विजयते तवेप्सितम्
जगदधीश! त्वां स्तुवन्ति सकलमानवास्सदा
निगदितो मनीषिभिश्च त्वं परात्मदैवतम् ।
विजयते तवेप्सितं सदापि जगति निश्चितं
सदयमातनोतु नित्यमङ्गलं दयानिधे! ॥ १॥
दिनकरं दिने दिने दिनात्यये निशाकरं
पुनरसंख्यतारका विलोकयामहे दिवि ।
अहो! विचित्रमद्भुतं त्वदीयसर्गवैभवं
कथं नु पारयेम तस्य संस्तवाय हे प्रभो! ॥ २॥
सागरे समुद्धते समुन्नते च पर्वते
द्योतते विभो! भवद्गभीरता नमोस्तु ते ।
त्वां स्तुवन्ति कलकलं खगाश्च निम्नगाश्च भो!
त्वां वदन्ति सर्वशक्तमिति च तत्त्ववेदिनः ॥ ३॥
जगदहो कियन्मनोज्ञमथ च मर्त्यजीवितं
नियतमत्र जन्म लब्धमिति च पुण्यहेतुकम् ।
सफलमस्तु त्वत्कृपावरेण भुवनजीवनं
सकललोकनाथ! दुरितमोचनं विदेहि भो! ॥ ४॥
--- श्री मुत्तलपुरं मोहनदासः ।