विमानयानं रचयाम
राघव ! माधव ! सीते ! ललिते !
विमानयानं रचयाम ।
नीले गगने विपुले विमले
वायुविहारं करवाम ॥ १॥
उन्नतवृक्षं तुङ्गं भवनम् ।
क्रान्त्वाकाशं खलु याम ।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम ॥ २॥
शुक्रश्चन्द्रः सूर्यो गुरुरिति
ग्रहान् हि सर्वान् गणयाम ।
विविधाः सुन्दरताराश्चित्वा
मौक्तिकहारं रचयाम ॥ ३॥
अम्बुदमालामम्बरभूषाम्
आदायैव हि प्रतियाम ।
दुःखित-पीडित कृषिकजनानां
गृहेषु हर्षे जनयाम ॥ ४॥
-- लेखकः- डाॅ विश्वासः
Encoded and proofread by Mohan Chettoor