विश्वविद्यालयगीतम्
सत्यं ज्ञानमनन्तश्रुतं
श्रीक्षेत्रपावनभूमिधृतं
हे सुरभारतीमन्दिरसुन्दर भावये संस्कृतिविच्छुरितम् ॥ ध्रुवपदम् ॥
वङ्गपयोधितटदेशवर्धितवातसञ्चालितशीतलीतम् ।
श्रीजगन्नाथसंस्कृतविश्वविद्यालयशोभा संवर्धितम् ॥
साहित्यसागरनिमज्जितं
व्याकरणभाष्यसन्दर्शितं
हे सुरभारतीमन्दिरसुन्दर भावये संस्कृतिविच्छुरितम् ॥ १॥
शास्त्रविलोलितवैदिकवाङ्मयगात्रसुसज्जितयोगमतम् ।
गुरुगुणगौरवसौरभकाशितकर्मविचारितशर्मयुतम् ॥
वेदविभूषणविभूषितं
सर्वदर्शनहर्षीकृतं
हे सुरभारतीमन्दिरसुन्दर भावये संस्कृतिविच्छुरितम् ॥ २॥
कविकोविदधर्मशास्त्रविशारदज्योतिषविज्ञानसिद्धिभूतम् ।
शिक्षाशास्त्रपुष्पगुच्छितसज्जनमज्जनमोहनवासयुतम् ॥
अद्वैतडिण्डिमनिनादितं
न्यायसुधासारपानकृतं
हे सुरभारतीमन्दिरसुन्दर भावये संस्कृतिविच्छुरितम् ॥ ३॥
--नन्दप्रदीप्तकुमारः
श्रीजगन्नाथसंस्कृतविश्वविद्यालयः पुरी
Composed by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa
pknanda65 at gmail.com