विश्वबन्धुता चिरं विजयता
विश्वबन्धुता चिरं विजयता
एकात्मकता दृढं वर्धता ॥ ध्रु॥
जगदखिलं कुर्वती पावनं
सुप्रसन्नमानन्दकाननम् ।
परममङ्गलं लोकजीवनं
सुधासरिधियं सदा प्रवहताम् ॥ १॥
स्वार्थ लालसा नैवोद्भवतु
ईर्षा स्पर्धा विलयं यातु ।
हिंसा भीतिरनीतिरपैतु
जने जनेऽ सद्बुद्धि हृदयता ॥ २॥
विश्वकुटुम्बं सततं भाव्यं
पीडित सेवाव्रतं च सेव्यम् ।
सर्वस्वं जनहिताय हव्यं
उदारचरितं लोको भजताम् ॥ ३॥
एकागृति वी सुहिता माता
मानव धर्मो महितोहिपिता ।
भूता दयासा परा देवता
हृदयमन्दिरे सदा राजता ॥ ४॥