्च देहि मे ॥
वन्देहमीश्वर! श्रूयतां मे वचः
पाहि मां साधुमनारतमास्थया ।
त्वद्भक्तिवर्धनमस्तु मन्मानसेः
दृश्यो मे भूयास्त्वं चित्ते च नित्यशः ॥
-- मुथलपुरं मोहनदास