श्रीअरविन्दस्य चिन्तनाश्च चिदुन्मेषाः
श्रीअरविन्दस्य ``ठोउघ्त्स् अन्द् ग़्लिम्प्सेस्'' नामककृते संस्कृतावरः
लक्ष्यं
ज्ञानचेष्टा अतीत्यैव ज्ञानं समुपलप्स्यते ।
तर्क एव सहायोऽभूत् तर्क एवास्ति बाधकः ॥
एषणानि ह्यतीस्यैव शक्तिः समुपलप्स्यते ।
यत्न एव सहायोऽभूद् यत्न एवास्ति बाधकः ॥
सर्वभोगानतीत्यैव परानन्दोऽभ्यवाप्स्यते ।
कामनैव सहायाभूऽत् कामनैवास्ति बाधिका ॥
ध्यष्टिभावमतीत्त्यैव ``पुरुषाः'' स्याम तत्त्वतः ।
अहम्भावः सहायोऽभूदवहम्भावोऽस्ति बाधकः ॥
मनुष्यत्वमतीत्यैव ``मनवः'' स्यां सत्यतः ।
पशुभावः सहायोऽभूत् पशुभावोऽस्ति बाधकः ॥
परिणम्यस्त्वया तर्कः सम्बोधौ सुव्यवस्थिते ।
सर्वात्मना भव ज्योतिर्लक्ष्यमेतद् ध्रुवं तव ॥
परिणम्यस्त्वया यत्नः स्वात्मशक्तेः परिप्लवे
सर्वदैकरसे शान्ते महामहिमशालिनि ।
भव चिच्छक्तिरेव त्वं लक्ष्यमेतद् ध्रुवं तव ॥
परिणम्यस्त्वया भोगःसमनिर्विषयोन्मदे ।
सर्वात्मना भवानन्दो लक्ष्यमेतद् ध्रुवं तव ॥
परिणम्या प्रुथुग्व्यष्टिस्त्वयेयं विश्वमानवे ।
सर्वात्मना भवेर्दिव्यो लक्ष्यमेतद् ध्रुवं तव ॥
परिणम्यः पन्नश्चापि पश्वनाथे तथा त्वया ।
सर्वात्मना भवेः कृष्णः लक्ष्यमेतद् ध्रुवं तव ॥
न यन्मया शक्यमिहाद्य कर्तुं करिष्यमाणस्य हि लक्षणं तत् ।
असम्भवत्वानुभवो।भवेऽस्मिन् सम्भावनानां शुभसूत्रपातः ॥
विनश्वरं विश्वमलक्ष्यतेदं यतो ह्यसाध्यं वदतो विरोधि ।
तस्मात्प्रभुः शाश्वतसत्स्वरुपः सत्स्वान्निजात् सर्वमिदं ससर्ज ॥
असम्भवो नाम हि सम्भवानामसाधितानां बृहतां समष्टिः ।
उच्चस्थितेरावरणं स यात्रामार्गस्य चाद्यापि न लङ्घितस्य ॥
मनुष्यजातेः प्रगतिर्यदीप्सितास्भावना धूनु हि पूर्वकल्पिताः ।
विचारणा चेतति चैवमाहता भवत्यपूर्वं नवसर्जनक्षमा ।
नो चेन्निजावृत्तिमसौ हि यन्त्रवत् ।
करोति तां वेत्ति च सत्क्रियां भ्रमात् ॥
निजाक्ष भ्रमिरेवैका न गतिर्मानवात्मनः ।
अक्षयज्योतिषोऽप्यन्या सूर्यस्यास्ति परिक्रमा ॥
आत्मानं विद्धि पश्चाच्च कुरु कर्म च चिन्तनम् ।
प्राणवच्चिन्तनं सर्वं सृच्यमानजगन्मयम् ॥
यथार्थ कर्म यत् तद्धि विचारो व्यक्ततां गतः ।
विज्ञा काऽपि यतो लीलामारेभे ह्यात्मसंविदि ।
दिव्यायां, अत एवैतद् विद्यते पार्थिवं जगत् ॥
विचारो नास्त्युपादानं सत्त्ताया अनिवार्यतः ।
नापि हेतुरसौ तस्याः,सम्भूतेः साधनं तु सः ॥
तदेवाहं भवामीह यत्पश्यामि निजान्तरे ।
।तत्सर्वं कर्तुमीशे यद् विचारो मां विनिर्दिशेत् ।
प्रभुस्तद् भवितुं यच्च विचारो व्यञ्जयेन् मयि-
ईदृष्यविचला श्रद्धा धार्या पुंसा निजात्मनि ।
यतो हि भगवांस्तस्मिन्नन्तर्वसति सर्वदा ॥
नास्मत्कार्यं सदाऽऽवृत्तिः तस्य यन् वा कृतं पुरा ।
सम्प्राप्तिरेव सिद्धीनां नव्यानां ननु कर्म नः ।
स्वप्नेऽपि नैव दृष्टानामीशित्वानां तथैव च ॥
कालाश्चात्मेहलोकश्च क्षेत्रत्वेनाऽर्पिता हि नः ।
दृष्टिराशा तथा स्रष्ट्री कल्पना प्रेरिकाश्च नः ।
सङ्कल्प चिन्तनाऽऽयासा उपायाः सर्वसिद्धिदाः ॥
किन्नु तन्नूतनं यन्नः साध्यमध्यापि विद्यते?
प्रेम,कस्मात्? यतोऽस्माभिरद्य यावत्तु साधिताः-
केवलं हि घृणा द्वेष स्वात्मासन्तोषवृत्तय ।
ज्ञानं, कस्मात् ? यतोऽस्माभिः साधिता ह्यधुनावधि-
भ्रान्तिरिन्द्रियसंवित्तिः कल्पनैव च केवलम् ।
आनन्दोऽपि, यतोऽस्माभिः साधितान्यधुनावधि-
केवलं सुखं दुःखमौदासीन्यं तथैव च ।
शक्तिश्चापि,यतोऽस्माभिः साधितातान्यधुनावधि-
दुर्बल्यञ्चैव चेष्टा च जयश्चैव पराजितः ।
जीवनञ्च, यतोऽस्माभिः साधितान्यधुनावधि-
जननान्द् वर्धनञ्चैव मरणञ्चैव केवलम् ।
एकत्वञ्च,यातोऽध्यापि साधितौ सङ्गसङ्गरौ ।
देवत्वं,सारतः; स्वस्मिन् देवमूर्ते विनिर्मितिः ॥
सदानन्दमयम्
ब्रह्मास्यान्निर्विशेषञ्चेत् निरुपञ्चैव निर्गुणं
शश्वन्नो मूर्त्तसत्ताया दृश्यसत्यविरोधि च,
तदाऽस्य सकलस्यान्तो लय एवोचितो भवेत् ।
विचार्याः किन्तु सन्त्यत्र प्रेमानन्दाऽऽत्मसंविदः ॥
विश्वमिदं नो केवलमास्ते सूत्रं हि गणितस्य,
यत्स्यान्मानसिकानां केषाञ्जिन्निर्विशेषाणां
सङ्ख्या तत्त्वानीति च नामद्वयकीर्तितानां हि
भावानां सम्बन्धं निर्धारयितुं प्रयोक्तव्यम्,
येन स्याम समर्थाः सम्प्राप्तुं ह्यन्ततः शून्यं,
किं वा रिक्तमसारं नितरां निर्वस्तुकं ह्येकम् ॥
नापि च विश्वमिदं भो व्यापारः स्थूलभौतिको ह्येव,
यो बहुविधशक्तीनां समीक्रुतेर्व्यञ्जकोऽस्तु कस्याश्चित् ॥
किन्तु स्वात्मप्रेमिण आनन्दः सर्वमेवैतत् ।
अपि वा सनात निशिझोर्लीला कस्यापि भतीयम् ॥
आत्मबहूकरणं वाऽनन्तं शाश्वतकवे हि कस्यापि ।
निजनिः सीमितसर्वानशक्तेरून्मदभरेण मत्तस्य ॥
परात्परोऽसौ पुरुषो गणितज्ञः इवास्ति सर्वमहान्,
प्रश्नं समादपद्यः विश्वात्मकमस्ति बहुराशिम् ।
यद्वा विचारकोऽसौ परीक्षणैर्यः समादघातीव
तत्त्वानामितरेतरसम्बन्धानां विचारणाख्यां
महासमस्यां किं वा सन्तुलनस्यैव शक्तीनां-
इत्येवं व्याहर्तुं वयमर्हामो यथाकामम् ।
किन्त्विदमपि वदनीयं यदसौ प्रेमीव वर्तते सुमहान्
वैश्व व्यक्तिगतानां स्वरसाम्यानां सुमयकश्चैव ।
अपि वाऽसौ शिशुरेकः कविरिव वाऽऽस्ते सनातनः कश्चित् ॥
नालं तु चिन्तनायाः पक्षो जात्वस्ति विषयेऽस्मिन् ।
ग्राह्यः समग्ररीत्या ह्यानन्दस्यापि पक्षोऽत्र ॥
सत्ताश्चपि विचारास्तत्वान्यथ शक्तश्च्यापि
सकलान्येवैतानि हि निःसारा रिक्तसञ्जकास्तावत्,।
यावन्न पूरितानि हि भागवतानन्दनिश्वासैः ॥
सर्वेप्यर्थाः प्रतिमा एते प्रतिमैव किन्तु विश्वमिदम् ।
भावा बृवन्त्यमूर्त्ताः शुद्धविचारं सवैशसत्यानाम् ।
प्रतिमास्तावत्तेषां वास्तवसत्तां सजीवां हि ॥
आश्लिष्यन्ती शक्तिं विज्ञा जनयाञ्चकार चेल्लोकान्,
ततः समुत्पादितवांस्तामानन्दो हि सत्स्वरुपस्य ।
यतो ह्यनन्तो देवोऽमितविधमानन्दनात्मगर्भेऽघात् ।
तत एवाजनि जगतां ब्रह्मान्डानां च सृष्टिरखिलानाम् ॥
चिदानन्दौ सतो ह्याद्यौ जनकौ जगतां ततेः ।
एतावेवान्तिमे चापि तत्त्वे नूनं परात्परे ॥
अचैतन्यं हि मूर्च्छेव मध्यगा चेतनात्मनः ।
अथवा सुन्तिरेवैतत् तस्याऽऽस्ते तमसावृता ॥
वेदनाऽऽत्मविलोपो वा सत्त्वानन्दः स केवलं
योऽपयात्यात्मनाः प्राप्तुं स्वमेवान्यत्र चान्यथा ॥
आनन्दः सत्वरुप्यस्य सीमितो नास्ति कालतः ।
नैवास्ति तस्य कोऽप्यन्तो न चादिरपि कश्चन ॥
रूपान्निर्याति वस्तूनामेकस्माद् यन्महेश्वरः,
तत् प्रवेशार्थमन्यस्मिन् रूपे नव्ये हि केवलम् ॥
कस्तावदीश्वरो नाम? सोऽस्त्येकः शाश्वतः शिशुः ।
कुर्वाणः ज्ञाश्क्ताऽऽरामे लीलां कामपि शाश्वतीम् ॥
पुरुषः
प्रभुर्नो पारयेत् तयक्तुमानर्ति प्रकृतिं प्रति ।
न च शक्तो नरो हातुं स्वामभीप्साममुं प्रति ॥
सम्बन्धोऽयमनन्तस्य सान्तस्य च सनातनः
अन्योन्यस्माद्धि वैमुख्यं यान्तौ भातो यवा त्वम् ।
संयोगाय प्रगाढाय तत् परावर्तनं तयोः ।
मनुजे प्रकृतिर्जगते पुनरत्मसचेतना भवति,
येन निजं भोक्तारं प्रति सा प्रभवेत् सुदूरमुत्पलवितुम् ।
अमुमेवातौ निमृतं धत्ते ह्यज्ञानपूर्वकं स्वान्तः ।
अमुमेवाऽस्मत्प्राणा निजान्तरे दधति चैन्द्रिया बोधाः ।
दधतोऽपि निषेधन्ति प्रतिषेधान्तोऽपि मृपयन्ते ॥
स्वं न हि वेत्तीत्येव प्रकृतिर्जयतो न,वेत्ति परमेशन् ।
ज्ञात्वैवात्मानमनसौ ज्ञास्यति हि सती विशुद्ध्हमानन्दं ॥
रहस्यं प्राप्तिरेकत्वे लुप्तिरात्मनाः
विश्वातीतश्च विश्वञ्च विश्वेशो मानवस्तथा
यदान्योन्यं विजानीतस्तदैकी भवतो ध्रुवं
विमेदश्चानयोर्नूनमज्ञानस्यादिकारणम्,
यथाऽविद्योतमज्ञानं दुःखस्य मूलकारणम् ॥
आदौ नरो मार्गतितावदन्वक्त्, न वेद चासौ यदहं गवेषये
निजं स्वरूपं ननु दिव्यमित्यपि यात्रां, यतो ह्यारभते निजामसौ
जडात्मिकायाः प्रक्तेस्तमः स्थितेः ।
यदा पुनः-प्रक्रतेऽवलोकितुम्,आन्ध्यं तदाप्यत्र चिराय नियते
स ज्योतिषान्तर्ह्रुदये समृध्यता ।
प्रत्युत्तरं तस्य गवेषणावलेरस्पष्टमेव प्रददाति चेश्वरः ।
तस्यान्धतां मृग्यति चाभिनन्दति मातेव हस्तौ स्वशिशोः प्रसारितौ,
तां मार्गयन्तौ तृभिरेऽन्धवत् प्रियौ ॥
ईश्वरप्रकृती बालौ क्रीडाप्रेमरताविव ।
दृष्टमात्रौ निलीयेते अन्योन्यस्माच्च धावतः ।
मृगयेतामनुधाव्येतां गृह्येतां पुनरित्यतः ॥
मानवोस्तीश्वरो यः स्वं प्रकृतेर्गोपयत्यलम्,
येन तां सोऽधिकुर्वीत संङ्घर्षेणाग्रहेण च,
प्रयोगेण बलस्यापि सहस्राक्रमणेन च ।
ईश्वरो मानवो ह्येव विश्वातीतश्च विश्वगः,
गूहते व्ष्टिभावाद् यः स्वस्मात् स्वं जीववर्तिनः ॥
पशु हि मानवो नाम च्छन्नो यो लोमशत्वचा,
चतुर्षु यश्च पादेषु भूमौ भवति संस्थितः ।
कीटोऽपि मानवो नां यः प्रसपंश्च सङ्कुचन्
स्वीयस्य मानवत्स्य विकासं प्रति गच्छति ।
प्रकृतेरपि रूपाणि स्थूलानि च जडात्मनः
मानवा एव देहस्य प्राग्विकासं समास्थिताः ।
सकलान्यपि वस्तूनि ``पुरुषा'' ऽऽत्मकमानवाः ॥
को ह्ययं मानवो नाम? सोऽस्त्यात्माऽजोऽविनश्वरः,
स्वतत्त्वै निर्मिते देहे मानसे चास्थितोऽस्ति यः ॥
परिसमाप्तिः
मानवेश्वरयोर्योगस्याभिप्रायः सदैष यत्
मानुष्ये दिव्यतायाः स्यात् सञ्चारोऽव प्रवेशनम्,
मानवस्य च देवत्वे भवेवात्मनिमज्जनम् ॥
किन्तु तन्मज्जनं नास्ति लयरूपं मनागपि ।
सर्वस्यान्वेषणस्यास्य सर्ववेगगणस्य च,
हर्षोद्रेकस्य दुःखस्य निर्वाणं नान्तिमं फलम् ।
अन्तोऽभविष्यदेतस्या लीलाया अयमेव चेत्,
तदा तस्याः समारम्भो न कदापि व्यधास्यत ॥
आनन्द एव विश्वस्य रहस्यं परमोत्तमम् ।
जानीहि शुद्धमानन्दं ज्ञास्यसे परमेश्वरम् ॥
कस्तावत् सकलस्यादिरस्यार्थस्थाभवत् किल?
सद्,यत् स्वं बहुधा चक्रे सत्तानन्दैकलब्धये,
वयधाञ्छ गणनातीतकोटिरूपेषु मज्जनम्,
येनाऽसङ्ख्यविधित्वेन स्वं प्राप्तुं पारयेत तत् ॥
कश्च मध्योऽस्य सर्वस्य? भेदोऽसौ वर्तते किल,
यो बाहुल्यमयैकत्वलब्धये यततेतराम् ।
तदज्ञानं च यत् कृच्छ्रचेष्टारतमनारतं
यातुं वैचित्र्यपूर्णस्य ज्योतिष्पूरस्य सम्मुखम् ।
तद् दुःखं चापि यत् कष्टकरायासं निषेवते
अकल्प्य-परमानन्द-संस्पर्शस्योपलब्धये ।
यतो ह्येतानि वस्तूनि सन्ति सर्वाणि मूर्तयः
अन्धकारात्मिका नूनं स्पन्दना विकृतास्तथा ॥
कश्चान्तोऽसत्यस्य सर्वस्य? मधु शक्तं भवेदिव
स्वादितुं स्वं स्वबिन्दूम्श्च् युगफत् सकलाम्स्तथा,
ईशतां स्वादितुं सर्वेऽन्योन्यं तस्य च बिन्दवः,
तेषु चात्मतयैकैको मधुकोशं तथऽखिलम् ।
ईदृगेवेश्वस्मेह तथा च मानवात्मनः
भुवनस्यापि चैतस्य भवेत् परिणतिर्ध्रुवम् ॥
प्रेम स्वरः प्रधानोऽत्राऽऽनन्दः सङ्गीतस्मिति च ।
शक्तिस्तानस्तया ज्ञानं गायकं वर्तते किल ॥
अनन्तो यश्च सर्वात्मा कर्ता श्रोता च सोऽत्र हि ।
विस्वरानेव संविद्मः सम्प्रत्यारम्भिकान् वयं ।
ते तथा भीषणा भव्या यथा स्यात् स्वरसङ्गतिः ।
परं भागवतानन्दराशेः प्रोच्छलमूर्च्छनां
प्रखरां वयमाप्स्यामो नात्र स्वलपोऽपि संशयः ॥
बन्धनशृङ्खलम्
स्पृहयालु जगत्सर्वं स्वातन्त्र्यावाप्तये किल ।
तथापि प्राणिनां स्वानि बन्धनानि प्रियाप्यहो ॥
विरोधाभास एवायं प्रथमः प्रकृते हि नः ।
ग्रन्थिश्च यो न कस्यापि समुन्मोच्यः कथञ्चन ॥
प्रियाणि मानवस्येह बन्धनानि हि जन्मनः ।
तत्सङ्गिबन्धनेष्वस्मान्मृत्योरप्येष गृह्यते ॥
स्वसत्तामुक्तिमेतेषु सोऽभीपसुः शृङ्खलेषु च
प्रभुत्वं च तथा स्वात्मपूर्णतारुपमप्यलम् ॥
मानवस्य प्रिया शक्तिरतोऽशक्तेर्वशेऽस्त्यासौ ।
संसारोऽयं यतः शक्तेस्तरङ्गाणां हि सागरः,
येऽन्योन्यं मिलितास्तीव्रं समाघ्नन्ति निरन्तरम् ।
आरुरुक्षेद्धि यः सानुमूर्मेरेकस्य मानवः,
भाव्यं वीचिशताघातैस्तेनाचेतेन निश्चितम् ॥
सुखं हि सुप्रियं पुंसो वर्तते यूथिवीतले ।
कष्टक्लेशभरस्तेनाऽवश्यवाह्यो भवत्यतः ।
मुद् विशुद्धा हि मुक्ताय विरागायैव चात्मने ॥
तत्त्वं यन् मानवान्तःस्थं समन्येषयते सुखं
तद् दुःखभोगिनी काचिच्छक्तिश्चातिप्रयासिनी ॥
मानवः क्षुधितः शान्त्यै,तृषितोऽप्यनुभूतये
व्याकुलस्य च चित्तस्य विक्षुब्धहृदयस्य च ।
भोगस्तन्मनासो भाति स्वर एव हि केवलम् ।
शान्तिश्च जडलाऽत्यन्ता भाति नीरसता तथा ॥
प्रियाः स्वस्थूलसत्तायाः सीमानो मनुजन्मनः ।
तथापीप्सुः स मुक्तिं स्वाऽनन्तस्वानन्ताऽमृतात्मनोः ॥
अद्भूताकर्षणं चैषु विरोधेष्वनुभूयते
तस्यान्तःस्थितस्त्वेन रसकामेन केनचित् ।
तस्य मानससतायि सुचित्रं जीवनस्य ते ॥
न केवलं हि पीयूषं परन्तु विषमप्यहो
समीकर्षति तस्याभिरुचिं चापि कुतूहलम् ॥
अस्त्रैवैषां च वस्तूनां समस्तानां प्रयोजनम् ।
विरोधानां च सर्वेषां समाधानं हि वर्तते ॥
संयोगेषु प्रकृत्याः स्यात् काममुन्मादपूर्णता,
किन्तु तत्र भवत्येव तस्याः काचन योजना ।
ग्रन्थीनामत्यमोच्यानां तस्याश्चास्ति समाहितिः ॥
मृत्यूर्हि प्रकृतेः प्रश्नो जीवनं प्रति सन्ततं
क्रियते यस्तया,येन तच्च संस्मारयत्वसौ-
नाद्यापि तेन सम्प्राप्तं स्वरुपं निजमित्यहो
मृत्योश्चेन्नावरोधः स्यात् प्राणी बद्धो भवेत्सदा
आकारेऽपूर्णताग्रस्तजिवनस्य सुनिश्चिते ॥
मुत्युनानुसृतः पूर्णं-जीवनं प्रति बुध्यते ।
तस्य मृग्यति शक्यत्वमुपायांश्चाप्यसौ ततः ॥
दौर्बल्यं कुरुते प्रश्नं शक्तीः प्रति तमेव नः
ता महत्तास्तथोर्जा नो याभिः स्मो गर्विता वयम् ।
परीक्षां चापि तत्तासां कुरुते हि तथाविधाम् ॥
शक्तिर्लौलाविलासोऽस्ति जीवनस्य हि केवलम् ।
सा च दर्शयतेऽस्मभ्यं मात्रां तस्य यथायथम् ।
दौर्बल्यं वर्तते लीला मुत्यीरेवेह केवलं ?
जीवनस्य गतीः सर्वा योऽनुधावति सन्ततम्,
प्रबलं निर्दिशत्यस्य प्राप्तशक्तेस्तथाऽवधिम् ॥
दुःखं च वेदना चेति साधने प्रकृतेरुभे,
यद् द्वारा नोऽनन्तरात्मानमेतत् संस्मारयत्यसौ
यत् मुखं तेन लोकेऽस्मिन् यत्किमप्युपभृज्यते,
सत्ताया वास्तवानन्दमन्दसङ्केत एव तत् ॥
पीडायां यातनायां च प्रत्येकं जीवनस्य नः
अस्ति हर्षातिरेकस्य रहस्यं गुप्तमर्चिषः,
सुखानि नो महिष्ठानि विभान्ति यदपेक्षया
केवलं मन्दममन्दातिलोललोलाः शिखा इव,
एतदेव रहस्यं तत् येनात्माऽऽकृष्यते हि नः
महतीर्वेदनाश्चाग्निपरीक्षाश्चाषि दारुणाः,
जीववस्यानुभूतीश्च भीषणाः प्रति भूयसा,
स्नाविरं नो मनो याभ्यः सत्रासं सम्पलायते ॥
सत्तायां सक्रियायां नस्तथा तत्करणेष्वपि
चाञ्चल्यं सञ्चरो यश्च सद्यःक्लान्ते विलोक्यते,
प्रकृत्या क्रियय्यिमाणोऽसौ सङ्केतो येन सूच्यते-
शान्तिर्नो वास्तवाधारः सङ्क्षोभश्चात्मनो रुजा ॥
केवलायाः प्रशान्तेर्या वन्ध्यता चैकरूपता,
प्रकृतेरिङ्गिन्ते ते स्तो याभ्यामेतत् तयेङ्ग्यते-
कर्मलीला तया तत्र दृढाधारेऽस्मदिष्यते ।
शश्वल्लीलां करोतीशो न जातुद्विजते तु सः ॥
अस्मद्देहस्य सीमनो विद्यन्ते सञ्चकोपमाः ।
स्वसत्ता तासु निक्षेप्या मनसा नस्तयात्मना ।
भञ्जनीयास्ततस्ताश्च परिणम्याः पुनः पुनः
सीमासु सुविशालासु सुविशालतरासु च,
येन देहस्य सान्तस्माप्यानन्त्यस्यात्मचित्तयोः
सामञ्जस्यावहं सूत्रं भवेत्सम्प्राप्तमन्ततः
स्वातन्त्र्यं नाम सत्तायास्तस्य धर्मोऽस्ति केवलं
निजानिःसीमितैकत्वस्वरूपे या प्रतिष्ठिता ।
स्वामि तत् प्रकृतेर्गुप्तं समस्तायाश्च वर्तते ॥
दास्तवं नाम सत्तयाः प्रेमधर्मोऽन्तरस्थित;,
येनात्मनोऽन्यरुपाणां सत्तानेकत्ववर्तिनां
लीलायामर्पयत्येषा स्वं साह्यार्थं निजेच्छया ॥
स्वातन्त्र्यं कुरुते कार्यं बन्धनेषु यदा निजं
दासत्वं च यदा स्वीयां विमुच्य प्रेमधर्मतां
बलात्कारस्य शक्तेश्च धर्मतामुपगच्छति,
तदैव प्रकृतिः सत्या विकृतिं याति वस्तुनः,
अनृतस्थाधिपत्यं च प्राबल्येन प्रवर्तते
व्यवहारेषु सर्वेषु जीवनेन सहात्मनः ॥
प्रकृति विकृतेरस्याः कार्यमारभते निजम् ।
लीलां करोति सा पूर्वं संयोगैः सकलैश्च तैः
येऽप्युद्भावयितुं शक्या विकृत्या जगतीतले,
तवनन्तरमेवास्याः संस्कारं चानुमन्यते ॥
संयोगानां ततश्चैषां सारं सङ्गृह्य साऽखिलं
व्यनक्ति श्रीमयं नव्यं प्रेममुक्त्योः समन्वयम् ॥
एकत्वादपरिच्छेद्यात् स्वातन्त्र्यमभिजायते,
तदेव विद्यतेऽस्माकं सत्ता वास्तविकी यतः ।
प्रभवामो वयं प्राप्तुं सारं तस्य निजात्मनि ।
स्थापयित्वा तथैकत्वं सर्वैरन्यैः सहात्मनः,
तस्यानुभवितुं शक्या लीलाप्यस्मिन् महीतले ।
द्विविधानुभवस्यास्य प्राप्तिरेव प्रयोजनं
समस्तमात्मनोऽस्माकं वसतः प्रकृताविह ॥
अनुभूय तदेकत्वं सीमातीतं निजान्तरे
स्वार्पणं जगते मुक्तिः परा साम्राज्यमक्षयम् ॥
सन्तोऽनन्ता वयं मुक्ता भवामो मृत्युपाशतः ।
जीवनं जायते लीला तदानीं नोऽमृतात्मनः ॥
प्राप्नुमश्च वयं मुक्ति तदा दौर्बल्यबन्धनात्,
भवामो हि यतोऽखण्डसिन्धुरूपा वयं तदा
दृष्यन्तः स्योर्मिमालानामाघातासङ्ख्यकोटिभिः ॥
भवामश्च तदा मुक्ताः शोकसन्तापसन्ततेः,
शिक्षामहे वयं स्रष्टुं सामञ्जस्यं यतोऽखिलैः
वस्तुभिः सह सत्तायाः स्वस्यास्तत्स्पर्शकारिभिः,
द्रष्टुं चार्थेषु सर्वेषु क्रियां चापि प्रतिक्रिया-
मानन्दस्यैव सत्ताया विलसन्तीमनारतम् ॥
मुच्यामहे च सीमाभ्यो देहो नो जायते यतः
क्रीडाद्रव्यमनन्तस्य मानसस्य कृते तदा ।
शिक्षते चानुसर्तुं स सङ्कल्पममृतात्मनाः ॥
मुक्ताः स्मश्च हृदः स्नायुमानसस्य ज्वरात् तया ।
नैव बध्यामहे किन्तु निष्क्रियत्वेन कर्हिचित् ॥
अमृतत्वं तथैकत्वं स्वातन्त्र्यं सन्ति नोऽनन्तरे,
क्यिमाणां प्रतीक्षन्ते चास्माभिः स्वगवेषणाम् ।
किन्तु प्रेमोद्भवानन्दकृते नोऽनन्तःस्थितः प्रभु-
र्नानारुपस्तदाप्यत्र स्थास्यत्येव सुनिश्चितम् ॥
चिन्तनाश्च चिदुन्मेषाः
विश्वासमीश्वरीयेऽत्र विधाने सविशषेके
यद्वा भगवतो हस्तयन्त्रत्वबुद्धिमात्मनि
धार्ष्ट्यमात्रं विदन्त्येके परं प्रेक्षामहे वयं-
``विधानं दिव्यमसत्येव विशिष्टं प्रतिमनवं
ईश्वरश्चालयत्यत्र कुद्दालं श्रमिणां स्वयम्,
स एव च शिशोरास्ये लघोर्गद्गदयत्यलम्'' ॥
``विधानं`` केवलं तन्न यन्मां रक्षति मज्जनात्
पोतभङ्गे तयाभूते सर्वेन्ये यत्र मज्जिताः ।
तदप्यैशं विधानं यत् सर्वानन्यान् सुरक्षति,
किन्त्वाच्छिनति रक्षायाः फलकं यन्ममान्तिमं
मां च मज्जयतेऽपारे पारावारे च निर्जने ॥
आनन्दो विजयस्याल्पतरो भाति कदाचन
अकार्षणाद्धि दुःखस्य सङ्घर्षस्य तथैव च ।
तथापि जयमालैव जिष्णवे मानवात्मने
इष्यते लक्ष्यरूपेण न तु शूलाधिरोपणम् ॥
आत्मानोऽभीप्सया रिक्ता विफलाः कृतयो विभोः ।
प्रकृतिः प्रीयते तैस्तु तेषां बाहुल्यमिच्छति ॥
यतस्ते स्यायितां तस्या दृढयन्ति सुनिश्चितम् ।
चिरजीवि च साम्राज्यं तदीयं कुर्वतेतराम् ॥
ये सन्ति निर्धना अज्ञा अकुलीनाः कुवृत्तयः
न हि ते प्राकृता लोकाः,प्राकृताः सर्व एव ते
ये क्षुद्रत्वेन सन्तुष्टाः सामान्यमानुषेण च ॥
साह्यं कुरु नृणां किन्तु तच्छक्तिं ह्रासयस्व नो ।
कामं कुरुष्व तेषां त्वं शिक्षणं मार्गदर्शनं
अवधेहि परं तेषामक्षुण्णा तिष्ठतात् सदा
कार्योपक्रमशक्तिश्च मौलिकी प्रतिभाऽपि च ॥
आत्मन्यन्तर्थ तानन्यांस्त्वं कुरुष्व। परं शृणु-
तेभ्यस्तत्प्रकृतेः पूर्णं देवत्वं प्रतिदेह्यलम् ।
कर्तुं यः शक्नुयादेवं स नेता च गुरुश्च सः ॥
ईश्वरोऽरचयद् विश्वं युद्धक्षेत्र तवाऽखिलं
अपूरयच्च तच्चण्डैर्योद्ध्रुणां पदर्ञ्जै (?)
सिंहनादैस्तथात्युग्रसङ्घर्ष मल्लयुद्ध्हयोः ॥
किं यूयमिच्छुका हर्तुं तस्य शान्तिमनामयां
अप्रदायैव तन्मूल्यं यत् तस्यास्तेन निश्चितं ?
आपातपुर्णसाफल्ये विश्वासो न विधीयतां
यदा लभ्धवापि साफल्यं कर्तव्यं भूरि दृश्यते,
तदा प्रफुल्लचित्तेन पुरो धाव्यं त्वया पथि,
यतो वास्तवसंसिद्धिर्दीर्घायसमपेक्षते ॥
मार्माऽवस्थाविशेषस्य लक्ष्यत्वेन ग्रहो हि यः
सुचिरावस्मतिर्वा या क्वचिद् विश्रामधामनि,
स्त्वस्तम्भकरी भ्रान्तिर्न हि कापि ततोऽधिका ॥
यत्र क्वापि महान्तं त्वं पश्येरन्तमवेहि तं
लक्षणं महतः कस्यापयारम्भस्य भविष्यतः ।
विध्वंसो दारुणो भिमप्रमाणो यत्र पीडकः
भाययेत्ते मनस्तत्र सान्त्वयैतद् गिरानया
यत् सृष्टिर्महती कापि बृहती भाविनी ध्रुवम् ॥
नेश्वरः केवलं मन्दे निस्पन्दे चान्तरध्वनौ ।
परं वह्नौ च वात्यायामप्यसौ वर्तते ध्रुवम् ॥
यथा यथा भवेद् विश्वे विध्वंसः सुमहत्तरः,
सुयोगाः सुतरां मुक्ताः सर्क्तस्य तया तथा ॥
दीर्धो भाति पदं ध्वंसो मन्त्रः प्रायश्व पीडकः ।
मन्धरश्चोद्भवः सृष्टेर्जयोऽस्या विघ्नसन्कुलः ॥
भूयो भूयो निशाऽऽयाति दिवसश्च विलम्बते,
अथवा प्रतिभात्येव मिथ्याभूताऽरुणोदयः ।
तेन मा स्म निराशो भूः सावेक्षं कुरु कर्म तु ॥
क्षिप्रं भवन्ति भग्नाशाः प्रचण्डाशाजुषो जनाः ।
नाशां कुरु भयं नापि विश्वासं धारय स्थिरं
प्रयोजने प्रभोः सिद्धि सङ्कल्पे य निजात्मनः ॥
हस्तो दिव्यकलाकर्तुरविश्वस्त इवात्मनः
सामयथा(?) प्रतिभायाञ्च स्वकर्म कुरुतेऽसकृत् ।
भात्येवं यत् पदार्थान् स समादाय परीक्षते ।
सन्न्त्यज्य तांस्ततश्चान्यानुद्ग्रुह्णाति क्षिपत्यथ ॥
उद्गृह्णाति च तान् भूयो यतते विफलायते ।
तानन्ते प्रतिसन्धाय संयुनक्ति परस्परम् ॥
यावन्न सर्ववस्तूनि सम्प्रयान्ति सुसज्जतां
तावद् भगवतः कार्यपद्धतिः परिलक्ष्यते
अप्रत्याशितवृत्तैश्च नैराश्यैश्चाभिपूरिता ।
वृतमासीद् वदारम्भे तदन्ते विनिपात्यते
हेयताया गभीरे च तलंहीने च। गह्वरे ।
यच्चाभूत् सम्परित्यक्तं जायते तत्तुं साम्प्रतं
द्रुढाधारशिला कस्यचिद्विशालस्य वेश्मनः ।
परं सर्वस्य मूलेऽस्यामोघा द्रुष्टिर्विभासते
ज्ञानस्य समतीतस्य तर्कबुद्धिं तनूभृताम्,
स्मितं मन्दमनन्तस्य सामर्थ्यस्य च कस्यचित् ॥
ईश्वरस्य पुरः कालः सर्वोऽपि समुपस्थितः ।
ततो नापेक्षिता तस्य त्वरा कर्मसु सर्वदा ॥
निश्चयात्मा निजे लक्ष्ये साफल्ये च स वर्तते ।
न चिन्ता तस्य कायं स्वं ध्वंस्यं स्याच्छत शोऽपि चेत्
नेदीयः पूर्ण संसिद्धेरानेतुमुत्तरोत्तरम् ।
धैर्यं नः प्रथमः,पाठः महानावश्यकश्च यः,
किन्तु तन्नाम नो, भीरोर्गतिमान्धं जडात्मकम्,
नापि संशमशीलस्य श्रान्तस्याप्पलस्य वा,
न क्षुद्राकाङ्क्षक्षिनश्चापि (?) न]चात्यन्ताबलात्मनः ।
धैर्यं नाम तदेव स्याद् यत् सामर्थ्येन सम्भृतं
प्रशान्तेन स्थिरेणाथ संहतेनोत्तरोत्तरम् ।
जागरुकतयात्मानं तत् सुसज्जयतेतरां
मुहूर्ताय प्रहाराणां महतां क्षिप्रपातिनाम्,
स्वल्पानामपि शक्तानां नियतेः परिवर्तने ॥
कुतो देवो जगत् स्वीयं घनैराहन्ति भीषणम्,
कत्वा पादतलाक्रान्तं मृद्नाति गुण्डिकोपमं १
कुतश्च स्नपयत्येतद्रक्तनद्यां पुनः पुनः,
क्षिपते नारके चाग्निकुण्डे प्रज्वलितेऽरुणे?
यतो मानुषमद्यापि हीनधातुः समष्टिशः,
कुत्सितश्च कठोरश्चासंस्कृतश्चापि सर्वथा
न यो द्रावयितुं शक्यो न रूपयितुमन्धता ।
सामग्री याद्रुशी तस्य तादृशी कार्यपद्धतिः
साहाय्यं चेदियं कुर्यात् प्राप्तुं परिणतिं निजां
धातौ श्रेष्ठतरे शुद्धतरे चापि यथाक्रमं
तदा तद्वचवहारस्य रीतिरप्येतया सह
भवेन्मृदुतरा नूनं तथा च मधुमत्तरा,
प्रयोगोऽस्यास्तथा चारुतरश्चोच्चतरो भवेत् ।
कुतो ववे स सामग्रीमीद्रुशीं निर्ममेऽपि वा
यदासन्त्स्समुखं तस्य वरणार्थमुपस्थिताः
सम्भावना उपादानद्रव्यराशेरसीमिताः ?
हेतुरस्याभवत् तस्य दिव्या चिन्मयचेतना?
अपश्यत् स्वसमक्षं या त्रयमेतन्न केवलं-
सौन्दर्याञ्चपि माधुर्यमथ पावित्र्यमेव च,
परं शक्तिञ्च सङ्कल्पं महत्तां परमामपि ॥
माऽवहेलय शक्तिं त्वं मापि प्रेक्ष्य कुरूपतां
आकृतीनाञ्च कासाञ्चित् तस्यास्तस्यां घृणां कुरु कृ
मापि चिन्तय चैतद् यत् प्रेमैव परमेश्वरः ।
पूर्णसिद्धिषु सर्वासु कला काचिदपेक्षिता
सत्त्वस्य शूरवीरस्य महतोऽप्यसुरस्य च ।
परं महत्तमात्कष्टाद् भवुञ्च्छोक्तिर्महत्तमा ॥
सर्वं हि परिवर्तेत स्वीकुर्यान्मानवो यदि
सत्तायाः स्वात्मनोऽध्यात्मरूपे परिणतिं सकृत् ।
परं तत्प्रकृतिः स्मृलदेह-प्राण-मनोमयी
विद्रोहिणी विधानस्य भवत्युच्चतरस्य हि ।
आत्मनोऽपूर्णतायां स नितरामनुरागवान् ॥
सत्स्वरुपं सतोऽस्माकमात्मैवास्ते सनातनः ।
देहः प्राणो मनो यावत् भजन्तेऽपूर्णतां निचाम्,
तावदावरणान्यस्य भवन्त्येततानि केवलम् ।
प्राप्तानि पूर्णताञ्चास्य सञ्चाः स्यू रूपदायकाः
अध्यात्मभावसम्प्राप्तिर्न पर्याप्ता तु केवला ।
एतेन केचिदात्मनः-सज्जाः स्युः स्वर्गसिद्धये ।
परं स्थास्यति भूलोको यथापूर्वं हि भूयसा ।
नाप्यत्र साधनं मुक्तेर्म ध्यमार्गावलम्बनम् ॥
विश्वं परिचितं क्रान्त्या त्रिप्रकारिकया किल ।
तत्रैका भौतिकी यस्याः परिणामा महौजसः,
नैतिकी बौद्धिकी चान्या क्षेत्रं यस्या बृहत्तरम्,
यत्फलानि तथानन्तगुणमृद्धतराणि च,
आध्यात्मिकी तु बीजानां वपनं सुमहीयसाम् ॥
त्रेधा परिणतिः स्याच्चेत् समं चाथ सुसङ्गन्तम्,
तदानीमेव निर्दोषं कार्यं सर्वं भविष्यति ।
किन्तु मनश्च देहश्च नूजातेर्धर्तुमक्षमे
तीव्रमाध्यात्मिकं ह्यन्तःप्रवाहं पूर्णरुपतः ।
भूयानंशः स्रवत्यस्य बहिर्यश्चावशिष्यते
तस्याधिकतरो भागो विकृतिं सम्प्रयात्यलम् ।
फलमध्यात्मबीजानां नपनाद्विपुलाद्यादि
इष्यते स्वल्पमप्यत्र, तदा स्युः? समपेक्षिताः
अस्मत्क्षेत्रस्य बौद्धिक्यो भौतिक्योऽनेककृष्टयः ॥
प्रत्येकं कृतवान् धर्मो मनुजातेः सहायताम् ।
पुपोष पुंसि सौन्दर्यज्योति धर्मो हि ``पैगनः'',
बृहतां च तदीयस्य जीवनस्य समुच्चताम्,
तल्लक्ष्यं बहुपक्षीयपूर्णतायास्तथैव च ॥
धर्मश्च यीशवीयस्तं कारयामास भूतले
प्रेमकारुण्ययोरीषदृर्शनं हीश्वरीययोः ।
बौद्धधर्मोऽदवंशत्तं प्रशस्तं पथमीदृशं
येनासौ सुतरां प्राज्ञःशुचिः सौम्यौ भवेद्,भुवि ।
यहूदीस्लामधर्मौं च तमदीदृशतामिदम्-
कथं कर्मणि निष्ठावान् स्यादसौ धर्भभावतः,
सोत्साहमर्पितो भक्त्या भवेच्च भुवनेश्वरे ।
हिन्दुधर्मश्च सम्भाव्याः सम्पदः सुबृहत्तमाः,
आध्यात्मिकी; सुगम्भीरतमा व्यावृत्त तत्पुरः ।
महत्कार्यं भवेत्सिद्धं दर्शनानीश्वरस्य चेत्
सर्वाण्येतानि कुर्वीरन् समाश्लेषं परस्परम्,
क्षिपत्वा चात्मानमेकस्मिन्नैक्यमायान्तु सञ्चके ।
परं मार्गेऽन्तरायौ स्तो महान्तौ द्वाविमौ खलु-
बौद्धिकौ मतवादश्चाहम्भावः साम्प्रदायिकः ॥
धर्माः सर्वेऽप्यनेकेषामुद्धारं व्यपधुरात्मनाम्,
किन्तु नैकोऽपि हन्तैषामद्य यावदभूत् क्षमः
कर्तुमाध्यात्मिकीं सर्वां मनुजातिं महीतले ।
नापेक्षितस्तदर्थन्तु सम्प्रदायो न वा मतम्,
परं यत्नो निजाध्यात्मविकासार्थं निषेवितः,
मो भवेदनवच्छिन्नः सर्वग्राही च सुस्थिरः ॥
यान्यद्य लोके परिवर्तनानि प्रवर्तनानानि विलोकयामः
तान्यात्मनो ध्येयविशेषबुद्धयाऽऽवर्शस्य व दृष्ट्यापि च बौद्धिकानि,
सन्त्येव वा नैतिकभौतिकानि ॥
प्रतीक्षते कान्तिरथाद्य यावदाध्यात्मिकी स्वं समयं सधैर्यम् ।
अत्रान्तरे स्वीयतरङ्गभङ्गानितस्ततः सोत्क्षिपते कदाचित् ।
न जायते यावदसौ न तावदर्थोऽवबोद्धुं (?) सुशकोऽपरेषां
भवेदमीषां परिवर्तनानाम् ।
तावच्च नानाघटनावलीनां व्याख्याः समस्ता ह्यधुनातनीनां
तथा मनुष्यस्य च भाविभाग्यप्राक्सूचनानि जलताडनानि ।
यतः स्वरूपं च बलं च तस्याः फलञ्च पृथ्व्यामुपजायमानं
निर्धारयिष्यन्ति मनुष्यजातेरागामिनो भव्ययुगस्य चक्रम ॥
इति शम् ।
इति श्रीअरविन्दस्य चिन्तनाश्च चिदुन्मेषाः सम्पुर्णाः ।
Proofread by Saritha Sangameswaran