श्रीवरवरमुनिविषयमुक्तकम्
श्रीरस्तु ।
श्रीमते हयग्रीवाय नमः ।
श्रीमते रामानुजाय नमः ॥
प्रपद्ये पदपद्मानि परमप्रेमसम्पदाम् ।
सौम्यजामातृयोगीन्द्रचरणैकजुषां सताम् ॥ १॥
सम्पत्स्वरूपानुगुणैव यस्मिन् सर्वोत्तरो यत्र मनःप्रसादः ।
सद्भिस्समं देव तमेव देशं प्राप्तुं प्रपद्ये भवदङ्घ्रिमूलम् ॥ २॥
यन्मूलमाश्वयुजमास्यवतारमूलं कान्तोपयन्तृयमिनः करुणैकसिन्धोः ।
आसीदसत्सु गणितस्य ममापि सत्तामृलं तदेव जगदभ्युदयैकमूलम् ॥ ३॥
श्रीमद्रङ्गं जयतु परमं धाम तेजोनिधानं
भूमा तस्मिन् भवतु कुशली कोऽपि भूमासहायः ।
दिव्यं तस्मै दिशतु विभवं देशिको देशिकानां
काले कालेश्वरवरमुनिः कल्पयन्मङ्गलानि ॥
नचेद्रामानुजेत्येषा चतुरा चतुरक्षरी ।
कामवस्थां प्रपद्यन्ते जन्तवो हन्त मादृशाः ॥ ५॥
पुण्याम्भोजविकासाय पापध्वान्तक्षयाय च ।
श्रीमानाविरमृद्भूमौ रामानुजदिवाकरः ॥ ६॥
तृणीकृतविरिञ्चादिनिरङ्कुशविभूतयः ।
रामानुजपदाम्भोजसमाश्रयणशालिनः ॥ ७॥
इति श्रीवरवरमुनिविषयमुक्तकं सम्पूर्णम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com