पण्डितराजजगन्नाथकविविरचितः भामिनीविलासः
॥ भामिनीविलासे प्रथमः प्रास्ताविकविलासः ॥
माधुर्यपरमसीमा सारस्वतजलधिमथनसम्भूता ।
पिबतामनल्पसुखदावसुधायाम्ममसुधाकविता ॥ १॥
दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ २॥
पुरा सरसि मानसे विकचसारसालिस्खल-
त्परागसुरभीकृते पयसि यस्य यातं वयः ।
स पल्वलजलेऽधुना मिलदनेकमेकाकुले
मरालकुलनायकः कथय रे कथं वर्तताम् ॥ ३॥
तृष्णालोलविलोचने कलयति प्राचीं चकारागणे ।
मौनं मुञ्चति किञ्च कैरवकुले कामे धनुर्धन्वति ।
माने मानवतीजनस्य सपदि प्रस्थानकामेऽधुना ।
धातः किन्नु विधौ विधातुमुचितो धाराधराडम्बरः ॥ ४॥
अयि दलदरविन्द स्यन्दमानं मरन्दम् ।
तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृगाः ।
दिशिदिशि निरपेक्षस्तावकिन्नं विवृण्वन् ।
परिमलमयमन्यो बान्धवो गन्धवाहः ॥ ५॥
समुपागतवति दैवादवहेलाङ्कुटजमधुकरे माऽगाः ।
मकरन्दतुन्दिलानामरविन्दानामयम्महामान्यः ॥ ६॥
तावत्कोकिल विरसान् यापय दिवसान् वनान्तरे निवसन् ।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ७॥
कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलिताऽनभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ८॥
नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापिकृथाः ।
अत्यन्तसरसहृदयो यतः परेषां गुणगृहीतासि ॥ ९॥
येनामन्दमरन्दे दलदुरविन्दे दिनान्यनायिषत ।
कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥ १०॥
आयि मलयज महिमाऽयं कस्य गिरामस्तु विषयस्ते ।
उद्विरतो यद्गरलं फणिनःपुष्णासिपरिमलोद्दारैः ॥ ११॥
पाटीर तवपटीयानकः परिपाटीमिमामरीकर्तुम् ।
यत्पिषतामपि नृणां पिष्टोऽपि तणोषि परिमललैः पुष्टिम् ॥ १२॥
नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् ।
विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ॥ १३॥
उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवाः ।
अन्तः साक्षाद्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥ १४॥
स्वच्छन्दं दलदरविन्द ते मरन्दं
विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।
आमोदानथ हरिदन्तराणि नेतुं
नैवान्यो जगति समीरणात्प्रवीणः ॥ १५॥
याते मय्यचिरान्निदाघमिहिरज्वालाशनैः शुष्कतां
गन्ता के प्रति पान्थसन्ततिरसौ सन्तापमालाकुला ।
एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते ।
धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥ १६॥
आपेदिरेऽम्बरपथं परितः पतङ्गा
भुङ्गा रसालमुकुलानि समाश्रयन्ते ।
सङ्कोचमञ्चितसरसस्त्वयि दीनदीने
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ १७॥
मधुप इव मारुतेऽस्मिन् मा सौरभलोभमम्बुजनि मंस्थाः ।
लोकानामेव मुदे महितोऽप्यात्माऽमुनार्थितां नीतः ॥ १८॥
गुञ्जति मञ्जु मिलिन्दे मा मालति मानमौनमुपयासीः ।
शिरसा वदान्यगुरवः सादरमेनं वहन्तिसुरतरवः ॥ १९॥
यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः ।
तानपि वहाव पटीरज किं कथयामस्त्वदीयमौन्नत्यम् ॥ २०॥
गाहितमखिलं गहनं परितोदृष्टाश्च विपिनः सर्वे ।
सहकार न प्रपेदे मधुपेन भवत्समं जगति ॥ २१॥
अवनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे ।
पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद् भ्रमरधन्योऽसि ॥ २२॥
तटिनि चिरायविचारय विन्ध्यभुवस्तवपवित्रायाः ।
शुष्यन्त्या आपि युक्तं किं खलु रथ्योदकादानम् ॥ २३॥
पत्रफलपुष्पलक्षम्या कदाप्यदृष्टं वृतं च खलु शूकैः ।
उपसर्पेम भवन्तं बर्बर वद कस्य लोभेन ॥ २४॥
एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः ।
साजात्यशङ्कयाऽमी न त्वां विघ्नन्तु निर्दया काकाः ॥ २५॥
तरुकुलसुखमापहरां जनयन्ती जगतिजीवजातार्तिम् ।
केनगुणेनभवानीतातहिमानीनिमां वहसि ॥ २६॥
कलभ तवान्तिकमागतमलिमेनं माकदाप्यवज्ञासीः ।
अपि दानसुन्दराणान्द्विपधुर्याणामयंशिरोधार्यः ॥ २७॥
अमरतरुकुसुमसौरभसेवनसम्पूर्णसकलकामस्य ।
पुष्पान्तरसेवेयं अमरस्य विडम्बना महती ॥ २८॥
पृष्ठाः खलु परपुष्टाः परितोदृष्टाश्चविटपिनः सर्वे ।
माकन्दन प्रपेदे मधुपेन तवोपमा जगति ॥ २९॥
तोयैरल्परपि करुणया भीममानौ निदाघे ।
मालाकार व्यरचि भवता या तरोरस्य पुष्टिः ।
वर्षाकाले जनयितुमिह प्रावृषेण्येन वाराम् ।
धारासारानपि विकिरता विश्वतो वारिदेन ॥ ३०॥
आरामाधिपतिविवेकविकलो नूनं रसा नीरसा
वात्याभिः परुषीलता दश दिशश्चण्डातपो दुःसहः ।
एवं धन्वति चम्पकस्य सकले संहारहेतावपि
त्वंसिचन्नमृतेनतोयद कुतोऽप्याविष्कृतोवेधसा ॥ ३१॥
न यत्र स्थेमानं दधुरतिभयभ्रान्तनयनाः
गलद्दनोद्रेकभ्रमदलिकदम्बा करटिनः ।
लुठन्मुक्ताभारे भवति परलोकं गतवतो
हरेरदयद्वारे शिवशिवशिवानां कलकलः ॥ ३२॥
दधानः प्रेमाणं तरुषु समभावेन विपुलम् ।
न मालाकारोऽसावकृत करुणां बालबकुले ।
अयं तु द्रागुद्यत् कुसुमनिकराणां परिमलैः ।
दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ३३॥
मूलं स्थूलमतीवबन्धनदृढं शाखाः शतम्मांसलाः
वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः किन्तु मनागयं जनयति स्वान्ते ममाधिज्वर-
ज्वालालीवलयीभवन्नकरुणोदावानलो घस्मरः ॥ ३४॥
ग्रीष्मेभीष्मतःकरैर्दिनकृतादग्धोऽपि यश्चातक -
स्त्वान्ध्यायन्धनवासरान्कथमपिद्राधीयसोनीतवान्
देवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि
स्वीचक्रे करकानिपातनकृपा तत् कं प्रतिब्रूमहे ॥ ३५॥
दवदहनजटालज्वालजालाहतानां
परिगलितलतानां म्लायतां भूरुहाणाम् ।
अपिजलधर शैलश्रेणिशृङ्गेषु तोयं
वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३६॥
शृण्वन् पुरः परुषगर्जितमस्य हन्त
रे पान्थ विस्मितमना न मनागपि स्याः ।
विश्वार्तिवारणसमर्पितजीविनतोऽयं
नाकर्णितः किमु सखे भवताऽम्बुवाहः ॥ ३७॥
सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरम् ।
कीर्तिः किञ्च दिगङ्गनागणगता किन्त्वेतदेकंशृणु ।
सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरान् ।
उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ३८॥
नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः ।
तथापि हरते तापं लोकानामुन्नतो धनः ॥ ३९॥
समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसति
र्विलासः पद्मायाः सुरहृदयहारी परिमलः ।
गुणैरतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ४०॥
साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा ।
नीरे नीरचरैः समं स भगवान् निद्राति नारायणः ।
एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः
किं निन्दान्यथवा स्तवानि कथय क्षीरार्णवत्वामहम् ॥ ४१॥
किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते ।
सलिलमपि यत्र तावकमर्णव वदनं प्रयाति तृषितानाम् ॥ ४२॥
इयत्यां सम्पत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्त्तानां हरसि यदि कासार सहसा ।
निदाधे चण्डांशौ किरति परितों गारनिकरं
कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४३॥
अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः ।
जलदेन तवार्थिना विमुक्तान्यापि तोयानि महान् न हा जहासि ॥ ४४॥
न वारयामो भवती विशन्तीं
वर्षान दिस्रोतसि जह्नुजायाः ।
न युक्तमेतत्तु पुरो यदस्या
स्तरङ्गभङ्गान्प्रकटीकरोषि ॥ ४५॥
पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां
येनाघ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः ।
तस्मिन्नदय मधुव्रते विधिवशान्माध्वकिमाकाङ्क्षति
त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रतिब्रूमहे ॥ ४६॥
प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी
पुञ्जे मञ्जुलगुञ्जितानि रचयंस्तानातनोरुत्सवान् ।
तस्मिन्नदय रसालशाखिनि दृशां देवात् कृशामञ्चति
त्वञ्चेन्मुञ्चसि चञ्चरीकविनयन्नीचस्त्वदन्योऽस्तिकः ॥ ४७॥
मुक्ता मृणालपटली भवता निपीता-
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद् तस्य सरोवरस्य
कृत्येन केन भावतासि कृतोपकारः ॥ ४८॥
एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलयभिन्नकरीन्द्रकुम्भ
मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ४९॥
जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणाली हन्यतां नु कथम् ॥ ५०॥
येन भिन्नकरिकुम्भविस्खलन्
मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तिके कथं
कथ्यतां नु हरिणा पराक्रमः ॥ ५१॥
स्थितिं नोरे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असो कुम्भिभ्रान्त्या खरनखरविद्रावितमहा
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५२॥
गिरि गव्हरेषु गुरुगर्वगुम्फितो
गजाराजपोत न कदापि सञ्चरेः ।
यदि बुध्यते हरिशिशुः स्तनन्धयोः
भविता करेणुपरिशोषिता मही ॥ ५३॥
निसर्गादारामे तरुकुलसमारोप सुकृती
कृती मालाकारो बकुलमपि कुत्रापि निधने ।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५४॥
यस्मिन् वेल्लति सर्वतः परिचलकल्लोलकोलाहलै-
र्मन्थाद्रिश्रमणश्रमं हृदि हरिन्दृतावलाः पेदिरे ।
सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः
कोडे क्रीडतु कस्य केलि कलहत्यक्तार्णवो राघवः ॥ ५५॥
लूनं मत्तमतङ्गजैः कियदपि च्छिनं तुषारार्दितैः
शिष्टं ग्रीष्मजभानुतीक्ष्णकिरणै स्मीकृतं काननम् ।
एषा कोणगता मुहुः परिमलैरामोदयन्तीदिशो
हा कष्टं ललिता लवङ्गलतिकादावाग्निना दह्यते ॥ ५६॥
स्वर्लोकस्य शिखामाणिः सुरतरुग्रामस्य धामाद्भुतं
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किन्विदंसहृदयौर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥ ५७॥
स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपारिताररपुटो यास्याम्यहं पञ्जरात् ।
एवं करिवरे मनोरथमयं पीयूषमास्वादयत्यन्तः
संप्रविवेशवारणकराकारः फणिग्रामणीः ॥ ५८॥
रे चाञ्चल्यजुषोमृगाः श्रितनगाः कल्लोलमालाकुला
मेतामम्बुधिगामिनीं व्यवासिताः सङ्गाहितुं वा कथम् ।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्ग्राहेण रसातलं पुनरसौ नीतो गजग्रामणीः ॥ ५९॥
पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् ।
त्रयाणां लोकानामपि हृदयतापं परिहरन्
अयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥ ६०॥
धीरध्वनिभिरलं ते नीरद में मासिको गर्भः ।
उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ ६१॥
वेतण्डगडकण्डूतिपाण्डित्यपरिपन्थिना ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६२॥
नीरन्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी
वासो यस्य हरेः करेः परिमलो गीर्वाणचेतोहरः ।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह ।
त्वञ्चेत्प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥ ६३॥
लीलामुकुलितनयनं किंसुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्द्धते वैरम् ॥ ६४॥
विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६५॥
औदार्यं भुवनत्रयेऽपि विदितं सम्भूतिरम्भोनिधे-
र्वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः ।
स्थादर्थिप्रवरार्थितार्पणविधावेको विवेकोयदि ॥ ६६॥
एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना-
मित्येवम्परिचिन्त्य मा स्वमनसि व्याधाऽनुतापं कृथाः ।
भूपानां भवनेषु किञ्च विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खला ॥ ६७॥
विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतमाः ।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६८॥
अन्या जगद्धितमयी मनसः प्रवृत्तिः ।
अन्येव कापि रचना वचनावलीनाम् ।
लोकोत्तराच कृतिराकृतिरार्तहृया ।
विद्यावतां सकलमेव गिरां दवीयः ॥ ६९॥
आपद्गतः किल महाशयचक्रवर्ती
विस्तारस्यत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्ता
ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥ ७०॥
विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकम्पृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ७१॥
लीलालुण्ठितशारदापुरमहासम्पन्नराणां पुरो
विद्यासद्मविनिर्गलत्कणमुषो वल्गान्ति चेत्पामराः ।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानाञ्च सुखेन मूर्द्धसुपदं धास्यति शालावृकाः ॥ ७२॥
गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कपणा नृपाणां न जातु मौला मणयो वसन्ति ॥ ७३॥
वहति विषधरान पटीरजन्मा शिरप्ति मषीपटलं दधाति दीपः ।
विधुरपि भजतेतरां कलङ्क पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ७४॥
सत्पूरुषः खलु हिताचरणैरमन्द-
मानन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केनकरैरुदारै-
रिन्दुर्विकाशयति कैरविणीकुलानि ॥ ७५॥
कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम् ।
प्रत्युत हन्तुं यतते काकोदरसोदरखलो जगति ॥ ७६॥
खल कापट्यदोषेण दूरेणैव विसृज्यते ।
अपायशङ्किभिर्लोकैर्विषेणाशीविषो यथा ॥ ७७॥
पाण्डित्यं परिहत्य यस्य हि कृते बन्दित्वमालम्बितं
दुष्प्राप्यं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः ।
रूढस्तत्रस चेन्निगीर्य सकलां पूर्वोपकारावलीं
दुष्टः प्रत्यवतिष्टते तदधुना कस्मे किमाचक्ष्महे ॥ ७८॥
परार्थव्यासङ्गादुपजहदपि स्वार्थपरता-
मभेदैकत्वं यो वहति गुणभूतेषु सततम् ।
स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७९॥
वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।
नहि तूम्बीफलविकलो वीणादण्डः प्रयात्ति महिमानम् ॥ ८०॥
अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेणलशुन इव ॥ ८१॥
उपकारमेव तनुते विपद्धतः सद्गुणो नितराम् ।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ८२॥
वनाते खेलन्ती शशकाशशुमालोक्य चकिता
भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या ।
अहो सेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ८३॥
पुरो गीर्वाणानां निजभुजबलाहोपुरुषिका-
महोका रङ्कारं पुरभिदि शरं सम्मुखतया ।
स्मरस्य स्वर्बालानयन शुभमालार्च्चनपदं
वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥ ८४॥
युक्तं सभायां खलु मर्कटानां शाखास्तरूणाम्मृदुला सनानि ।
सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥ ८५॥
किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति द्वैतोधकारोदयः ।
किं मित्रं सततोपकाररसिकं तत्त्वावबोधःसखे
कः शत्रुर्वद खेददानकुशलो दुर्वासनासञ्चयः ॥ ८६॥
निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः ।
चिरं जलनिधौ मग्नौ मैनाक इव मार्दवम् ॥ ८७॥
नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् ।
शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥ ८८॥
परोपसर्पणानन्तचिन्तानलाशखाशतैः ।
अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ८९॥
शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः ।
विवराणि मुद्यन् द्रागूर्णायुरिव सुजनो जयति ॥ ९०॥
खलः सज्जनकार्पासरक्षणैकहुताशनः ।
परदुःखाग्निशमने मारुतः केन वर्ण्यताम् ॥ ९१॥
परगुह्यगुप्तिनिपुणं गुणमयमखिलेः समीहितं नितराम् ।
ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ ९२॥
कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः ।
यशःसौरभ्यलशुनः खल सज्जनदुःखदः ॥ ९३॥
धत्ते भरं कुसुमपत्रफलावलीनां
मर्मव्यथां स्पृशति शीतभवां रुजं च ।
यो देहमर्पयति चान्यसुखस्य हेतो-
स्तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ९४॥
हालाहलं खलु पिपासति कौतुकेन
कालानलं परिचुचुम्बिषति प्रकामम् ।
व्यालाधिपच्च यतते परिब्धुमध्दा
यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥ ९५॥
दीनानामिह परिहाय शुष्कसस्यान्यौदार्य प्रकटयतो महीधरेषु ।
औन्नत्यं परममवाप्य दुर्मदस्य ज्ञाताऽयं जलधर तावकोऽविवेकः ॥ ९६॥
गिरयो गुरवस्तभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।
तस्मादप्यतिगुरवः प्रलयेप्यचला महात्मानः ॥ ९७॥
व्योम्नि स वासं कुरुते चित्र निर्माति सुन्दरं पवने ।
रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ ९८॥
हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ॥ ९९॥
मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ १००॥
स्वार्थं धनानि धनिकात्प्रति गृण्हतो यद्
अस्यं भजेन्मलिनतां किमिदं विचित्रम् ।
गृण्हन्परार्थमपि वारिनिधेः पयोऽपि
मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ १०१॥
जनकः सानुविशेषो जातिः काष्ठं भुजङ्गमैः सङ्गः ।
स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ १०२॥
कस्मै हन्त फलाय सज्जन गुणग्रामाज्जने सज्जसि
स्वात्मोपरस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृता-
स्तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्द्धनम् ॥ १०३॥
धूमायिता दश दिशो दलितारविन्दा
देहं दहन्ति दहना इव गन्धवाहाः ।
त्वामन्तरेण मृदुताम्रदलाम्रमज्जु
गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥ १०४॥
भिन्ना महागिरिशिलाः करजाग्रजाग्र
दुद्दामशौर्यनिकरैः करटिश्रमेण ।
देवे पराचि करिणामरिणा तथापि
कुत्रापि नापि खलु हा पिशितस्य लेशः ॥ १०५॥
गर्जितमाकर्ण्य मनागङ्गे मातुर्निशार्द्धजातोऽपि ।
हाराशशुरुत्पतितुं द्रागङ्गान्याकुच्य लीयते निभृतम् ॥ १०६॥
किमहं वदामि खल दिव्यतमं गुणपक्षपातमभितो भवतः ।
गुणशालिनो निखिलसाधुजनान् यदहर्निशं न खलु विस्मरसि ॥ १०७॥
रे खल तव खलु चरितं विदुषां मध्ये विविच्य वक्ष्यामि ।
अथवालं पापात्मन् कृतया कथयापि ते हतया ॥ १०८॥
आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
ज्ञानदीपमहावायुरयं खलसमागमः ॥ १०९॥
खलास्तु कुशलाः साधुहितप्रत्यूहकर्मणि ।
निपुणाः फणिनःप्राणानपहर्तुन्निरागसाम् ॥ ११०॥
वदने विनिवेशिताभुजङ्गी पिशुनानांरसनामिषेण घात्रा ।
अनया कथमन्यथावलीढा नहि जीवन्ति च नाम नागमन्त्राः ॥ १११॥
कृतं महोन्नतं कृत्यमर्जितं चामलं यशः ।
यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥ ११२॥
अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् ।
आपि च मानसमम्बुनिधिर्यशोविमलशारदपार्वणचन्द्रिका ॥ ११३॥
एत्य कुसुमाकरो मे सञ्जीवयिता गिरं चिरं मग्राम् ।
इति चिन्तयतो हृदये पिकस्य समधायि शोभिकेन शरः ॥ ११४॥
निर्गुणः शोभते नैव विपुला डम्बरोऽपि ना ।
आपातरम्यपुष्प श्रीशोभिता शाल्मलिर्यथा ॥ ११५॥
पङ्कैर्विनासरो भाति सदः खलजनैर्विना ।
कटुवर्णैविना काव्यं मानसं विषयैर्विना ॥ ११६॥
तत्त्वं किमपि काव्यानां जानाति विरलो भुवि ।
मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥ ११७॥
सरजस्काम्पाण्डुवर्णां कण्टकप्रकरान्विताम् ।
केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप ॥ ११८॥
यथा तानं विना गगो यथा मानं विना नृपः ।
यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥ ११९॥
सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो नहि कस्तूर्याः शपथेन विभाव्यते ॥ १२०॥
अपि बत गुरु गर्वं मास्म कस्तूरि यासी-
रखिलपरिमलानां मौलिना सौरभेण ।
गिरिगहनगुहायां लीनमत्यन्तदीनं
स्वजनकममुनैव प्राणहीनं करोषि ॥ १२१॥
दूरीकरोति कुमतिं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥ १२२॥
अनवरतपरोपकारव्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्तिं वचनानि भेषजानीव ॥ १२३॥
व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतान्याकर्ण्य श्रुतिमदजाल्लयातिरेकात ।
आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ १२४॥
मृतस्य लिप्सा कृपणस्य दित्सा
विमार्ग गायाश्च रुचिः स्वकान्ते ।
सर्पस्य शान्तिः कुटिलस्य मैत्री
विधातृसृष्टौ न हि दृष्टपूर्वा ॥ १२५॥
उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
राजप्रियाः केरविण्यो रमन्ते मधुपैः सह ॥ १२६॥
अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्छङ्खलो नृणाम् ॥ १२७॥
दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुग-
ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावली ताण्डव
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ १२८॥
खण्डितानेत्रकाञ्जालिमञ्जुरञ्जनपण्डिताः ।
मण्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः ॥ १२९॥
इति श्रीमत्पण्डितराजजगन्नाथकविविरचिते भामिनीविलासे
प्रास्ताविको नाम प्रथमो विलासः ॥ १॥
॥ भामिनीविलासे द्वितीयः शृङ्गारविलासः ॥
न मनागपि राहुरोधशङ्का न कलङ्कानुगमो न पाण्डुभावः ।
उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥ १॥
नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥ २॥
स्वेदाम्बुसान्द्रकणशालिकपोलपाली
दोलायितश्रवणकुण्डलवन्दनीया ।
आनन्दमङ्कुरयति स्मरणेन कापि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥ ३॥
कस्तूरिकातिलकमालि विधाय सायं
स्मेरानना सपदि शीलय सौधमौलिम् ।
प्रोढिं भजन्तु कुमुदानि मुदामुदारा-
मुल्लासयन्तु परितो हरितो मुखानि ॥ ४॥
तन्मञ्जुमन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायन्तनाम्बुजसहोदरलोचनायाः ॥ ५॥
प्रातस्तरां प्रणमने विहिते गुरूणा
माकर्ण्य वाचममलां भव पुत्रणीति ।
नेदीयसि प्रियतमे परमप्रमोद
पूर्णादरं दयितया दधिरे दृगन्ताः ॥ ६॥
गुरुजनभयमद्विलोकनान्तः समुदयदाकुलभावमुद्वहन्त्यः ।
दरदलदरविन्दसुन्दरे हा हरिणदृशो नयने न विस्मरामि ॥ ७॥
बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतो क्रमेण ।
अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्म्याः ॥ ८॥
जम्बीरश्रियमतिलङ्घ्यं लीलयैव व्यानम्रीकृतकमनयिहेम कुम्भौ ।
नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ॥ ९॥
कपोलपाली तव तन्वि मन्ये लावण्यधन्ये दिश मुत्तराख्याम् ।
आभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः ॥ १०॥
नीवीं नियम्य शिथिलामुषसि प्रकाश-
मालोक्य वारिजदृशः शयनं जिहासोः ।
नैवावरोहति कदापि च मानसान्मे
नाभेः प्रभा सरसिजोदरसोदरायाः ॥ ११॥
आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती ।
आरादुपाकर्ण्य गिरं मादियां सौदामिनीयां सुषमामयासीत् ॥ १२॥
मुधैव नक्तं परिकल्प्य गन्तुं मृषैव रोषादुपजल्पतो मे ।
उदश्रुचञ्चन्नयना नताङ्गी गिरं न कां कामुररीचकार ॥ १३॥
तवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः ।
यदवाधि न पदं दधाति चित्ते हरिणकिशोदृशो दृशोर्विलासः ॥ १४॥
आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम् ।
कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणाम् ॥ १५॥
अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना ।
अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ॥ १६॥
वक्षोजाग्रं पाणिनामृष्य दूरं यातस्य द्रागाननाब्जं प्रियस्य ।
शोणाग्राभ्यां भामिनीलोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥ १७॥
गुरुभिः परिवेष्टितापि गण्डस्थलकण्डूयनचारुककैतवेन ।
दरदर्शितहेमबाहुनाला मयि बाला नयनाञ्चलं चकार ॥ १८॥
गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् ।
दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत् ॥ १९॥
विनये नयनारुणप्रसाराः प्रणतो हन्त निरन्तराश्रुधाराः ।
अपि जीवितसंशयः प्रयाणे न हि जाने हरिणाक्षि केन तुष्ये ॥ २०॥
अकरुणमृषाभाषासिन्धो विमुञ्च ममाञ्चलं
तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम् ।
अविरलगलद्वापां तन्वीं निरस्तविभूषण
क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ २१॥
तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्धिकासम् ।
आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमालाम् ॥ २२॥
वीक्ष्य वक्षावि विपक्षकामिनीहारलक्ष्म दायतस्य भामिनी ।
अंसदेशविनिवेशितां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥ २३॥
दरानमत्कन्धरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् ।
अनल्पनिश्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥ २४॥
रोषावेशान्निर्गतं यामयुग्मादेत्य द्वारं काञ्चिदाख्यां गृणन्तम् ।
मामाज्ञायैवाययौ कातराक्षी मन्द मन्दं मन्दिरादिन्दिरेवम् ॥ २५॥
हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती ।
प्रियनामपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥ २६॥
इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः ।
परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥ २७॥
कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वाताः कृतान्ताः ।
अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलो
चुलुकयति मदीयां चेतनां चञ्चरीकः ॥ २८॥
निरुध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो दधाने ।
मयि स्मितार्द्रं वदनारविन्दं सा मन्दमन्दं नमयाम्बभूव ॥ २९॥
तिमिरं हरति हरितां पुरः स्थिता
तिरयन्ति तापमथ तापशालिनाम् ।
वदनविपस्तव चकोरलोचने
परिमुद्रयन्ति सरसीरुहश्रियः ॥ ३०॥
कुचकलशयुगान्तर्मामकीनं नखाङ्कं
सपुलकतनु मन्दं मन्दमालोकमाना ।
विनिहितवदनं मां वीक्ष्यबाला गवाक्षे-
चकिततनु नताङ्गी सद्म सद्यो विवेश ॥ ३१॥
विधाय मा मदनानुकूलं
कपोलमूलं हृदये शयाना ।
तन्वी तदानामतुलां बलारेः
साम्राज्यलक्ष्मीमधरीचकार ॥ ३२॥
मुहुरर्थितयाद्य निद्रया मे बत यामे चरने निवेदितायाः ।
चिबुकं सुदृशः स्पृशामि यावन्मयि तावन्मिहिरोऽपि निर्दयोऽभूत् ॥ ३३॥
श्रुतिशत्तमपि भूयः शीलितं भारतं वा
विरचयति तथा नो हन्त सन्तापशान्तिम् ।
अपि सपदि यथायं केलिविश्रान्तकान्ता
वदनकमलवलगत्कान्तिसान्द्रो नकारः ॥ ३४॥
लवली तव लीलया कपोले कवलीकुर्वति कोमलविषा ।
परिपाण्डुरपुण्डरीकखण्डे परिपेतुः परितो महाधयः ॥ ३५॥
यौवनोद्मनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः ।
सङ्कुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥ ३६॥
अधिरोप्यहरस्य हत चापं
परितापम्प्रशमय्य बान्धवानाम् ।
परिणेष्यति वा न वा युवायं
निरपायं मिथिलाधिनाथपुत्रीम् ॥ ३७॥
भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः ।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥ ३८॥
उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता ।
तदपि न हा विधुवदना मानससदनाद् बहिर्याति ॥ ३९॥
अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् ।
इत्यालपति कराम्बुजमादायाली जनस्य विकला सा ॥ ४०॥
लोभाद्भराटिकानां विक्रतुं तक्रमविरतमटन्त्या ।
लब्धो गोपकिशोर्या मध्यस्थ्यं महेन्द्रनीलमणिः ॥ ४१॥
रूपारुचिं निरसितुं रसयन्त्या हरिमुखस्य लावण्यम् ।
सुदृशः शिवशिव सकले जाता सकलेवरे जगत्यरुचिः ॥ ४२॥
प्राणापहरणेनासि तुल्योहालाहलेन मे ।
शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ॥ ४३॥
किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति ।
तप्याति पतति हुताशे तदा हताशे तुलां तवारोहेत् ॥ ४४॥
औत्सुक्यात्परिमिलतां त्रपया सङ्कोचमञ्चतां च मुहुः ।
नवसङ्गम योर्यूनोर्नयनानामुत्सवो जयति ॥ ४५॥
गरिमाणमर्पयित्वा लघिमानं कुचतटात्कुरङ्गदृशाम् ।
स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ ४६॥
न्यञ्चति वयसि प्रथमे समुदञ्चति तरुणिमनि तदा सुदृशः ।
दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥ ४७॥
निस्सीमशोभासौभाग्यं नताङ्ग्या नयनद्वयम् ।
अन्यो यालोकनानन्द विरहादिव चञ्चलम् ॥ ४८॥
गुरुमध्ये हरिणाक्षी मार्तिकशकलैर्निहन्तुकामं माम् ।
रदयन्त्रितरसनाग्रं तरलितनयनं निवारयाञ्चक्रे ॥ ४९॥
नयनाञ्चलावमर्शं या न कदाचित्पुरा सेहे ।
आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ॥ ५०॥
मानपराग्वदनापि प्रिया शयानेव दयितकरकमले ।
उद्वेल्लद्भुजमल सग्रीवाबन्धं कपोलमाधत्ते ॥ ५१॥
लोचनफुल्लाम्भोज द्वयलोभान्दोलितैकमनाः शुभ्रे ।
कस्तूरीतिलकमिषादयमलिकेऽलिस्तवोल्लसति ॥ ५२॥
अधिरजनि प्रियसविधे कथमपि संवेशिता बलाद्गुरुभिः ।
किं भवितेति सशङ्कं पङ्कजनयना परानृशति ॥ ५३॥
चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनरसावास्तांसमस्ताकथा ।
एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे
मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्याति ॥ ५४॥
अलङ्कर्तुं कर्णौ भृशमनुभवन्त्या नवरुजं
ससीस्कारं तिर्यग्वलितवदनाया मृगदृशः ।
कराब्जव्यापारानतिसुकृतसारान् रसयतो
जनुः सर्वं श्लाघ्यं जयति ललितोत्तंस भवतः ॥ ५५॥
आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं
भामिन्यो भवनेषु भूषणगणैरङ्गान्यलङ्कुर्वते ।
मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते
हा हा बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ॥ ५६॥
वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा ।
निःश्वासग्लपिताधरं परिपतद्बाष्पार्द्रवक्षोरुहा
बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥ ५७॥
यदवाधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् ।
तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥ ५८॥
निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः ।
अधिकं न हि परयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ॥ ५९॥
निपतद्बाष्पसंरोध मुक्तचाञ्चल्यतारकम् ।
कदा नयननीलाब्जमालोकेय मृगीदृशः ॥ ६०॥
यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति ।
अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥ ६१॥
भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु ।
तरुणेषु विलोचनान्ज मालामथ बाला पथि पातयाम्बभूव ॥ ६२॥
पापं हन्त मया हतेन विहितं सीतापि यद्यापिता
सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति ।
आलोकेय कथं मुखं सुकृतिनां किं ते वदिष्यति मां
राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥ ६३॥
उषसि प्रतिपक्षकामिनी सदनादन्तिकमञ्चति प्रिये ।
सुदृशी नयनाब्जकोणयोरुदियाय त्वरयाऽरुणदयुतिः ॥ ६४॥
क्षमापणैकपादयोः पदयोः पतति प्रिये ।
शेमुः सरोजनयना नयनारुणकान्तयः ॥ ६५॥
निर्वासयन्ती धृतिमङ्गनानां शोभा हरेरेणदृशोधयन्त्याः ।
चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥ ६६॥
राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम् ।
बाले वारय पान्थस्य वासदानविधानतः ॥ ६७॥
मलयानिलमनलीयति मणिभवने काननीयति क्षणतः ।
विरहेण विकलहृदया निर्जलमीनायते महिला ॥ ६८॥
कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् ।
अपि नीलोत्पलमालां बाला व्यालावलिं किलामनुत ॥ ६९॥
विधिवञ्चितया मया न यातं सखि सङ्केतनिकेतनं प्रियस्य ।
अधुना बत किं विधातुकाप्रो मयि कामो नृपतिः पुनर्न जाने ॥ ७०॥
विरहेण विकलहृदया विलपन्ती दयित दयितेति ।
आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥ ७१॥
दारिद्र्यं भजते कलानिधिरयं राकाऽधुना म्ल्लायति
स्वैरकैरवकाननेषु परितो मालिन्यमुन्मीलति ।
द्योतन्ते हरिदन्तराणि सुहृदां वृन्दं समानन्दति
त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम् ॥ ७२॥
पाटीरद्रुभुजङ्गपुङ्गवमुखा याता इवातापिनो
वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः ।
एते हन्त किरन्ति कूजितमयं हालाहलं कोकिला
बाला बालमृणालकोमलतनुः प्राणान् कथं रक्षतु ॥ ७३॥
आयातैव निशा मनो मृगशा मुनिन्द्र मातन्वती
मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति ।
ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां
तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥ ७४॥
प्रभातसमयप्रभां प्रणयिनिह्नुवानां रसाद-
मुष्य निजपाणिना दृशममीलयं लीलया ।
अयं तु खलु पद्मिनीपरिमलालिपाटच्चरै-
रवेरुदयमध्यगादधिकचारू तैर्मारुतैः ॥ ७५॥
विदूरादाश्चर्यस्तिमितमथ किञ्चित् परिचया-
दुदञ्चच्चाञ्चल्यं तदनु परितस्फारितरुचि ।
गुरूणां सङ्घाते सपदि मयि याते समजनि
त्रपाघूर्णत्तारं नयनामिह सारङ्गजदृशः ॥ ७६॥
कपोलावुन्मीलनन्वपुलकपाली मयि मना-
ङ्मृशन्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः ।
कथङ्कारं शक्याः परिगदितुमिन्दीवरहशो
दलद्राक्षानिर्यद्रसभरसपक्षा भाणितयः ॥ ७७॥
राजानं जनयाम्बभूव सहसा जैवाततृक त्वां तु यः
सोऽयं कुण्ठितसर्वशक्तिनिकरो जातो जरार्तो विधिः ।
संप्रत्युन्मदखञ्जरीटनयनावक्राय नित्यश्रिये
दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः ॥ ७८॥
अविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः
कान्तिः काचिन्निखिलनयनाकर्षणे कार्मराज्ञा ।
श्वासो दीर्घस्तवधि मुखे पाण्डिमा गण्डमूले
शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥ ७९॥
प्रसङ्गे गोपानां गुरुषु महिमानं यदुपते-
रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः ।
विषज्वालाजालं झटिति वमतः पन्नगपतेः
फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥ ८०॥
कैशोरे वयसि क्रमेण तनुतामायति तन्व्यास्तना-
वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया ।
आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां
किञ्चासीदमृतस्य भेदविगमः साचिस्मिते तात्विकः ॥ ८१॥
शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ॥ ८२॥
अधरद्युतिरस्तपल्लवा मुखशोभाशशिकान्तिलङ्घिनी ।
तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥ ८३॥
व्यत्यस्तं लपति क्षणं क्षणमहो मौनं समालम्बते
सर्वस्मिन्विदधाति किं च विषये दृष्टिं निरालम्बनाम् ।
श्वासं दीर्घमुरीकरोति न मना गङ्गेषु धत्ते धृतिं
वैदेहीविरहव्यथाविकलितो हा हन्त लङ्केश्वरः ॥ ८४॥
उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलललना चूडामणिशासनेन मदनेन ॥ ८५॥
प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः ।
रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डु ॥ ८६॥
इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् ।
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ८७॥
मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय ।
इति सुदृशः प्रियवचनैरपायि नयनाब्जकोणशोणरुचिः ॥ ८८॥
आलोक्य सुन्दरि मुखं तव मन्दहासं
नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः ।
किं चासिताक्षि मृगलाञ्छनसम्भ्रमेण
चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ८९॥
स्मितं नैतत्किन्तु प्रकृतिरमणीयं विकसितं
मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम् ।
स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं
लता सेयं रम्या भ्रमरकुलनम्या न रमणी ॥ ९०॥
सङ्ग्रामाङ्गणसम्मुखाहतकियद्विश्वम्भराधीश्वर
व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा ।
अङ्गारप्रखरैः करैः कवलयन्नेतन्महीमण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥ ९१॥
श्यामं सितं च सुदृशो न दृशोः स्वरूपं
किं तु स्फुटं गरलमेतदथामृतं च ।
नो चेत्कथं निपतनादनयोस्तदेव
मोहं मुदं च नितरां दधते युवानः ॥ ९२॥
अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद्विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेद मृगीदृशः ॥ ९३॥
सुविरलमौक्तिकतारे धवलांशुकचन्द्रिका चमत्कारे ।
वनपरिपूर्णचन्द्रे सुन्दरि राकाऽसि नात्रसन्देहः ॥ ९४॥
रूपजला चलनयना नाभ्यावर्ता कचावलिभुजङ्गा ।
मज्जन्ति यत्र सन्तः सेयं तरुणी तरङ्गिणीविषमा ॥ ९५॥
शोणाधरांशु सम्भिन्नास्तन्वि ते वदनाबुजे ।
केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥ ९६॥
दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः ।
अपि चालकवेषधारिणो मकरन्दस्पृहया लवोऽलयः ॥ ९७॥
तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा ।
ममाऽयं मानुषो लोको नाकलोक इवाभवत् ॥ ९८॥
अङ्कायमानमलिके मृगनाभिपङ्कं
पङ्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत् ।
उल्लासपल्लवितकोमलपक्षमूला-
श्चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ९९॥
शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् ।
न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥ १००॥
चलद्भरुङ्गमिवाम्भोज मधीरनयनं मुखम् ।
तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥ १०१॥
शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः ।
येनाकारिषि मित्रं सुविकलहृदयो विधिर्वाच्यः ॥ १०२॥
श्यामलेनाङ्कितं बाले भाले केनापि लक्ष्मणा ।
मुखं तवान्तरासुप्त भृङ्गफुल्लाबुजायते ॥ १०३॥
अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि ।
भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥ १०४॥
नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः ।
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥ १०५॥
स्तनाभोगे पतन् भाति कपोलात्कुटिलोऽलकः ।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ १०६॥
यथा लतायाः स्तबकानतायाः
स्तनावनम्रे नितरां समाऽसि ।
तथा लता पल्लविनी सगर्वे
शोणाधरायाः सदृशी तवाऽपि ॥ १०७॥
इदं लताभिः स्तबकानताभि-
र्मनोहरं हन्त वनान्तरालम् ।
सदैव सेव्यं स्तनभारवत्यो
न चेदयुवत्यो हृदयं हरेयुः ॥ १०८॥
सामदागमनबृंहिततोषा जागरेण गमिताखिलदोषा ।
बोधिताऽपि बुबुधे मधुपैर्न प्रातराननजसौरभलुब्धैः ॥ १०९॥
अविचिन्त्यशक्तिविभवेन सुन्दरि
प्रथितस्य शम्बररिपोःप्रभावतः ।
विधुभावमञ्चिततमां तवाननं
नयने सरोजदलनिर्विशेषताम् ॥ ११०॥
मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती ।
शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी ॥ १११॥
पान्थ मन्दमते किं वा सन्तापमनुविन्दसि ।
पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥ ११२॥
सम्पश्यतां तामतिमात्रतन्वीं
शोभाभिराभासितसर्वलोकाम् ।
सौदामिनी वा सितयामिनी वे-
त्येवं जनानां हृदि संशयोऽभूत् ॥ ११३॥
सपल्लपा किं नु विभाति वल्लरी
सफुल्लपद्मा किमयं नु पद्मिनी ।
समुल्लसत्पाणिपदां स्मितानना-
मितीक्षमाणैः समलम्भि संशयः ॥ ११४॥
नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम् ।
सरोजं चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥ ११५॥
कनकद्वकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया ।
चपलायुतवारिभ्रमान्ननृते चातकपोतकैर्वने ॥ ११६॥
वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते ।
यूनां परिणता सेयं तपस्योत मतं मम ॥ ११७॥
स्मयमानाननां तत्र तां विलोक्य विलासिनीम् ।
चकोराश्चञ्चरीकाश्च मुदं परतरं ययुः ॥ ११८॥
वदनकमलेन बाले स्मितसुषमालेशमादधासि यदा ।
जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥ ११९॥
कलिन्दजानीरभरेऽधर्मग्ना
बकाः प्रकामं कृतभूरिशब्दाः ।
ध्यान्तेन वैराद्विनिगार्यमाणाः
क्रोशन्ति मन्ये शशिनः किशोराः ॥ १२०॥
परस्परासङ्गसुखानतभ्रुवः पयोधरौ पनितरौ बभूवतुः ।
तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमेति ॥ १२१॥
जनमोहकरं तवालि मन्ये चिकुराकारमिदं वनान्धकारम् ।
वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ॥ १२२॥
दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती ।
वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपङ्क्तिरेषा ॥ १२३॥
वियोगवह्निकुण्डेऽस्मिन् हृदये ते वियोगिनि ।
प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति ॥ १२४॥
निधिं लावण्यानां तव खलु मुखं निर्मितवतो
महामोहं मन्ये सरसिरुहसूनोरुपचितम् ।
उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती
कलाहीनं दानं विकल इव राजानमकरोत् ॥ १२५॥
स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम् ।
मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षितुम् ॥ १२६॥
जगदन्तरममृतमयैरंशुभिरापूरयन्नितराम् ।
उदयति वदनव्याजात् किमु राजा हरिणशावनयनायाः ॥ १२७॥
तिमिरशारदचन्दिरचन्द्रिकाः कमलविद्रुमचम्पककोरकाः ।
यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥ १२८॥
प्रिये विषादं जहिहीति वाचं
प्रिये सरागं वदति प्रियायाः ।
वारामुदारा विजगाल धारा
विलोचनाभ्यां मनसश्च मानः ॥ १२९॥
राज्याभिषेकमाज्ञाय शम्बरासुरवेरिणः ।
सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥ १३०॥
आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् ।
भ्रमद्भ्रमरसम्भारं स्मरामि सरसीरुहम् ॥ १३१॥
यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा ।
तिर्यग्ग्रीवं यदद्राक्षीत् तन्निष्पत्राक रोज्जगत् ॥ १३२॥
नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम् ।
सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसम्पदांऽबुजेन ॥ १३३॥
मृणालमन्दानिलचन्दनाना-
मुशीरशैवालकुशेशयानाम् ।
वियोगदूरीकृतचेतनानां
विनैव शैत्यं भवति प्रतीतिः ॥ १३४॥
विबोधयन् करस्पर्शैः पद्मिनीं मुदिताननाम् ।
परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः ॥ १३५॥
आनम्य वल्गुवचनैर्विनिवारितेऽपि
रोषात् प्रयातुमुदिते मयि दूरदेशम् ।
बाला कराङ्गुलिनिदेशवशंवदेन
क्रीडाबिडालाशशुनाऽऽशु रुरोध मार्गम् ॥ १३६॥
अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा
विलीनो लोकानां सह नयनतापोऽपि तिमिरैः ।
तवाऽस्मिन् पीयूषं किरति परितस्तन्वि वदने
कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ॥ १३७॥
विनैव शस्त्रं हृदयानि यूनां विवेकाजामपि दारयन्त्यः ।
अनल्पमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्याः ॥ १३८॥
यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः ।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ १३९॥
न मिश्रयति लोचने सहसितं न सम्भाषते
कथासु तव किं च सा विरचयत्यरालां भ्रुवम् ।
विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः
प्रियस्य शिथिलीकृतः स्वविषयेऽनुरागग्रहः ॥ १४०॥
वडवानलकालकूटवन्मकरव्यालगणैः सहैधितः ।
रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम् ॥ १४१॥
लभ्येत पुण्यैर्गृहिणी मनोज्ञा
तया सुपुत्राः परितः पवित्राः ।
स्फीतं यशस्तैः समुदेति नित्यं
तेनास्य नित्यः खलु नाकलोकः ॥ १४२॥
प्रभुरापि याचितुकामो भजते वामोरु लाघवं सहसा ।
यदहं त्वयाऽधरार्थी सपदि विमुख्या निराशतां नीतः ॥ १४३॥
जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते ।
तटकुञ्जगूढसुरतं भगवाने को मनोभवो वेद ॥ १४४॥
त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्लेशान् ।
किमितोऽन्यत् कुशल मे संप्रति यत्पान्थ जीवामि ॥ १४५॥
किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः ।
कथय तथापि मुदे मम कथयिष्यति पान्थ तव जाया ॥ १४६॥
तुलामनालोक्य निजामखर्वं
गौराङ्गि गर्वं न कदापि कुर्याः ।
लसन्ति नानाफलभारवत्यो
लताः कियत्यो गहनान्तरेषु ॥ १४७॥
इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते ।
जलदादिभयं जगद्वितन्वन् कलितः क्वापि किमालि नीलमेघः ॥ १४८॥
आसायं सलिलान्तः सवितारमुपास्य सादरं तपसा ।
अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याऽपि ॥ १४९॥
अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे ।
अधुनेव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥ १५०॥
मधुरतरं स्मयमानः स्वस्मिन्नेवालपञ्छनैः किमपि ।
कोकनदयन्त्रिलोकी मालम्बनशून्यमीक्षते क्षीबः ॥ १५१॥
मधुरसान्मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय ।
मम गृहाण करेण कराम्बुजं प प पतामि ह हा भ भ भूतले ॥ १५२॥
शतेनोपायानां कथमपि गतः सौधशिखरं
सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने ।
विबोध्य क्षामाङ्गी चकितनयनां स्मेरवदनां
सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम् ॥ १५३॥
गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति सम्मुखम् ।
आवर्तन्ते निवर्तन्ते सरसीषु मधुव्रताः ॥ १५४॥
यथा यथा तामरसेक्षणा मया
पुनः सरागं नितरां निषेविता ।
तथा तथा तत्त्वकथेव सर्वतो
विकृत्य मामेकरसं चकार सा ॥ १५५॥
हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते ।
सेवितं सर्वसम्पद्भिरपि तद्भवनं वनम् ॥ १५६॥
लोलालकावलिचलन्नयनारविन्द
लीलावशंवदितलोकविलोचनायाः ।
सायाहनि प्रणयिनो भवनं ब्रजत्या-
श्चेतो न कस्य हरते गतिरङ्गनायाः ॥ १५७॥
दन्तांशुकान्तमरविन्दरमापहारि
सान्द्रामृतं वदनमेणविलोचनायाः ।
वेधा विधाय पुनरुक्तमिवेन्दुबिम्ब
दूरीकरोति न कथं विदुषां वरेण्यः ॥ १५८॥
सानुकम्पाः सानुरागाश्चतुराः शीलशीतलाः ।
हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥ १५९॥
अलकाः फणिशावतुल्यशीला नयनान्ता परिपुङ्खितेषुलीलाः ।
चपलोपमितां खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥ १६०॥
वदने तव यत्र माधुरी सा हदि पूर्णा करुणा च कोमलेऽभूत् ।
अधुना हरिणाक्षि हा कथं वा गतिरन्यैव विलोक्यते गुणानाम् ॥ १६१॥
अनिशं नयनाभिरामया रमया सम्मदिनो मुखस्य ते ।
निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥ १६२॥
अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति ।
विकलयति कुसुमबाणो बाणालीभिर्ममप्राणान् ॥ १६३॥
खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण ।
खिद्यामि हन्त परितस्तद्रूप विलोकनेन विकलोऽहम् ॥ १६४॥
मथुरागमनोन्मुखे मुरारावसुभारार्तिभृतां वाङ्गनानाम् ।
प्रलयज्वलनायते स्म राका भवनाकाशमजायताम्बुराशिः ॥ १६५॥
केलीमन्दिरमागतस्य शमकैरालीरपास्येङ्गितैः
सुप्तायाः सरुषःसरोरुहदृशः संवीजनं कुर्वतः ।
जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि
श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासञ्जितः ॥ १६६॥
मान्थर्यमापगमनं सह शैशवेन
रक्तं सहैव मनसाऽधरबिम्बमासीत् ।
किञ्चाभवन्मृगकिशोरदृशो नितम्बः
सर्वाधिको गुरुरयं सह मन्मथेन ॥ १६७॥
श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।
न स्यात् सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥ १६८॥
पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन ।
हिमाम्बुसङ्गानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम् ॥ १६९॥
अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले ।
अधरीकरोति नितरां तवाधरौ मधुरिमातिशयात् ॥ १७०॥
सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया ।
अलिकेन च हेमकान्तिना विदधे काऽपि रुचिः परस्परम् ॥ १७१॥
परपूरुषदृष्टिपात वज्राहतिभीता हृदयं प्रियस्य सीता ।
अविशत् परकामिनी भुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः ॥ १७२॥
अङ्गानि दत्त्वा हेमाङ्गि प्राणान् ऋणिआसि चेन्नृणाम् ।
युक्तमतन्न तु पुनः कोणं नयनपद्मयोः ॥ १७३॥
जितरत्नरुचां सदा रदानां सहवासेन परां मुदं ददानाम् ।
विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥ १७४॥
विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् ।
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥ १७५॥
निभाल्य भूयो निजगौरिमाणं मा नाम मानं सहसैव यासीः ।
गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥ १७६॥
करिकुम्भतलामरोजयोः क्रियमाणां कविभिर्विश्रङ्खलैः ।
कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥ १७७॥
परिष्वजन् रोषवशात् तिरस्कृतः
प्रियो मृगाक्ष्या शयितः पराङ्मुखः ।
किं दुःखितोऽसाविति कान्दिशीकया
कदाचिदाचुम्ब्य चिराय सस्वजे ॥ १७८॥
चेलाञ्चलेनाननशीतरश्मि संवृण्वतीनां हरिदृश्वरीणाम् ।
वज्रागनानां स्मरजातकम्पादकाण्डसम्पातमियाय नीवी ॥ १७९॥
अधरेण समागमाद्रदाना मरुणिम्ना पिहितोऽपि शुक्लभावः ।
हसितन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥ १८०॥
सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव ।
वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ १८१॥
शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।
दीयता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥ १८२॥
वदनारविन्दसौरभ लोभादिन्दिरेषु निपतत्सु ।
मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषा परुषाः ॥ १८३॥
इति श्रीमत्पण्डितराजजगन्नाथाविरचिते भामिनीविलासे
शृङ्गारो नाम द्वितीयो विलासः ॥ २॥
॥ भामिनीविलासे तृतीयः करुणाविलासः ॥
दैवे पराग्वदनशालिनि हन्त जाते
याते च संप्रति दिवं प्रति बन्धुरत्वे ।
कस्मै मनः कथयितासि निजामवस्थां
कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १॥
प्रत्युद्गता सविनयं सहसा पुरेव
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।
मामद्य मञ्जुरचनैर्वचनैश्च बाले
हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २॥
सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता
विद्याऽपि खेदकलिता विमुखीबभूव ।
सा केवलं हरिणशावकलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥ ३॥
निर्वाणमङ्गलपदं त्वरया विशन्त्या
मुक्ता दयावति दयाऽपि किल त्वयाऽसौ ।
यन्मां न भामिनि निभालयासि प्रभात
नीलारविन्दमदभङ्गिमदैः कटाक्षैः ॥ ४॥
धृत्वा पदस्खलनभीतिवशात् करं मे
या रूढवत्यसि शिलाशकलं विवाहे ।
सा मां विहाय कथमद्य विलासिनि दयु-
मारोहसीति हृदयं शतधा प्रयाति ॥ ५॥
निर्दूषणा गुणवती रसभावपूर्णा
सालङ्कृतिः श्रवणमङ्गलवर्णराजिः ।
सा मामकीनकवितेव मनोऽभिरामा
रामा कदापि हृदयान्मम नापयाति ॥ ६॥
चिन्ता शशाम सकलाऽपि सरोरुहाणा-
मिदोश्च बिम्बमसमां सुषमामयासीत् ।
अभ्युद्गतः कलकलः किल कोकिलानां
प्राणप्रिये यदवधि त्वमितो गताऽसि ॥ ७॥
सौदामिनीविलसितप्रतिमानकाण्डे
दत्त्वा कियन्त्यपि दिनानि महेन्द्रभोगान् ।
मन्त्रोज्झितस्य नृपतेरिव राज्यलक्ष्मी
र्भाग्यच्युतस्य करतो मम निर्गताऽसि ॥ ८॥
केनापि मे विलसितेन समुद्गतस्य
कोपस्य किन्नु करभोरु वशंवदाऽभूः ।
यन्मां विहाय सहसैव पतिव्रताऽपि
याताऽसि मुक्तिरमणीसदनं विदूरम् ॥ ९॥
काव्यात्मना मनसि पर्यणमन् पुरा मे
पीयूषसारसरसास्तव ये विलासाः ।
तानन्तरेण रमणी रमणीयशीले
चेतोहरा सुकविता भविता कथं नः ॥ १०॥
या तावकीनमधुरस्मितकान्तिकान्ते
भूमण्डले विफलतां कविषु व्यतानीत् ।
सा कातराक्षि विलयं त्वयि यातवत्यां
राकाऽधुना वहति वैभवमिन्दिरायाः ॥ ११॥
मन्दस्मितेन सुधया परिषिच्य या मां
नेत्रोत्पलैर्विकसितैरनिशं समीजे ।
सा नित्यमङ्गलमयी गृह देवता मे
कामेश्वरी हृदयतो दुयिता न याति ॥ १२॥
भूमौ स्थिता रमण नाथ मनोहरेति
सम्बोधनैर्यमधिरोपितवत्यसि द्याम् ।
सर्वं गता कथमिव क्षिपसि त्वयेणशावा-
क्षितं धरणिधूलिषु मामिदानीम् ॥ १३॥
लावण्यमुज्ज्वलमपास्ततुलं च शीलं
लोकोत्तरं विनयमर्थमयं नयं च ।
एतान् गुणानशरणानथ मां च हित्वा
हा हन्त सुन्दरि कथं त्रिदिवं गताऽसि ॥ १४॥
कात्या सुवर्णवरया परया च शुद्धया
नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् ।
चेतोहरामपि कुशेशयलोचने त्वां
जानामि कोपकलुषो दहनो ददाह ॥ १५॥
कर्पूरवर्तिरिव लोचनतापहन्त्री
फुल्लाम्बुजस्रगिव कण्ठसुखैकहेतुः ।
चेतश्चमत्कृतिपदं कवितेव रम्या
नम्या नरीभिरमरीव हि सा विरेजे ॥ १६॥
स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं
या दृष्टवत्यासि न कञ्चन साभिलाषम् ।
सा संप्रति प्रचलिताऽपि गुणैर्विहीनं
प्राप्तं कथं कथय हन्त परं पुमांसम् ॥ १७॥
दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकिताऽसीत् ।
अधुना किल हन्त सा कृशाङ्गी गिरमङ्गीकुरुतेन भाषिताऽपि ॥ १८॥
रीतिं गिराममृतवृष्टिकरी तदीयां
तां चाकृतिं कविवरैरभिनन्दनीयाम् ।
लोकोत्तरामथ कृतिं करुणारसार्द्रां
स्तोतुं न कस्य समुदेति मनःप्रसादः ॥ १९॥
इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे
करुणा नाम तृतीयो विलासः ॥ ३॥
॥ भामिनीविलासे चतुर्थः शान्तो विलासः ॥
विशालविषयावीवलयलग्नदावानल
प्रसृत्वरशिखावालीविकलितं मदीयं मनः ।
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १॥
अये जलधिनन्दिनीनयननीरजालम्बन
ज्वलज्ज्वलन जित्वरज्वरभरत्वराभङ्गुरम् ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै
र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥ २॥
स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम-
भङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी ॥ ३॥
कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन्
सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् ।
लतावलिशता वृतो मधुरया रुचा सम्भृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४॥
जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिल-
ज्जनानां सन्तापं त्रिविधमपि सद्यः प्रशमयन् ।
श्रितो वृन्दारण्यं नतनिखिलवदारकवृतो
मम स्वान्तर्ध्वान्तं निरयतु नवीनो जलधरः ॥ ५॥
ग्रीष्मचण्डकरमण्डल भीष्मज्यालसन्तरणतापितमूर्तेः ।
प्रावृषेण्य इव वारिधरो मे वेदना हरतु वृष्णिवरेण्यः ॥ ६॥
अपारे संसारे विषमविषयारण्यसरणौ
मम भ्रामं भ्रामं विगलितविरामं जडमतेः ।
परिश्रान्तस्यायं तरणितनयातीरनिलयः
समन्तात्सन्तापं हरिनवतमालस्तिरयतु ॥ ७॥
आलिङ्गितो जलधिकन्यकया सलीलं
लग्नः प्रियङ्गुलतयेव तरुस्तमालः ।
देहावसानसमये हृदये मदीये
देवश्चकास्तु भगवानरविन्दनाभः ॥ ८॥
नयनानन्दसन्दोह तुन्दिलीकरणक्षमा ।
तिरयत्याशु सन्तापं कापि कादम्बिनी मम ॥ ९॥
वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा-
स्तां स्वप्नेपि न संस्मराम्यहमहम्भावावृतो निस्त्रपः ।
इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत-
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥ १०॥
पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः
पारावारपरम्परा तर तथाप्याशा न शान्तास्तव ।
आधिव्याधिपराहतो यदि सदा क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः ॥ ११॥
गणिकाजामिलमुख्यानवता भवता बताहमपि ।
सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥ १२॥
विदित्वेदं दृश्यं विषमरिपुदुष्टं नयनयो
र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् ।
विधूतान्तध्वान्तो मधुर मधुरायां चिति कदा
निमग्नः स्यां कस्यां चन नवनभस्याम्बुदरुचौ ॥ १३॥
मृद्धीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरःखण्डितः ।
सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ १४॥
वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं
मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः ।
करक्लेशमहीरुदामुरुतरज्वालाजटालः शिखी
द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम् ॥ १५॥
रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्
वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया ।
सौन्दर्यामृतमुद्गिरद्भिरभितः सम्मोह्य मन्दस्मितै
रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति ॥ १६॥
अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना
कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् ।
तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं
कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसंज्ञा ॥ १७॥
सन्त्येवास्मिज्जगति बहवः पक्षिणो रम्यरूपा-
स्तेषां मध्ये मम तु महती वासना चातकेषु ।
यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि-
श्चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ १८॥
विष्वद्रीच्या भुवनमखिलं भासते यस्य भासा
सर्वासामप्यहमिति विदां गूढमालम्बनं यः ।
तं पृच्छन्ति स्वहृदयमना वेदिनो विष्णुमन्या-
नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १९॥
सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यता
चिन्तायामसि सस्पृहुं यदि तदा चक्रायुधश्चिन्त्यताम् ।
आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदालप्यतां
स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥ २०॥
भवग्रीष्मप्रौढातपनिवहसन्तप्तवपुषो
बलादुन्मूल्यं द्राङ्निगडमविवेकव्यतिकरम् ।
विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विनाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥ २१॥
बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान्
अन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ति ।
तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः
सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ २२॥
प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि ।
आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ २३॥
मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः ।
श्वपचात्मभुवोर्निरन्तरा मम भूयात्परमात्मनि स्थितिः ॥ २४॥
निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् ।
अथ तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २५॥
प्रतिपलमखिलाँल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हन्त किमिति चित्तं विरमति नादयापि विषयेभ्यः ॥ २६॥
सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः ।
अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैतु धर्मात् ॥ २७॥
अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु ।
पातयतु वासिधारामहमणुमात्रं नकिञ्चिदपभाषे ॥ २८॥
तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम् ।
चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः ॥ २९॥
श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा
मदभ्राम्यद्भृङ्गावलिमधुरझङ्कारसुभगाः ।
निमग्नानां यासु द्रविणमदिराघुर्णितदृशां
सपर्यासौकर्य्यं हरिचरणयोरस्तमयते ॥ ३०॥
किं निःशङ्कं शेषे शेषे वयसः समागतो मृत्युः ।
अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी ॥ ३१॥
सन्तापयामि किमहं धावन्धावं धरातले हृदयम् ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुःपरमः ॥ ३२॥
रेरे मनो मम मनोभवशासनस्य
पादाम्बुजद्वयमनारतमानमन्तम् ।
किं मां निपातयसि संसृतिगर्तमध्ये
नैतावता लव गमिष्याति पुत्रशोकः ॥ ३३॥
मरकतमणिमदिनीधरो वा तरुणतरस्तरुरेष वा तमालः ।
रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥ ३४॥
तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणि ज्योत्स्ना वा स्यान्न सा मधुरा कुतः ।
इति रघुपतेः कायच्छाया विलोकनतत्परैः
रुदितकुतुकैः कै करादौ न सन्दिदिहे जनैः ॥ ३५॥
चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः ।
गुरुनिःश्वासितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥ ३६॥
भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलो
नाशो हन्त सतामसत्पथजुषामायुः शतानां शतम् ।
दुर्नीतिं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि स-
न्किं कुर्वे जगदीश यत्पुनरहं दीनो भवानीश्वरः ॥ ३७॥
आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे-
र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाज्यभाजां
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ३८॥
गिरां देवी वीणागुणरणनहीनादरकरा
यदीयानां वाचाममृतमयमाचामति रसम् ।
वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपते-
रधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः ॥ ३९॥
मधुद्राक्षाः साक्षादमृतमथ वमाधरसुधा
कदाचिन् केषाञ्चित् न खलु विदधीर न्नपि मुदम् ।
ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो
न येषामानन्दं जनयति जगन्नाथ भणितिः ॥ ४०॥
निर्माणे यदि मार्मिकोऽसिनितरामत्यन्तपाकद्रव-
न्मृद्दीकामधुमाधुरीमदपरीहारोधुराणां गिराम् ।
काव्यं तहि सखे सुखेन कथय त्वं सम्मुखे मादृशां
नो चेदुष्कृतमात्मना कतमिव स्वान्ताद्बहिर्माकृथाः ॥ ४१॥
मद्वाणि मा कुरु विषादमनादरेण
मात्सर्यमग्रमनसां सहसा खलानाम् ।
काव्यारविन्दमकरन्दमधुव्रताना-
मास्येषु धास्यति तमां कियतो विलासान् ॥ ४२॥
विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा
भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः ।
आस्ये धास्यति कस्य लास्यमधुनाधन्यस्य कामालस-
स्वर्वामाधरमाधुरीमधरयन् वाचां विपाको मम ॥ ४३॥
धुयैरपि माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकादीनाम् ।
वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ४४॥
शास्त्राण्याकलितानि नित्यविधयः सर्वेऽपि सम्भाविता
दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः ।
संप्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते
सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम् ॥ ४५॥
दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ॥ ४६॥
इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे
पर शान्तो नाम चतुर्थो विलासः ॥ ४॥
समाप्तोऽयं ग्रन्थः ।
Encoded and proofread by Mandar Mali