॥ साङ्ख्यसप्ततिटीका जयमङ्गला ॥

कारिका १ अधिगततत्त्वालोकं लोकोत्तरवादिनं प्रणम्य मुनिम् । क्रियते सप्ततिकायाष्टीका जयमङ्गला नाम ॥ प्रेक्षावन्तोऽनुक्ते प्रयोजने न क्वचित्प्रवर्तन्त इति प्रयोजनमुच्यते तत्त्वज्ञानान्मोक्षः तत्त्वानि पञ्चविंशतिः । तथा चोक्तम् - पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ इति ॥ तेषु च षष्टितन्त्रादिख्यातेष्विति । विस्तरत्वात् षष्टितन्त्रस्य संक्षिप्तरुचिसत्त्वानुग्रहार्थं सप्ततिकारम्भः । वक्ष्यति च 'एतदार्याभिः संक्षिप्तम्' इति । मोक्षेण किं फलमिति चेद्दुःखनिवृत्तिः । अतत्त्वज्ञो दुःखैरभिहन्यमानस्संसरन्नास्ते । तत्त्वज्ञानात्तु कैवल्यमाप्नोति, न दुःखैरभिहन्यते । हन्यमानेन को हेतुर्जिज्ञासितव्य इत्यत्राह- ॥ दुःखत्रयाभिघाताज्जिज्ञासा तदवघातके हेतौ । दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १ ॥ ॥ 'दुःखत्रयाभिघाताज्जिज्ञासा' इत्यादि । दुःखानां त्रयं दुःखत्रयम् । आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकं चेति । आत्मन्यध्यात्मम्, तत्र यद्भवति तदाध्यात्मिकम् । शारीरं मानसं चेति । तत्र वातपित्तश्लेष्मणां वैषम्येण ज्वरादिदुःखम्, तच्छरीरे भवतीति शारीरम् । यत्कामक्रोधशोकादिभिः मनसि दुःखं तन्मानसम् । यन्मानुषपशुमृगपक्षिसरीसृपस्थावरान्यधिकृत्य भवति तदाधिभौतिकम् । यच्छरीरे ग्रहावेशादीनि दैवान्यधिकृत्य भवति तदाधिदैविकमिति । एतद्दुःखत्रयम् । तेनाभिघातात्पीडनाद्धेतोर्जिज्ञासा ज्ञातुमिच्छा भवति ॥ कस्मिन् विषय इत्याह- 'तदवघातके हेतौ' इति । अवघातयत्यपनयतीत्यवघातकः । तस्य दुःखत्रयस्यावघातकस्तदवघातकः । तृजकाभ्यां षष्ठीसमासप्रतिषेधः, 'तत्प्रयोजको हेतुश्च' इति न भवति । केन खल्विमानि दुःखान्युत्पद्यन्त इति तदवघातको हेतुर्जिज्ञास्यो भवति । दुःखवानहमेतत्प्रतीकारमन्वेषयामीति प्रायोवादः । स च पञ्चविंशतितत्त्वज्ञानान्नान्य इति मनसि वर्तते ॥ 'दृष्टे साऽपार्था चेत्' इति । स्यादेतत् यदि दृष्टस्तदवघातको हेतुर्न स्यात् । यावदाध्यात्मिकस्य शारीरदुःखस्यापनयने चिकित्साशास्त्रविहित एवोपायोऽस्ति, मानसस्यापि संख्यानबलं रम्याश्च शब्दादयो विषयाः । आधिभौतिकाधिदैविकयोरपि, अवघातहेतुरनुष्ठीयमानो लोक एव दृश्यते, तयोः सत्प्रतिपक्षत्वात् । तत्राधिदैविकस्य सामदामभेददण्डोपायघटितारम्भाः । आधिभौतिकस्यापि निपातप्रतिपातसंवृतप्रदेशाश्रयणादयः ॥ ततश्च दृष्टे हेतौ सति जिज्ञासाऽस्मिन् विषये निरर्थकेत्याशङ्क्याह- 'नैकान्तात्यन्ततोऽभावात्' इति । नाऽपार्था, सार्थिकैव । कुतः- एकान्ततः एकान्तात्यन्ततोऽभावादपि । एकान्तेनात्यन्तेन च दुःखाभावस्याभावादित्यर्थः । दृष्टे ह्युपाये क्रियमाणेऽपि केषांचिद्दुःखत्रयं भवत्येवेति नैकान्तेनोपशमः । कथंचिदुपशमे पुनरुत्पादनात् नात्यन्तेनोपशमः । तस्मादैकान्तिकात्यन्तिकदुःखोपशमाय जिज्ञासा युक्तेति ॥ १॥ कारिका २ यद्येवमैकान्तिकात्यन्तिकदुःखोपशमहेतुर्ववेदविहितोऽस्ति । तथा चाह- अणम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किमस्मान् कृणवदरातिः किमु धूर्त्तिरमृतमर्त्यस्य ॥ इति ॥ अस्यायमर्थः- इन्द्रो देवनामपण्डितानाह 'दिव्याः किमन्यत्सुखमस्ति' इति । ते तमाहुः 'नास्ति' इति । सोममपाम, सोमं पीतवन्तो वयम् । ततोऽमृता अभूम, व्यपगतमृत्यवो जाताः । 'अगन्म ज्योतिः' इति । ज्योतिः स्वर्गोऽयम्, तं प्राप्ता वयम् । 'अविदाम देवान्' इति । इयन्तो देवा अस्मिन् स्वर्ग इति ज्ञातवन्तः ज्ञानमस्माकमुत्पन्नमित्यर्थः । 'किमस्मान् कृणवत्' इति । कृणवन्मृत्युरुच्यते । अस्मान् सोमपानान् किं मृत्युः करिष्यते । अरातिः व्याधिः सोऽपि, धूरतिर्जरा सापि चास्माकं किं करिष्यति । 'अमृतमर्त्यस्य' इति । तस्मात् सोमपानाद्दुःखोपशमहेतुरस्तीत्यस्मिन् पूर्वपक्षे - ॥ दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥ ॥ 'दृष्टवदानुश्रविकः' इत्यादि । अनुश्रूयते पारम्पर्येणेत्यनुश्रवो वेदः श्रुवः 'ऋदोरप्' । तत्र भवो हेतुरानुश्रविकः । अध्यात्मादिः । दृष्टेन तुल्यो दृष्टवत् । तस्यापि दोषदर्शनात् ॥ यदाह - 'स ह्यविशुद्धिक्षयातिशययुक्तः' इति । यस्मादानुश्रविको हेतुरविशुद्ध्यादिभिस्त्रिभिर्दोषैर्युक्तः । तत्राग्निहोत्रादौ पशुव्यापादनात् सोमपानादविशुद्धियुक्तः । कर्मक्षयात् स्वर्गच्युतिरिति क्षययुक्तः । तथा चाहुः - 'बहूनीन्द्रसहस्राणि व्यतीतानि युगे युगे' इति । 'स हि देवेष्वपि देवो दरिद्राति' इति । 'ईश्वरं दृष्ट्वा महद् दुःखमुत्पद्यते' इत्यतिशययुक्तः । तथाहि- यः क्रतुशतेन यजते तस्य महदैश्वर्यम्, यो द्वाभ्यां त्रिभिर्वा तस्याल्पमिति । तस्मादानुश्रविकोऽपि दृष्टवत्परित्याज्यः ॥ कस्तर्हि श्रेयानित्याह- 'तद्विपरीतः श्रेयान्' इति । दृष्टानुश्रविकद्वारा यो विपरीतः तत्त्वज्ञानाख्यः स श्रेयान् । तस्य अकैवल्यप्रापकत्वात् । तत्रैकान्तात्यन्ततोऽभावाद्दृष्टाच्छ्रेयान् । शरीरहानाद्धि शुद्धफलः, प्रकृतिहानादक्षयफलः, अनुत्तरत्वाच्च निरतिशयफल इत्यानुश्रविकाच्छ्रेयान् ॥ स कथं प्रोच्यत इत्यत्राह 'व्यक्ताव्यक्तज्ञविज्ञानात्' इति । राशित्रयेण पञ्चविंशतितत्त्वानि कथ्यन्ते । तत्र महदादिभूतपर्यन्तं त्रयोविंशतिप्रकारं व्यक्तमुच्यते, तेन रूपेण प्रधानस्य व्यक्तत्वात् । अव्यक्तं प्रधानम्, केनचिद्रूपेणाव्यक्तत्वात् । जानातीति ज्ञः पुरुषः । तेषु यद्विज्ञानं स्वरूपपरिच्छेदः, तस्मात् प्राप्यत इत्यर्थः । तन्वादि हि परिच्छिद्य तदभ्यासादुत्तरकालं प्रकृतिपुरुषान्तरज्ञानमुत्पद्यते, ततश्च कैवल्यमिति । अस्या आर्याया वक्ष्यमाणा याः, सर्वा एवार्थेन भाष्यस्थानीया द्रष्टव्याः ॥ २॥ कारिका ३ तत्रैषां व्यक्तादीनामुत्पादाभ्यां स्वरूपमाह- ॥ मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ ३ ॥॥ 'मूलप्रकृतिः' इत्यादि । प्रकृतिः प्रधानम् । प्रक्रियत उत्पद्यते प्रधानात् अस्या इति प्रकृतिः । मूलं च तत्प्रकृतिश्चेति मूलप्रकृतिः । सप्तानां प्रकृतीनां मूलमाद्यं कारणमित्यर्थः ॥ 'अविकृतिः' इति । न विक्रियत इत्यविकृतिः । न कुतश्चिदुत्पाद्यत इत्यर्थः । एतत्प्रथमं तत्त्वम् ॥ 'महदाद्याः प्रकृतिविकृतयः सप्त' इति । महान् बुद्धिस्स आद्यो यासां प्रकृतीनां तास्तथोक्ताः । प्रकृतयश्च विकृतयश्चेति प्रकृतिविकृतयः । तत्र महानहङ्कारं जनयन् प्रकृतिः, महत उत्पद्यमानो विकृतिः । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाः पञ्च यथाक्रममाकाशवाय्वग्न्युदकपृथिव्याख्यानि भूतानि जनयन्तः प्रकृतयः, अहङ्कारादुत्पद्यमाना विकृतयः । इत्येतानि सप्त तत्त्वानि ॥ 'षोडशकश्च विकारः' इति । षोडश परिमाणमस्येति षोडशकः । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनश्चेत्येकादशेन्द्रियाणि, पञ्च महाभूतानीत्ययं षोडशको गणः । चकार एवकारार्थः । विकारो विकृतिरेव । (नास्मात् किञ्चिदुत्पद्यत इत्यर्थः । एतानि षोडश तत्त्वानि) । 'न प्रकृतिर्न विकृतिः पुरुषः' इति । पुरं शरीरं तस्मिन् वसतीति पुरुषः । नैरुक्तोऽत्रविधिः । तस्मान्न किञ्चिदुत्पद्यत इति न प्रकृतिः, निष्क्रियत्वात् । नाप्ययं कुतश्चिदुत्पद्यत इति न विकृतिः, अनादित्वात् ॥ ३॥ कारिका ४ एषां व्यक्तादीनां सिद्धौ प्रमाणान्याह- ॥ दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४ ॥ ॥ 'दृष्टम्' इत्यादि । दृष्टं प्रत्यक्षम् । अनुमीयते येन तदनुमानम् । आप्तः क्षीणदोषस्तेन यदुच्यते तदाप्तवचनम् । आगमः । एतत् त्रिविधं प्रमाणमिष्टम् ॥ ननु चान्यान्यपि प्रतिभादीनि प्रमाणानि सन्ति तद्यथा- प्रतिभौपम्यमैतिहासमभावस्सम्भवस्तथा । अर्थापत्तिरितीमानि प्रमाणान्यपरे जगुः ॥ इति ॥ अस्मिन् पूर्वपक्ष आह- 'सर्वप्रमाणसिद्धत्वात्' इति । सर्वेषां प्रतिभादीनां प्रमाणानां सिद्धत्वात्, त्रिविध एवान्तर्भावादित्यर्थः । तत्र ग्रामे नगरे वा वर्तत इति प्रतिभोत्पन्ना । तत्र यदा क्षीणदोषस्य, तदाभिज्ञप्राप्तत्वात् प्रत्यक्षमेव । तस्याक्षीणदोषस्य वितथत्वादप्रमाणम् । याप्यर्थाविसंवादिनी कादाचित्का, सापि कादाचित्कादेव निमित्तादुत्पद्यमानानुमानमेव न प्रमाणान्तरम् । 'गौरिव गवयः' इत्यौपम्यम् । तत्र गवयमजानानः कश्चिदाप्तं पृच्छति 'कीदृशो गवयः', इति । स तमाह- 'यादृशो गौस्तादृशो गवयः' इति । तदेतदाप्तवचनमेव न प्रमाणान्तरम् । यदापि लब्धोपदेशो गवयं पश्यति, तदापि गवि दृष्टेनैव विषाणादिना लिङ्गेन गवयस्य व्यवहारं प्रवर्तयतीत्यनुमानमेव न प्रमाणान्तरम् । 'इतिह वै वैश्रवणः' इत्यैतिह्यम् । एतदाप्तवचनमेव न प्रमाणान्तरम् । 'इतिह' इति निपातसमुदाय उपदेशपारम्पर्ये वर्तेते । इतिह एवैतिह्यम् । स्वार्थे यञ् । 'नास्तीह घटोऽनुपलम्भात्' इत्यभावः । तत्र घटशून्यप्रदेश एव घटाभावः, स च प्रत्यक्षप्रमाणसिद्धत्वान्न प्रमाणान्तरम् । 'माषः प्रस्थ इत्युक्ते चत्वारः कुडपा इतीदमपि सम्भवति' इत्ययं सम्भवः । तत्र समुदायलिङ्गावयवलिङ्गिनः परिच्छेदादनुमानमेव । अवयवैस्समुदायस्यारब्धत्वात् कार्यकारणलक्षणः सम्बन्धः । 'देवदत्तो दिवा न भुङ्क्ते बलवांश्चेत्युक्त अर्थाद्रात्रौ भुङ्क्ते' इत्यर्थापत्तिः । तत एव रात्रौ तस्य प्रतीतिरनुमानान्न भिद्यते । इदमेव चान्यथानुपपत्तिरित्युच्यते ॥ किं प्रमाणत्रयलक्षणे प्रयोजनमिति चेदाह- 'प्रमेयसिद्धिः प्रमाणाद्धि' इति । यस्मात् प्रमेयस्यार्थस्य सिद्धिः प्रमाणात्, अन्यथा कथं तत्प्राप्तिपरिहारौ स्याताम् ॥ ४॥ कारिका ५ दृष्टादिप्रमाणानां लक्षणमाह- ॥ प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकम्, आप्तश्रुतिराप्तवचनं च ॥ ५ ॥ ॥ 'प्रतिविषयाध्यवसायः' इत्यादि । विषयं विषयं प्रतिविषयम्, प्रतिविषयमध्यवसायः प्रतिविषयाध्यवसायः । विषयाः शब्दादयः, अध्यवसायो बुद्धिः । शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणेन्द्रियद्वारेण विशेषावधारणप्रधाना या बुद्धिरुत्पद्यते तद् दृष्टम्, शुद्धत्वात्प्रमाणमशुद्धत्वादप्रमाणम् । तच्चतुर्विधम्- सव्यपदेशम्, सविकल्पम्, अर्थव्यतिरेकीन्द्रियव्यतिरेकी चेति । तत्र दूरात् क्वचिदागच्छन्तं दृष्ट्वा देवदत्तसारूप्यं व्यपदिशति देवदत्तोऽयमिति या बुद्धिरुत्पद्यते तत्सविकल्पम्, संशयितत्वादप्रमाणम् । तैमिरिकस्य द्विचन्द्रदर्शनं तदर्थव्यतिरेकि, द्वितीयचन्द्राभावात् । यत्स्वप्नदर्शनं तदिन्द्रियव्यतिरेकि, निद्रोपप्लुतत्वादिन्द्रियाणाम् ॥ 'त्रिविधमनुमानमाख्यातम्' इति । षष्टितन्त्रे व्याख्यातम्- पूर्ववत्, शेषवत्, सामान्यतोदृष्टमिति । अतीतानागतवर्त्तमानास्त्रयः पदार्थाः । तत्र भविष्यदर्थसाधनाय पूर्ववदनुमानम् । पूर्वं लिङ्गमस्यास्तीति पूर्ववत् । यथोन्नतजलधरं दृष्ट्वा वृष्टिर्भविष्यतीत्यनुमीयते । अतीतार्थसाधनाय शेषवत्- शेषं लिङ्गमस्यास्तीति । यथास्या नद्या उपरि वृष्टिर्भूता, यस्याः कलुषोदकं शेषं लिङ्गमिति । वर्त्तमानार्थसाधनाय सामान्यतोदृष्टम्- सामान्येन लिङ्गलिङ्गिदृष्टत्वात् । यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिर्दृष्टा, तथा सूर्यादीनां सामान्येन देशान्तरप्राप्त्या गतिरनुमीयते ॥ 'तल्लिङ्गलिङ्गिपूर्वकम्' इति । त्रिविधमनुमानम् । कदाचिल्लिङ्गपूर्वकं कदाचिल्लिङ्गिपूर्वकं लोके दृश्यते । तद्यथा- श्राव्येण विरुतेन कदाचित्कोकिलोऽनुमीयते, कदाचित्कोकिलं लिङ्गिनं दृष्ट्वा श्राव्येणापि विरुतेनास्य भवितव्यमिति तयोर्गम्यगमकत्वं सति सम्बन्धे । सम्बन्धाश्च सप्त- तत्र स्वस्वामिभावसम्बन्धो यथा राजपुरुषयोः कदाचित्पुरुषेण राजा राज्ञा वा पुरुषः । एवं प्रकृतिविकारसम्बन्धो यथा यवसक्तोः । कार्यकारणसम्बन्धो यथा धेनुवत्सयोः । पात्रपात्रिकसम्बन्धो यथा परिवृट्त्रिविष्टब्धयोः । साहचर्यसम्बन्धो यथा चक्रवाकयोः । प्रतिद्वन्द्विसम्बन्धो यथा शीतोष्णयोः । तत्रैकस्य भावेऽन्याभावः प्रतीयते । निमित्तनैमित्तिकसम्बन्धो यथा भोज्यभोजकयोरिति । एभिस्सम्बन्धैस्त्रिविधमनुमानं प्रमाणन्न लुप्यते ॥ 'आप्तश्रुतिराप्तवचनं च' इति । आप्तः क्षीणदोषः । यच्चाहुः- स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः । निर्वैरः पूजितः सद्भिराप्तो ज्ञेयः स तादृशः ॥ इति ॥ आप्तेभ्यो या श्रुतिपरम्परया श्रुतिरागता आप्तवचनम्, तैर्दृष्टोऽनुमितो वार्थः, परत्र स्वबोधसदृशबोधान्तरोत्पत्तये शब्देनोपदिश्यते । यदन्यवचनं सो न प्लवते (?) । चशब्दोऽनुमानेन तुल्यकक्ष्यत्वख्यापनार्थः । यथा त्रिकालमविषयमन्मानं तथाप्तवननमपीति ॥ ५॥ कारिका ६ एषां त्रयाणां कः कस्य विषय इत्यत आह- ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणाम्प्रतीतिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥ ६ ॥ ॥ 'सामान्यतस्तु' इत्यादि । त्रिविधं प्रमेयम्- प्रत्यक्ष्म्, परोक्षम्, अत्यन्तपरोक्षं चेति । तत्र यत्सामान्यतोदृष्टमनुमानं तस्मादतीन्द्रियाणां परोक्षाणां प्रसिद्धिरस्ति । तन्निश्चयः, तेषां प्रत्यक्षविषयत्वात् । पूर्ववच्छेषवतोस्त्वमनुमानयोर्भविष्यद्भूतार्थवृत्तित्वाद्वर्त्तमानेष्वतीन्द्रियेषु च प्रवृत्त्यसम्भवः ॥ 'तस्मादपि चासिद्धम्' इति । सामान्यतोदृष्टादनुमानाद्यदसिद्धं परोक्षम्, तदत्यन्तपरोक्षत्वादागमात्सिद्धम् । यथा स्वर्गापवर्गाविति । प्रत्यक्षे तु प्रमेये दृष्टमेव व्याप्रियत इत्यर्थादुक्तम् ॥ ६॥ कारिका ७ ननु च 'व्यक्ताव्यक्तज्ञविज्ञानात्', व्यक्तं तावत् प्रत्यक्षानुमानाभ्यां सिद्धम्, प्रधानपुरुषयोस्तु सर्वदानुपलम्भात् कथं सिद्धिर्नस्तयोरिति नानुपलब्धिमात्रेणासत्त्वम् । यतश्चतुर्भिः प्रकारैः सतामपि पदार्थानामुपलब्धिर्भवति । देशदोषादिन्द्रियदोषाद्विषयदोषादर्थान्तरदोषाच्च । तानेव भेदेन दर्शयन्नाह- ॥ अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च ॥ ७ ॥ ॥ 'अतिदूरात्' इत्यादि । यथा दूरमुत्पतितस्य पक्षिणो नोपलब्धिः ॥ 'सामीप्यात्' इति । अतिशब्दोऽत्रापि योजनीयः । अतिसामीप्यादिति । यथा चक्षुःस्थस्याञ्जनस्य । उभयत्रापि देशदोषकृतानुपलब्धिः ॥ 'इन्द्रियघातात्' इति । श्रोत्रादीनां बुद्धीन्द्रियाणां दोषाद्योग्यदेशावस्थितानामपि शब्दादीनामनुपलब्धिः ॥ 'मनोऽनवस्थानात्' इति । मनसोऽनवस्थानमसमाहितता, विषयान्तरप्रवृत्तत्वात् । ततश्चानुपहतेन्द्रियेऽपि सन्निहितं विषयं नोपलभते । उभयत्रापीन्द्रियदोषादनुपलब्धिः । मनसोऽपीन्द्रियत्वाद् भेदेनोपादानं तु मनसः प्राधान्यार्थम् ॥ 'सौक्ष्म्यात्' इति । विषयदोषात् । विषय एव परमाण्वादिस्तथा, येनाव्यग्रमनसाऽप्यनुपहतेन्द्रियेण नोपलभ्यते ॥ 'व्यवधानात्' इति । यवनिकादिभिस्तिरोधानात् स्थूला अप्यविकृष्टा घटादयो नोपलभ्यन्ते ॥ 'अभिभवात्' इति । आदित्यप्रभाभिभूतत्वात् दिवा तारका नोपलभ्यन्ते ॥ 'समानाभिहाराच्च' इति । सदृशानां राशीकरणात् धान्यराशौ ह्येको धान्यगुडकः प्रक्षिप्तो न दृश्यते । त्रिष्वप्यर्थान्तरदोषादनुपलब्धिः । नत्वेत अनुपलभ्यमाना न सन्ति ॥ ७॥ कारिका ८ यद्येवं केन प्रकारेण सतोरपि प्रधानपुरुषयोरनुपलब्धिरित्याह- ॥ सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः । महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ ८ ॥ ॥ 'सौक्ष्म्यात्तदनुपलब्धिः' इत्यादि । प्रकारान्तराभावात् सूक्ष्मत्वात्सतोरपि तयोरनुपलब्धिः । नन्वभावादेव कस्मादनुपलब्धिर्न भवति । यथा घटस्योत्पत्तेः प्राक् मृत् शरादिषु ॥॥ तस्य प्रध्वंसाभावात्, गवि वाश्वत्वस्याश्वत्वे वा गोत्वस्येतरेतराभावात्, वन्ध्यासुतस्य वात्यन्ताभावादित्याह- 'नाभावात्' इति । चतुर्विधादित्यर्थः ॥ यद्येवं कथं तौ स्त इति गम्यत इत्याह- 'कार्यतस्तदुपलब्धेः' इति । यद्यप्यत्रोभयं प्रक्रान्तं तथापि तच्छब्देन प्रधानं निर्दिश्यते । प्रधानस्यास्तित्वप्रतिपत्तिः कार्यादित्यर्थः । पुरुषस्यास्तित्वप्रतिपत्तौ हेतुं वक्ष्यति ॥ किं तत्कार्यमित्याह- 'महदादि तच्च कार्यम्' इति । महान् बुद्धिः स आदिर्यस्य तन्महदादिभूतपर्यन्तं कार्यमस्ति । तत् प्रधानम्, यस्येदं महदादिकार्यं व्यक्तम्, अकारणस्य कार्यस्यानुत्पादात् ॥ 'प्रकृतिसरूपं विरूपं च' इति । तद्व्यक्तं प्रकृतेः प्रधानस्य सदृशमसदृशं चेत्यर्थः । एतदुत्तरत्र योजयिष्यते ॥ ८॥ कारिका ९ तत्कार्यं कारणादुत्पद्यमानं सदुत्पद्यते, किमसत्, किं वा सदसदिति? तत्र विरुद्धधर्माध्यासितत्वात्सदसन्नोपपद्यते । असदिति वैशेषिकाः । अत्र दूषणमाह- ॥ असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । श्क्तस्य शक्यकरणात्, कारणभावाच्च सत्कार्यम् ॥ ९ ॥ ॥ 'असदकरणात्' इत्यादि । इह लोके असतः करणं नास्ति, यथा शशविषाणादीनाम् । यदेव सत् घटादिद्रव्यं तदेव मृत्पिण्डादिना कारणविशेषेण क्रियते, नासत् ॥ 'उपादानग्रहणात्' इति । इह यदर्थं यदुपादीयते तस्य तदुपादानं कारणम्, यथा तैलस्य तिलाः, दध्नः क्षीरम् । अत्र तैलं दधि च यदि न स्यात् कथं तस्योपादानस्य ग्रहणं तदर्थिभिः क्रियते । तस्मादुपादानसंग्रहात् सदेव कार्यम् । अन्यथा सिकतासलिलयोरपि ग्रहणं स्यात् ॥ 'सर्वसम्भवाभावात्' इति । यद्यसत्कार्यं भवेत् तदा सर्वस्य सर्वत्र सम्भवः स्यात् । न चैवम् । तस्मात्सदेव कार्यम् ॥ 'शक्तस्य शक्यकरणात्' इति शक्तं कारणं नाशक्तमित्येवमप्यवगन्तव्यम् । अन्यथोपहतशक्तर्बीजाङ्कुरोत्पत्तिप्रसङ्गः । शक्तश्च को भवितुमर्हति, यः शक्तिमान् । तस्य शक्तिमतः शक्यस्य करणात्, शकनीयस्य कार्यस्योत्पादनादित्यर्थः । एवं च तच्छकनीयं यदि कारणे शक्तिरूपेणावस्थितं स्यात् । तस्मात्सदेवोत्पद्यते नासत् ॥ 'कारणभावाच्च' इति । कारणस्य सत्त्वादित्यर्थः । यद्यसत्कार्यमुत्पद्यते किमिति कारणभावेन कार्यस्य भावो भवति । भवति च । तस्माच्छक्तिरूपेणावस्थितमिति गम्यते । अथवा- कारणभावादिति कारणस्वभावात् । यत्स्वभावं कारणं तत्स्वभावं कार्यम्, यथा स्निग्धस्वभावस्तिलेभ्यः स्निग्धमेव तैलम्, मृतो मृत्स्वभावो घटः । यद्यसत्कार्यं स्यात्, असत्स्वभावेभ्यो ह्युत्पाद्येतेत्येवं सांख्यानां सदेवोत्पद्यत इति सिद्धान्तः ॥ ९॥ कारिका १० एवं महदादिकार्यं सदेवोत्पद्यत इति व्यवस्थाप्य प्रकृतेविरूपं सरूपं च दर्शयति । तत्र प्रकृतेर्विरूपमधिकृत्याह- ॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम् ॥ १० ॥ ॥ 'हेतुमत्' इत्यादि । व्यक्तं महदादिभूतपर्यन्तम् । अव्यक्तं प्रधानं तत्र व्यक्तं हेतुमत्, यथास्वं कारणेभ्य उत्पद्यमानत्वात् । तत्र प्रधानादुत्पद्यमानो महान् हेतुमान्, महतोऽहङ्कारो हेतुमान्, अहङ्कारात्तन्मात्राण्येकादशेन्द्रियाण्युत्पद्यमानानि हेतुमन्ति च, तन्मात्रेभ्यश्च महाभूतानि हेतुमन्ति । विपरीतमव्यक्तमहेतुमदित्यर्थः, तस्यान्यतः कुतश्चिदनुत्पादात् । नहि प्रधानाकिंचिदपरमस्ति यतस्तदुत्पद्यते ॥ अनित्यं व्यक्तम्, कारणेभ्य उत्पन्नत्वात् घटादिवत् । कारणानि च प्रागुक्तान्येव । विपरीतमव्यक्तं नित्यमित्यर्थः, कुतश्चिदनुत्पन्नत्वात् ॥ अव्यापि व्यक्तं प्रादेशिकमित्यर्थः । दैवं मानुषं तैर्यग्योनं च, तदानीमन्यत्रावर्तमानत्वात् । सर्वगतं विपरीतमव्यक्तं व्यापीत्यर्थः, देवादिषु त्रिषु लोकेषु सर्वदा वर्तमानत्वात् । 'सक्रियम्' इति । क्रियाशब्देनात्र संसरणमभिप्रेतम्, न क्रियामात्रम् । महदादिसूक्ष्मपर्यन्तं व्यक्तं देवादि संसरतीत्यर्थः । विपरीतमव्यक्तम्, असंसारि । त्रिषु लोकेषु स्थितत्वान्न संसरति । न पुनः क्रियैव नास्तीति निष्क्रियम्, तस्य जगत्कर्तृत्वात् ॥ अनेकं व्यक्तम्, महदादिभूतपर्यन्ततायास्त्रयोविंशतिप्रकारत्वात् । विपरीतं व्यक्तम्, त्रयाणां लोकानां तस्यैकस्य कारणत्वात् ॥ 'आश्रितम्' इति । यद्यस्मादुत्पन्नं महदादि व्यक्तं तदेव तदाश्रितं नान्यत् । उत्पन्नमन्यदाश्रितमिति दर्शनार्थं वचनम्, अन्यथा हेतुमदित्यनेनैवाश्रितं सिद्धमेव । विपरीतमव्यक्तम्, अनाश्रितम् । ततोऽन्यस्य कारणस्याभावात् ॥ 'लिङ्गम्' इति । लिङ्ग्यतेऽनेनाव्यक्तमिति लिङ्गम् । विपरीतमव्यक्तम्, न लिङ्ग्यते किञ्चिदनेनेति । अथवा लयं गच्छतीति लिङ्गम् । प्रलयकाले ह्याकाशादयः पञ्च यथाक्रमं शब्दादितन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो महति, महान्प्रधान इति । विपरीतमव्यक्तम्, न कुत्रचिदिदं लीयते, अहेतुत्वात् ॥ 'सावयवम्' इति । शब्दादयोऽवयवा उच्यन्ते । तैराध्यात्मिकं बाह्यं च व्यक्तं युक्तम् । विपरीतमव्यक्तम्, तैरयुक्तत्वात् ॥ परतन्त्रम् । न स्वतन्त्रम् । यदस्मादुत्पद्यते तदेवानुरुद्ध्य स्वकार्यं जनयति न तद्व्यतिरेकेणेति दर्शनार्थम् । अन्यथा हेतुमदित्यनेनैव परतन्त्रत्वं प्रसिद्धमेव । विपरीतमव्यक्तम्, स्वतन्त्रं न किंचिदपेक्षते ॥ १०॥ कारिका ११ सारूप्यमधिकृत्याह- ॥ त्रिगुणमविवेकि विषयः सामान्यमचेतनम्प्रसवधर्मि । व्यक्तं, तथा प्रधानम्, तद्विपरीतस्तथा च पुमान् ॥ ११ ॥ ॥ 'त्रिगुणम्' इत्यादि । त्रयस्सत्त्वादयो गुणा यस्य तत्त्रिगुणं व्यक्तम् । तथा प्रधानमपि त्रिगुणं तत्स्वभावत्वात् ॥ 'अविवेकि' इति । अविवेचनशीलं व्यक्तम्, अचेतनत्वात् । यद्वा गुणेभ्यस्तस्य पृथक्त्वाभावादविवेकि । तथा प्रधानमपि ॥ सामान्यं व्यक्तम्, सर्वपुरुषोपभोग्यत्वान्मल्लदासीवत् । तथा प्रधानमपि ॥ अचेतनं व्यक्तम्, सुखदुःखमोहान्न वेदयतीत्यर्थः । तथा प्रधानमपि ॥ 'प्रसवधर्मि' इति । प्रसवो धर्मोऽस्यास्तीति प्रसवधर्मि व्यक्तम् । तथा प्रधानमपि । द्वयोरपि प्रसवधर्मित्वम् ॥ तथा च प्रधानान्महान्, महतोऽङ्कार इत्यादिना स्वकार्योत्पादनधर्मत्वाद्यथा व्यक्ताव्यक्तयोर्वैरूप्यं सारूप्यं च, तथा किं पुरुषस्य वापीत्याह- 'तद्विपरीतस्तथा च पुमान्' इति । व्यक्ताव्यक्ताभ्यां कैश्चिद्धर्मैर्विलक्षण इत्यर्थः ॥ अत्र पूर्वस्या आर्याया अर्थो योज्यते । हेतुमद्व्यक्तम्, अहेतुमदव्यक्तम् । पुरुषोऽप्यहेतुमान्, तस्य कुतश्चिदनुत्पादात् ॥ अनित्यं व्यक्तम्, नित्यमव्यक्तम् । पुरुषो नित्यः, कुतश्चिदनुत्पन्नत्वात् ॥ अव्यापि व्यक्तम्, व्याप्यव्यक्तम् । पुरुषोऽपि व्यापी यदा प्रकृत्या मुक्तः । युक्तश्चेत्, व्यक्तेन सदृशो न प्रधानेन । हि सर्वदा देवादिषु प्रवर्तते ॥ सक्रियं व्यक्तम्, निष्क्रियमव्यक्तम्, असंसारित्वात् । पुरुषोऽपि निष्क्रियः, कर्तृत्वाभावात् ॥ अनेकं व्यक्तम्, एकमव्यक्तम् । पुरुषोऽनेको बहुत्वात् । तस्य बहुत्वं प्रतिपादयिष्यति । प्रधानेनात्र वैसादृश्यं तस्यैकत्वात् ॥ आश्रितं व्यक्तम्, अनाश्रितमव्यक्तम् । पुरुषोऽप्यनाश्रितः कुतश्चिदनुत्पन्नत्वात् ॥ लिङ्गं व्यक्तम्, अलिङ्गमव्यक्तम् । पुरुषोऽप्यलिङ्गः । न किंचिदनेन लिङ्ग्यते न वायं कदाचिल्लीयतेऽनुत्पन्नत्वात् ॥ सावयवं व्यक्तम्, निरवयवमव्यक्तम् । पुरुषोऽपि निरवयवः शब्दादिभिरयुक्तत्वात् । परतन्त्रं व्यक्तम्, स्वतन्त्रमव्यक्तम् । पुरुषोऽपि स्वतन्त्रः, कुतश्चिदनुत्पन्नत्वात् ॥ द्वितीयस्या आर्याया अर्थो योज्यते- त्रिगुणं व्यक्तमव्यक्तं च । निर्गुणः पुरुषः, गुणानां तत्राभावात् ॥ अविवेकि व्यक्तमव्यक्तं च । विवेकी पुरुषश्चेतनत्वात् । विविक्तो वा निर्गुणत्वात् ॥ विषयो व्यक्तमव्यक्तं च । पुरुषो निर्विषयः, भोक्तृत्वात्, न भोग्यः ॥ सामान्यं व्यक्तमव्यक्तं च । पुरुषोऽसामान्यः, अविषयत्वात् ॥ अचेतनं व्यक्तमव्यक्तं च । चेतनः पुरुषः सुखादिवेदनत्वात् ॥ प्रसवधर्मि व्यक्तमव्यक्तं च । पुरुषोऽप्रसवधर्मी, अकर्तृत्वात् । इत्युक्तम् ॥ ११॥ कारिका १२ त्रयाणामपि वैरूप्यं सारूप्यं चेति त्रिगुणमित्युक्ते, के के त्रयो गुणाः किमात्मका इत्याह- ॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥ ॥ 'प्रीत्यप्रीतिविषादात्मकाः' इत्यादि । प्रीत्यादय आत्मानो येषां गुणानां ते तथोक्ताः सत्त्वरजस्तमांसि त्रयो गुणाः । तत्र प्रीत्यात्मकं सुखात्मकं सत्त्वम्, अप्रीत्यात्मकं दुःखात्मकं रजः, विषादात्मकं मोहात्मकं तमः । गुणा ह्यतीन्द्रियत्वात्परिणत्या सुखादिनानुमीयमानास्तदात्मका इति व्यपदिश्यन्ते ॥ किं पुनरेषां प्रयोजनमित्याह- 'प्रकाशप्रवृत्तिनियमार्थाः' इति । प्रकाशार्थं सत्त्वं प्रकाशकत्वात्, प्रवृत्त्यर्थं रजश्चलत्वात्, नियमार्थं तमः स्तिमितत्वात् ॥ किमिति ते गुणाः परस्परसव्यपेक्षाः किं वा नेत्याह- 'अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः' इति । अन्योऽन्यशब्दः प्रत्येकमभिसम्बद्ध्यते । अभिभवतीत्यभिभवः । पचाद्यच् । अन्योऽन्यस्याभिभवा अन्योऽन्याभिभवाः । तद्यथा देवेषु सत्त्वमुद्रिक्तं रजस्तमसी अभिभवति, मनुष्येषु रजः सत्त्वतमसी, तिर्यक्षु (तमः सत्त्वरजसी) । आश्रीयन्त इत्याश्रयाः । कर्मण्यण् । अन्योऽन्यस्याश्रयाः, त्रिदण्डवत् । नाश्रयान्तरमेषाम्, अनाश्रयाश्च कर्तारः । जनयन्तीति जननाः । 'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट् । अनेकार्थत्वात् च धातूनां बोधनार्था द्रष्टव्याः । अन्योऽन्यस्य प्रबोधका इत्यर्थः । सर्वं हि व्यक्तमुत्पद्यमानं त्रिगुणात्मकमुत्पद्यते । तत्र यदा सत्त्वमुत्कटं तदा रजस्तमसी न्यक्कृतशक्तिके । प्रबोध्यायस्कान्तो लोहवदुक्तम् (?) । सत्वन्यत्कृतेन गुणेन व्यक्तं जनयति (?) एवं रजस्तमश्च योज्यम् । यदा गुणद्वयमुद्भूतशक्ति तदा द्वयमपीतरदभिभवति, प्रबोधयतीत्यर्थः । अन्योऽन्यमिथुना इति । अन्योऽन्यस्य सहाया इत्यर्थः । तथा चोक्तं विष्णुगीतायाम्- रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः । उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥ एकस्यां व्यक्तौ त्रयाणामभिभवप्रबोधनानुक्तौ व्यक्तम्, इतरे तु तौ एव प्रवृत्तिं जनयन्त इति दर्शयन्नाह- अन्योऽन्यवृत्तय इति । वृत्तिः सुखादिरूपेण परिणतिः । वृतिहेतुत्वाद् वृत्तय उच्यन्ते । अन्योन्यवृत्तिहेतव इत्यर्थः । तद्यथा काचिद्योषिद्रूपशीलदत्यन्तगुणा (!) सितत्वात्सात्त्विकी सा भर्त्तुः सुखमुत्पादयति सपत्नीनां कासांचिद्दुःखं कासांचिद्विषादमित्यत्र सत्त्वमात्मनो द्वयोश्च वृत्तिहेतुः । कस्यचित्प्रभोरत्यन्तशूरत्वाद् भृत्या राजसाः, परेषां युध्यमानानां प्रहारैर्दुःखं जनयन्ति, पलायमानानां विषादम्, स्वामिनश्च तुष्टिमित्यत्र रज आत्मनो द्वयोस्च वृत्तिहेतुः । मेघांश्चाम्बुगु ॥॥।वानिषान्धकारीकृत्योन्नतत्वात् (?) तामसाः, ते वर्षन्तः प्रोषितभर्तृकाणां विषादं जनयन्ति, पथिकानां दुःखम् कृषीवलानां तुष्टिमित्यत्र तम आत्मनो द्वयोश्च वृत्तिहेतुः ॥ १२॥ कारिका १३ एषां दुर्लक्षणानां लक्षणान्तरमाह- ॥ सत्त्वं लघु प्रकाशकमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः ॥ १३ ॥ ॥ 'सत्त्वम्' इत्यादि । इष्टं सांख्याचार्याणां सत्त्वं लघुस्वभावं प्रकाशं च । यस्योद्रेकाच्छरीरेंऽशानि लघूनि भवन्ति, विषयप्रकाशनसमर्थानि चेन्द्रियाणि । बाह्यानि च द्रव्याणि लघूनि प्रकाशात्मकानि निर्मलानि भवन्ति ॥ 'उपष्टम्भकं चलं च रजः' इति । उपष्टम्भयतीत्युपष्टम्भकम् । यस्योद्रेकाद् देवदत्तो व्यवस्यति, चलचित्तश्च भवति । बाह्यानि चलानि भवन्तीति ॥ 'गुरु वरणकमेव तमः' इति । वृणोति पिधत्त इति । 'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट्, करणे वा । पश्चात् स्वार्थे कन् । यस्योद्रेकाद् गुरूण्यङ्गानि भवन्ति, इन्द्रियाणि च तमसैवात्तानि भवन्ति । बाह्यानि च गुरूण्यनिर्मलानि च भवन्ति ॥ उदाहरणदिगियमन्यान्यपि विज्ञेयानि भवन्ति । तथा चाहुः- प्रीतिप्रीति(?)स्वाभिषङ्गलाघवानि प्रसादहर्षौ च, स्तम्भौद्धत्यद्वेषचलनशोषणतापभेदाश्च, वरणापध्वंसनसादनगौरवदैन्यभीतयश्चैतानि सत्त्वरजस्तमसां क्रमेण ज्ञातव्यानि लिङ्गानि ॥ ननु चैते परस्परविलक्षणा गुणा विरुद्धत्वात् कथं सम्भूयैकत्र वर्तन्त इत्याह- 'प्रदीपवच्चार्थतो वृत्तिः' इति । प्रदीपस्येव प्रदीपवत् । तैलवर्त्त्यग्निसमुदायः प्रदीपः । यदा समुदायात्म ॥॥।परस्परविलक्षणानामपि प्रदीपभा ॥।प्रवृतिः, तमसि स्थिता घटादयो देवदत्तस्य प्रकाशयितव्या इति, तथा सत्त्वरजस्तमसां पुरुषार्थहेतुना प्रवृत्तिः, पुरुषार्थशब्दोपलब्धिश्चेति ॥ १३॥ कारिका १४ ननु च 'त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि व्यक्तम्', तत्र सुखदुःकमोहोपलब्धेस्त्रैगुण्यं व्यक्तं सिद्धम्, अविवेक्यादयो धर्माः प्रसवपर्यन्ताः कथं सिद्ध्यन्तीत्याह- ॥ अविवेक्यादिस्सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् । कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥ ॥ 'अविवेक्यादिः सिद्धः' इत्यादि । गुणिद्वारेण गुणाभिधानम् । अविवेक्यादिगुणस्सिद्धः । व्यक्त इति वाक्यशेषः ॥ कुतः? त्रैगुण्यात् । कथं? यस्माद्गुणा एवाविवेकिनो भोग्यास्सामान्या अचेतना प्रसवधर्मिणश्च, ते च व्यक्ते सिद्धा इति सिद्धो गुणः ॥ 'तद्विपर्ययाभावात्' इति । (त्रैगुण्यस्याभावादिति) । त्रैगुण्यस्याभावेऽविवेक्यादयोरभावात् । न हि निर्गुणस्य पुरुषस्याविवेक्यादिः सम्भवति । तस्मात्त्रैगुण्यादेवाविवेक्यादिस्सिद्धः ॥ एवं च सति, प्रधानमपि त्रैगुण्यात्तथाविधं सिद्धम् । यदाह- 'कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम्' इति । कारणस्य यो गुणः स आत्मा स्वभावो यस्य तत्तथोक्तम् । तस्य स्वभावस्तत्त्वम् । तस्मादिह लोके कारणगुणकं कार्यं दृष्टम् । शुक्लैः कृष्णैर्वा तन्तुभिरारब्धः पटः शुक्लः कृष्णो वा भवति । यद्यव्यक्तं तथाविधं न स्यात्, कथं व्यक्तं तथाविधं भवेत् ॥ १४॥ कारिका १५ ननु च सति धर्मिणि धर्माश्चिन्त्यन्ते, प्रधानस्यैव धर्मिणोऽलब्धसिद्धित्वात् कथमविवेक्यादीत्याह- ॥ भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥ ॥ 'भेदानाम्' इत्यादि । कार्यतस्तदुपलब्धेर्महदादि तच्च कार्यमित्यनेनैव साधितेऽस्मिन् यथावदधिगते पुनर्दार्ढ्यार्थं समनन्तरोपादानम् । भिद्यन्त इति भेदाः कार्यविशेषास्तेषां (एकस्संसर्गी दृष्टः) परिमाणाच्च । भेदानां परिमितत्वादित्यर्थः । येन च परिमितास्तेषामेकः संसर्गी दृष्टः । यथा मूलाङ्कुरपत्रकाण्डप्रसवपुष्पतण्डुलकणानां भेदानां व्रीहिः तविबाह्याध्यात्मिकभेदाः । परिमितबाह्या ब्रह्मादिस्तम्बपर्यन्ताश्चतुर्दश । आध्यात्मिकाश्च महदहङ्कारतन्मात्रेन्द्रियभूताख्यास्त्रयोविंशतिः । तस्मादेतेषामेकेन संसर्गिणा भवितव्यम् । यत्रैषां संसर्गस्तदव्यक्तं कारणमस्तीति सामान्यतोदृष्टमनुमानम् ॥ 'समन्वयात्' भेदानामिति वर्तते । समन्वयोऽनुगमः । एकजात्यनुगमादित्यर्थः । य एकजात्यनुगता भेदास्तेषामेकमेव तथाभूतं कारणं दृष्टम् । यथा कटककेयूरादीनां सुवर्णपिण्डः, यथा वा शरावादीनां मृत्पिण्डः । एवमेषामपि बाह्याध्यात्मिकानां सुखदुःखमोहानुगतत्वादेकेन तथाविधेन भवितव्यम् । य एषां समुदायस्तत्प्रधानमिति सामान्यतोदृष्टम् । 'शक्तितः प्रवृत्तेश्च' इति । इह कुलालादिशक्तिपूर्विका घटादीनां प्रवृत्तिर्दृष्टा नाशक्तिपूर्विका । एषामपि बाह्याध्यात्मिकानां प्रवृत्तिर्दृश्यते । ततश्च प्राक् च प्रवृत्तेर्जनितया शक्त्या भवितव्यम् । यासौ शक्तिः सैवाव्यक्तभावमापद्यत इति सामान्यतोदृष्टम् ॥ 'कारणकार्यविभागात्' इति । कारणस्य पूर्वभावित्वात् पूर्वनिपातः । अल्पाच्तरस्य पूर्वनिपातस्यानित्यत्वम् । यत उत्पद्यते तत्कारणम्, यच्चोत्पद्यते तत्कार्यम् । यथा मृत्पिण्डघटयोर्जन्यजनकत्वेन पृथगर्थक्रियाकरणाच्च विभागो दृष्टः । अन्यथा घटास्योदकाहरणक्रिया या न सा मृत्पिण्डस्य, या मृत्पिण्डस्य न सा घटस्य । एवं व्यक्तस्य महदादेः कार्यत्वात्पृथगर्थक्रियाकरणाच्च विभागः । तस्मादस्य कारणेन भवितव्यम् । तच्चाव्यक्तात्किमन्यत् स्यादिति ॥ अस्मिन् व्याख्याने 'कार्यतस्तदुपलब्धेर्महदादि तच्च कार्यम्' इत्यनेनैव सिद्धत्वादन्यैरन्यथा व्याख्यायते । यदुपकरोति तक्तारणम्, यदुपक्रियते तत्कार्यं तयोर्विभागात्, उपकार्योपकारकभावादित्यर्थः । तत्र कार्य ॥।व्यादीनि शरीरस्थानि स्थानसाधना ॥।वभोगैः कारणान्युपकुर्वन्ति । कारणानि च वृद्धिक्षतसंरोहणपालनैः कार्याणि । बाह्यानि च कारणानि पृथिव्या धृतिसङ्ग्रहपत्तिव्यूहनावकाशदानैः परस्परमुपकुर्वन्ति । तथा दैवमानुषतैर्यग्योनानि परस्परोपकारीणि । तत्र दैवम्, यथाकालं शीतोष्णवर्षागमः, मानुषतैर्यग्योनान्युपकरोति । मानुषमिज्यायागस्तुतिभिर्दैवं रक्षति, पोषणभेषज्यैशाह तैर्यग्योनमुपकरोति । यथाध्यात्मिकानां बाह्यानां चोपकार्योपकारकभावो बुद्धिकृत इव दृश्यते तदस्य कश्चिद्व्यवस्थापिता स्यात्, कुतोऽयं विभाग इत्यन्यथानुपपत्तेः ॥ 'अविभागाद्वैश्वरूप्यस्य' इति । न विद्यते विभागोऽस्येत्यविभागः । अविभक्तादित्यर्थः । तस्माद्वैश्वरूप्यस्योपलब्धेरिति शेषः । इह लोकेऽविभक्तादेकस्मादिक्षुद्रव्याद्रसफाणितगुडखण्डशर्करादिवैश्वरूप्यं नानात्वं दृश्यते, तथैकस्माद्दुग्धाद्दधिमस्तुनवनीतघृतादिवैश्वरूप्यमुपलभ्यते । एवमाध्यात्मिकानां बाह्यानां च वैश्वरूप्यम् । तस्मादेषामविभक्तेनैव भवितव्यमिति सामान्यतोदृष्टम् ॥ अन्यस्त्वाह- 'अविभागे वैश्वरूप्यस्य' इति । अविभागो लयः, वैश्वरूप्यं जगत् नानारूपत्वात् । प्रलयकाले वैश्वरूप्यं क्व लीयते स्थित्युत्पत्तिप्रलयाज्जगत इति । न चेश्वरे लयनं सम्भवति, तस्य निर्गुणत्वेनाभ्युपगमात् । तस्मादन्यथानुपपत्त्यास्ति तदेकमिति । तथा चाहुः- प्रधानादानुपूर्व्येण सृष्टिर्लोकस्य संसरः । प्र ॥॥प्रातिलोम्येन पुनस्तत्रैव सञ्चरः ॥ इति ॥ १५॥ कारिका १६ एषां हेतूनां प्रवर्तनार्थमाह- ॥ कारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च । परिणामतः सलिलवत्, प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥ ॥ 'कारणमस्ति' इत्यादि ॥ यदि कारणमस्त्यव्यक्तं तत्कथं प्रवर्तत इत्याह- 'त्रिगुणतस्समुदयाच्च' इति । यदा प्रकृतिस्था गुणास्साम्येन प्रवर्तन्ते तदा (त्रीनेवाधिकृत्य प्रवरन्ते नैकैकमित्यर्थः । यदा वैषम्येण प्रवर्तन्ते तदा) कार्यं कारणारब्धत्वात् समुदयात् प्रवर्तते । समन्तादुदयो यस्य गुणस्य तमधिकृत्येत्यर्थः, शेषन्यक्कृतशक्तिकत्वात् । यदि समुदयादव्यक्तं प्रवर्तते तस्मादुत्पन्नं तदव्य ॥।स्मान्न भवति ॥ शुक्लेभ्यः कृष्णेभ्यो वा तन्तुभ्यः शुक्लः कृष्णो वा पटो भवतीत्याह- 'परिणामतः' इत्यादि । पूर्वस्यामवस्थायामवस्थान्तरं परिणामः, तस्माद्धेतोः प्रवर्तते । यथा कणिकायाः सूक्ष्माया मूलकः शाखाप्रशाखादिप्रवृद्धो महान्वनस्पतिर्व्यक्तो भवति, एवमव्यक्ताद्व्यक्तं परिणमति ॥ यद्येवमेकरूपादुत्पन्नस्य त्रैलोक्यस्य कथमनेकरूपत्वमित्याह- 'सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात्' इति । सलिलेन तुल्यं वर्तत इति सलिलवत् । एकैकं प्रति गुणाः प्रतिप्रतिगुणाः । त एवाश्रयास्तेषां यो विशेषस्तस्माद्धेतोः प्रवर्तन्ते । यथा सलिलमन्तरिक्षादेकरसमपि तदेकस्य कट्वम्लादेर्गुणस्याश्रयभूतस्य विशेषान्नानारसं वर्तते एवमव्यक्तमपीति गुणात्मकत्वादेकैकगुणाश्रयविशेषान्नानारूपं प्रवर्तते । तत्र सत्त्वस्य कृतेराश्रयस्य विशेषाद्देवभावेन वर्तनम्, रजस आश्रयस्य विशेषान्मानुषभावेन, तमस आश्रयस्य विशेषात्तिर्यग्योनिभावेनेति ॥ १६॥ कारिका १७ एवमव्यक्तस्यास्तित्वं प्रवृत्तिं च प्रसाध्य पुरुषास्तित्वं प्रसाधयितुमाह- ॥ संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥ १७ ॥ ॥ 'संघातपरार्थत्वात्' इत्यादि । संहन्यत इति संघातः । संघातश्चासौ परार्थश्चेति संघातपरार्थः । संघातत्वं हेतुः परार्थत्वं साध्यम् । इह लोके संघातबाह्याः शयनासनादयो ये ते परार्था दृष्टाः । ते हि देवदत्तस्य परस्यार्थं कुर्वन्ति न स्वार्थम् । एतेऽप्याध्यात्मिका महदादयः शरीरसंज्ञकाः संघाताः, तैः परार्थैर्भवितव्यम् । न च पुरुषव्यतिरिक्तोऽन्यः परोऽस्ति, पुरुष एव पर इ ॥॥न्यतोदृष्टम् ॥ ननु महदादिभूतपर्यन्तं शरीरमेव पुरुषो नान्यः कश्चिदित्यत्राह- 'त्रिगुणादिविपर्ययात्' इति । आदिशब्देनाविवेक्यादयः पञ्च धर्मा दृश्यन्ते । तथा हि तद्विपरीतः पुमानित्युक्तम् । ततश्च तद्विपरीतत्वात्पुंसः कथं महदादिमात्रमेव पुरुषः । तस्माद्व्यतिरिक्तः पुरुषो यस्यार्थका इमे संघाताः ॥ 'अधिष्ठानात्' इति । अधितिष्ठत्यस्मिन्नित्यधिष्ठानम् । महदादिभूतपर्यन्तं शरीरमिह लोके यदधिष्ठानं तत्पराधिष्ठितं दृष्टम्, यथा रथादि । दृश्यते चाधिष्ठानं शरीरम् । तस्मादस्याधिष्ठात्रा भवितव्यम् । योऽसावधिष्ठाता स पुरुषः, नान्तःकरणमधिष्ठातृ, तस्याचेतनत्वादिति सामान्यतोदृष्टम् ॥ 'भोक्तृभावात्' इति । भोक्तृत्वादित्यर्थः । इह लोके भोग्यं दृष्ट्वा भोक्तानुमीयते । दृश्यते महदादिपर्यन्तं भोग्यम्, तस्मादस्यापि भोक्त्रा भवितव्यमिति सामान्यतोदृष्टम् । न चान्तःकरणं भोक्तृ, तस्याचेतनत्वाद्भोग्यत्वाच्च । यश्च भोक्ता स एव पुरुषः सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् । अस्मिन् देधे योऽयमात्मा समानजातीयानेकवस्त्वन्तरसहायः, प्रतिनियतैर्जन्मादिभिर्युज्यमानत्वात् मनोवत् ॥ 'कैवल्यार्थं प्रवृत्तेश्च' इति । कैवल्यं मोक्षः । तदन्यार्थप्रधानस्यैषा प्रवृत्तिः । तथाहि- प्रधानं बुद्ध्यात्मना परिणमति । बुद्धेश्चाष्टादशानि । तेषु च ज्ञानं कैवल्यम् । तत्र यदि पुरुषो न स्यात्तदा तदर्था प्रवृत्तिर्न भवेत् । तस्मादन्यथानुपपत्त्या पुरुषोऽस्ति ॥ तत्र सिद्धे पुंसि विवादाः । एक एवायं पुरुषः सर्वशरीरेषु स्थित इत्येके । सर्वे काय उपनतानेकात्मानस्सात्मकत्वात्, योगिशरीरवृंद ॥ प्रतिशरीरमनेकः पुरुष इत्यपरे । एक एव पुराणः पुरुषः, तस्मादग्नेस ॥विष्फुलिङ्गाः प्रतिशरीरं पुरुषा आबिर्भूता इति वेदान्तवादिनः ॥ १७॥ कारिका १८ अत्राह- ॥जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥ ॥ 'जननमरणकरणानाम्' इत्यादि । करणं चक्षुरादीन्द्रियम् देहेन्द्रियादेरधिष्ठानस्योत्पत्तिविनाशौ । तद्योगात्पुरुषः जननमरणेऽपि व्यवस्थाप्येते । स्वतः पुरुषस्य ते न सम्भवतः । कुतः ? - नित्यतात् तत्र यद्येकः पुरुषः स्यात्तदैकस्मिन् जायमाने म्रियमाणे वा सर्वेषां जननमरणे स्याताम् । तथैकस्मिंश्चक्षुष्मति श्रोत्रवति वा सर्वेऽन्धा (बधिरा वा, पश्येयुः श्रुणुयुर्वा । एकस्मिन्नन्धे) बधिरे वा तथा स्युः । न चैवम्, जननादीनां प्रतिनियमात् । तस्मादन्यथानुपपत्त्या पुरुषबहुत्वं सिद्धम् ॥ 'अयुगपत्प्रवृत्तेश्च' इति । यद्येकः पुरुषः स्यात्तदैकेनाधिष्ठात्रा तिष्ठति देहे, धर्माधर्मयोरर्थानर्थयोः सुखदुःखयोर्वा प्रवृत्ते, सर्व एव युगपत्प्रवर्त्तेरन् । न चैवमित्यन्यथानुपपत्तिः ॥ 'त्रैगुण्यविपर्ययाच्च' इति । त्रय एव गुणास्त्रैगुण्यम् । तद् विपर्ययोऽन्यथात्वम् । अधिष्ठानस्य त्रिगुणात्मकत्वात्तद्योगात्पुरुषोऽपि त्रिगुणात्मक इत्युच्यते । तत्र यद्येकः पुरुषः स्यात्तदैकस्मिन् सात्त्विके राजसे तामसे वा, सर्व एव तथाविधाः स्युः । न चैवम्, गुणानं विपर्ययदर्शनदित्यन्यथानुपपत्तिः ॥ पुराणपुरुषादग्नेरिव विष्फुलिङ्गाः प्रतिशरीरं पुरुषा इत्यस्मिन्नपि दर्शने पुरुषबहुत्वमस्त्येव । तेषां परस्परविलक्षणत्वात् ते पुराणपुरुषादभिन्ना भिन्ना वेति दर्शनद्वयम् । तदन्यत्र विवारितत्वादिह ग्रन्थगौरवभयान्नोपन्यस्तमस्माभिरिति ॥ १८॥ कारिका १९ एवं पुरुषबहुत्वं प्रसाद्ध्य तद्धर्मान् कथयितुमाह- ॥ तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यम्माध्यस्थं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥ ॥ 'तस्माच्च विपर्यासात्' इत्यादि । यः प्रागुक्तो विपर्ययः- त्रिगुणमविवेकि विषयः - इत्यादिना, तस्मात्साक्षित्वादयो धर्माः पुरुषस्य सिद्धाः । तत्र निर्गुणस्य पुरुषस्याप्रसवधर्मित्वादकर्तृत्वम् । यश्चाकर्ता स भवत्युदासीनः । सप्तविधं चास्यौदासीन्यम् । तथा चोक्तम् - पश्यति शृणोति सर्वम करोति स्थितिं प्रसङ्गं च नापि । स्वतो न परतो ॥ंओभयतश्चाप्युदासीनः ॥ इति ॥ यश्चोदासीनः स साक्ष्यपि भवति प्रधानसम्बन्धिनः क्रियाकलापस्य निर्गुणत्वात् ॥ कैवल्यं केवलभावात् चेतनत्वाच्च द्रष्टृत्वमिति ॥ ननु च यद्यकर्ता तत्कथं- भोक्तृभावादस्ति पुरुषः- ? तथा चाहुः- बालहुताशनतरवः स्वयमकृतानां यथा हि भोक्तारः । पुरुषोऽपि विषयफलानां स्वयमकृतानां तथापि भोक्ता ॥ इति ॥ इत्युक्तमकर्तुरपि भोक्तृत्वमस्येति ॥ १९॥ कारिका २० ननु च यद्यचेतनमव्यक्तं कथं देहेन्द्रियसंज्ञमधिष्ठानं धर्माधर्मादिषु प्रवर्त्तते, तस्याचेतनत्वादित्याह- ॥ तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥ ॥ 'तस्मात्तत्संयोगात्' इत्यादि । तेन पुरुषेण यः संयोगस्तस्मादचेतनं चेतनावदिव भवति । यथाग्निसंयोगाल्लोहमणिरित्युच्यते । लिङ्गं महदादिसूक्ष्मपर्यन्तं वक्ष्यति ॥ यदि तदेव त्रिगुणात्मकं कर्तृ न पुमान्, कथं पुरुषो गच्छतीत्युच्यत इत्याह- 'गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः' इति । गुणानां कर्तृत्वं न पुरुषस्य । यथा पुरुषसंयोगादचेतनं लिङ्गं चेतनावदिव भवति, तथा गुणात्मकलिङ्गसंयोगादकर्तापि सन् कर्तेव भवति । उदासीनः । यथा स्वामी स्वयमयोद्धापि यौधभृत्यसंयोगाद् योद्धेति व्यपदिश्यते, तथा पुरुषोऽप्युपचारेण कर्तेति । तथा चोक्तम् - प्रवर्त्तमानान् प्रकृतेरिमान् गुणांस्तमोऽभिभूतो विपरीतदर्शनः । अहं करोमीत्यबुधोऽभिमन्यते तृणस्य कुब्जीकरणेऽप्यनीश्वरः ॥ इति ॥ २०॥ कारिका २१ ननु प्रधानपुरुषयोः किं (कर्तृत्वं) चैतन्यार्थमेव संयोगः, किं वान्यार्थमपीत्याह- ॥ पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पंग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥ ॥ 'पुरुषस्य' इत्यादि । पुरुषस्यार्थो द्विविधः, विषयोपभोगः कैवल्यं च । तदुभयं प्रधानेन सम्पाद्यम् । विषयोपभोगश्च प्रधानविभूतिमन्तरेण न सम्भवति, इति दर्शनार्थं पुरुषः प्रधानेन संयुज्यते । मानं स्वां विभूतिं दर्शयितुमसमर्थात्पुरुषेण संयुज्यते (?) । दृष्ट्वा स सर्वां विभूतिमनुभूय विरसत्वाद् विरक्तः पुरुषः प्रधानेन त्यज्यते । त्यक्तस्य कैवल्यमित्यतो दर्शनार्थं कैवल्यार्थं च द्वयोरपि संयोगो मत्स्योदकवदुदुम्बरमशकश्च ॥ 'पंग्वन्धवत्' इति । दृष्टान्तः । पङ्गुः सचक्षुः पश्यति पन्थानं न संचरति, अन्धोऽपि संचरति न पश्यति पन्थानम् । तयोः स्वार्थभ्रष्टयोर्ग्रामप्राप्त्यर्थः सम्बन्धो भूतः । तत्र पङ्गुरन्धस्कन्धमारुह्य गतिमान्, अन्धोऽपि द्रष्ट्रधिष्ठानाद्दृष्टिमान् जातः । ग्रामप्राप्तयोश्च तयोर्वियोगः । एवं पुरुषो निष्क्रियः प्रधानेन संयुज्य तद्विभूतिदर्शनाय देवादिषु संचरति । प्रधानं निश्चेतनमपि पुरुषाधिष्ठानाच्चेतनावदिव द्वयमपि सम्पादयति । तस्मात्पंग्वन्धवदुभयोरपि संयोगः ॥ ननु च संयोगमात्रेण कथं दर्शनं कैवल्यं चेत्याह- 'तत्कृतः सर्गः' इति । संयोगकृतो महदादिग्रामोत्पाद इत्यर्थः ॥ २१॥ कारिका २२ तमेव दर्शयन्नाह- ॥ प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥ ॥ 'प्रकृतेर्महान्' इत्यादि । प्रकृतिः प्रधानं कारणमव्यक्तं गुणसाम्यं तमोबहुलमव्याकृतमिति प्रकृतिपर्यायाः । ततो महानुत्पद्यते स तु तमोबहुलः । महान् बुद्धिर्मतिः प्रत्यय उपलब्धिरिति बुद्धिपर्यायाः । ततोऽहङ्कार उत्पद्यते । स तु रजस्तमोबहुलः । अहङ्कारः सुपर्णपणि(!)स्तत्पुरुष इत्यहङ्कारपर्यायाः ॥ 'तस्माद्गणश्च षोडशकः' इति । तस्मादहङ्कारात् षोडशको गण उत्पद्यते । एकादशेन्द्रियाणि पञ्च तन्मात्राणीत्यर्थः । तानि हृषीकाणीन्द्रियाणीति पर्यायाः । सूक्ष्मा अतिशया अणवः (विषा) इति तन्मात्रपर्यायाः ॥ 'तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि' इति । षोडशाद् गणाद्यानि पञ्च तन्मात्राणि तेभ्य एकोत्तरवृद्ध्या पञ्च महाभूतानि भवन्ति । तत्र शब्दतन्मात्रादाकाशमेकगुणम् । शब्दतन्मात्रप्रतिसंहितात् स्पर्शतन्मात्राद्द्विगुणो वायुः । ताभ्यां प्रतिसंहिताद्रूपतन्मात्रात् त्रिगुणं तेजः । तैः प्रतिसंहिताद्रसतन्मात्रात् चतुर्गुणा आपः । चतुर्भिः प्रतिसंहिताद्गन्धतन्मात्रात् पञ्चगुणा पृथिवीति । एतैरेकादशादयः स्थूला विशेषा उच्यन्ते, येष्ववसितानि चतुर्विंशतितत्त्वानि ॥ २२॥ कारिका २३ बुद्धेर्लक्षणमाह- ॥ अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥ ॥ 'अध्यवसायः' इत्यादि । शब्दादिषु विषयेऽध्यवसायशब्दोऽयं यावत् गन्धोऽयमिति सुबुद्धेर्लक्षणम् (?) । तस्याश्चाष्टौ रूपाणि ॥ 'धर्मो ज्ञानं विराग ऐश्वर्यम्' इति । तत्र योऽयमनिविषयमनुष्ठानात्मकोऽधवसायस्स धर्मः । यमाः पञ्च नियमाश्च । यथोक्तं सांख्यप्रवचने 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' । 'शौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः' इति । तत्र सन्तोषस्सनिहितसाधनाभ्याशादधिकस्यानुपादित्सा । तपो जिघत्सापिपासाशीतोष्णस्थानसाधनाजयः काष्ठमौनाकारमौने, व्रतानि च कृच्छ्रचान्द्रायणादीनि । स्वाध्यायो मोक्षशास्त्राध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं विशिष्टदेवताराधनम् । असंसारिभिस्तुल्यवृत्तित्वादिति । तद्विपरीतानुष्ठानमधर्मः । पञ्चविंशतितत्त्वानां स्वसंज्ञालाक्षण्यकत्वप्रयोजनावधारणं ज्ञानम्, गुणपुरुषान्तरज्ञानम् । शेषमज्ञानम् । विषयशरीरेन्द्रियेभ्यो दोषदर्शनाद्वैमुख्यं विरागः । तेष्वभिलाषो रागः । ऐश्वर्यमष्टगुणम्- अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वं, वशित्वम्, यत्रकामावसायित्वं चेति । तत्राणिमाणुत्वम्, येन गुणेन सूक्ष्मो भूत्वा विचरति । कार्ये कारणोपचारादणिमेत्युच्यते । उत्तरत्राप्येवं योज्यम् । लघिमा लघुत्वम्, येन वायुवल्लघुतरो भवति । महिमा महत्त्वम्, येन भुवनेषु धर्मादिप्राप्तिः, येन गुणेनेषितस्य प्रापणम् । प्राकाम्यं प्रचुरकामिता येनैकमनेकं प्राकाम्यतेऽनेकं चैकम् । ईशित्वं प्रभुता (येन स्थावरादीनि भूतानि सन्देशकारीणि भवन्ति । वशित्वं वशिता) येन स्वतन्त्रश्चरति । यत्रकामावशायित्वं (कामेनेच्छयावशेतुं शीलं यस्य स यत्रकामावशायी । तस्य भावः यत्रकामावशायित्वम्) । अनेकार्थत्वाद्धातूनां 'शी' तिष्ठतौ वर्त्तते । येन गुणेन दिव्यन्तरिक्षे भूमौ वावस्थायित्वमित्यर्थः । 'सात्त्विकमेतद्रूपम्' इति । सत्त्वतमोबहुलत्वात् । बुद्धेर्यदा सत्त्वमुत्कटं भवति तदैतच्चतुष्टयं भवतीत्यर्थः । 'तामसमस्माद्विपर्यस्तम्' इति । उत्कटलक्षणात् धर्मादिचतुष्टयाद्विपरीतं तमस्युद्रिक्ते भवतीत्यर्थः । अधर्मोऽज्ञानमवैराग्यमनैश्वर्यं चेति ॥ २३॥ कारिका २४ अहङ्कारलक्षणमाह- ॥ अभिमानोऽहङ्कारः, तस्माद्द्विविधः प्रवर्त्तते सर्गः । एकादशश्च गणस्तन्मात्रपञ्चकश्चैव ॥ २४ ॥ ॥ 'अभिमानः' इत्यादि । अभिमतिरभिमानः । रूपादिषु विषयेष्वभिमानो रूपवानहम्, ममैते विषयाः, इत्यह्यङ्कारलक्षणम् ॥ तस्मादभिमानलक्षणादहङ्कारात् 'द्विविधः प्रवर्त्तते सर्गः' इति । सृज्यत इति सर्गः ॥ तमेव द्विविधं दर्शयितुमाह- 'एकादशकश्च गणः' इति । एकादश परिमाणमस्येत्येकादशः श्रोत्रादिर्गणः ॥ 'तन्मात्रापञ्चकं च' इति । तन्मात्रशब्दादिस्वरूपमात्र इत्यर्थः । तन्मात्राणि शब्दस्पर्शरूपरसगन्धाः । मात्राग्रहणं भूतसंश्लेषनिवृत्त्यर्थम् । भूतेष्वपि शब्दादिसम्भवात् ॥ २४॥ कारिका २५ स चाहङ्कारस्त्रिविध इति दर्शयन्नाह- ॥ सात्त्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम् ॥ २५ ॥ ॥ 'सात्त्विकः' इत्यादि । यदा सत्त्वमुद्रिक्तं तदाहङ्कारो वैकृताभिमानो भवति, रजश्चोद्रिक्तं तैजसः, तमश्चोद्रिक्तं भूतादिरिति । तत्र वैकृतादेकादशको गणः प्रवर्त्तते। स च सात्त्विकः सत्त्वबहुलः, स्वविषयग्रहणत्वात् ॥ भूतादेस्तामसादहङ्कारात्तन्मात्रः स तामसः, तमोबहुलत्वात् । ततस्तामसात्तन्मात्रात् गणात् तामसो भूतगणः प्रवर्त्तते ॥ ('तैजसादुभयम्' इति । एतदाशयः- पञ्चकञ्चैतदुभयमपि प्रवर्त्तते) । आदिकाल उभयत्राप्यस्य सहायत्वात् । वैकृतभूतादि द्वावपि प्रकाशस्थितिशीलत्वात् न क्रियाशीले । ततस्तैजसमहङ्कारं क्रियाशीलं सहायमपेक्ष्यैकादशकं पञ्चकं च मलाजनयत (?) इति ॥ २५॥ कारिका २६ कः पुनरेकादश इत्याह- ॥ बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥ २६ ॥ ॥ 'बुद्धीन्द्रियाणि' इत्यादि । द्विविधमिन्द्रियम् । तत्र चक्षुर्येन दृश्यते । श्रोत्रं येन श्रूयते । त्वग्यया स्पृश्यते । रसनं येन रस्यते । नासिका यया घ्रायते । ता आख्या येषामिन्द्रियाणामिति शब्दप्रधानो निर्देशः । तानि चक्षुःश्रोत्रत्वग्रसनानासिकाख्यानि पञ्च । बुद्धिपूर्वकपर्यालोचनमिति बुद्धीन्द्रियाण्याहुः सांख्याचार्याः । शब्दवशादत्राक्रमः कृतः । क्रमस्तु श्रोत्रत्वक्चक्षुरिति ॥ 'वाक्पाणिपादपायूपस्थान्' इति । कर्मेन्द्रियाणि कर्माभिनिर्वर्तनात् । अस्मादेव प्रयोगादुपस्थशब्दः पुंलिङ्गोऽप्यस्तीति ज्ञायते । स च स्त्रैणः पौरुषेयश्च । तत्र वागिन्द्रियं कण्ठस्थम् । अन्यानि प्रसिद्धान्येव ॥ २६॥ कारिका २७ एकादशकमिन्द्रियं दर्शयन्नाह- ॥ उभयात्मकमत्र मनः, सङ्कल्पकमिन्द्रियं च साधर्म्यात् । गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥ ॥ 'उभयात्मकमत्र मनः' इत्यादि । अत्रेत्यस्मिन्निन्द्रियवशे मन उभयात्मकमुभयस्वभावम् । बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च स्वस्वविषयग्रहणकाले बुद्धीन्द्रियं कर्मेन्द्रियं चेत्यर्थः । उभयत्राप्यस्य व्यापारादिति लक्षणं तदित्याह- सङ्कल्पयतीति सङ्कल्पकम्, इदं नेदमिति ॥ कथमिन्द्रियमित्याह- 'इन्द्रियं च साधर्म्यात्' इत्यादि । इन्द्रियैस्तुल्यत्वादित्यर्थः । यथान्यदिन्द्रलिङ्गं तथा मनोऽपीत्यर्थः ॥ तत्रैकस्मादहङ्कारादुत्पन्नानां कथं स्वरूपभेदः ? । यच्छ्रोत्रादिबुद्धीन्द्रियम्, तत् प्रतिनियतविषयं नेतरविषयमपि । यद्यागादि कर्मेन्द्रियं तत् प्रतिनियतकर्म, नेतरकर्मापि । मनश्चोभयात्मकम्, नैकात्मकमित्याह- 'गुणपरिणामविशेषान्नानात्वम्' इति । अहङ्कारस्था ये गुणाः सत्त्वादयस्तेषामन्योऽन्याभिभवाश्रया (द्विद्वारेण यः परिणामविशेषस्तत एवैषां नानात्वम् । त एव हि गुणाः परि)णामविशिष्टा इन्द्रियव्यपदेशभाजो नानाविषया भवन्ति । कथं देशनियमो वृत्तिनियमश्च ? तत्र त्वगिन्द्रियं सर्वशरीरस्थितबाह्याभ्यन्तरवृत्ति, चक्षुःश्रोत्रघ्राणरसनानि शिरसि बहिः पृथक् पृथगवस्थितानि बाह्यवृत्तीनि । वागास्ये स्थिता । पाण्यादयश्च बाहोरधस्तात् पृथक् पृथगवस्थिता बहिःकर्मविषयाः ॥ इत्यताह- 'बाह्यभेदाश्च' इति । ये चान्ये विषयभेदा देशनियमवृतिनियमाभ्यां तेऽपि गुणपरिणामविशेषादेव । नात्रान्तरा कारणमस्ति ॥ २७॥ कारिका २८ एषामिन्द्रियाणां कस्य का वृत्तिरित्याह- ॥ शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥ ॥ 'शब्दादिषु' इत्यादि । आदिशब्देन शब्दस्पर्शरूपरसगन्धाः । तेषु यथाक्रमं पञ्चानां श्रोत्रादीनां बुद्धीन्द्रियाणामालोचनमात्रं वृत्तिरिष्यते सांख्याचार्यैः । श्रोत्रादीनि हि विषयस्य प्रकाशनमात्रं कुर्वन्ति, निश्चयं तु बुद्धिः । तथा हि बुद्ध्यवसितमर्थं पुरुषः चेतयत इति सिद्धान्तः । कर्मेन्द्रियाणामपि वागादीनां यथाक्रमं वसनादानादीनि वृत्तयः कर्माणि । तत्र वागिन्द्रियस्य नानाविधवर्णोच्चारणं कर्म, आदेयस्यादानं पाण्योः, विहरणं देशान्तरगमनं पादयोः, उत्सर्ग आहारमलस्योत्सर्जनं पायोः, आनन्दनमानदो ह्लादः शुक्रविसृष्टिसंसृष्टिसुखं तदुपस्थेन्द्रियवृत्तिः ॥ २८॥ कारिका २९ बुद्ध्यहङ्कारमनसां का वृत्तिरित्याह- ॥ स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । सामान्यकरणवृतिः प्राणाद्या वायवः पञ्च ॥ २९ ॥ ॥ 'स्वालक्षण्यं वृत्तिः' इत्यादि । स्वात्मीयं लक्षणं यस्य तत् स्वलक्षणम् । तस्य भावः स्वालक्षण्यम् । तदेव वृत्तिः ॥ 'त्रयस्य' इति । बुद्ध्यहङ्कारमनसामित्यर्थः । अध्यवसायो बुद्धेः, अभिमानोऽहङ्कारस्य, सङ्कल्पो मनसः । त एवाध्यवसायाभिमानसङ्कल्पास्त्रयस्य वृत्तिः । एषां च बुद्ध्यादीनां त्रयोदशानां चतुर्विधा वृत्तिः, असामान्यायुगपत्क्रमश्चेति (?)॥ तत्र सामान्यां दर्शयितुमाह- 'सैषा' इति । येयमुक्ता वृत्तिः सैषा भवत्यसामान्या । या यस्य सा तस्यैव नान्येषामपीत्यर्थः । श्रोत्रस्य यच्छब्दप्रकाशनं तच्छ्रोत्रस्यैव, नान्येषां त्वगादीनां द्वादशानाम् । एवं सर्वत्र योज्यम् ॥ सामान्यामाह- 'सामान्यकरणवृत्तिः' इति सामान्या चासौ करणवृत्तिश्चेति सामान्यकरणवृत्तिः ॥ 'प्राणाद्या वायवः पञ्च' इति । प्राणा आद्या येषां वायूनां ते प्राणाद्याः । प्राणापानव्यानोदानसमाना इति पञ्च वायवः । तत्र प्राणो यो मुखनासिकाभ्यां निर्गच्छति । यो नाभेरधः स्थितः सोऽपानः । येन कायेऽग्निर्दीपित आहारं च पचति स समानः । यो नाभिदेशादुद्यतशिरोगतिर्नादं जनयति स उदानः । यः सर्वशरीरं व्याप्य स्थितं स व्यानः । एते त्रयोदशानामपि करणानां सामान्यवृत्तिः ॥ २९॥ कारिका ३० करणप्रभाविकत्वाद्वायूनां युगपत्क्रमशो वृत्तिमाह- ॥ युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च निर्दिष्टा । दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥ ॥ 'युगपत्' इत्यादि । 'चतुष्टयस्य तु' इति । तुशब्दो विशेषणार्थः । बुद्धिरहङ्कारो मनश्चक्षुरित्येतस्य चतुष्टयस्यैकस्मिन् रूपे युगपद्वृत्तिः । यथान्धकारे विद्युत्सम्पाते कृष्णसर्पसन्दर्शने युगपदालोचनाध्यवसायाभिमानसङ्कल्पनानि भवन्ति । तथा हि चक्षुषालोचितं बुद्ध्याध्यवसितमहङ्कारेणात्मीकृतं मनसा सङ्कल्पितमिति ॥ 'क्रमशश्च तस्य' इति । चतुष्टस्यस्य क्रमेण कदाचिद्वृत्तिरिष्टा । मन्दप्रकाशे स्थाणुपुरुषोचितामूर्ध्वतां दृष्टवतः किं स्थाणुः पुरुष इति विकल्पः । तत्राकुञ्चपनप्रसारणात् पुरुष इत्यध्यवसायः । तत आत्मीकरणादभिमान इति ॥ येय(मुभय)थावृत्तिः सा कस्मिन् विषय इत्याह - 'दृष्टे' इति । अदृष्टे तर्ह नास्तीत्याह - 'तथाप्यदृष्टे' इति । तथा ॥।ष्टे दृष्टेऽपि वृत्तिः ॥ किन्तु न चतुष्टयस्य तर्हीत्याह- 'त्रयस्य' इति । बुद्ध्यहङ्कारमनसामित्यर्थः । तत्रापि तत्पूर्विका श्रोत्रादिपूर्विकेत्यर्थः । यथा स्मर्तव्यमनुस्मरतः सङ्कल्पाभिमानाध्यवसाया भवन्ति ॥ ३०॥ कारिका ३१ अथ यदेतच्चतुष्टयं तत्किं युगपत् परस्परसव्यपेक्षं स्वां स्वां वृतिं प्रतिपद्यते किं वा निरपेक्षमित्याह- ॥ स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहैतुकीं वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥ ॥ 'स्वां स्वाम्' इत्यादि । आत्मीयात्मीयां वृत्तिम् ॥ 'परस्पराकूतहैतुकीम्' इति । परस्परस्य यदाकूतं स्ववृत्तिभोगस्तदेव हेतुः । तत्र भूतां परस्पराकूतहैतुकीं वृत्तिं चत्वारि करणानि प्रतिपद्यन्ते । तत्र चक्षुर्बुद्ध्यादित्रयस्याकूतं ज्ञात्वा प्रकाशनं प्रतिपद्यते । एवं बुद्धिरहङ्कारो मनश्च त्रयाणामाकूतं ज्ञात्वाऽध्यवसायमभिमानं सङ्कल्पनं च प्रतिपद्यन्ते । क्रमशश्च परस्पराकूतहैतुकीम् । किन्तु पूर्वपूर्वहैतुकी द्रष्टव्या । यथा कस्यचिदुपनिमन्त्रणं श्रुतवतः श्रोत्रवृत्तिं ज्ञात्वा, बुद्धिर्गमनायाध्यवसिता । तद्वृत्तिं ज्ञात्वाऽहङ्कारो मोदकानहं भक्षयिष्यामीति मन्यते । तद्वृत्तिं ज्ञात्वा मनः, प्रचुरं घृतं प्रापयिष्यामीति किं स्तोकमिति, सङ्कल्पयतीति । एवं बाह्यान्यपि करणानि स्वां स्वां वृत्तिं परस्पराकूतहैतुकीं प्रतिपद्यन्ते ॥ एतानि किमात्मार्थं स्वां स्वां वृत्तिं प्रतिपद्यन्ते, किमन्यार्थमित्याह- 'पुरुषार्थ एव हेतुः' इति । पुरुषस्यार्थो विषयोपभोगः कैवल्यं च, स वृत्तिहेतुः ॥ नन्वीश्वरः कर्ता जगतः, स एव बुद्ध्यादिकलापं सृष्टवान् येन पुरुषस्यार्थः सम्पद्यते । तथा चोक्तम्- 'ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा' । इति तत्राह - 'न केनचित्कार्यते करणम्' इति । प्रधानव्यतिरेकेण न कश्चिद्बुद्ध्यादिकरणं स्वां स्वां वृत्तिं कारयतीत्यर्थः । यदि कर्ता स्यात्, किमिति प्रकृतिमपेक्षते । नापि सेश्वरवादिना प्रकृतिरभ्युपगतैव, निश्चेतनत्वात् प्रकृतेः सचेतनोऽधिष्ठाता कर्ताऽपरो गवेष्यत इति चेत्, पुरुष एवाधिष्ठाता । अचेतना प्रकृतिः । एतदुक्तमेव प्राक् ॥ ३१॥ कारिका ३२ कतिविधमन्तःकरणमित्याह- ॥ करणं त्रयोदशविधम्, तदाहरणधारणप्रकाशकरम् । कार्यं च तस्य दशधा, हार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥ ॥ 'करणं त्रयोदशविधम्' इत्यादि । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, बुद्ध्यहङ्कारमनांसि च त्रीणि । एतत् त्रयोदशविधम् । करणं करोतीति । 'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट् ॥ तत्र कस्य का क्रिया यदपेक्षया करणमित्याह- 'तदाहरणधारणप्रकाशकरम्' । इति तत्करणमाहरणादीनि करोतीति । तत्र कर्मेन्द्रियाण्याहरणं कुर्वन्ति, बुद्ध्यहङ्कारमनांसि धारणम्, बुद्धीन्द्रियाणि प्रकाशमिति ॥ किं तत्कार्यं यस्याहरणं कुर्वन्तीत्याह- 'कार्यम्' इति । तस्य करणस्य दशविधं कार्यम् । तत्र शब्दस्पर्शरूपरसगन्धाः पञ्च वचनादानविहरणोत्सर्गानन्दाः पञ्चेति दशधा । पूर्वे द्विविधाः- सूक्ष्मास्तन्मात्रलक्षणाः सुखैकस्वभावत्वाद्दिव्याः, स्थूला आकाशादयः सुखदुःखमोहत्मकत्वाददिव्या इति । एतत्कार्यं बुद्धीन्द्रियाणां प्रकाश्यम् । वागादीनामुक्त्यादानादिकर्मकर्तृत्वात् कार्यम् (?) । तत्र वाचा शब्दस्य, पाणिभ्यामादेयस्याह्रियमाणत्वादुभयमप्याहार्यम् ॥ विहार्यं विहरणस्थानम्, पूर्वावयवन्यासेनोत्तरावयवाक्रमणेन च पादाभ्यामाह्रियमाणत्वादाहार्यम् । अन्यथा कथमुत्सर्गानन्दौ स्याताम् । उभयमपि कर्मेन्द्रियाविषयम् । बुद्ध्यहङ्कारमनसां धार्यम्, तैरन्तः स्ववृत्त्यावधार्यमाणत्वात् ॥ ३२॥ कारिका ३३ तदेव त्रयोदशविधं करणं बाह्यान्तरभेदाद्द्विविधमिति दर्शयन्नाह- ॥ अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥ ॥ 'अन्तःकरणम्' इत्यादि । करणं द्विविधम्- बाह्यमाभ्यन्तरं च । तत्र शरीरस्यान्तःस्थितत्वादन्तःकरणं त्रिविधम्- बुद्धिरहङ्कारोमनश्चेति ॥ 'दशधा बाह्यम्' इति । दशप्रकारम् । पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्दियाणि । तद्बुद्धिर्भवति ॥ तद्बाह्यं 'त्रयस्य विषयाख्यम्' इति । त्र्यवयवस्यान्तःकरणस्य बाह्यं विषय इत्याख्यायते, तद्द्वारेण विषयावगाहनात् । तेनान्तःकरणस्य द्विविधो विषयः- द्वारं भोग्यं चेति । चतुष्टयस्य दृष्टेर्वर्तमाने त्रयस्यादृष्टे वृत्तिरुक्ता ॥ तत्रातीतानागतयोरपि विषययोः किं वृत्तिरस्ति, नेत्याह- 'साम्प्रतकालं बाह्यम्' इति । कल्यत इति कालः विषय एवातीतोऽनागतो वर्तमानोश्चोच्यते । न तद्व्यतिरेकेण कालोऽस्ति । मा भूत् षड्विंशतितत्त्वप्रसङ्ग इति । तत्र साम्प्रतो वर्तमानः कालो यस्य बाह्यस्य तद्धि बाह्यम् । श्रोत्रादि वर्तमानमेव शब्दादिकं प्रकाशयति, नातीतानागते । वागादि च वर्तमानमेवोक्त्यादानविहरणोत्सर्गानन्दान् करोति, नातीतानागतान् ॥ 'त्रिकालमाभ्यन्तरम्' इति । त्रयः काला यस्य तत् त्रिकालम् । यथा बुद्धिर्वर्तमानमध्यवस्यति । तथातीतानागतावपि । मान्धातासीत् कल्की राजा भविष्यतीति । यथाहङ्कारो वर्तमानमभिमन्यते तथातीतानागतावपि । ममैवमासीत्, ममैवं भविष्यतीति । यथा च मनो वर्तमानं सङ्कल्पयतीति तथातीतानागतावपि । तत्र किमिदं भूतं स्यात्, न ममेति । किमिदं भविष्यति, नेतीति ॥ ३३॥ कारिका ३४ ननु च यदि स्थूलाः पृथिव्यादयस्ते विशेषाः । बाह्यं बाह्यकरणं स्वविषयं प्रतिपद्यते । पृथिव्यादयस्तर्हि भेदेन प्रतिपत्तव्या इत्याह- ॥ बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयीणि । वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयीणि ॥ ३४ ॥ ॥ 'बुद्धीन्द्रियाणि' इत्यादि । तेषामपि त्रयोदशानां करणानां यानि पञ्च बुद्धीन्द्रियाणि, तानि विशेषाविशेषविषयीणि । शब्दादयः पञ्च विषया द्विविधाः - विशेषा अविशेषाश्च । तत्र ये सूक्ष्मास्तन्मात्रलक्षणास्तेऽविशेषाः । ये स्थूलाः पृथिव्यादयस्ते विशेषाः । विशेषाश्चाविशेषाश्चेति द्वंद्वः । त एव विषया विद्यन्ते येषामिति मत्वर्थोपः । विशिष्टानविशिष्टांश्च विषयान् गृह्यन्तीत्यर्थः । तत्र श्रोत्रं स्थूलान् नानाशब्दानविकलान् गृह्णाति, शब्दतन्मात्रं च । नासिका स्थूलान् सुरभ्यादिगन्धान्, तन्मात्रं च गृह्णातीति ॥ 'वाग्भवति' । केवलः शब्दो विषयो यस्याः, न विषयान्तरमित्यर्थः ॥ शेषाणि पाण्यादीनि चत्वारि, पञ्च विषयीणि । पञ्च विषया एषामिति । तत्र पाणिः शब्दस्पर्शरूपरसवन्तं घटादिकमादत्ते । पादौ शब्दादिमत्यां भूमौ विहरतः । पायुरुपस्थश्च शब्दादिमदेव मलं शुक्रं च विसृजति । अनेन द्वारेण तु सर्वं बाह्यं करणं पञ्चविषयमेव द्रष्टव्यम् । यं हि यदेवमाश्रित्य (?) स्फीतं तस्य शब्दस्पर्शरूपरसगन्धवत्त्वात्, 'बाह्यं त्रयस्य विषयाख्यम्' इत्युक्तम् ॥ ३४॥ कारिका ३५ तत्कथं तस्य विषय इत्याह- ॥ सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि ॥ ३५ ॥ ॥ 'सान्तःकरणा' इत्यादि । बुद्धेरुपात्तत्वाच्छेषमहङ्कारो मनश्चान्तःकरणम् । ताभ्यां युक्ता बुद्धिः ॥ 'सर्वम्' इति । त्रिष्वपि कालेषु व्यवस्थितं विषयमवगाहते गृह्णाति यस्मात् , तस्मात् त्रिविधमन्तःकरणं बुद्ध्यादि द्वारि भवति । द्वाराण्यस्य सन्तीति कृत्वा । शेषाणि तु बुद्धीयकर्मेन्द्रियाणि (?) द्वाराणि । एभिर्द्वारभूतैरन्तःकरणं विषयान् गृह्णाति ॥ ३५॥ कारिका ३६ ननु च यद्यन्तःकरणं बाह्यकरणद्वारेण सर्वं विषयमवगाहते, तस्मिन् किं लक्षणमित्याह- ॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥ ॥ 'एते' इत्यादि । श्रोत्रादयो वागादयो बुद्ध्यादयश्चेत्येते त्रयोदश गुणविशेषाः, त्रय एव गुणा अन्योऽन्याभिभवद्वारेण परिणताः श्रोत्रादिव्यपदेशभाज इत्यर्थः । प्रदीपकल्पाः, स्ववृत्त्या विषयस्य प्रकाशकत्वात् । परस्परविलक्षणाः । एकस्य या वृत्तिः स्वरूपं च, न तदितरेषामपि यदि स्यादेतेनैव विषयावगाहनं सिद्धं किमन्येन ॥ 'कृत्स्नम्' इति । त्रैलोक्यगतं पुरुषस्यार्थं सूक्ष्मस्थूलविषयलक्षणं प्रकाश्याभिव्यक्तिं नीत्वा पश्चादहङ्कारादयो द्वादश बुद्धौ प्रयच्छन्ति, स्थापयन्तीत्यर्थः । अवगाहनफलमेतत् । तस्यां च विषयोपधानोपरक्त्यां बुद्धौ पुरुष उपलभते । तत्रेदमुच्यते - बुद्ध्याध्यवसितमर्थं पुरुष ॥।त इति ॥ ३६॥ कारिका ३७ ननु च तुल्ये करणत्वे किमित्यहङ्कारादयो बुद्धौ प्रयच्छन्ति । प्राधान्यात्तदेव दर्शयन्नाह - ॥ सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥ ॥ 'सर्वम्' इत्यादि । उपभोगमुपभोगं प्रति प्रत्युपभोगम् । देवमनुष्यतिर्यग्योनिशु यो विषयस्योपभोगस्तं प्रति सर्वं त्रैलोक्यगतविषयं पुरुषस्य साधयति, सम्पादयति । यस्माद्बुद्धिः प्रधानभूता सती नान्यः कश्चित्, तस्मात् तानि करणानि बुद्धौ प्रयच्छन्ति । (यथा ग्रामे हिरण्यादिप्रत्ययं कुटुम्बिनः प्रधानाय प्रयच्छन्ति) । प्रधानोऽप्यासन्नवर्त्तित्वाद्भोगपतय इति ॥ 'सैव च विशिनष्टि' इति । यदा तमस्वती बुद्धिर्भवति तदा सर्वमुपनीतं सम्पादयति । यदा सत्त्वाधिका बुद्धिर्भवति, तदा ज्ञानसङ्गता प्रधानपुरुषान्तरं विशिनष्टि । प्रधानपुरुषयोर्विभागं करोतीत्यर्थः । अन्यत् प्रधानमन्यः पुरुष इति ॥ 'सूक्ष्मम्' । सांसारिकज्ञानस्याविषयत्वात् ॥ ३७॥ कारिका ३८ विशेषाविशेषविषयिणीत्युक्तम्, तत्र के विशेषाः केऽविशेषाश्चेत्यत्राह- ॥ तन्मात्राण्यविशेषाः, तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः, शान्ता घोराश्च मूढाश्च ॥ ३८ ॥ ॥ 'तन्मात्राणि' इत्यादि । सूक्ष्मविषयास्तन्मात्राणीत्युच्यन्ते । तैर्न कश्चिद्विशिष्यत इत्यविशेषाः । यथा सूक्ष्मतृणाग्रावस्थितं तेजो न लक्ष्यते, न च किञ्चित् प्रकाशयति, तद्वत् तेऽप्यविशेषाः ॥ 'तेभ्यो भूतानि पञ्च पञ्चभ्यः' इति । तन्मात्रेभ्यः पञ्च महाभूतान्युत्पद्यन्ते ॥ 'एते स्मृता विशेषाः' इति । शब्दतन्मात्रादेकगुणमाकाशमुत्पद्यते । एवं स्पर्शादितन्मात्राद् द्वित्रिचतुःपञ्चगुणा वाय्वादय उत्पद्यन्ते । तैश्च तन्मात्राणि । विशिष्यन्त इति विशेषाः ॥ ते च किंस्वरूपा इत्याह- 'शान्ता घोराश्च मूढाश्च' इति । शान्ताः सुखप्रदाह घोरा दुःखप्रदाः, मूढा मोहप्रदा इति ॥ ३८॥ कारिका ३९ किमेतावन्त एव विषेषा उतान्येऽपीत्याह- ॥ सूक्ष्मा मातापितृजाः, सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता, मातापितृजा निवर्तन्ते ॥ ३९ ॥ ॥ 'सूक्ष्माः' इत्यादि । ये सूक्ष्मास्तन्मात्रलक्षणाः संसारिणः शरीरस्याश्रयतां गतास्तेऽपि विशेषाः, सूक्ष्मशरीरस्यारब्धत्वात् ॥ 'मातापितृजाः' इति । मातापितृजाः षट् । तत्र मातृतो लोमलोहितमांसानि पितृतः स्नाय्वस्थिमज्जानः । तेऽपि विशेषाः, तैः स्थूलशरीरस्य षट्कोशिकस्यारब्धत्वात् । एते द्विविधा विशेषा आध्यात्मिकाः ॥ 'सहप्रभूतैः' इति । यानि महाभूतानि बाह्यानि शान्तघोरमूढान्युक्तानि तानि स्थूलशरीरस्यावकाशव्यूहनपत्तिक्लेदनधारणकर्तृत्वेन प्रकृष्टभूतान्युच्य्न्ते । तैः सह त्रयो विशेषाः ॥ 'सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते' इति । सूक्ष्मशरीरनियतं ज्ञानप्राप्तेः प्राक्, तस्य सांसरिकत्वात् । स्थूलशरीरनियतं तु निवर्तते, तस्य प्रतिमरणं पतितस्य रसभस्मनिष्ठान्तत्वात् ॥ ३९॥ कारिका ४० यदेतत् सूक्ष्मशरीरं तत्कथमुत्पन्नमित्याह- ॥ पूर्वोत्पन्नमसक्तं नियतम्महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥ ॥ 'पूर्वोत्पन्नम्' इत्यादि । प्रधानेनादिसर्गे प्रतिपुरुषमुत्पादितत्वात् पूर्वोत्पन्नम् । असक्तमप्याह । तन्न क्वचिद्विहन्यते, पर्वतमपि भित्त्वा गच्छति ॥ 'नियतम्' । नित्यम्, ज्ञानोत्पत्तेः प्रागित्यर्थः ॥ किंपरिमाणमिदमित्याह- 'महदादिसूक्ष्मपर्यन्तम्' इति । बुद्धिरादिर्यस्य तत्, महदादिसूक्ष्मविषयास्तन्मात्रलक्षणाः पर्यन्तं यस्य तत् सूक्ष्मपर्यन्तम् । बुद्धिरहङ्कार एकादशेन्द्रियाणि पञ्च तन्मात्राणीत्येतत्परिमाणमित्यर्थः ॥ 'संसरति' । त्रिषु लोकेषु ॥ 'निरुपभोगम्' इति । बाह्येन स्थूलशरीरेण विकलत्वाद्विषयभोगसमर्थं न भवतीत्यर्थः ॥ 'भावैरधिवासितम्' इति । धर्मादिभिरुपरक्तमित्यर्थः ॥ 'लिङ्गम्' इतु । प्रलयकाले लयं गच्छतीति कृत्वा ॥ ४०॥ कारिका ४१ ननु करणमात्रमेव संसरति, किं सूक्ष्मशरीरेणेत्याह- ॥ चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया । तद्वद्विनाऽविशेषैर्न तिष्ठति निराश्रयं लिङ्गम् ॥ ४१ ॥ ॥ 'चित्रम्' इत्यादि । यथा कुड्यादिकमाश्रयमृते चित्रं न तिष्ठति ॥ 'स्थाण्वादिभ्यः' इति । आदिशब्देन वृक्षस्तम्बादयः । 'पृथग्विनानानाभिस्तृतीयान्यतरस्याम्' इति पञ्चम्यपि भवति । तैर्विना यथा च्छाया स्निग्धा परुषा वा न तिष्ठति ॥ 'तद्वद्विनाऽविशेषैर्न तिष्ठति निराश्रयं लिङ्गम्' इति । अविशेषास्तन्मात्राणि । लिङ्गं त्रयोदशविधं करणमिह गृह्यते । न तिष्ठति निराश्रयत्वात् । (तैर्हि सूक्ष्मशरीरमारब्धम्, तदभावात्तदपि नास्तीति निराश्रयत्वात्) । न संसरति । न च निराधारेण करणेन पुरुषस्य संयोगः सम्भवति । पुरुषोऽपि निष्क्रियत्वान्न संसरति ॥ ४१॥ कारिका ४२ तदेव सूक्ष्मशरीरं किमर्थं संसरतीत्याह- ॥ पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥ ॥ 'पुरुषार्थहेतुकम्' इत्यादि । पुरुषार्थो द्विविध उक्तः । स हेतुर्यस्येति । समासान्तः कप् ॥ 'इदम्' इति । महदादि सूक्ष्मपर्यन्तं लिङ्गमुक्तम्, तन्नटवदवतिष्ठते । यथैक एव नटस्तं तं विशेषमास्थाय यवनिकान्तो निर्गत्य राजामात्यविदुषकादिभावेनानुविद्धोऽवतिष्ठते, तथा लिङ्गमपि तं तं देहमास्थाय देवमनुष्यतिर्यग्भावेन व्यवतिष्ठते ॥ तदेव कथं भवतीत्याह- 'निमित्तनैमित्तिकप्रसङ्गेन' इति । निमित्तं धर्माधर्मादि, नैमित्तिकमूर्ध्वाधोगमनादि । वक्ष्यति च । तयोः प्रसङ्गेनेति ॥ किमेतत्सर्वमीश्वरात् किं वा स्वभावादित्यत्राह- 'प्रकृतेः विभुत्वयोगात्' इति । प्रकृतिः प्रधानम्, तस्या विभुत्वं जगत्कर्तृत्वम् । तद्योगात् नटवद्व्यवतिष्ठते । प्रधानेनैव हि पुरुषस्यार्थः कर्तव्य इति महदादिसूक्ष्मपर्यन्तं लिङ्गमुत्पाद्य धर्मादिभिरधिवासयति । तदधिवासितं च नटवत् व्यवतिष्ठते । नेश्वरान्न स्वभावादिति भावैरधिवासितमित्युक्तम् ॥ ४२॥ कारिका ४३ ते पुनः कियन्तः किमाश्रिता इत्याह- ॥ सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । दृष्टा करणाश्रयिणः कार्याश्रयिणः कललाद्याः ॥ ४३ ॥ ॥ 'सांसिद्धिकाश्च' इत्यादि । ये प्राकृतस्वभावास्ते सांसिद्धिका उच्यन्ते । ते च कपिलस्यैव महामुनेर्नान्यस्य । तस्य ह्युत्पद्यमानस्यैवादिसर्गे सहोत्पन्ना धर्मज्ञानवैराग्यैश्वर्यसंज्ञकाश्चत्वारो भावाः । ये त्वादिसर्गादुत्तरकालमुत्पन्नकार्यकारणानामस्मद्विधानां प्रयत्नपूर्वका उत्पद्यन्ते, ते वैकृताः ॥ ते च द्विविधाः । यदाह- 'धर्माद्या दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः' इति । धर्मादयश्चत्वारः, विपरीताश्चाधर्मादयश्चत्वार इत्यष्टौ । एते त्रयोदशविधं करणमाश्रित्य प्रवर्तन्ते । कार्यं पञ्च, कुक्षिस्थस्यास्य निच्छुरितस्य तु कौमारयौवनवार्द्धकानि त्रयः, इत्यष्टौ भावाः । तत्र वैकृते धर्मादिभिरधिवासितं संसरतीति ज्ञेयम् ॥ ४३॥ कारिका ४४ निमित्तनैमित्तिकप्रसङ्गेनेत्युक्तम् । तदुभयमपि दर्शयितुमाह- ॥ धर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः ॥ ४४ ॥ ॥ 'धर्मेण' इत्यादि । धर्मादिनिमित्तमूर्ध्वगमनादि नैमित्तिकम् । तत्र धर्मेण यमनियमलक्षणेन गमनमूर्ध्वमिति, सूक्ष्मशरीरस्य देवादिव्यवस्थितिरित्यर्थः ॥ 'गमनमधस्ताद्भवयधर्मेण' इति । तिर्यग्योनिषु स्थितिः । मिश्रान्मनुष्यलोके स्थितिरित्यर्थोक्तम् ॥ 'ज्ञानेन चापवर्गः' इति । प्रधानपुरुषान्तरज्ञानाख्येन ज्ञानेन लिङ्गं निवर्तते । ततः केवलः पुरुषो भवति ॥ 'विपर्ययादिष्यते बन्धः' इति । ज्ञानविपर्ययादज्ञानात् संसारचक्रबन्धः, पुनः पुनरावर्तनम् । स च त्रिप्रकारः - प्रकृतिबन्धः, दक्षिणाबन्धः, विकारबन्धश्चेति । येषां प्रकृतिरेव परतत्त्वं नान्यत्, तेषां प्रकृतिवादिनां प्राकृतिको बन्धः । येषामिष्टापूर्तभाविन एव दिव्यादिव्यमानुषभोगाः पुरुषार्थ इति, तेषां कर्मवादिनां दक्षिणाबन्धः । इष्टापूर्तं दक्षिणेति । तथा चोक्तम्- अग्निहोत्रं तपः सत्यं देवानां परिपालनम् । अतिथिर्वैश्वदेवं च इष्टमित्यभिधीयते ॥ पुष्करिण्यः सभा वाप्यो देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ येषां विकार एवैश्वर्यलक्षणः पुरुषार्थ इति, तेषां विकारत्ववादिनां वैकारिको बन्धः ॥ ४४॥ कारिका ४५ ॥ वैराग्यात् प्रकृतिलयः, संसारो भवति राजसाद्रागात् । ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥ ४५ ॥ ॥ 'वैराग्यात्᳚ इत्यादि । यो विषयादिदर्शनाद्विरक्तो यमनियमपरिस्थितो न ज्ञानं पर्येषते, तस्य मृतस्य वैराग्यादष्टास्यु प्रकृतिषु प्रधानादितन्मात्रपर्यन्तासु लयः, स्थूलशरीरेण विषयोपभोगनिमित्तेन योगः । तल्लीनश्चात्मानं मुक्तमिव मन्यते न तु मुक्तम्, सर्गकाले पुनः संसरणात् । यदा तु ज्ञानं पर्येष्यते तदा मुच्यत एव । तथा चोक्तम्- ज्ञानादथ विरागाच्च तथा कृत्स्नस्य संक्षयात् । इत्येवं जायते मोक्षो मुक्त आत्मस्थ उच्यते ॥ इति ॥ 'संसारो भवति राजसाद्रागात्' इति । वैराग्यविषयोऽशुभविषयाभिष्वङ्गो राजसो रागः, तस्य शुभाशुभकर्माक्षेपकत्वात् । तस्माद्देवादिष्वयं जनाद्यजिभावेन (?) संसरति ॥ 'ऐश्वर्यादविघातः' इति । अनैश्वर्यात्तद्विपर्यास इति । अविघातविपर्यासो विघातः, प्रार्थितानामप्राप्तिरित्यर्थह । मुक्तिस्तु दुरोत्सारितैव ॥ ४५॥ कारिका ४६ एषामष्टानां बुद्धिरूपाणामेकेन मोक्षः सप्तभिर्बन्धः संसार इति यदेतन्निमित्तनैमित्तिकं षोडशमुक्तं तत्संक्षेपेण चतुर्विधमाह - ॥ एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् ॥ ४६ ॥ ॥ 'एषः' इत्यादि । प्रत्ययशब्देन बुद्धिरुच्यते । तस्य सर्गो यः षोडशविध उक्तः, एष विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । विपर्ययादीनामाख्या यस्य प्रत्ययसर्गस्य स तथोक्तः । तत्र विपर्ययमज्ञानम्, अशक्तिर्ज्ञानाधिगमासामर्थ्यं सत्यामप्यधिजिगांसायाम्, तुष्टिर्मोक्षोपायेषु वैमुख्यम्, सिद्धिर्ज्ञानप्राप्तिः ॥ तस्य चतुविधस्य पुनः पञ्चाशत् भेदा भवन्ति । केन प्रकारेणेत्याह- 'गुणवैषम्यविमर्देन' इत्यादि । सत्त्वरजस्तमसामन्योऽन्याभिभवद्वारेण वैषम्यं विषमभावः, एकस्य द्वयोर्वाधिक्येऽन्यस्यानाधिक्यम् । एकद्वित्रियोगेन षड्विधं वैषम्यम् । तेन द्वयोर्विमर्दः परस्परक्षोभः । तेन हेतुना भवतीत्यर्थः ॥ ४६॥ कारिका ४७ तान् भेदान् दर्शयन्नाह- ॥ पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधासिद्धिः ॥ ४७ ॥ ॥ 'पञ्च विपर्ययभेदाः' इत्यादि । अज्ञानाख्यस्य सर्गस्य भेदाः पञ्च- तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रश्चेति । अत एव सांख्यप्रवचने क्लेशा उच्यन्ते । 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः' इति । तत्राविद्याक्षेत्रमुत्तरेषाम् ॥ 'अशक्तिश्च' इति । अशक्त्याख्यः सर्गः ॥ 'करणवैकल्यात्' इति । करणं बाह्यमाभ्यन्तरं च । तयोर्वैकल्यादष्टाविंशतिभेदा यस्याः अशक्तेः सा भवतीति विभक्तिपरिणामेन योज्यम् । करणवैकल्यं च गुणवैषम्यविमर्देन भवति ॥ 'तुष्टिर्नवधाऽष्टधा सिद्धिः' । इति तुष्टिसर्गो नवप्रकारः, सिद्धिसर्गोऽष्टप्रकारो भवतीत्यर्थः । एतैः समुदायेन पञ्चाशद्भेदा इति ॥ ४७॥ कारिका ४८ तानवान्तरभेदसहितान् दर्शयन्नाह- < भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोहः । तामिस्रोऽष्टादशधा, तथा भवत्यन्धतामिस्रः ॥ ४८ ॥ ॥ 'भेदस्तमसः' इत्यादि । तम इत्यविद्योच्यते । सा चोत्तरेषां प्रसवभूमिः । सा च प्रकृतिः । तत्त्ववेदिनां सत्यपि वैराग्ये नापवर्ग इति, ज्ञानस्याभावात् । ततश्च तेषामष्टास्वेव प्रकृतिषु लयो भवतीति अष्टविधा अविद्या, विषयस्याष्टविधत्वात् ॥ मोहस्य चेतिशब्देनाष्टविधो भेद इत्यनुवर्तते । मोह इत्यस्मितोच्यते । देवा अपि विनाशिनोऽपि, अष्टगुणमैश्वर्यमाश्रिता आत्मानमविनाशिनं मन्यन्ते । ततश्च तेषामष्टविधो मोहः, ऐश्वर्यस्याष्टविधत्वात् ॥ 'दशविधो महामोहः' इति सुखानुशयो रागो महामोह इत्युच्यते । स च दिव्यादिव्यविषयेषु वर्तमानो दशविधो भवति । तत्र सूक्ष्मास्तन्मात्रलक्षणाः पञ्च, सुखैकस्वभावत्वाद्द्विव्याः । स्थूलाः पृथिव्यादयः पञ्च, सुखदुःखमोहात्मकत्वाददिव्याः ॥ 'तामिस्रोऽष्टादशधा' इति । दुःखानुशयो द्वेषस्तामिस्र इत्युच्यते । स चाष्टगुणैश्वर्ये दशविधे च विषये प्रतिभवतीत्यष्टादशविधः ॥ 'तथा भवत्यन्धतामिस्रः' इति । यथा तामिस्रोऽष्टादशधा तथाऽयमपीत्यर्थः । मरणत्रासोऽन्धतामिस्र उच्यते । स चाष्टगुणैश्वर्ये दशविधे च विषये प्रतिभवतीत्यष्टादशविधः ॥ 'तथा भवत्यन्धतामिस्रः' इति । यथा तामिस्रोऽष्टादशधा तथाऽयमपीत्यर्थः । मरणत्रासोऽन्धतामिस्र उच्यते । स चाष्टगुणैश्वर्ये दशविधे विषय एव भवतीति । एवं द्विषष्टिभेदमज्ञानमुक्तम् ॥ ४८॥ कारिका ४९ अशक्तिः करणवैकल्यादित्युक्तम्, तस्या भेदान् दर्शयितुमाह- ॥ एकादशेन्द्रियवधः सह बुद्धिवधैरशक्तिरुपदिष्टा । सप्तदशधा च बुद्धेर्विपर्ययास्तुष्टिसिद्धिनाम् ॥ ४९ ॥ ॥ 'एकादश' इत्यादि । एकादशानामिन्द्रियाणामेकादशैवोपघाताः । श्रोत्रचक्षुर्घ्राणानां बाधिर्यान्धत्वाघ्रातृत्वानि, वाचो मूकत्वम्, जिह्वाया जाड्यम्, मनस उन्मादः, पाणिपादोपस्थानां कौण्यपङ्गुत्वक्लैब्यानि, त्वगिन्द्रियस्य कुष्ठः, पायोरुदावर्त इति । बाधिर्यमान्ध्याघ्रातृत्वे मूकता जडता तथा । उन्मादकौण्यकुष्ठानि क्लैब्योदावर्तपङ्गुताः ॥ इति ॥ अत इन्द्रियवधा अशक्तिरित्युपदिष्टाः सांख्याचार्यैः ॥ 'सह बुद्धिवधैः' इति । बुद्धेरपि वधा अशक्तिरुपदिष्टा ॥ ते कियन्त इत्याह- 'सप्तदशधा च बुद्धेर्वुपययास्तुष्टिसिद्धीनाम्' इति । तुष्टयो नव, सिद्धयश्चाष्टौ । वक्ष्यमाणाम्भसां ये विपर्ययास्ते सप्तदशविधा बुद्धेर्ज्ञेयाः । एवमशक्तिरष्टाविंशतिभेदा यया क्रमस्वशक्तो भवति ॥ ननु प्रत्ययसर्ग इत्युक्तम्, नायमिन्द्रियवधः प्रत्ययसर्गः किञ्चिदहङ्कारसर्ग इति सत्यम्, अहङ्कारस्य प्रत्ययसर्गत्वात् तत्सर्गोऽपि प्रत्ययसर्ग उच्यते । धर्मो वा प्रत्ययः सर्गः ॥ ४९॥ कारिका ५० तुष्टिभेदानाह- ॥ आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्या विषयोपरमात् पञ्च, नव तुष्टयोऽभिमताः ॥ ५० ॥ ॥ 'आध्यात्मिकाः' इत्यादिना । प्रकृत्यादीन्याख्या यासां तुष्टीनां तास्तथोक्ताः । तत्र प्रकृतिः प्रधानम् । सैव व्यक्तात्मना परिणम्य बन्धमोक्षौ कुरुत इत्येतावन्मात्रोपदेशात् तुष्टो भवति यस्तस्य प्रकृत्याख्या तुष्टिरम्भ इत्युच्यते ॥ उपादीयते प्राप्यते मोक्षोऽनेनेत्युपादानम् । प्रव्रज्यालिङ्गं चात्र दण्डादि । न प्रकृतिज्ञानमात्रेण मुक्तिः । 'उपादानेन चापरे' इत्यस्मादद्वितीयादुपदेशादिहैव मुक्तिः प्राप्तव्येति परितुष्टः प्रव्रजितोऽयं तस्य द्वितीया उपादानाख्या तुष्टिः सलिलमुच्यते ॥ कल्यत इति काला । महदादिसूक्ष्मपर्यन्तेन लिङ्गेन संसरताऽपरेण मोक्षो न प्रकृत्युपादानमात्रादिहैव जन्मनीति तस्मात्तृतीयादुपदेशात् तुष्टो यः कालापेक्षी स्थितस्तस्य कालाख्या तुष्टिरोध इत्युच्यते ॥ यस्यापरं भाग्यमस्ति तस्य मोक्षः, प्रकृत्युपादानकालमात्रेण न, कश्चिद्विपरीतभागधेयोऽस्तीति तस्माच्चतुर्थादुपदेशात् तुष्टो यो भाग्यापेक्षी स्थितस्तस्य चतुर्थी वृष्टिरित्युच्यते । एताश्चतस्र आत्मानमधिकृत्य भवन्तीत्याध्यात्मिकाः आत्मना मोक्तव्यमिति कृत्वा ॥ 'बाह्यविषयोपरमाच्च' इति । शब्दादिभ्यो व्यावृत्तिरुपरमणं पञ्चधा भवति । आर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनात् । तत्र विषयार्जने महद्दुःखं तदल्पविषयेभ्य इत्यार्जनदोषदर्शनान्निवृत्तस्य तुष्टिरियं पञ्चमी सुतारमित्युच्यते ॥ विषया आर्जितुं शक्याः, रक्षणं तु दुःखं बहुभिः तज्जन्यमानानां (?) स्यादिति रक्षणदर्शनान्निवृतस्य तुष्टिरियं षष्ठी सुपारमित्युच्यते ॥ विषया आर्जितुं रक्षितुं क्षये च प्रतिविधातुं शक्याः, किन्तूपभुज्यमाना महतीमात्मसक्तिं कुर्वन्ति, तदप्राप्तौ च महद्दुःखमिति सङ्गदोषदर्शनादुपरस्तस्याष्टमी तुष्टिरनुत्तमाम्भ इत्युच्यते ॥ सर्वं शक्यं किन्त्वनुपहत्य भूतानि न भोगः सम्भवति । भूतोपघातान्महदनिष्टफलमिति हिंसादोषदर्शनादुपरतस्य तुष्टिरियं नवमी उत्तमाम्भ इत्युच्यते । एताः पञ्च विषयद्वारेणेति भवन्तीति बाह्याः । तत्पूर्विकाश्चाध्यात्मिकाः, विषये तत्परस्याध्यात्मिकतुष्ट्यसम्भवात् ॥ तत्र प्रकृत्युपादानकाला न मोक्षोपाया इत्युपदिष्टमपि यो वैमुख्यान्न प्रतिपद्यते तस्याध्यात्मिकाश्चतस्रः, विषयोपरमाच्च बाह्याः पञ्चेति नव तुष्टयः । ता बुद्धिवधा इत्युचन्ते । तेषां शक्तेरन्तर्भवति [?] । तासां चतुष्षष्टीनां महत्प्रभृतयो विपर्ययेण संज्ञा । तदुभयमपि बुद्धावन्तर्भूतं तत्सर्गत्वात् ॥ ५०॥ कारिका ५१ कतिभेदा ज्ञानाज्ञानलक्षणा सिद्धिरित्याह- ॥ ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ, सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥ ॥ 'ऊहः शब्दोऽध्ययनम्' इत्यादि । सिद्धिर्ज्ञानप्राप्तिः, तस्या भेदा उपायभेदात् । ऊह इति । जन्मान्तरसंस्कृतधियो यस्य बन्धमोक्षकारणमुत्प्रेक्षमाणस्य प्रधानपुरुषान्तरज्ञानमुत्पद्यते तस्य सिद्धिरूहहेतुका प्रथमा तारमित्युच्यते ॥ यस्य सांख्यशास्त्रपाठमन्यदीयमाकर्ण्य तत्त्वज्ञानमुत्पद्यते, सा सिद्धिः शब्दहेतुका द्वितीया सुतारमित्युच्यते ॥ यस्य शिष्याचार्यसम्बन्धेन सांख्यशास्त्रं शब्दतोऽर्थतश्चाधीत्य ज्ञानमुत्पद्यते, तस्याध्ययनहेतुका । अध्ययनेन हि तत्परिज्ञानात् । एषा तृतीया तारवि इत्युच्यते ॥ 'दुःखविघातास्त्रयः' इति । योऽप्याध्यात्मिकेनाधिभौतिकेनाधिदैविकेन वा भावितस्तद्विघातार्थं ज्ञानं पर्येष्यति, ऊहेन शब्देनाध्ययनेन वा, तस्य तद्विघातहेतुकाः प्रमादप्रमुदितमोदनाख्यास्तिस्रः, उपायस्य त्रित्वादिति । पूर्वा यास्तिस्रः सिद्ध्ययस्ता न दुःखहेतुका इति बोद्धव्याः ॥ 'सुहृत्प्राप्तिः' इति । योऽधिगततत्त्वः सुहृदं प्राप्य ज्ञानमधिगच्छति, तस्य सुहृत्प्राप्तिपूर्विका । मित्रं हि स्नेहात् ज्ञानं प्रकाशयति । इयं सप्तमी रम्यकमित्युच्यते ॥ दानं च सिद्धिहेतुः । दानेन ह्याराधितो ज्ञानी ज्ञानं प्रयच्छति । इयमष्टमी सदाप्रमुदितमित्युच्यते ॥ तद्विपरीता असिद्धयः । मन्दबुद्धित्वान्नोहते यस्तस्यानूहहेतुका असिद्धिः । यः शक्तोऽपि सांख्यशास्त्रं शृण्वन्नपि बुद्धिदौर्बल्यान्न बुद्ध्यति तस्य शब्दहेतुका असिद्धिः । बुद्धिदोष एवायम् । यस्य गुरुपूर्वकं नाध्ययनं बुद्धिदोषादेव तस्यानध्ययनहेतुका असिद्धिः । न यत्र मित्रसंग्रहो न च दानमित्यष्टावसिद्धयो बुद्धिवधा अशक्तावन्तर्भूताः । तासां चासिद्धीनां मोषमुष्णामानोरमित्याद्याः [?] संज्ञाः । बुद्धावन्तर्भूतं तत्सर्गत्वात् ॥ 'सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः' इति । तस्या अष्टविधायाः सिद्धेर्यः पूर्वो विपर्ययाशक्तितुष्ट्याख्यस्त्रिविध उक्तः सोऽङ्कुश इवेत्यङ्कुश उक्तः । तेन ह्यस्वतन्त्रीकृतो लोकः संसारचक्रेऽवतिष्ठते । तत्र विपर्ययादिष्यते बन्ध इति वचनात् पञ्चविधमज्ञानमङ्कुशः । अशक्तिः करणवैकल्यम्, ततो हि ज्ञानाप्राप्तिरित्यङ्कुशः । तुष्टिरप्यङ्कुशः । तदा प्रकृत्युपादानकालभाग्या मोक्षोपाया इति, विषयोपरमाच्च मुक्त इत्येतावन्मात्रादुपदेशात् तुष्टो न ज्ञानं पर्येष्यति । यदा तु पर्येष्यति तदाऽनङ्कुश इत्यर्थः । एते प्रत्ययसर्गभेदाः पञ्चाशत् पदार्थाः, अस्तित्वादयश्च दश । ते चास्यामेव सप्तत्यां निर्दिष्टाः । तथा चाह संग्रहकारः- अस्तित्वमेकत्वमथार्थवत्त्वं पारार्थ्यमन्यत्वमकर्तृभावः । योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ इति ॥ एकत्वमर्थवत्त्वं पारार्थ्यं चेति प्रधानमधिकृत्योक्तम् । अन्यत्वमकर्तृत्वं बहुत्वं चेति पुरुषमधिकृत्य । अस्तित्वं योगो वियोगश्चेत्युभयमधिकृत्य । स्थितिर्मूलसूक्ष्ममधिकृत्य । वक्ष्यति- 'तिष्ठति संस्कारवशात्' इति । एते षष्टि पदार्थाः, तदर्थं शास्त्रं षष्टितन्त्रमित्युच्यते ॥ ५१॥ कारिका ५२ पूर्वोत्पन्नं लिङ्गं भावैरधिवासितं संसरतीत्युक्तम्, तत्र किं भावा अपि पूर्वमुत्पन्नाः किं लिङ्गमेवेत्यत्राह- ॥ न विना भावैर्लिङ्गम्, न विना लिङ्गेन भावनिष्पत्तिः । लिङ्गाख्यो भावाख्यस्तस्माद्द्विविधः प्रवर्तते सर्गः ॥ ५२ ॥ ॥ 'न विना' इत्यादि । यदि भावा न पूर्वोत्पन्नास्तैर्विना लिङ्गमपि नास्ति । संसरणार्थं लिङ्गं संसारनिमित्तं च भावाः ॥ 'न विना लिङ्गेन भावनिष्पत्तिः' इति । लिङ्गं विना न भावानिष्पत्तिः, लिङ्गाश्रितत्वाद्भावानाम् । यस्मादेवं तस्मात् लिङ्गाख्यो भावाख्यश्च द्विप्रकारः प्रधानत्वात् सर्गो भवतीति । सृज्यत इति सर्गः ॥ ५२॥ कारिका ५३ यथा द्वावेतौ पूर्वोत्पन्नौ तथ भूतसर्गोऽपीति दर्शयन्नाह- ॥ अष्टविकल्प दैवस्तैर्यग्योन्यश्च पञ्चधा भवति । मानुष्यचैकविधः, समासतो भौतिकः सर्गः ॥ ५३ ॥ ॥ 'अष्टविकल्पः' इत्यादि । देवानामयं दैवः । सोऽष्टविधः । तद्यथा ब्राह्मः, प्राजापत्यः, सौरः, आसुरः, गान्धर्वः, याक्षः, राक्षसः, पैशाचश्चेति ॥ 'तैर्यग्योन्यश्च पञ्चधा भवति' इति । तिर्यग्योनीनामयं तैर्यग्योन्यः । पशुमृगपक्षिसरीसृपस्थावरभेदात् पञ्चविधः । तत्र गवाद्या रासभान्ताः पशवः । सिंहाद्या बिडालान्ता मृगाः । हंसाद्या मशकान्ताः पक्षिणः । सर्पादयः कृम्यन्ताः सरीसृपाः । वृक्षादयः स्थूणान्ताः स्थावरा इति ॥ 'मानुष्यश्चैकविधः' इति । मनुष्याणामयं मानुष्यः । एवंविधसंस्थानस्यैकविधत्वात् । ब्राह्मादिभेदोऽपि सत्त्वरजस्तमसां विकल्पात् कालव्यवहारनिमित्तम् ॥ 'समासतः' इति । संक्षेपेण । विस्तरं ॥।तस्तस्यैव (?) - जरायुजाण्डजोष्मजोद्भिज्जाख्याश्चत्वारो भेदाः शास्त्रान्तरे द्रष्टव्याः । उद्भिज्जाः स्थावराः ॥ 'भौतिकः सर्गः' इति । भूतेषु भवो भौतिकः, लोकोत्पाद इत्यर्थः । स च द्विविधः ॥ ५३॥ कारिका ५३ स्थूलशरीरे सत्त्वयि कश्चिदेव क्वचिदधिक्येन वर्तत इति दर्शयन्नाह- ॥ ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो, ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥ ॥ 'ऊर्ध्वम्' इत्यादि । ब्रह्मा आदिर्यस्य सर्गस्य स्तम्बश्च तृणविटपपर्यन्तः, स ब्रह्मादिस्तम्बपर्यन्तः सर्गः । स ऊर्ध्वः सत्त्वविशालः । ऊर्ध्वं देवलोकस्तस्योत्कृष्टत्वात् तत्र सात्त्विक इत्यर्थः । देवलोकस्य सत्त्वबहुलत्वात् ॥ 'तमोविशालश्च मूलतः सर्गः' इति । तैर्यग्योनो मूलम्, तस्याधमत्वात् । तस्मिन् मूले तमोऽधिकं तमोबहुलत्वात् ॥ 'मध्ये रजोविशालः' इति । मनुष्यलोके मध्ये । उत्तराधरभावात् तत्र दुःखबहुलत्वात् ॥ ५४॥ कारिका ५५ यदि त्रिषु लोकेषु लिङ्गं संसरति, तदेव तर्हि सांसारिकं सुखं दुःखं वाप्नोति, तस्यैव सांसारिकत्वादित्याह- ॥ तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङ्गस्याविनिवृत्तेस्तस्माद् दुःखं स्वभावेन ॥ ५५ ॥ ॥ 'तत्र' इत्यादि । तेषु लोकेषु जरामरणकृतमिति चतुर्दुःखोपलक्षणार्थम् । गर्भदुःखम्, जन्मदुःखम्, जरादुःखम्, मरणदुःखमिति । तत्र मातुः कुक्षौ अन्धतमसीव प्रविष्टस्य सङ्कुचनप्रसारणदुःखं गर्भदुःखम् । जायमानस्य मातुरुदरान्निर्गच्छतो जन्मदुःखम् । व ॥॥।पालतस्खलनादिदुःखं जरादुःखम् । मरणावस्थायां स्थूलशरीरं त्यजतो मरणदुःखम् । एतत्त्वाध्यात्मिकं दुःखेऽन्तर्भूतमप्रीतदुःखं बुद्ध्याध्यवसितं पुरुषः प्राप्नोति तस्य चेतनत्वात्, न तु लिङ्गमचेतनत्वादिति भावः ॥ कियन्तं कालमित्याह- 'लिङ्गस्याविनिवृत्तेः' इति । यावल्लिङ्गस्याविनिवृत्तिस्तावदित्यर्थः । तस्य च निवृत्तिः प्रधानपुरुषान्तरज्ञानात् । यतश्चैवं तस्माद्दुःखं स्वभावेन । लिङ्गगर्भाद्यवस्थासु स्वभावतो दुःखमित्यर्थः । लोकत्रये सुखमपि प्राप्नोति, तन्नोक्तं तस्यानियतत्वात् । जरादिदुःखं तु नियतमिति ॥ ५५॥ कारिका ५६ योऽयं भावलिङ्गभूततत्सर्गः स किमीश्वरात्, यथोच्यते- ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा । इति, किं वा पुरुषात्, यथोच्यते- पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । इति, किं वा स्वभावात्, यथोच्यते- स्वभाविकमेवेदं सर्वं जगन्नहि मरुदादयः केनचित् क्रियन्ते । इत्यत्राह- ॥ इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः । प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ॥ ५६ ॥ ॥ 'इत्येष प्रकृतिकृतः' इत्यादि । आरभ्यत इत्यारम्भः । प्रकृतिकृत इति प्रधानकृतः, नेश्वरादिकृत इत्यर्थः । लोकत्रयं त्रिगुणात्मकं भवति, तच्च त्रिगुणाया एव प्रकृतेरुत्पद्यते । नपै स्वभाविकम्, विपरीतगुणदोषप्रसङ्गाद्देशानियमयोगाच्च ॥ स किंस्वरूप इत्याह- 'महदादिविशेषभूतपर्यन्तः' इति । बुद्धिरादिर्यस्यारम्भस्य । भूतानि लोकत्रये यान्यभिन्नसंस्थानानि स्थूलशरीराख्यानि । विषयाश्च । बाह्याश्च विषयाः सूक्ष्माः स्थूलाः । ते पर्यन्तेऽवसाने यस्य स तथोक्तः । अनेन भावलिङ्गभूतसर्गाख्यास्त्रय आख्याताः ॥ किमर्थमयं प्रधानस्यारम्भ इत्यत्राह- 'प्रतिपुरुषविमोक्षार्थम्' इति । एकैकस्य पुरुषस्य पुरुषस्य विमुक्त्यर्थमारम्भः, पुरुषाणां बहुत्वात् । भावसर्गे भूतसर्गे चानेक इति दर्शयति । तथाहि मोक्षार्थं विषयोपभोगार्थं चायमारम्भ इति द्रष्टव्यम् । प्रधानेन हि पुरुषार्थः कर्तव्यः । स च द्विविधः । विषयोपभोगः कैवल्यं च । तदुभयं कृत्वा निवर्तत इति ॥ 'स्वार्थः' इति । यः कश्चित् देवदत्तस्वार्थ एव परार्थो रहितितं प्रवर्तते न परस्तपस्तकरोति (?) तथा प्रधानमपीत्यर्थः ॥ ५६॥ कारिका ५७ ननु च सचेतनस्य बुद्धिपूर्विका प्रवृत्तिर्भवति, प्रधानस्याचेतनत्वात्कथं लोकत्रये पुरुषं विषयैः संयोज्य ध्यानेन विप्रमोच्य निवर्तेत । कथमेवंविधा प्रवृत्तिः । नायं नियमः, अचेतनानामपि लोके प्रवृत्तिदर्शनात् । यदाह- ॥ वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७ ॥ ॥ 'वत्सविवृद्धिनिमित्तम्' इत्यादि । वत्सस्य विवृद्धिः पुष्टिः । तस्या निमित्तम् ॥ 'क्षीरस्य यथा प्रवृत्तिरज्ञस्य' इति । अचेतनस्य । यथा तृणदिकमचेतनं गवाशितं पीतं च, वत्सस्य पुष्टिः कर्तव्येति, क्षीरात्मना परिणमति कृतार्थं च निवर्तत इति ॥ ५७॥ कारिका ५८ यदि पुरुषविमोक्षार्थं प्रधानस्य प्रवृत्तिः, प्रवृत्तेः प्राक् पुरुषस्य कैवल्यं स्थितमेव, तत् किं तेन प्रवृत्तेन? तथा चाहुः - मध्वर्थं प्रस्थितः कश्चिद् ग्रामाभ्याशे तु माक्षिकम् । अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ॥ इति ॥ अत्राह- ॥ औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥ ॥ 'औत्सुक्यम्' इत्यादि । यथौत्सुक्यनिवृत्त्यर्थमभिमतक्रियासु लोकः प्रवर्तते, तद्वत् प्रलयावस्थायां पुरुषोऽपि मोक्षनिमित्तं यदौत्सुक्यं तन्निवृत्तये प्रवर्तयेत्प्रधानमिति ॥ ५८॥ कारिका ५९ उदाहरणान्तरमाह- ॥ रङ्गस्य दर्शयित्वा निवर्तते नर्त्तकी यथा नृत्तात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ ५९ ॥ ॥ 'रङ्गस्य' इत्यादि । नृत्यतीति नर्त्तकी । सा तथा रङ्गस्य नृत्तं दर्शयित्वा तस्मान्नृत्तान्निवर्तते विरमति, दृष्टाहमनेनेति कृतप्रयोजना सती, तथा पुरुषस्यात्मानं सम्प्रकाश्य देवादिभावरूपं गता निवर्तते प्रकृतिः प्रधानमित्यर्थः ॥ ५९॥ कारिका ६० ननु च नटी रङ्गात् स्वार्थं साधयति, प्रकृतेस्तु पुरुषार्थः स्वार्थो येनैवमाचरयतीत्याह- ॥ नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ ६० ॥ ॥ 'नानाविधैः' इत्यादि । पूर्वं सप्तभिर्धर्मादिभिरुपायैस्त्रिषु विषयेष्वात्मनं प्रकाशयत्युपकारिणी, तदनन्तरमेकेन ज्ञानाख्येन कैवल्यं कुर्वाणोपकारिणी भवति ॥ 'अनपकारिणः पुंसः' इति । न पुमांस्तां प्रत्युपकरोति, अहमनयोपकृत इति । पुनस्सा तमुपकरोति ॥ नासौ तामित्याह - ' गुणवत्यगुणस्य सतः' इति । गुणसत्त्वात्प्रकृतिः सक्रिया, निर्गुणत्वात् पुरुषो निष्क्रिय इति । तस्यार्थमपार्थकं चरति । तस्य पुंसोऽर्थो द्विविधः- विषयोपभोगः कैवल्यं च । तन्निरर्थकं करोति, यतस्तस्याः प्रयोजनाभावः । व्यक्तात्मनाऽऽत्मानं दर्शयति नत्वव्यक्तात्मना ॥ ६०॥ कारिका ६१ तथाहि - गुणानां साम्यावस्था प्रकृतिः । कुतश्च सा न सर्वात्मनाऽऽत्मानं प्रकाशयति, पुमानपि न सर्वथा पश्यति ? तथा चाहुः- गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायावस्तु तुच्छकम् ॥ इति । अत्राह - ॥ प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥ ॥ 'प्रकृतेः' इत्यादि । सुकुमारतरमिति सूक्ष्मतरमितरत् । एतदुक्तं भवति- प्राग्व्यक्तात्मना प्रकाशयति न त्वव्यक्तात्मनापि, येन ज्ञानावस्थायां प्रकृतेर्मतिर्भवति मम सूक्ष्मतरं न किञ्चिदपरमस्ति यद्द्रष्टव्यं पुरुषेण ॥ ('या दृष्टाऽस्मि' इति । सा प्रकृतिर्व्यक्तात्मना च) दृष्टाहमनेनेति न पुनर्दर्शनमुपैति पुरुषस्य, द्रष्टव्याभावात् । ततश्चैवं सर्वथा प्रकृतिरात्मानं प्रकाशयति, पुरुषश्चैतां सर्वथा पश्यति ॥ ६१॥ कारिका ६२ तस्मान्न पुरुषस्य बन्धो नापि संसरणं मोक्षो वेत्याह- ॥ तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥ ॥ 'तस्मान्न बध्यते' इत्यादि । बन्धाभावान्न बध्यते । पुरुषस्यापि कार्यत्वाद्बन्धो नास्ति । न विमुच्यते तस्या बन्धनात् । नापि संसरति निष्क्रियत्वात् । कश्चिदिति पुरुष इत्यर्थः ॥ कस्य तर्हि बन्धादय इत्याह- संसरति बध्यते मुच्यते च प्रकृतिरिति । ननु च तस्याः सुकुमारत्वाद्बन्धादयो न सम्भवन्त्येवेत्यत्राह- नानाश्रयेषुरभिवज्यते (?) । तत्राश्रयाः भावलिङ्गभूतास्सर्गाः । ते प्रकृतिपुरुषवन्नानाविधाः ॥ ६२॥ कारिका ६३ ततश्च नानाश्रयत्वादेव दर्शयन्नाह- ॥ रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण ॥ ६३ ॥ ॥ 'रूपैः' इत्यादि । धर्मादयो बुद्धे रूपान्युक्तानि । 'सप्तभिः' । ज्ञानं त्यक्त्वा ते च प्रकृतेरात्मभूताः । सैवात्मनैव पुरुषार्थं प्रत्यात्मानं महदादिसूक्ष्मपर्यन्तं लिङ्गं बध्नाति । बन्धश्च त्रिविधः । तच्च लिङ्गं भावादिभिरधिवासितमर्थमेव । संसरतीति । प्रकृतिरेव संसरति ॥ 'सैव च' इति । प्रकृतिः पुरुषार्थं प्रति कैवल्यार्थं विमोचयत्यात्मानम् ॥ 'एकरूपेण' इति । एकं च तद्रूपं चेति । ज्ञानाख्येन रूपेणेत्यर्थः । यं पुरुषमपेक्ष्य ज्ञानमुत्पादयति तं प्रत्यव्यक्तमात्मानं संहरतीत्यर्थः । नहि धर्मादयः पुरुषधर्मा यस्तैर्बध्यते । नापि संसरति, अलिङ्गभावत्वात् । नापि मुच्यते, तस्य बन्धनत्वात् ॥ ६३॥ कारिका ६४ तदेवं ज्ञानं कथमुत्पद्यते येन मोचयतीत्याह- ॥ एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥ ॥ 'एवं तत्त्वाभ्यासात्' इत्यादि । एवमिति वक्ष्यमाणे योज्यम् । तत्त्वानि पञ्चविंशतिः । तेषां पुनः पुनः स्वरूपेणाभ्यसनमभ्यासः । यदेतत् सूक्ष्मशरीरं भौतिकं च तस्मिन्न भवामि, अपि तु प्रकृतिः ॥ 'न मे' इत्यादि । न ममेदमपि तु प्रकृतेः ॥ नाहमिति । नाप्यहं प्रकृतिरित्येवं तत्त्वाभ्यासात् । किंविशिष्टात् - अविपर्ययादहमित्यमानसंशयात् ज्ञानमुत्पद्यते ॥ ईदृशमित्याह- 'अपरिशेषम्' इति । परिपूर्णं विशुद्धम् संसारमलापगमात् केवलमेकमित्यर्थः ॥ ६४॥ कारिका ६५ ननु ज्ञानेन पुरुषः किं पश्यतीत्याह- ॥ तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् । प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः ॥ ६५ ॥ ॥ 'तेन' इत्यादि । यत् प्रकृतिज्ञानमुत्पद्यते तं प्रति निवृतः प्रसवो लिङ्गभूतसर्गाख्यो यस्याः प्रकृतेः स तथोक्ता । प्रसवनिवृत्त्या वा यो विषयो विषयेभ्यो निवर्तते तद्वशात्, सप्तभ्यो रूपेभ्यो धर्मादिभ्यो निवृत्ता प्रकृतिर्भवति । भावसंसर्गोऽपि यस्या निवर्तत इत्यर्थः । तामेवंविधामव्यक्तरूपां पश्यति पुरुषः ॥ 'प्रेक्षकवदवस्थितः' इति । यथा प्रेक्षकः प्रवर्त्तितनृत्तमुपसंहृतनृत्तां च नर्त्तकीं पश्यति, तथा पुरुषोऽपि प्रवर्तितसर्गामुपसंहृतसर्गां चेति ॥ 'स्वस्थः' इति । आत्मनि स्थितो न प्रकृतिस्थः, ततः प्रकृतेर्निवृत्तत्वात् ॥ ६५॥ कारिका ६६ ननु च यदि प्रकृतिर्गर्भभूःपुरुषं प्रति निवृत्तप्रसवा, तस्याश्च प्रकृतेस्तदानीं सर्वगतत्वादस्त्येव संयोगस्तत्किमिति पुनः शरीरोत्पत्तिर्न भवतीत्याह - ॥ दृष्टा मयेत्युपेक्षक एको दृष्टाऽहमित्युपरमत्यन्या । सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६ ॥ ॥ 'दृष्टा मया' इत्यादि । तयोर्द्वयोरेकः पुरुष उपेक्षकः, सर्वथा ॥।त्वात् । यथा प्रेक्षको नटीमुपेक्षते निवृत्ताभिलाषत्वात् ॥ 'दृष्टाऽहमित्युपरताऽन्या' इति । अपरा प्रकृतिरुपरता निवृत्तप्रसवा । सर्वथाऽहमनेन दृष्टेति ॥ ततश्च संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य । विषयोपभोगार्थः सर्गः । तस्मिन्नेव चरितार्थत्वात् न पुनः सर्गमारभते । नहि नटी रङ्गे प्रेक्षकैर्निराकांक्षितं पुनर्नृत्तमारभते ॥ ६६॥ कारिका ६७ यद्यात्मज्ञानात् कैवल्यप्राप्तिः, तदनन्तरमेव शरीरं कस्मान्न निवर्तत इत्याह- ॥ सम्यग्ज्ञानाधिगमात् धर्मादीनामकारणप्राप्तौ । तिष्ठति संस्कारवशात्, चक्रभ्रमवद्धृतशरीरः ॥ ६७ ॥ ॥ 'सम्यक् ज्ञानाधिगमात्' इत्यादि । सम्यक् ज्ञानमात्मज्ञानम् । तस्याधिगमादात्मज्ञानप्राप्तेरित्यर्थः ॥ 'धर्मादीनामकारणप्राप्तौ' इति । न कारणमकारणम्, तस्यामकारणप्राप्तावेव तदुक्तं भवति । सम्यक् ज्ञानाधिगमात्तेषां धर्मादीनामग्निदग्धबीजवदशक्तत्वात् ॥ जन्मान्तरसंस्कारवशाद्धृतशरीरः पुमांस्तिष्ठति । कथम्- चक्रभ्रमवत् । यथा कुलालव्यापारे निवृत्तेऽपि वेगवशात् कियन्तमपि कालं चक्रभ्रमस्तिष्ठति तथा शरीरमपीत्यर्थः ॥ ६७॥ कारिका ६८ कदा स मोक्षो भवतीत्यत्र- ॥ प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥ ॥ 'प्राप्ते शरीरभेदे' इत्यादि । लिङ्गभौतिकशरीरे पृथग्भूते यथा संभूते लयं गति तेष्वित्यर्थः (?)॥ 'चरितार्थत्वात् प्रधानविनिवृत्तौ' इति । प्रधानं लिङ्गात्मना परिणतं निवर्तते । निवृत्तावुभयं कैवल्यमाप्नोति ॥ 'ऐकान्तिकमात्यन्तिकं च' इति । तत्रात्मज्ञानोत्पादादवश्यंभावि कैवल्यमित्यैकान्तिकम् । सत्यपि तयोः संयोगे प्रयोजनाभावान्न पुनः सर्ग इत्यात्यन्तिकमिति ॥ ६८॥ कारिका ६९ सप्तत्यां विशुद्धिं दर्शयन्नाह- ॥ पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९॥ 'पुरुषार्थज्ञानम्' इत्यादि । पुरुषार्थं ज्ञानं चेति पुरुषार्थज्ञानम् । यदिदं पञ्चविंशतितत्त्वज्ञानं तत्प्रधानम्, पुरुषार्थमोक्षोऽनेन प्राप्यत इति कृत्वा । गुह्यमिदमप्रकाश्यम् । साधुजनादन्यस्मै न देयमित्यर्थः ॥ 'परमर्षिणा समाख्यातम्' इति । कपिलमुनिना प्रकाशितम् ॥ 'स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्' इति । यत्र ज्ञाने भूतानां ब्रह्मादिस्तम्बपर्यन्तानां स्थित्यादयो व्यवस्थाप्यन्ते । तत्रोत्पन्नानां प्रबन्धेनावस्थानं स्थितिः । सा च त्रिषु स्थानेषु दैवमानुषतैर्यग्योनेषु उत्पत्तिः सृष्टप्रधानात् यावत् तन्मात्रेभ्यः पञ्चमहाभूतानि । सृष्ट्युपसंहारे महाप्रलयः, सर्वोऽप्युत्क्रमेण । तद्यथा पृथिव्यादयस्तन्मात्रादिषु लीयन्ते यावत्प्रधानमिति । तेन पञ्चविंशतितत्त्वव्यतिरिक्तं नास्तीत्येतदुक्तम् ॥ ६९॥ कारिका ७० मुनिना समाख्यातमिति कुतो ज्ञायत इत्याह- ॥ एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय, तेन च बहुधा कृतं तन्त्रम् ॥ ७०॥ 'एतत्' इत्यादि । 'पवित्रम्' इति । दुःखत्रयमेतत् पुनातीति कृत्वा । सर्वभेदानामग्रेभवत्वादग्र्यम् ॥ 'मुनिरासुरयेऽनुकम्पया प्रददौ' इति । कपिलस्य महामुनेः सहोत्पन्नाश्चत्वारो धर्मादयः । तत्र ज्ञानाख्येन भावेनान्धे तमसि वर्तमानं जगत् दृष्टवतो मुनेः करुणोत्पन्ना । तया च प्रेर्यमाण आसुरिं सगोत्रब्राह्मणं वर्षसहस्रयातिनमागत्योवाच । 'आसुरे रमसे त्वं गृहस्थधर्मेण' इति । स तमाह- 'भगवन् न रमेऽहम्' इति । पुनर्वर्षसहस्रे पूर्णे तं गत्वा तथोवाच । सोऽपि 'भगवन् न रमेऽहम्' इत्युवाच । ततो मुनिना 'यदि विरक्तस्त्वम्, एहि ब्रह्मचर्यं चर' इत्यसावुक्तः । स तु प्रदिपद्य गृहस्थधर्मं त्यक्त्वा प्रव्रजितः । तस्मै शिष्यायानुकम्पया संक्षिप्य दत्तवान् । 'तम एव खल्विदमासीत्' । तस्मिंस्तमसि क्षेत्रज्ञ एव प्रथमः । तमः प्रधानम्, क्षेत्रज्ञः पुरुष उच्यते । आसुरिरपि तदेव संक्षिप्तं पञ्चशिखाय स्वशिष्यायानुकम्पया प्रददौ ॥ 'तेन' इति । पञ्चशिखेन मुनिना बहुधा कृतं तन्त्रम् । षष्टितन्त्राख्यं षष्टिखण्डं कृतमिति । तत्रैव हि षष्टिरर्था व्याख्याताः ॥ ७०॥ कारिका ७१ ननु च षष्टितन्त्रमेवास्तु किं सप्तत्येति स्वशास्त्रकरणप्रयोजनमाह- ॥ शिष्यपरम्परयाऽऽगतमीश्वरकृष्णेन चैतदार्याभिः । संक्षिप्यार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥ ॥ 'शिष्यपरम्परया' इत्यादि । मुनेरासुरेः पञ्चशिखस्तथा गर्गगौतमप्रभृतिर्णरामतंग्रम्या (?) ईश्वरकृष्णनामानं परिव्राजकमित्यनया शिष्यपरम्परया । इति ज्ञानमयरूपेणागतं सिद्धान्तं षष्टितन्त्रम् । सम्यग्विज्ञाय संक्षिप्तं षष्टितन्त्रम्, पञ्चविंशतितत्त्वाख्यं ज्ञानमित्यर्थः ॥ आर्यमतिः, अधिगततत्त्वज्ञानतयार्यमतिः ॥ 'आर्याभिः' इति । सप्तत्येत्यर्थः । 'दुःखत्रयाभिघातात्' 'एतत् पवित्रम्' इति सप्तत्याभिहितम् ॥ ७१॥ कारिका ७२ अत्र षष्टितन्त्रे बहवोऽर्थाः, तेऽत्र नोक्ता इत्याह- ॥ सप्तत्यां किल येऽरथास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥ ७२॥ 'सप्तत्याम्' इत्यादि । 'एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः' इत्यादिना ग्रन्थेन य उक्तास्ते कृत्स्नस्य षष्टितन्त्रस्यापि ॥ किन्तु 'आख्यायिकाविरहिताः परवादविवर्जिताः शुद्धाः' इति । आख्यायिका आख्यानम्, तद्विरहिताः । परचोद्यं तेन विवर्जिताः । शुद्धाः केवलाः । परं बन्धमोक्षोपयोगिनोऽर्थाः दर्शिता इति तस्मात् सम्पूर्णेयं सप्ततिरिति ॥ ७२॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्येण श्रीशङ्करभगवता कृता सांख्यसप्ततिटीका समाप्ता ॥ Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com
% Text title            : jayamangala
% File name             : jayamangala.itx
% itxtitle              : sANkhyasaptatiTIkA jayamaNgalA
% engtitle              : sAMkhyasaptatiTIkA jayamaNgalA
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP