वन्दे मातरं संस्कृतम्
वन्दे मातरं,
संस्कृतम्, संस्कृतं
लिख लिख लिख, वद वद वद,
कुत्र यत्र अत्र तत्र श्रूयतां संस्कृतं
आकुमारी-हिमाचल-घोषितं
आर्यभाषा मातृभाषा संस्कृतं
जलस्थल-आकाशम्, मधुरेण कम्पितं
वन्दे मातरं वन्दे संस्कृतं
संस्कृतं
शिरोमणि-हिमालय-शोभितं
सागरेण मातृपादक्षालितं
स्वर्णप्रसूभारतम्, भारतीय-ऐतिह्यं
वन्दे भारतं वन्दे संस्कृतं
संस्कृतं संस्कृतम्, वन्दे
वन्दे मातरं
-पण्डितः भारतविहारी दाशः