नन्दिकेश्वरविरचितम् अभिनयदर्पणम्

नन्दिकेश्वरविरचितम् अभिनयदर्पणम्

नमस्किया

आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् । आहार्य चन्द्रतारादि तं नुमः सात्त्विकं शिवम् ॥ १॥

नाट्योत्पत्तिः

नाट्यवेदं ददौ पूर्वं भरताय चतुर्मुखः । ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः ॥ २॥ नाय नृत्तं तथा नृत्यमर् शम्भोः प्रयुक्तवान् । प्रयोगमुद्धतं स्मृत्वा स्वप्रयुक्तं ततो हरः ॥ ३॥ तण्डुना स्वगणाग्रण्या भरताय न्यदीदिशत् । लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदिशत् ॥ ४॥ बुद्ध्वाऽथ तण्डवं ताण्डोर्मर्त्येभ्यो मुनयोऽवदन् । पार्वती त्वनुशास्ति स्म लास्य बाणात्मजामुषाम् ॥ ५॥ तया द्वारवतीगोप्यस्ताभिः सौराष्ट्रयोषितः । ताभिस्तु तत्तद्देशीयास्तदशिष्यन्त योषितः ॥ ६॥ एवं परम्पराप्राप्तमेत्तल्लोके प्रतिष्ठितम् ।

नाट्यप्रशंसा

ऋग्यजुः सामवेदेभ्यो वेदाच्चाथर्वणः क्रमात् ॥ ७॥ पाठ्यं चाभिनयं गीतं रसान् सङ्गृह्य पद्मजः । व्यरीरचच्छास्त्रमिदं धर्मकामार्थमोक्षदम् ॥ ८॥ कीर्तिप्रागल्भ्यसौभाग्यवैदध्य्नां प्रवर्धनम् । औदार्यस्थेर्यधैर्याणां विलासस्य च कारणम् ॥ ९॥ दुःखार्तिशोकनिर्वेदखेदविच्छेदकारणम् । अपि ब्रह्मपरानन्दादिदमभ्यधिकं मतम् ॥ १०॥ जहार नारदादीनां चित्तानि कथमन्यथा ।

नटनभेदाः

एतच्चतुर्विधोपेतं नटनं त्रिविधं स्मृतम् ॥ ११॥ नाट्यं नृत्तं नृत्यमिति मुनिभिर्भरतादिभिः ।

नटनप्रयोगकालः

द्रष्टव्ये नाट्यनृत्ये च पर्वकाले विशेषतः ॥ १२॥ नृत्तं तत्र नरेन्द्रानामभिषेके महोत्सवे । यात्रायां देवयात्रायां विवाहे प्रियसङ्गमे ॥ १३॥ नगराणामगाराणां प्रवेशे पुत्रजन्मनि । शुभार्थिभिः प्रयोक्तव्यं माङ्गल्यं सर्वकर्मभिः ॥ १४॥

नाट्यं

नाट्यं तन्नाटकं चैव पूज्यं पूर्वकथायुतम् ।

नृत्तं

भावाभिनयहीनं तु नृत्तमित्यभिधीयते ॥ १५॥

नृत्यं

रसभावव्यञ्जनादियुक्तं नृत्यमितीर्यते । एतन्नृत्यं महाराजसभायां कल्पयेत् सदा ॥ १६॥ सभापतिलक्षणं -- श्रीमान् धीमान् विवेकी वितरणनिपुणो गानविद्याप्रवीणः सर्वज्ञः कीर्तिशाली सरसगुणयुतो हावभावेष्वभिज्ञः । मात्सर्यद्वेषहीनः प्रकृतिहितसदाचारशीलो दयालु- र्धीरो दान्तः कलावानभिनयचतुरोऽसौ सभानायकः स्यात् ॥ १७॥ मन्त्रिलक्षणं -- मेधासुस्थिरभाषणगुणपराः श्रीमद्यशोलम्पटा भावज्ञा गुणदोषभेदनिपुणाः श‍ृङ्गारलीलायुताः । मध्यस्था नयकोविदाः सहृदयाः सत्पण्डिता भान्ति ते भाषाभेदविचक्षणाः सुकवयो अस्य प्रभोर्मन्त्रिणः ॥ १८॥ सभालक्षणं -- सभाकल्पतरुर्भाति वेदशाखोपजीवितः । शास्त्रपुष्पसमाकीर्णो विद्वद्भ्रमरशोभितः ॥ १९॥

सभारचना

एवंविधः सभानाथः प्राङ्मुखो निविशेन मुदा । वर्तेरन् पार्श्वयोस्तस्य कविमन्त्रिसुहृज्जनाः ॥ २०॥ तदग्रे नटनं कुर्यात् तत् स्थलं रङ्ग उच्यते । रङ्गमध्ये स्थिते पात्रे तत्समीपे नटोत्तमः ॥ २१॥ दक्षिणे तालधारी च पार्श्वद्वन्द्वे मृदङ्गकौ । तयोर्मध्ये गीतकारी श्रुतिकारस्तदन्तिके ॥ २२॥ एवं तिष्ठेत् क्रमेणैव नाट्यादौ रङ्गमण्डली । पात्रलक्षणं -- तन्वी रूपवती श्यामा पीनोन्नतपयोधरा ॥ २३॥ प्रगल्भा सरसा कान्ता कुशला ग्रहमोक्षयोः । विशाललोचना गीतवाद्यतालानुवर्तिनी ॥ २४॥ परार्ध्यभूषासम्पन्ना प्रसन्नमुखपङ्कजा । एवंविधगुणोपेता नर्तकी समुदीरिता ॥ २५॥ वर्जनीयपात्राणि -- पुष्पाक्षी केशहीना च स्थूलोष्ठी लम्बितस्तनी । अतिस्थूलाप्यतिकृशा अत्युच्चाप्यतिवामना ॥ २६॥ कुब्जा च स्वरहीना च दशैता नाट्यवर्जिताः । पात्रस्य प्राणाः -- जवः स्थिरत्वं रेखा च भ्रमरी दृष्टिरश्रमः ॥ २७॥ मेधा श्रद्धा वचो गीतं पात्रप्राणा दश स्मृताः । एवंविधेन पात्रेण नृत्यं कार्यं विधानतः ॥ २८॥

किङ्किणीलक्षणं

सुस्वराश्च सुरूपाश्च सूक्ष्मा नक्षत्रदेवताः । किङ्किण्यः कांस्यरचिता एकैकाङ्गुलिकान्तरम् ॥ २९॥ बध्नीयान्नीलसूत्रेण ग्रन्थिभिश्च दृढं पुनः । शतद्वयं शतं वापि पादयोर्नाट्यकारिणी ॥ ३०॥ प्रार्थनादिकं -- विघ्नेशं मुरजाधिपं च गगनं स्तुत्वा महीं प्रार्थयेत् तत्तद्वाद्यकदम्बकस्य विधिना पूजाविधामानयेत् । आलप्यातिमनोहरान् बहुविधीन् सम्पाद्य भूयस्तथा गुर्वाज्ञामवलम्ब्य पात्रमुचितं श‍ृङ्गारमेवारभेत् ॥ ३१॥ रङ्गाधिदेवतास्तुतिः -- भरतकुलभाग्यकलिके भावरसानन्दपरिणताकारे । जगदेकमोहनकले जय जय रङ्गाधिदेवते देवि ॥ ३२॥

पुष्पाञ्जलिः

विघ्नानां नाशनं कर्तुं भूतानां रक्षणाय च । देवानां तुष्टये चापि प्रेक्षकाणां विभूतये ॥ ३३॥ श्रेयसे नायकस्यात्र पात्रसंरक्षणाय च । आचार्यशिक्षासिद्धार्थ पुष्पाञ्जलिमथारभेत् ॥ ३४॥

नाट्यक्रमः

एवं कृत्वा पूर्वरङ्गं नृत्यं कार्यं ततः परम् । नृत्यं गीताभिनयनं भावतालयुतं भवेत् ॥ ३५॥ आस्येनालम्बयेद् गीतं हस्तेनार्थं प्रदर्शयेत् । चक्षुर्भ्यां दर्शयेद् भावं पादाभ्यां तालमाचरेत् ॥ ३६॥ यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ ३७॥

अभिनयः

तत्र त्वभिनयस्यैव प्राधान्यमिति कथ्यते । आङ्गिको वाचिकस्तद्वदाहार्यः सात्विकोऽपरः ॥ ३८॥ चतुर्धाभिनयस् -

आङ्गिकाभिनयः

तत्र आङ्गिकोऽङ्गैर्निदर्शितः ।

वाचिकाभिनयः

वाचा विरचितः काव्यनाटकादि तु वाचिकः ॥ ३९॥

आहार्याभिनयः

आहार्यो हारकेयूरवेषादिभिरलङ्कृतः ।

सात्त्विकाभिनयः

सात्त्विकः सात्त्विकैर्भावैर्भावज्ञेन विभावितः ॥ ४०॥ स्तम्भः स्वेदाम्बु रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ ४१॥

आङ्गिकाभिनयसाधनानि

तत्राङ्गिकोऽङ्गप्रत्यङ्गोपाङ्गैस्त्रेधा प्रकाशतः ।

अङ्गानि

अङ्गान्यस्त्र शिरो हस्तौ वक्षः पार्श्वौ कटीतटौ ॥ ४२॥ पादाविति षडुक्तानि ग्रीवामप्यपरे जगुः ॥

प्रत्यङ्गानि

प्रत्यङ्गान्यथ च स्कन्धौ बाहू पृष्ठं तथोदरम् ॥ ४३॥ ऊरू जङ्घे षडित्याहुरपरे मणिबन्धकौ । जानुनी कूर्परावेतत् त्रयमप्यधिकं जगुः ॥ ४४॥

उपाङ्गानि

ग्रीवा स्यादप्युपाङ्गन्तु स्कन्ध एवं जगुर्बुधाः । दृष्टिभ्रूपुटताराश्च कपोलौ नासिका हनू ॥ ४५॥ अधरो दशना जिह्वा चुबुकं वदनं तथा । उपाङ्गानि द्वादशैव शिरस्यङ्गान्तरेषु च ॥ ४६॥ पार्ष्णिगुल्फौ तथाङ्गुल्यः करयोः पादयोस्तले । एतानि पूर्वशास्त्रानुसारेणोक्तानि वै मया ॥ ४७॥ नृत्यमात्रोपयोगीनि कथ्यन्ते लक्षणैः क्रमात् । अङ्गानां चलनादेव प्रत्यङ्गोपाङ्गयोरपि ॥ ४८॥ चलनं प्रभवेत्तस्मात् सर्वेषां नात्र लक्षणम् । शिरोमेदाः -- सममुद्वाहितमधोमुखमालोलितं धुतम् ॥ ४९॥ कम्पितं च परावृत्तमुत्क्षिप्तं परिवाहितम् । नवधा कथितं शीर्षं नाट्यशास्त्रविशारदैः ॥ ५०॥ समशिरः -- निश्चलं सममाख्यातं यन्नत्युन्नतिवर्जितम् । विनियोगः -- नृत्यारम्भे जपादौ च गर्वे प्रणयकोपयोः ॥ ५१॥ स्तम्भने निष्क्रियत्वे च समशीर्षमुदाहृतम् । उद्वाहितशिरः -- उद्वाहितशिरो ज्ञेयमूर्ध्वभागोन्नताननम् ॥ ५२॥ विनियोगः -- ध्वजे चन्द्रे च गगने पर्वते व्योमगामिषु । तुङ्गवस्तुनि संयोज्यमुद्वाहितशिरो बुधैः ॥ ५३॥ अधोमुखशिरः -- अधस्तान्नमितं वक्त्रमधोमुखमितीरितम् । विनियोगः -- लज्जाखेदप्रणामेषु दुश्चिन्तामूर्छयोस्तथा ॥ ५४॥ अधःस्थितार्थनिर्देशे युज्यतेऽम्बुनि मज्जने । आलोलितशिरः -- मण्डलाकारमुद्भ्रान्तमालोलितं शिरो भवेत् ॥ ५५॥ विनियोगः -- निद्रोद्वेगग्रहावेशमदमूर्छासु तन्मतम् । भ्रमणे विकटोद्दामहास्ये चालोलितं शिरः ॥ ५६॥ धुतशिरः -- वामदक्षिणभागेषु चलितं तद्धुतं शिरः । विनियोगः -- नास्तीति वचने भूयः पार्श्वदेशावलोकने ॥ ५७॥ जनाश्वासे विस्मये च विषादेऽनीप्सिते तथा । शीतार्ते ज्वरिते भीते सद्यःपीतासवे तथा ॥ ५८॥ युद्धे यत्ने निषेधादावमर्षे स्वाङ्गवीक्षणे । पार्श्वाह्वाने च तस्योक्तः प्रयोगो भरतादिभिः ॥ ५९॥ कम्पितशिरः -- ऊर्ध्वाधोभागचलितं तच्छिरः कम्पितं भवेत् । विनियोगः -- रोषे तिष्ठेति वचने प्रश्ने सङ्ख्योपहूतयोः ॥ ६०॥ आवाहने तर्जने च कम्पितं विनियुज्यते । परावृत्तशिरः -- पराङ्मुखीकृतं शीर्षं परावृत्तमितीरितम् ॥ ६१॥ विनियोगः -- तत् कार्यं कोपलज्जादिकृते बक्त्रापसरणे । अनादरे कचे तूण्यां परावृत्तशिरो भवेत् ॥ ६२॥ उत्क्षिप्तशिरः -- पार्श्वोर्ध्वभागचलितमुत्क्षिप्तं कथ्यते शिरः । विनियोगः -- गृहाणागच्छेत्याद्यर्थसूचने परिपोषणे ॥ ६३॥ अङ्गीकारे प्रयोक्तव्यमुत्क्षिप्तं नाम शीर्षकम् । परिवाहितशिरः -- पार्श्वयोश्चामरमिव ततं चेत् परिवाहितम् ॥ ६४॥ विनियोगः -- मोहे च विरहे स्तोत्रे सन्तोषे चानुमोदने । विचारे च प्रयोक्तव्यं परिवाहितशीर्षकम् ॥ ६५॥ दृष्टिमेदाः -- सममालोकितं साचीर्लोकितनिमीलिते । उल्लोकितानुवृत्ते च तथा चैवावलोकितम् ॥ ६६॥ इत्यष्टौ दृष्टिभेदाः स्युः कीर्तिताः पूर्वसूरिभिः । समदृष्टिः -- वीक्षणं सुरनारीवत् सानन्दं समवीक्षणम् ॥ ६७॥ विनियोगः -- नाट्यारम्भे तुलायां चाप्यन्यचिन्ताविनिश्चये । आश्चर्ये देवतारूपे समदृष्टिरुदाहृता ॥ ६८॥ आलोकितदृष्टिः -- आलोकितं भवेदाशुभ्रमणं स्फुटवीक्षणम् । विनियोगः -- कुलालचक्रभ्रमणे सर्ववस्तुप्रदर्शने ॥ ६९॥ याञ्चयां च प्रयोक्तव्यमालोकितनिरीक्षणम् । साचीदृष्टिः -- स्वस्थाने तिर्यगाकारमपाङ्गवलनं क्रमात् ॥ ७०॥ साचीदृष्टिरिति ज्ञेया नाट्यशास्त्रविशारदैः । विनियोगः -- इङ्गिते श्मश्रुसंस्पर्शे शरलक्ष्ये शुके स्मृतौ ॥ ७१॥ सूचनायां च कार्याणां नाट्ये साचीनिरीक्षणम् । प्रलोकितदृष्टिः -- प्रलोकितं परिज्ञेयं चलनं पार्श्वभागयोः ॥ ७२॥ विनियोगः -- उभयोः पार्श्वयोर्वस्तु निर्देशे च प्रसञ्जिते । चलने बुद्धिजड्ये च प्रलोकितनिरीक्षणम् ॥ ७३॥ मोलितदृष्टिः -- दृष्टे रर्धविकाशेन मीलिता दृष्टिरीरिता । विनियोगः -- आशीविषे पारवश्ये जपे ध्याने नमस्कृतौ ॥ ७४॥ उन्मादे सूक्ष्मदृष्टौ च मीलिता दृष्टिरीरिता । उल्लोकितदृष्टिः -- उल्लोकितमिति ज्ञेयमूर्ध्वभागे विलोकनम् ॥ ७५॥ विनियोगः -- ध्वजाग्रे गोपुरे देवमण्डले पूर्वजन्मनि । औन्नत्ये चन्द्रिकादावप्युल्लोकितनिरीक्षणम् ॥ ७६॥ अनुवृत्तदृष्टिः -- ऊर्ध्वाधो वीक्षणं वेगादनुवृत्तमितीरितम् । विनियोगः -- कोपदृष्टौ प्रियामन्त्रे अनुवृत्तनिरीक्षणम् ॥ ७७॥ अवलोकितदृष्टिः -- अधस्ताद्दर्शनं यत्तदवलोकितमुच्यते । विनियोगः -- छायालोके विचारे च चर्यायां पठनश्रमे ॥ ७८॥ स्वाङ्गावलोकने यानेऽप्यवलोकितमुच्यते । ग्रीवाभेदाः -- सुन्दरी च तिरश्चीना तथैव परिवर्तिता ॥ ७९॥ प्रकम्पिता च भावज्ञैर्ज्ञेया ग्रीवा चतुर्विधा । सुन्दरी प्रीवा -- तिर्यक् चञ्चलिता ग्रीवा सुन्दरीति निगद्यते ॥ ८०॥ विनियोगः -- स्नेहारम्भे तथा यत्ने सम्यगर्थे च विस्तृते । सरसत्वानुमोदे च सा ग्रीवा सुन्दरी मता ॥ ८१॥ तिरश्चीना ग्रीवा -- पार्श्वयोरुर्ध्वभागे तु चलिता सर्पयानवत् । सा ग्रीवा तु तिरश्चीनेत्युच्यते नाट्यकोविदैः ॥ ८२॥ विनियोगः -- स्वड्गश्रमे सर्पगत्यां तिरश्चीना प्रयुज्यते । परिवर्तिता ग्रीवा -- सव्यापसव्यचलिता ग्रीवा यत्रार्धचन्द्रवत् ॥ ८३॥ सा हि नाट्यकलाभिज्ञैर्विज्ञेया परिवर्तिता । विनियोगः -- श‍ृङ्गारनटने कान्तकपोलद्वयचुम्बने ॥ ८४॥ नाट्यतन्त्रविचारज्ञैः प्रयोज्या परिवर्तिता । प्रकम्पिता ग्रीवा -- पुरः पश्चात् प्रचलनात् कपोतीकण्ठकम्पवत् ॥ ८५॥ प्रकम्पितेति सा ग्रीवा नाट्यशास्त्रे प्रशस्यते । विनियोगः -- युष्मदस्मदिति प्रोक्ते देशीनाट्ये विशेषतः ॥ ८६॥ दोलायां मणिते चैव प्रयोक्तव्या प्रकम्पिता । हस्तभेदाः -- अथेदानीन्तु हस्तानां लक्षणं प्रोच्यते मया ॥ ८७॥ असंयुताः संयुताश्च हस्तद्वेधा निरूपिता । तत्रासंयुतहस्तानामादौ लक्षणमुच्यते ॥ ८८॥ असंयुतहस्ताः -- पताकस्त्रिपताकोऽर्धपताकः कर्तरीमुखः । मयूराख्योऽर्धचन्द्रश्च अरालः शुकतुण्डकः ॥ ८९॥ मुष्टिश्च शिखराख्यश्च कपित्थः कटकामुखः । सूची चन्द्रकला पद्मकोशः सर्पशिरस्तथा ॥ ९०॥ मृगशीर्षः सिंहमुखः काङ्गुलश्चालपद्मकः । चतुरो भ्रमरश्चैव हंसास्यो हंसपक्षकः ॥ ९१॥ शन्दंशो मुकुलश्चेव ताम्रचूडस्त्रिशूलकः । इत्यसंयुतहस्तानामष्टाविंशतिरीरिता ॥ ९२॥ पताकहस्तः -- अङ्गुल्यः कुञ्चिताङ्गुष्टः संश्लिष्टाः प्रसृता यदि । स पताककरः प्रोक्तो नृत्यकर्मविशारदैः ॥ ९३॥ विनियोगः -- नाट्यारम्भे वारिवाहे वने वस्तुनिषेधने । कुचस्थले निशायां च नद्याममरमण्डले ॥ ९४॥ तुरङ्गे खण्डने वायौ शयने गमनोद्यमे । प्रतापे च प्रसादे च चन्द्रिकायां घनातपे ॥ ९५॥ कवाटपाटने सप्तविभक्त्यर्थे तरङ्गके । वीथिप्रवेशभावेऽपि समत्वे चाङ्गरागके ॥ ९६॥ आत्मार्थे शपथे चापि तूष्णीम्भावनिदर्शने । तालपत्रे च खेटे च द्रव्यादिस्पर्शने तथा ॥ ९७॥ आशीर्वादक्रियायां च नृपश्रेष्ठस्य भावने । तत्र तत्रेति वचने सिन्धौ च सुकृतिक्रमे ॥ ९८॥ सम्बोधने पुरोगेऽपि खड्गरूपस्य धारणे । मासे संवत्सरे वर्षदिने सम्मार्जने तथा ॥ ९९॥ एवमर्थेषु युज्यन्ते पताकहस्तभावनाः । त्रिपताकहस्तः -- स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ॥ १००॥ विनियोगः -- मकुटे वृक्षभावेषु वज्रे तद्धरवासवे । केतकीकुसुमे दीपे वह्निज्वाला विजृम्भने ॥ १०१॥ कपोते पत्रलेखायां बाणार्थे परिवर्तने । युज्यते त्रिपताकोऽयं कथितो भरतोत्तमैः ॥ १०२॥ अर्धपताकहस्तः -- त्रिपताके कनिष्टा चेद् वक्रिताऽर्धपताकिका । विनियोगः -- पल्लवे फलके तीरे उभयोरिति वाचके ॥ १०३॥ क्रकचे छुरिकायां च ध्वजे गोपुरश‍ृङ्गयोः । युज्यतेऽर्धपताकोऽयं तत्तत्कर्मप्रयोगके ॥ १०४॥ कत्तरीमुखहस्तः -- अस्यैव चापि हस्तस्य तर्जनी च कनिष्ठिका । बहिः प्रसारिते द्वे च स करः कर्तरीमुखः ॥ १०५॥ विनियोगः -- स्त्रीपुंसयोस्तु विश्लेषे विपर्यासपदेऽपि वा । लुण्ठने नयनान्ते च मरणे भेदभावने ॥ १०६॥ विद्युदर्थेऽप्येकशय्याविरहे पतने तथा । लतायां युज्यते यस्तु स करः कर्तरीमुखः ॥ १०७॥ मयूरहस्तः -- अस्मिन्नामिकाङ्गुष्ठौ श्लिष्टौ चान्याः प्रसारिताः । मयूरहस्तः कथितः करटीकाविचक्षणैः ॥ १०८॥ विनियोगः -- मयूरास्ये लतायां च शकुने वमने तथा । अलकस्यापनयने ललाटतिलकेषु च ॥ १०९॥ नद्युदकस्य निक्षेपे शास्त्रवादे प्रसिद्धके । एवमर्थेषु युज्यन्ते मयूरकरभावनाः ॥ ११०॥ अर्धचन्द्रहस्तः -- अर्धचन्द्रकरः सोऽयं पताकेऽङ्गुष्ठसारणात् । विनियोगः -- चन्द्रे कृष्णाष्टमीभाजि गलहस्तार्थकेऽपि च ॥ १११॥ भल्लायुधे देवतानामभिषेचनकर्मणि । भुक्पात्रे चोद्भवे कट्यां चिन्तायामात्मवाचके ॥ ११२॥ ध्याने च प्रार्थने चापि अङ्गानां स्पर्शने तथा । प्राकृतानां नमस्कारे अर्धचन्द्रो नियुज्यते ॥ ११३॥ अरालहस्तः -- पताके तर्जनी वक्रा नाम्ना सोऽयमरालकः । विनियोगः -- विषाद्यमृतपानेषु प्रचण्डपवनेऽपि च ॥ ११४॥ शुकतुण्डहस्तः -- अस्मिन्ननामिका वक्रा शुकतुण्डकरो भवेत् । विनियोगः -- बाणप्रयोगे कुन्तार्थे वाऽऽलयस्य स्मृतिक्रमे ॥ ११५॥ मर्मोत्यामुग्रभावेषु शुकतुण्डो नियुज्यते । मुष्टिहस्तः -- मेलनादङ्गुलीनाञ्च कुञ्चितानां तलान्तरे ॥ ११६॥ अङ्गुष्ठश्चोपरियुतो मुष्टिहस्तोऽयमीर्यते । विनियोगः -- स्थिरे कचग्रहे दार्ढ्ये वस्त्वादीनां च धारणे ॥ ११७॥ मल्लानां युद्धभावेऽपि मुष्टिहस्तोऽयमिष्यते । शिखरहस्तः -- चेन्मुष्टिरुन्नताङ्गुष्ठः स एव शिखरः करः ॥ ११८॥ विनियोगः -- मदने कार्मुके स्तम्भे निश्चये पितृकर्मणि । ओष्ठेप्रविष्टरूपे च रदने प्रश्नभावने ॥ ११९॥ लिङ्गे नास्तीति वचने स्मरणेऽभिनयान्तिके । कटिबन्धाकर्षणे च परिरम्भविधिक्रमे ॥ १२०॥ घण्टानिनादे शिखरो युज्यते भरतादिभिः । कपित्थहस्तः -- अङ्गुष्ठमूर्ध्निशिखरो वक्रिता यदि तर्जनी ॥ १२१॥ कपित्थाख्यः करः सोऽयं कीर्तितो नृत्तकोविदैः । विनियोगः -- लक्ष्म्यां चैव सरस्वत्यां नटानां तालधारणे ॥ १२२॥ गोदोहनेऽप्यञ्जने च लीलाकुसुमधारणे । चेलाञ्चलादिग्रहणे पटस्यैवावगुण्ठने ॥ १२३॥ धूपदीपार्चने चापि कपित्थः सम्प्रयुज्यते । कटकामुखहस्तः -- कपित्थे तर्जनी चोर्ध्वमुछ्रिताङ्गुष्ठमध्यमा ॥ १२४॥ कटकामुखहस्तोऽयं कीर्तितो भरतागमैः । विनियोगः -- कुसुमावचये मुक्तास्रग्दाम्नां धारणे तथा ॥ १२५॥ शरमध्याकर्षणे च नागल्लीप्रदानके । कस्तूरिकादिवस्तूनां पेषणे गन्धवासने ॥ १२६॥ वचने दृष्टिभावेऽपि कटकामुख इष्यते । सूचीहस्तः -- ऊर्ध्वप्रसारिता यत्र कटकामुखतर्जनी ॥ १२७॥ सूचीहस्तः स विज्ञेयो भरतागमकोविदैः । विनियोगः -- एकार्थेऽपि परब्रह्मभावनायां शतेऽपि च ॥ १२८॥ रवौ नगर्यां लोकार्थे तथेति वचनेऽपि च । यच्छब्देऽपि तच्छब्द् विजनार्थेऽपि तर्जने ॥ १२९॥ कार्श्ये शलाके वपुषि आश्चर्ये वेणिभावने । छत्रे समर्थे पाणौ च रोमाल्यां भेरीवादने ॥ १३०॥ कुलालचक्रभ्रमणे रथाङ्गमण्डले तथा । विवेचने दिनान्ते च सूचीहस्तः प्रकीर्तितः ॥ १३१॥ चन्द्रकलाहस्तः -- सूच्यामङ्गुष्ठमोक्षे तु करश्चन्द्रकला भवेत् । विनियोगः -- चन्द्रे मुखे च प्रादेशे तन्मात्राकारवस्तुनि ॥ १३२॥ शिवस्य मुकुटे गङ्गानद्यां च लगुडेऽपि च । एषां चन्द्रकला चैव विनियोज्या विधीयते ॥ १३३॥ पद्मकोशहस्तः -- अङ्गुल्यो विरला किञ्चित् कुञ्चितास्तलनिम्नगाः । पद्मकोशाभिधो हस्तस्तन्निरूपणमुच्यते ॥ १३४॥ विनियोगः -- फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः । आवर्ते कन्दुके स्थाल्यां भोजने पुष्पकोरके ॥ १३५॥ सहकारफले पुष्पवर्षे मञ्जरिकादिषु । जपाकुसुमभावे च घण्टारूपे विधानके ॥ १३६॥ वल्मीके कमलेऽप्यण्डे पद्मकोशो विधीयते । सर्पशीर्षहस्तः -- पताका नमिताग्रा चेत् सर्पशीर्षकरो भवेत् ॥ १३७॥ विनियोगः -- चन्दने भुजगे मन्द्रे प्रोक्षणे पोषणादिषु । देवस्योदकदानेषु आस्फाले गजकुम्भयोः ॥ १३८॥ भुजस्थाने मल्लानां तु युज्यते सर्पशीर्षकः । मृगशीर्षहस्तः -- अस्मिन् कनिष्ठिकाङ्गुष्ठे प्रसृते मृगशीर्षकः ॥ १३९॥ विनियोगः -- स्त्रीणामर्थे कपोले च चक्रमर्यादयोरपि । भीत्यां विवादे नेपथ्ये आह्वाने च त्रिपुण्ड्रके ॥ १४०॥ मृगमुखे रङ्गमल्ल्यां पादसंवाहने तथा । सर्वस्वे मिलने काममन्दिरे छत्रधारणे ॥ १४१॥ सञ्चारे च प्रियाह्वाने युज्यते मृगशीर्षकः । सिंहमुखहस्तः -- मध्यमानामिकाग्राभ्यामङ्गुष्ठो मिश्रितो यदि ॥ १४२॥ शेषौ प्रसारितौ यत्र स सिंहास्यकरो भवेत् । विनियोगः -- होमे शशे गजे दर्भचलने पद्मदामनि ॥ १४३॥ सिंहानने वैद्यपाके शोधने सम्प्रयुज्यते । काङ्गुलहस्तः -- पद्मकोशेऽनामिका चेन्नम्रा काङ्गुलहस्तकः ॥ १४४॥ धुतशिरः -- लकुचस्य फले बालकिङ्किण्यां घण्टिकार्थके । चकोरे क्रमुके बालकुचे कह्लारके तथा ॥ १४५॥ चातके नालिकेरे च काङ्गुलो युज्यते करः । अलपद्महस्तः -- कनिष्ठाद्या वक्रिताश्च विरलाश्चालपद्मकः ॥ १४६॥ विनियोगः -- विकचाब्जे कपित्थादिफले चावर्तके कुचे । विरहे मुकुरे पूर्णचन्द्रे सौन्दर्यभावने ॥ १४७॥ धम्मिल्ले चन्द्रशालायां ग्रामे चोद्धृतकोपयोः । तटाके शकटे चक्रवाके कलकलारवे ॥ १४८॥ श्लाघने सोऽलपद्मश्च कीर्तितो भरतागमे । चतुरहस्तः -- तर्जन्याद्यास्तत्र श्लिष्टाः कनिष्ठा प्रसृता यदि ॥ १४९॥ अङ्गुष्ठोऽनामिकामूले तिर्यक् चेच्चतुरः करः । विनियोगः -- कस्तूर्यां किञ्चिदर्थे च स्वर्णे ताम्रे च लोहके ॥ १५०॥ आर्द्रे खेदे रसास्वादे लोचने वर्णभेदने । प्रमाणे सरसे मन्दगमने शकलीकृते ॥ १५१॥ आनने घृततैलादौ युज्यते चतुरः करः । भ्रमरहस्तः -- मध्यमाङ्गुष्ठसंयोगे तर्जनी वक्रिताकृतिः ॥ १५२॥ शेषाः प्रसारिताश्चासौ भ्रमराभिधहस्तकः । विनियोगः -- भ्रमरे च शुके पक्षे सारसे कोकिलादिषु ॥ १५३॥ भ्रमराख्यश्च हस्तोऽयं कीर्तितो भरतागमे । हंसास्यहस्तः -- भध्यमाद्यास्त्रयोङ्गुल्यः प्रसृता विरला यदि ॥ १५४॥ तर्जन्यङ्गुष्ठसंश्लेषात् करो हंसात्यको भवेत् । विनियोगः -- माङ्गल्ये सूत्रबन्धे च उपदेशविनिश्चये ॥ १५५॥ रोमाञ्चे मौक्तिकादौ च दीपवर्तिप्रसारणे । निकषे मल्लिकादौ च चित्रे तल्ले खने तथा ॥ १५६॥ दंशे च जलबन्धे च हंसास्यो युज्यते करः । हंसपक्षहस्तः -- सर्पशीर्षकरे सम्यक् कनिष्ठा प्रसृता यदि ॥ १५७॥ हंसपक्षः करः सोऽय तन्निरूपणमुच्यते । विनियोगः -- षट्सङ्ख्यायां सेतुबन्धे नखरेखाङ्कणे तथा ॥ १५८॥ पिधाने हंसपक्षोऽयं कथितो भरतागमे । सन्दंशस्तः -- पुनः पुनः पद्मकोशः संश्लिष्टो विरलो यदि ॥ १५९॥ सन्दंशाभिधहस्तोऽयं कीर्तितो नृत्यकोविदैः । विनियोगः -- उदरे वलिदाने च व्रणे कीटे महाभये ॥ १६०॥ अर्चने पञ्चसङ्ख्यायां सन्दंशाख्यो नियुज्यते । मुकुलहस्तः -- अङ्गुलोपञ्चकं चैव मेलयित्वा प्रदर्शने ॥ १६१॥ मुकुलाभिधहस्तोऽयं कीर्त्यते भरतागमे । कुमुदे भोजने पञ्चबाणे मुद्रादिधारणे ॥ १६२॥ नाभौ च कदलीपुष्पे युज्यते मुकुलः करः । ताम्रचूडहस्तः -- मुकुले ताम्रचूडः स्यात्तर्जनी वक्रिता यदि ॥ १६३॥ विनियोगः -- कुक्कुटादौ वके काके उष्ट्रे वत्से च लेखने । युज्यते ताम्रचूडाख्यः करो भरतवेदिभिः ॥ १६४॥ त्रिशूलहस्तः -- निकुञ्चनयुताङ्गुष्ठकनिष्ठस्तु त्रिशूलकः । विनियोगः -- विल्वपत्रे त्रित्वयुक्ते त्रिशूलकर ईरितः ॥ १६५॥ व्याघ्रहस्तः -- कनिष्ठाङ्गुष्ठनमने मृगशीर्षकरे तथा । व्याघ्रहस्तः स विज्ञेयो भरतागमकोविदैः ॥ १६६॥ विनियोगः -- व्याघ्रे भेके मर्कटे च शुक्तौ संयुज्यते करः । अर्धसूचीहस्तः -- कपित्थे तर्जनी ऊर्ध्वसारणे त्वर्धसूचिकः ॥ १६७॥ विनियोगः -- अङ्कुरे पक्षिशावादौ बृहत्कीटे नियुज्यते । कटकहस्तः -- सन्दंशेऽप्युर्ध्वभागे तु मध्यमानामिकान्वया ॥ १६८॥ ॥॥ ॥॥ कटको हस्त उच्यते । विनियोगः -- एतस्य विनियोगस्तु ॥॥ ॥॥ दर्शने ॥ १६९॥ आह्वानभावचलने ॥॥ ॥॥ । पल्लिहस्तः -- मयूरे तर्जनीपृष्ठो मध्यमेन युतो यदि ॥ १७०॥ पल्लिहस्तः स विज्ञेयः पल्लाथै विनियुज्यते । अभिनयवशादेषां संयुतत्वं प्रकीर्तितम् ॥ १७१॥ मार्गप्रदर्शनं तेषां क्रमाल्लक्ष्यानुसारतः । संयुतहस्ताः -- अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ १७२॥ डोलाहस्तः पुष्पपुट उत्सङ्गः शिवलिङ्गकः । कटकावर्धनश्चैव कर्तरीस्वस्तिकस्तथा ॥ १७३॥ शकटं शङ्खचक्रे च सम्पुटः पाशकीलकौ । मत्स्यः कूर्मों वराहश्च गरुडो नागबन्धकः ॥ १७४॥ खट्वा भेरुण्ड इत्येते सङ्ख्याता संयुताः कराः । त्रयोविंशतिरित्युक्ताः पूर्वगैर्भरतादिभिः ॥ १७५॥ अञ्जलिहस्तः -- पताकातलयोर्योगादञ्जलिः कर ईरितः । विनियोगः -- देवतागुरुविप्राणां नमस्कारेष्वनुक्रमात् ॥ १७६॥ कार्यः शिरोमुखोरस्थो विनियोगेऽञ्जलिबुधैः । कपोतहस्तः -- कपोतोऽसौ करो यत्र श्लिष्टाऽऽमूलाग्रपार्श्वकः ॥ १७७॥ विनियोगः -- प्रणामे गुरुसम्भाषे विनयाङ्गीकृतेष्वयम् । कर्कटहस्तः -- अन्योन्यस्यान्तरे यत्राङ्गुल्यो निःसृत्य हस्तयोः ॥ १७८॥ अन्तर्बहिर्वा वर्तन्ते कर्कटः सोऽभिधीयते । विनियोगः -- समूहागमने तुन्ददर्शने शङ्खपूरणे ॥ १७९॥ अङ्गानां मोटने शाखोन्नमने च नियुज्यते । स्वस्तिकहस्तः -- पताकयोः सन्नियुक्तः करयोर्मणिबन्धयोः ॥ १८०॥ संयोगेन स्वस्तिकाख्यो मकरे विनियुज्यते । डोलाहस्तः -- पताक ऊरूदेशस्थे डोलाहस्तोऽयमिष्यते ॥ १८१॥ विनियोगः -- नाट्यारम्भे प्रयोक्तव्य इति नाट्यविदो विदुः । पुष्पपुटहस्तः -- संश्लिष्टकरयोः सर्पशीर्षः पुष्पपुटः करः ॥ १८२॥ विनियोगः -- नीराजनाविधौ वारिफलादिग्रहणेऽपि च । सध्याय्मयैदाने च मन्त्रपुष्पे च युज्यते ॥ १८३॥ उत्सङ्गहस्तः -- आन्योन्यबाहुदेशस्थौ मृगशीर्षकरौ यदि । उत्सङ्गहस्तः स ज्ञेयो भरतागमवेदिभिः ॥ १८४॥ विनियोगः -- आलिङ्गने च लज्जायामङ्गदादिप्रदर्शने । बालानां शिक्षणे चायमुत्सङ्गो युज्यते करः ॥ १८५॥ शिवलिङ्गहस्तः -- वामेऽर्धचन्द्रो विन्यस्तः शिखरः शिवलिङ्गकः । विनियोगः -- विनियोगस्तु तस्यैव शिवलिङ्गस्य दर्शने ॥ १८६॥ कटकावर्धनहस्तः -- कटकामुखयोः पाण्योः स्वस्तिको मणिबन्धयोः । कटकावर्धनाख्यः स्यादिति नाट्यविदो विदुः ॥ १८७॥ विनियोगः -- पट्टाभिषेके पूजायां विवाहादिषु युज्यते । कर्तरीस्वस्तिकहस्तः -- कर्तरीस्वस्तिकाकारा कर्तरीस्वस्तिको भवेत् ॥ १८८॥ विनियोगः -- शाखासु चाद्रिशिखरे वृक्षेषु च नियुज्यते । शकटहस्तः -- भ्रमरे मध्यमाङ्गुष्ठप्रसाराच्छकटो भवेत् ॥ १८९॥ विनियोगः -- राक्षसाभिनये प्रायः शकटो विनियुज्यते । शङ्खहस्तः -- शिखरान्तर्गताङ्गुष्ठ इतराङ्गुष्ठसङ्गतः ॥ १९०॥ तर्जन्या युत अश्लिष्टः शङ्खहस्तः प्रकीर्तितः । विनियोगः -- शङ्खादिषु प्रयोज्योऽयमित्याहुर्भरतादयः ॥ १९१॥ चक्रहस्तः -- यत्रार्धचन्द्रौ तिर्यञ्चावन्योन्यतलसंस्पृशौ । चक्रहस्तः स विज्ञेयश्चक्रार्थे विनियुय्यते ॥ १९२॥ सम्पुटहस्तः -- कुञ्चिताङ्गुलयश्चके प्रोक्तः सम्पुटहस्तकः । विनियोगः -- वस्त्वाच्छादे सम्पुटे च सम्पुटः कर ईरितः ॥ १९३॥ पाशहस्तः -- सूच्यां निकुञ्चिते श्लिष्टे तर्जन्यौ पाश ईरितः । विनियोगः -- अन्योन्यकलहे पाशे श‍ृङ्खलायां नियुज्यते ॥ १९४॥ कीलकहस्तः -- कनिष्ठे कुञ्चिते श्लिष्टे मृगशीर्षस्तु कीलकः । विनियोगः -- स्नेहे नर्मानुलापे च कीलको विनियुज्यते ॥ १९५॥ मत्स्यहस्तः -- करपृष्टोपरि न्यस्तो यत्र हस्तस्त्वधोमुखः । किञ्चित्प्रसारिताङ्गुष्ठकनिष्ठो मत्स्यनामकः ॥ १९६॥ विनियोगः -- एतस्य विनियोगस्तु सम्मतो मत्स्यदर्शने । कूर्महस्तः -- कुञ्चिताग्राङ्गुलिश्चक्रे त्यक्ताङ्गुष्ठकनिष्ठकः ॥ १९७॥ कूर्महस्तः स विज्ञेयः कूर्मार्थे विनियुज्यते । वराहहस्तः -- मृगशीर्षे त्वन्यतरे स्वोपर्येकः स्थिते यदि ॥ १९८॥ कनिष्ठाङ्गुष्ठयोर्योगाद्वराहकर ईरितः । विनियोगः -- एतस्य वियोगः स्याद्वराहार्थप्रदर्शने ॥ १९९॥ गरुडहस्तः -- तिर्यक्तलस्थितावर्धचन्द्रावङ्गुष्ठयोगतः । गरुडहस्त अस्त् इत्याहुर्गरुडार्थे नियुज्यते ॥ २००॥ नागबन्धहस्तः -- सर्पशीर्षस्वस्तिकञ्च नागबन्ध इतीरितः । विनियोगः -- एतस्य विनियोगस्तु नागबन्धे हि सम्मतः ॥ २०१॥ खट्राहस्तः -- चतुरे चतुरं न्यस्य तर्जन्यङ्गुष्ठमोक्षतः । खट्वाहस्तो भवेदेष खट्वाशिविकयोः स्मृतः ॥ २०२॥ भेरुण्डहस्तः -- मणिबन्धे कपित्थाभ्यां भेरुण्डकर इष्यते । विनियोगः -- भेरुण्डे पक्षिदम्पत्योर्भेरुण्डो युज्यते करः ॥ २०३॥ देवहस्ताः -- अथात्र ब्रह्मरुद्रादिदेवताभिनयक्रमात् । मूर्तिभेदेन ये हस्तास्तेषां लक्षणमुच्यते ॥ २०४॥ ब्रह्महस्तः -- ब्रह्मणश्चतुरो वामे हंसास्यो दक्षिणे करः । ईश्वरहस्तः -- शम्भोर्वामे मृगशीर्षस्त्रिपताकस्तु दक्षिणे ॥ २०५॥ विष्णुहस्तः -- हस्ताभ्यां त्रिपताकस्तु विष्णुहस्तः स कीर्तितः । सरस्वतीहस्तः -- सूचीकृते दक्षिणे च वामे चांससमकृतौ ॥ २०६॥ कपित्थकेऽपि भारत्याः कर स्यादिति सम्मतः । पार्वतीहस्तः -- ऊर्ध्वाधः प्रसूतावर्धचन्द्राख्यौ वामदक्षिणौ ॥ २०७॥ अभयो वरदश्चैव पार्वत्या कर ईरितः । लक्ष्मीहस्तः -- अंसोपकण्ठे हस्ताभ्यां कपित्थस्तु श्रियः करः ॥ २०८॥ विनायकहस्तः -- उरोगताभ्यां हस्ताभ्यां कपित्थो विघ्नराट् करः । षण्मुखहस्तः -- वामे करे त्रिशूलञ्च शिखरो दक्षिणे करे ॥ २०९॥ ऊर्ध्वं गते षण्मुखस्य हस्तः स्यादिति कीर्तितः -- मन्मथहस्तः -- वामे करे तु शिखरो दक्षिणे कटकामुखः ॥ २१०॥ मन्मथस्य करः प्रोक्तो नाट्यशास्त्रार्थकोविदैः । इन्द्रहस्तः -- त्रिपताकः स्वस्तिकश्च शक्रहस्तः प्रकीर्तितः ॥ २११॥ अग्निहस्तः -- त्रिपताको दक्षिणे तु वामे काङ्गुलहस्तकः । अग्निहस्तः स विज्ञेयो नाट्यशास्त्रविशारदैः ॥ २१२॥ यमहस्तः -- वामे पाशं दक्षिणे तु सूची यमकरः स्मृतः । निरृतिहस्तः -- खट्वा च शकटश्चैव कीर्तितो निरृतेः करः ॥ २१३॥ वरुणहस्तः -- पताको दक्षिणे वामे शिखरो वारुणः करः । युहस्तः -- अरालो दक्षिणे हस्ते वामे चार्धपताकिका ॥ २१४॥ धृता चेद्वायुदेवस्य कर इत्यह्धीयते । कुवेरहस्तः -- वामे पद्मं दक्षिणे तु गदा यक्षपतेः करः ॥ २१५॥ दशावताराहस्ताः -- मत्स्यावतारहस्तः -- मत्स्यहस्तं दर्शयित्वा ततः स्कन्धसमौ करौ । धृतो मत्स्यावतारस्य हस्त इत्यभिधीयते ॥ २१६॥ कूर्मावतारहस्तः -- कूर्महस्तं दर्शयित्वा ततः स्कन्धसमौ करौ । धृतौ कूर्मावतारस्य हस्त इत्यभिधीयते ॥ २१७॥ वराहावतारहस्तः -- दर्शयित्वा वराहं तु कटिपार्श्वसमौ करौ । धृता वराहावतारस्य देवस्य कर इष्यते ॥ २१८॥ नृसिहावतारहस्तः -- वामे सिंहमुखं धृत्वा दक्षिणे त्रिपताकिका । नरसिंहावतारस्य हस्त इत्युच्यते बुधैः ॥ २१९॥ वामनावतारहस्तः -- ऊर्ध्वाधो धृतमुष्टिभ्यां सव्यान्याभ्यां यदि स्थितः । स वामनावतारस्य हस्त इत्यभिधीयते ॥ २२०॥ अरशुरामावतारहस्तः -- वामं कटितटे न्यस्य दक्षिणेऽर्धपताधिका । धृता परशुरामस्य हस्त इत्यभिधीयते ॥ २२१॥ रामचन्द्रावतारहस्तः -- कपित्थो दक्षिणे हस्ते वामे तु शिखरः करः । ऊर्ध्वं धृतो रामचन्द्रहस्त इत्युच्यते बुधैः ॥ २२२॥ अलरामावतारहस्तः -- पताको दक्षिणे हस्ते मुष्टिर्वामकरे तथा । बलरामावतारस्य हस्त इत्युच्यते बुधैः ॥ २२३॥ कृष्णावतारहस्तः -- मृगशीर्षे तु हस्ताभ्यामन्योन्याभिमुखे कृते । आस्योपकण्ठे कृष्णस्य हस्त इत्युच्यते बुधैः ॥ २२४॥ कल्क्यवतारहस्तः -- पताको दक्षिणे वामे त्रिपताकः करो धृतः । कल्क्याख्यस्यावतारस्य हस्त इत्यभिधीयते ॥ २२५॥ अथ तत्तज्जातीयहस्ताः -- राक्षसहस्तः -- मुखे कराभ्यां शकटौ राक्षसानां करः स्मृतः । ब्राह्मणहस्तः -- कराभ्यां शिखरं धृत्वा यज्ञसूत्रस्य सूचने ॥ २२६॥ दक्षिणेन कृते तिर्यग् ब्राह्मणानां करः स्मृतः । क्षत्रियहस्तः -- वामेन शिखरं तिर्यग् धृत्वान्येन पताकिका ॥ २२७॥ धृता यदि क्षत्रियाणां हस्त इत्यभिधीयते । वैश्यहस्तः -- करे वामे तु हंसास्यो दक्षिणे कटकामुखः ॥ २२८॥ वश्यहस्तोऽयमाख्यातो मुनिभिर्भरतादिभिः । शूद्रहस्तः -- वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥ २२९॥ शूद्रहस्तः स विज्ञेयो मुनिभिर्भरतादिभिः । यदष्टादशजातीनां कर्म तेन कराः स्मृताः ॥ २३०॥ तत्तद्देशजानामपि एवमुह्यं बुधोत्तमैः । बान्धवहस्ताः -- दम्पतिहस्तः -- वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥ २३१॥ धृतः स्त्रीपुंसयोर्हस्तः ख्यातो भरतकोविदैः । मातृहस्तः -- वामे हस्तेऽर्धचन्द्रश्च सन्दंशो दक्षिणे करे ॥ २३२॥ आवर्तयित्वा जठरे वामहस्तं ततः परम् । स्त्रियाः करो धृतो मातृहस्त इत्युच्यते बुधैः ॥ २३३॥ विनियोगः -- जनन्यां च कुमार्यां च मातृहस्तो नियुज्यते । पितृहस्तः -- एतस्मिन् मातृहस्ते तु शिखरे दक्षिणेन तु ॥ २३४॥ धृते सति पितृहस्त इत्याख्यातो मनीषिभिः । विनियोगः -- अयं हस्तस्तु जनके जामातरि च युज्यते ॥ २३५॥ श्वश्रूहस्तः -- विन्यस्य कण्ठे हंसास्यं सन्दंशं दक्षिणे करे । उदरे च परामृश्य वामहस्तं ततः परम् ॥ २३६॥ स्त्रियाः करो धृतः श्वश्रुहस्तस्तस्यां नियुज्यते । श्वशुरहस्तः -- एतस्यान्ते तु हस्तस्य शिखरो दक्षिणे यदि ॥ २३७॥ धृतश्च श्वशुरस्यायं हस्त इत्युच्यते बुधैः । भर्तृभ्रातृहस्तः -- वामे तु शिखरं धृत्वा पार्श्वयोः कर्तरीमुखः ॥ २३८॥ धृतो दक्षिणहस्तेन भर्तृभ्रातृकरः स्मृतः । ननान्दृहस्तः -- अन्ते त्वेतस्य हस्तस्य स्त्रीहस्तो दक्षिणे करे ॥ २३९॥ धृतो ननान्दृहस्तः स्यादिति नाट्यविदां मतम् । ज्येष्ठकनिष्ठभ्रातृहस्तः -- मयूरहस्तः पुरतः पार्श्वभागे च दर्शितः ॥ २४०॥ ज्येष्ठभ्रातुः कनिष्ठस्याप्ययं हस्त इति स्मृतः । पुत्रहस्तः -- सन्दंशमुदरे न्यस्य भ्रामयित्वा ततः परम् ॥ २४१॥ धृतो वामेन शिखरं पुत्रहस्तः प्रकीर्तितः । न्षाहस्तः -- एतदन्ते दक्षिणेन स्त्रीहस्तश्च धृतो यदि ॥ २४२॥ स्नुषाहस्त इति ख्यातो भरतागमकोविदैः । सपत्नीहस्तः -- दर्शयित्वा पाशहस्तं कराभ्यां स्त्रीकरावुभौ ॥ २४३॥ धृतौ सपत्नीहस्तः स्यादिति भावविदो विदुः । नृत्तहस्तानां गतयः -- भवन्ति नृत्तहस्तानां गतयः पञ्चधा भुवि ॥ २४४॥ ऊर्ध्वाऽधरोत्तरा प्राची दक्षिणा चेति विश्रुता । यथा स्यात् पादविन्यास्तथैव करयोरपि ॥ २४५॥ वामाङ्गभागे वामस्य दक्षिणे दक्षिणस्य च । कुर्यात् प्रचलनं ह्येतन्नृत्तसिद्धान्तलक्षणम् ॥ २४६॥ यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः । यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ २४७॥ नृत्तहस्तः -- पताकास्वस्तिकाख्यश्च डोलाहस्तस्तथाञ्जलिः । कटकावर्धनश्चैव शकटः पाशकीलकौ ॥ २४८॥ कपित्थः शिखरः कूर्मो हंसास्यश्चालपद्मकः । त्रयोदशैते हस्ताः स्युर्नृत्तस्याप्युपयोगिनः ॥ २४९॥ नवग्रहहस्ताः -- सूर्यहस्तः -- अंसोपकण्ठे हस्ताभ्यामलपद्मकपित्थकः । धृतो यदि करो ह्येष दिवाकरकरः स्मृतः ॥ २५०॥ चन्द्रहस्तः -- अलपद्मो वामहस्ते दक्षिणे च पतातिका । निशाकरकरः प्रोक्तो भरतागमदर्शिभिः ॥ २५१॥ कुजहस्तः -- वामे करे तु सूची स्यान्मुष्टिहस्तस्तु दक्षिणे । धृतश्चेन्नाट्यशास्त्रज्ञैरङ्गारककरः स्मृतः ॥ २५२॥ बुधहस्तः -- तिर्यग्वामे च मुष्टिः स्याद्दक्षिणे च पताकिका । बुधग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥ २५३॥ गुरुहस्तः -- हस्ताभ्यां शिखरं धृत्वा यज्ञसूत्रस्य दर्शनम् । ऋषिब्राह्मणहस्तोऽयं गुरोश्चापि प्रकीर्तितः ॥ २५४॥ शुक्रहस्तः -- वामोच्चभागे मुष्टिः स्यादधस्ताद्दक्षिणे तथा । शुक्रग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥ २५५॥ शनिहस्तः -- वामे करे तु शिखरस्त्रिशूलो दक्षिणे करे । शनैश्चरकरः प्रोक्तो भरतागमकोविदैः ॥ २५६॥ राहुहस्तः -- सर्पशीर्षो वामकरे सूची स्याद्दक्षिणे करे । राहुग्रहकरः प्रोक्तो नाट्यविद्याधिपैर्जनैः ॥ २५७॥ केतुहस्तः -- वामे करे तु सूची स्याद्दक्षिणे तु पताकिका । केतुग्रहकरः प्रोक्तो भरतागमदर्शिभिः ॥ २५८॥ पादभेदाः -- वक्ष्यते पादभेदानां लक्षणं पूर्वसम्मतम् । मण्डलोत्प्लवने चैव भ्रमरी पादचारिका ॥ २५९॥ चतुर्धा पादभेदाः स्युस्तेषां लक्षणमुच्यते । मण्डलभेदाः -- स्थानकं चायतालीढं प्रेङ्खणप्ररितानि च ॥ २६०॥ प्रत्यालीढं खस्तिकं च मोटितं समसूचिका । पार्श्वसूचीति च दश मण्डलानीरितानीह ॥ २६१॥ स्थानकमण्डलं -- कटिं स्पृष्ट्वाऽर्धचन्द्राख्यपाणिभ्यां समपादतः । समरेखतया तिष्ठेत् तत् स्यात् स्थानकमण्डलम् ॥ २६२॥ आयतमण्डलं -- वितस्त्यन्तरितौ पादौ कृत्वा तु चतुरस्रकौ । तिर्यक् कुञ्चितजानुभ्यां स्थितिरायतमण्डलम् ॥ २६३॥ आलीढमण्डलं -- दक्षिणाङ्घ्रेश्च पुरतः वितस्तित्रितयान्तरम् । विन्यसेद् वामपादं च शिखरं वामपाणिना ॥ २६४॥ कटकामुखहस्तश्च दक्षिणेन धृतो यदि । आलीढमण्डलमिति विख्यातं भरतादिभिः ॥ २६५॥ प्रत्यालीढमण्डलं -- आलीढस्य विपर्यासात् प्रत्यालीढाख्यमण्डलम् । प्रेङ्खणमण्डलं -- प्रसृत्यैकपदं पार्श्वे पार्ष्णिदेशस्य पादतः ॥ २६६॥ स्थित्वाऽन्ते कूर्महस्तेन स्थितिः प्रङ्खणमण्डलम् । प्रेरितमण्डलं -- सन्ताड्यैकं पदं पार्श्वे वितस्तित्रितयान्तरम् ॥ २६७॥ तिर्यक् कुञ्चितजानुभ्यां स्थित्वाऽथ शिखरं करम् । विधाय वक्ष्यस्यन्येन प्रसृता च पताकिका ॥ २६८॥ प्रदर्शयेदिदं तज्ज्ञाः प्रेरितं मण्डलं जगुः । स्वस्तिकमण्डलं -- दक्षिणोत्तरतः कुर्यात् पादे पादं करे करम् ॥ २६९॥ व्यात्यासेन तदा प्रोक्तं स्वस्तिकं नाम मण्डलम् । मोटितमण्डलं -- प्रपदाभ्यां भुवि स्थित्वा जानुयुग्मेन संस्पृशेत् ॥ २७०॥ क्रमाद् भूतलमेकैकं त्रिपताककरद्वयम् । कृत्वा तन्मोटितं नाम मण्डलं कथितं बुधैः ॥ २७१॥ समसूचीमण्डलं -- पादाग्राभ्यां च जानुभ्यां भूतलं संस्पृशेद्यदि । मण्डलं समसूचीति कथितं पूर्वसूरिभिः ॥ २७२॥ पार्श्वसूचीमण्डलम् -- स्थित्वा पादाग्रयुग्मेण जानुनैकेन पार्श्वतः । संस्पृशेद् भूतलं पार्श्व सूचीमण्डलमीरितम् ॥ २७३॥ स्थानकभेदाः -- पादविन्यासभेदेन स्थानकं षड्विधं भवेत् । समपादं चैकपादं नागबन्धस्ततः परम् ॥ २७४॥ ऐन्द्रं च गारुडं चैव ब्रह्मस्थानमिति क्रमात् । समपादस्थानं -- स्थितिः समाभ्यां पादाभ्यां समपादमिति स्मृतम् ॥ २७५॥ विनियोगः -- पुष्पाञ्जलौ देवरूपे समपादं नियुज्यते । एकपादस्थानं -- जान्वाश्रित्य पदैकेन स्थितिः स्यादेकपादकम् ॥ २७६॥ विनियोगः -- एकपादं त्विदं स्थानं निश्चले तपसि स्थितम् । नागबन्धस्थानं -- पादं पादेन संवेष्ट्य तथा पाणिं च पाणिना ॥ २७७॥ स्थितिः स्यान्नागबन्धाख्या नागबन्धे प्रयुज्यते । ऐन्द्रकस्थानं -- पादमेकं समाकुञ्च्य स्थित्वाऽन्यपदजानुनी ॥ २७८॥ उत्तानिते करं न्यस्य स्थितिरैन्द्रमितीरितम् । विनियोगः -- वासवे राजभावे च स्थानमैन्द्रं नियुज्यते ॥ २७९॥ गरुडस्थानकं -- आलीढमण्डले पश्चादथ जानुतलं भुवि । संस्थाप्य पाणियुग्मेन वहन विरलमण्डलम् (?) ॥ २८०॥ स्थितिस्तु गरुडस्थानं गरुडे विनियुज्यते । ब्रह्मस्थानं -- जानुपरि पदं न्यस्य पदस्योपरि जानु च ॥ २८१॥ स्थितं यदि भवेद् ब्राह्मं जपादिषु नियुज्यते । उत्प्लवनभेदाः -- अथोत्प्लवनभेदानां लक्षणं परिकथ्यते ॥ २८२॥ अलगं कर्तरी वाऽश्वोऽत्प्लवनं मोटितं तथा । कृपालगमिति ख्यातं पञ्चधोत्प्लवनं बुधैः ॥ २८३॥ अलगोत्प्लवनं -- उत्प्लुत्य पार्श्वयुगलं कटिदेशे तु विन्यसेत् । बध्वा कराभ्यां शिखरौ अलगोत्प्लवनं भवेत् ॥ २८४॥ उत्प्लवनकर्तरी -- उत्प्लुत्य प्रपदैः सव्यपादस्यैकस्य पृष्ठतः । कर्तरी विन्यसेदेषा स्यादुत्प्लुवनकर्तरी ॥ २८५॥ अधोमुखं च शिखरं कटौ हस्तं न्यसेदिह । अश्वोत्प्लवनं -- पुरः पादं समुत्प्लुत्य पश्चात्पादं नियोजयेत् ॥ २८६॥ करौ तु त्रिपताख्यौ कृत्वाऽश्वोत्प्लवनं भवेत् । मोटितोत्प्लवनं -- पर्यायपार्श्वोत्प्लवनं कर्तरीव तु मोटिता ॥ २८७॥ त्रिपताके च करयोः कृत्वा शश्वत्प्रकाशनात् । कृपालगोत्प्लवनं -- पार्ष्णिमेकैकपादस्य कटौ पर्यायतो न्यसेत् ॥ २८८॥ अर्धचन्द्रकलामध्ये न्यस्तमन्यत् कृपालगम् । भ्रमरीलक्षणं -- भ्रमर्या लक्षणान्यत्र वक्ष्ये लक्षणभेदतः ॥ २८९॥ उत्प्लुतभ्रमरी चक्रभ्रमरी गरुडाभिधा । तथैकपादभ्रमरी कुञ्चितभ्रमरी तथा ॥ २९०॥ आकाशभ्रमरी चैव तथाङ्गभ्रमरीति च । भ्रमर्यः सप्त विज्ञेया नाट्यशास्त्रविशारदैः ॥ २९१॥ उत्प्लुभ्र्मरी -- स्थित्वा समाभ्यां पादाभ्यामुत्प्लुत्य भ्रामयेद्यदि । सर्वाङ्गमन्तराले स्यादुत्प्लुतभ्रमरी त्वसौ ॥ २९२॥ चक्रन्नमरी -- भुवि पादौ मुहुः कर्षंस्त्रिपताकौ करौ वहन् । चक्रवद् भ्रमते यत्र सा चक्रभ्रमरी भवेत् ॥ २९३॥ गरुडभ्रमरी -- तिर्यक् प्रसार्यैकपादं पश्चाज्जानु भुवि क्षिपेत् । सम्यक् प्रसार्य बाहू द्वौ भ्रामयेद् गरुडो भवेत् ॥ २९४॥ एकपादभ्रमरी -- भ्रामयेदेकमेकेन पादं पादेन सत्वरम् । सा त्वेकपादभ्रमरी भवेदिति विनिश्चिता ॥ २९५॥ कुञ्चितभ्रमरी -- निकुञ्च्य जानुभ्रमणं कुञ्चितभ्रमरी भवेत् । आकाशभ्रमरी -- उत्प्लुत्य पादौ विरलौ कृत्वा पादौ प्रसार्य च ॥ २९६॥ भ्रामयेत् सकलं गात्रमाकाशभ्रमरी भवेत् । अङ्गभ्रमरी -- वितस्त्यन्तरितौ पादौ कृत्वाङ्गभ्रमणं तथा ॥ २९७॥ तिठेद् यदि भवेदङ्गभ्रमरी भरतोदिता । चारिमेदाः -- अथात्र चारिभेदानां लक्षणं कथ्यते मया ॥ २९८॥ आदौ तु चलनं प्रोक्तं पश्चाच्चङ्क्रमणं तथा । सरणं वेगिनी चैव कुट्टनं च ततः परम् ॥ २९९॥ लुठितं लोलितं चैव ततो विषमसञ्चरः । चारिभेदा अमी अष्टौ प्रोक्ता भरतवेदिभिः ॥ ३००॥ चलनचारि -- स्वस्थानात् स्वस्य पादस्य चलनाच्चलनं भवेत् । चङ्क्रमणं -- पादयोर्बाह्यपार्श्वाभ्यामुत्क्षिप्योत्क्षिष्य यत्नतः ॥ ३०१॥ गतिर्भवेच्चङ्क्रमणं वर्णितं नाट्यकोविदैः । सरणं -- चलनं तु जलूकावदेकेनान्यस्य पार्ष्णिना ॥ ३०२॥ तिर्यगाकर्षयेद् भूमिं कराभ्यां तु पताकिके । धृत्वा च गमनं यत्तु सरणं तदुदीरितम् ॥ ३०३॥ वेगिनी -- पार्ष्णिणा वा पदार्ग्रेण द्रुतं गत्या तु चालनम् । कराभ्यां चालपद्मे च त्रिपताके यथाक्रमम् ॥ ३०४॥ धृत्वा नटेद् यदि भवेद् वेगवत्त्वेन वेगिनी । कुट्टनं -- पाष्णिना वा पदाग्रेण समस्तेन तलेन वा ॥ ३०५॥ यत्ताडनं भूतलस्य कुट्टनं तदुदीरितम् । लुठितं -- स्वस्तिकस्थितिपादाग्रे कुट्टनाल्लुठितं भवेत् ॥ ३०६॥ ओलित -- पूर्ववत् कुट्टनं कृत्वा मन्दं मन्दमतः परम् । अस्पृष्टभूमेः पादस्य चालनं लोलितं भवेत् ॥ ३०७॥ विषमसञ्चरः -- वेष्टयित्वा दक्षिणेन वामं वामेन दक्षिणम् । क्रमेण पादं विन्यस्य भवेद् विषमसञ्चरः ॥ ३०८॥ गतिमेदाः -- अथात्र गतिभेदानां लक्षणं वक्ष्यते क्रमात् । हंसी मयूरी च मृगी गजलीला तुरङ्गिणी ॥ ३०९॥ सिंही भुजङ्गी मण्डूकी गतिर्वीरा च मानवी । दशैता गतयो ज्ञेया नाट्यशास्त्रविशारदैः ॥ ३१०॥ हँसीगतिः -- परिवर्त्य तनुं पार्श्वं वितस्त्यन्तरितं शनैः । एकैकं तत् पदं न्यस्य कपित्थं करयोर्वहन् ॥ ३११॥ हंसवद्गमनं यत्तु सा हंसी गतिरीरिता । मयूरीगतिः -- प्रपदाभ्यां भूवि स्थित्वा कपित्थं करयोर्वहन् ॥ ३१२॥ एकैकजानुचलनान्मयूरी गतिरीरिता । मृगीगतिः -- मृगवद् गमनं वेगात् त्रिपताककरौ वहन् ॥ ३१३॥ पुरतः पार्श्वयोश्चैव यानं मृगगतिर्भवेत् । गजलीलागतिः -- पार्श्वयोस्तु पताकाभ्यां कराभ्यां विचरंस्ततः ॥ ३१४॥ समपादगतिर्मन्दं गजलीलेति विश्रुता । तुरङ्गिणीगतिः -- उत्क्षिप्य दक्षिणं पदमुल्लङ्घ्य च मुहुर्मुहुः ॥ ३१५॥ वामेण शिखरं धृत्वा दक्षिणेन पताकिकाम् । तुरङ्गिणी गतिः प्रोक्ता नृत्तशास्त्रविशारदैः ॥ ३१६॥ सिंहोगतिः -- पादाग्राभ्यां भुवि स्थित्वा पुर उत्प्लुत्य वेगतः । कराभ्यां शिखरं धृत्वा यानं सिंहगतिर्भवेत् ॥ ३१७॥ भुजङ्कीगतिः -- त्रिपताककरौ धृत्वा पाश्र्वयोरुभयोरपि । पूर्ववद्गमनं यत्तु सा भुजङ्गी गतिर्भवेत् ॥ ३१८॥ मण्डूकीगतिः -- कराभ्यां शिखरं धृत्वा किञ्चित् सिंहीसमा गतिः । मण्डूकी गतिरित्येषा प्रसिद्धा भरतागमे ॥ ३१९॥ वीरागतिः -- वामे तु शिखरं धृत्वा दक्षिणेन पताकिका । दूरादागमनं यत्तु वीरा गतिरुदीरिता ॥ ३२०॥ मानवीगतिः -- मण्डलाकारवद् भ्रान्त्या समागत्य मुहुर्मुहुः । वामं करं न्यस्य कटौ दक्षिणे कटकामुखम् ॥ ३२१॥ मानवी गतिरित्येषा प्रसिद्धा पूर्वसूरिभिः । मण्डलानि प्रयुक्तानि तवैवोत्प्लवनानि च ॥ ३२२॥ भ्रमर्यश्चैव चार्यश्च गतयश्च परस्परम् । एकैकभेदसम्बन्धादनन्तानि भवन्ति हि ॥ ३२६॥ एताश्च नर्तनविधौ शास्त्रतः सम्प्रदायतः । सतामनुग्रहेणैव विज्ञ यौ नान्यथा भुवि ॥ ३२४॥ उपरिष्टादुद्धृतांशः केवलं एम-आख्यात- पुस्तके मण्डलभेदेभ्यः प्रागधिको दृश्यते । अर्थ अष्टरसाः -- श‍ृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरीद्रो च रसा श‍ृङ्गारः शुचिरुज्ज्वलः ॥ अवस्थाभेदाः -- श्रुत्यक्षिप्रीतिहृत्सङ्गाः सङ्कल्पो जागरस्तथा । तनुता चापि विषयनिवृत्तिश्चात्रपा तथा ॥ मोहो मूर्छा च मरणमित्यवस्थाः प्रपश्चताः । चक्षुःप्रीतिश्च चिन्ता च सङ्कल्पो गुणकीर्तनम् ॥ क्रियाद्वेषश्च तापश्च लज्जात्यागस्ततः परम् । उन्मादमूर्छामृतय इत्यवस्था स्मृताः परैः ॥ नयनैर्जनयेद् भावं भावात् स्पर्शं समाचरेत् । स्पर्शन द्रवमुत्पाद्य रतिं पश्चात् समाचरेत् ॥ चिन्ता -- किं करिष्यति किं ध्यायेत् क्वास्ते किं वक्वि भामिनी । इतीव मानसोत्कण्ठा सा चिन्ता परिकीर्तिता ॥ सङ्कल्पः -- यामि तामरविन्दार्क्षी पिवाम्यधरपल्लवम् । रमामि नितरां सार्धं तयेति सुट्टढं पुनः ॥ तां विना न हि जीवामि सैव मे परमं धनम् । इतः परं सा शरणमिति सङ्कल्प ईरितः ॥ गुणकीतनं -- एषा मौलिविभूषणं मृगदृशामेषा परं जीवनं तां त्यक्त्वा न हि किञ्चिदस्ति शरणं यूनां रसोल्लासिनी । सा भूषा भुवनस्य किम्पुनरियं वाचा पर जीवन- मित्येवं प्रतिभाति या गुणनुतिः स्त्रीपुम्प्रभेदेऽपि सा ॥ क्रियाद्वेषः -- गच्छ गच्छसि चेतां तो नाहं कान्ता न मे पतिः । त्वं चेति कथनं यत्र कथनं द्वेष उच्यते ॥ तापः -- किं करोति सुमास्त्रो मां पञ्चभिबाणसञ्चयैः । तपत्यनन्तरं गात्रं तापोऽसौ परिकीर्तितः ॥ लज्जात्यागः -- दोर्भ्यां समाश्लिष्य पयोधरौ तौ प्रचुम्ब्य बिम्बाधरमायताक्ष्याः । सुखेन सुप्तः शयने निशायामुद्बोधितोऽहं चरणायुधेन ॥ उन्मादः -- चित्रे लिखितमालोक्य नायकं कञ्चनाङ्गना । परिरम्य दृढं दोर्भ्यां चुचुम्बे गण्डयोरमुम् ॥ मूर्छा -- यत्राङ्गनाया वैकल्यं पञ्चप्राणनिरोधनम् । असङ्गा याममात्रं सा मूर्छा वान्या मृतिर्न हि ॥ इति श्रीनन्दिकेश्वरविरचितं अभिनयदर्पणं समाप्तम् । Encoded by Ryan Armstrong ryanarm at gmail.com Proofread by Ryan Armstrong, Krithi Durbaka
% Text title            : abhinayadarpaNam
% File name             : abhinayadarpaNam.itx
% itxtitle              : abhinayadarpaNam (nandikeshvaravirachitam)
% engtitle              : abhinayadarpaNam
% Category              : nATyashAstra, major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Nandikeshvara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ryan Armstrong ryanarm at gmail.com
% Proofread by          : Ryan Armstrong, Krithi Durbaka
% Indexextra            : (Scanned with Hindi, English translations)
% Latest update         : February 14, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org