विश्वात् सुरम्यमखिलात् हिन्दुस्थलं
विश्वात् सुरम्यमखिलात् हिन्दुस्थलं निजं नो निजं नः
विश्वात् सुरम्यमखिलात् हिन्दुस्थलं निजं नः
वयमस्य ते विहङ्गाः उपवनमिदं निजं नो निजं नः
विश्वात् सुरम्यमखिलात् हिन्दुस्थलं निजं नः
पर्वत उच्चतमो योऽयं प्रतिवेशकोऽम्बरस्य
स हि रक्षकोऽस्मदीयः स हि पार्श्वगुब् निजो नः
क्रीडन्ति यस्य कुक्षौ सरितः सहस्रसङ्ख्याः
सुफलत्वमस्ति यत्कृपया परलोभकं निजं नः
धर्मो न पाठयति भोः अन्योन्यवैरभावम्
हिन्दी वयं जननभूः हिन्दुस्थलं निजं नः
रचना - श्रुति कानिटकर