वन्दे तां सुरभारतीम्
नित्यं या परिशोभते बहुविधैर्भावैः परं रञ्जिता-
नेकैर्नूतनशब्दसृष्टिकरणैर्मार्गैः सदा विस्तृता ।
रत्नानीव विभान्ति शास्त्रनिकरा यस्याः प्रशस्तोदरे
वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ १॥
ज्ञानाब्धिः स विभाति वेदनिचयो यामाश्रयन् सर्वदा
प्रीणन्त्येव सुरा भवन्ति वरदा यस्या गभीरैः पदैः ।
यद्ग्रन्थाः सुगुणैश्च तत्त्वनिकरैर्विद्यादिभिः पूरिता
वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ २॥
यत्काव्यानि विमोहयन्ति नवभिः पीयूषतुल्यै रसै-
श्छन्दोभिर्विविधैर्मनोहरतरैः कर्णामृतस्राविभिः ।
श्रोतॄन् वा परिवेषकान् गुणिजनान् विद्याधनग्राहकान्
वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ ३॥
आयुर्वेदपुराणदर्शनगणैः साहित्यनाट्यादिभि-
र्ज्योतिःशास्त्रवरैः सदा विलसिता ज्ञानार्जने तात्त्विकम् ।
मार्गं या परम नयत्यविरलं विद्यार्थिभिः पूजिता
वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ ४॥
देशेऽस्मिन् बहुसम्प्रदायजनितान् भेदान्निवार्यैव हि
सौहार्द्यं वितनोति हिन्दुयवनख्रिस्तीयधर्मादिषु ।
आर्यैः संस्कृतसारतत्त्वनिहिता या राष्ट्रभाषा मता
वन्दे तां सुरभारतीं बहुगुणां भाषावलीजन्मदाम् ॥ ५॥
कवि - पण्डितः हरेकृष्णधूपालशर्मा
Encoded and proofread by Mansi Sharma