कोकिलसन्देशः उद्दण्डशास्त्रिविरचितः
पूर्वभागः
सौधे तुङ्गे सह दयितया कोऽपि सङ्क्रीडमानः
प्राप स्वापं परमपुरुषः शेषभोगे श्रियेव ।
चित्रा दैवी गतिरियमसौ शैलजामण्डितायां
काञ्च्यां कम्पातटभुवि तयानन्वितो बुध्यते स्म ॥ १॥
त्वामानिन्युः सुभग शयितं लीलया नीलकेश्यो
द्रष्टुं देवं वरुणपुरतः सम्पतन्त्यो विमानैः ।
अत्रामुञ्चन्नपि भगवतीकिङ्करोक्त्या सशङ्काः
शुश्रावेत्थं स पुनरवपुस्सङ्ग्रहां व्योम्नि वाणीम् ॥ २॥
क्षेत्रे चास्मिन् सकलविपदां भञ्जने पञ्च मासा-
नासीथाश्चेत् प्रियजनवियोगार्तिरूर्ध्वं न ते स्यात् ।
आकर्ण्येमां पुनरिति तथा सैष चक्रे निवासं
क्लेशो भूयानपि बहुमतः श्लाघ्यते चेदुदर्कः ॥ ३॥
तत्र द्वित्रान् प्रियसहचरीविप्रयोगातिदीर्घान्
कामार्तोऽयं शिवशिव समुल्लङ्घ्य मासान् कथञ्चित् ।
चैत्रारम्भे समुदितमधुश्रीकटाक्षाभिरामं
चूताङ्कूरास्वदनरसिकं कोकिलं सन्ददर्श ॥ ४॥
तं कूजन्तं कलमधुरया पञ्चमस्वानभङ्ग्या
कान्तालापस्मरणविवशः किञ्चिदारादुपेत्य ।
दत्वा नेत्राञ्जलिपुटभृतैरर्घ्यमश्रुप्रवाहै-
र्जाताश्वासः स्फुटमिति गिरा श्राव्यया सन्दिदेश ॥ ५॥
अत्रायाहि प्रियसख ननु स्वागतं पश्य पार्श्वे
प्रत्यग्रोद्यन्मधुरसकणस्वेदिनीं चूतवल्लीम् ।
त्वत्सम्पर्कं सुभग नियतं काङ्क्षतेऽसौ विलोला
लोलम्बाक्षी चलकिसलयैराह्वयन्ती सरागा ॥ ६॥
अन्तस्तोषं मम वितनुषे हन्त जाने भवन्तं
स्कन्धावारप्रथमसुभटं पञ्चबाणस्य राज्ञः ।
कूजाव्याजाद्धितमुपदिशन् कोकिलाव्याजबन्धो
कान्तैः साकं ननु घटयसे कामिनीर्मानभाजः ॥ ७॥
वाचालं मा परभृत कृथा मां प्रियाविप्रयुक्तं
प्रायः प्राप्तं प्रणयवचनं त्वादृशे मादृशानाम् ।
किञ्चिल्लीनां किसलयपुटे कोकिलामाकुलात्मा
त्वं चापश्यन् बत विरहिणां येन जानासि तापम् ॥ ८॥
यावत्कालं महितपतगाधीश कार्ये नियोक्तुं
सङ्कोचं मे व्रजति रसना सन्दिदिक्षोर्मृगाक्ष्याः ।
तावत्कालं तव च हृदयं तान्तिमेतीति शङ्के
दीनापन्नप्रणयघटने दीर्घसूत्रेतरस्य ॥ ९॥
सन्देशं मे नय खगपते साधय भ्रातृकृत्यं
सन्तापार्तां सुवचन समाश्वासय प्रेयसीं मे ।
कान्तोदन्तः सुहृदुपनतो विपयोगार्दितानां
प्रायः स्त्रीणां भवति किमपि प्राणसन्धारणाय ॥ १०॥
गन्तव्यस्ते त्रिदिवविजयी मङ्गलाग्रेण देशः
प्राप्तः ख्यातिं विहिततपसः प्राग्जयन्तस्य नाम्ना ।
पारे चूर्ण्याः परिसरसमासीनगोविन्दवक्षो-
लक्ष्मीवीक्षाविवलनसुधाशीतलः केरलेषु ॥ ११॥
तत्र द्रक्ष्यस्यखिलमहिलामौलिमालायमानां
बालामेनां नियतमधुना मद्वियोगेन दीनाम् ।
कल्याणी सा कनककदलीकन्दलीकोमलाङ्गी
कन्दर्पाग्निं कथमिव कुकूलाग्निकल्पं सहेत ॥ १२॥
अध्वानं ते हितमुपदिशाम्यश्रमेणैव गन्तुं
स्निग्धच्छायैस्तरुभिरभितः शान्तघर्मप्रचारम् ।
संस्कर्तासि ध्रुवमुपगतो यत्र पत्रीन्द्र तेषा-
मुद्दामानामपि नवनवोद्यानलीलायितानाम् ॥ १३॥
श्रीकामाक्ष्या विनतममरैरुत्सवं फाल्गुनाख्यं
दृष्ट्वा यान्त्यः स्वभवनमुपारूढनानाविमानाः ।
त्वत्सँल्लापश्रवणतरलाः पश्चिमाम्भोधिवेला-
पर्यन्तं ते वरुणनगरीमञ्जुवाचः सहायाः ॥ १४॥
आकर्षन्तः प्रतिनवलतापुष्पगन्धोपहारा-
नासिञ्चन्तः सरणिमभितः शीतलैः शीथुलेशैः ।
भृङ्गीनादैर्मधुरमधुरं व्याहरन्तो वलन्ते
कम्पाकूलोपवनपवना बन्धवस्तेऽनुकूलाः ॥ १५॥
वन्दस्वारात् प्रियसख पुनर्दर्शनायात्र शौरेः
काञ्चीभर्तुः करिगिरितटे पुण्यमेनं विमानम् ।
आधत्ते यत् कनकवलभीनीडलीनैः कपोतै-
रद्याप्यम्भोरुहभवमखालग्नधूमाभिशङ्काम् ॥ १६॥
पीठेष्वष्टादशसु महितं कामपीठं भजेथाः
पारेकम्पं स्वयमिह परा देवता सन्निधत्ते ।
सभ्रूचापं नयनजलदं प्राप्य यस्याः कृपापं
तुण्डीरक्ष्मा सुलभकवितासस्यवृद्धिः समिन्धे ॥ १७॥
उड्डीयास्माद् बकुलसरसात् स त्वमुद्यानदेशात्
प्रादक्षिण्याद् व्रज परिसरे पुण्यमेकाम्रवृक्षम् ।
मूले यस्य प्रकृतिसुभगे मुक्तकैलासलोभो
देवः साक्षाद्वसति वलयाङ्काह्वयश्चन्द्रचूडः ॥ १८॥
दृष्ट्वा शम्भुं गगनसरणावुज्जिहाने त्वयि द्राक्
पक्षद्वन्द्वव्यजनपवनोच्चालिताभ्यो लताभ्यः ।
उत्थास्यन्ति भ्रमरतरुणाः सिक्तदेहा मरन्दै-
रुद्यानश्रीप्रहितसजलापाङ्गभङ्गानुकाराः ॥ १९॥
स्पष्टालक्ष्यस्त्वयि पिक समालम्बमानेऽम्बरान्तं
काञ्चीदेशः किमपि वसुधां भूषयन् गौरवेण ।
तत्सौन्दर्यापहृतहृदयो मा विलम्बस्व गन्तुं
बन्धुत्राणाद् बहुमतिपदं नापरं त्वद्विधानाम् ॥ २०॥
आशां पाशायुधतिलकितामाश्रयन्नात्तवेगः
कूलोन्मीलत्क्रमुककुहलीचामरान्दोलितोर्मिम् ।
द्रक्ष्यस्यग्रे विकचकमलोद्गन्धिमाध्वीकपानात्
क्षीबक्षीबभ्रमरतरुणीसेवितां क्षीरसिन्धुम् ॥ २१॥
पक्षोद्यौतैः पतग पुरजित्कन्धराकाण्डनीलै-
र्व्याप्ताभोगा विसृमरतरैर्व्योम सीमन्तयन्ती ।
सुव्यक्तं ते गमनसरणिः सूत्रयेदूर्ध्वमस्याः
सिन्धुस्नेहोपगतयमुनावेणिवीथीविलासम् ॥ २२॥
चूते चूते कुसुमकलिकां त्वां च दृष्ट्वा समेतं
बालाशोकाहननमरुणैरङ्घ्रिभिस्तन्वतीनाम् ।
तन्वङ्गीनां श्रवणसुभगैर्नूपुराणां विरावै-
र्वाचालाः स्युर्नियतमभितः कूलमारामसीमाः ॥ २३॥
स्नातोत्तीर्णाः सजलकणिकासुन्दरोरोजकुम्भाः
श्यामापङ्कैः शुभपरिमलैः स्पृष्टमाङ्गल्यभूषाः ।
तीरे तस्या द्रमिडसुदृशो दर्शनीया विलोक्य
प्रायो भावी क्षणमिव सखे गच्छतस्ते विलम्बः ॥ २४॥
धूमस्तोमैः सवनजनितैर्धूसरोपान्तवृक्षाः
प्रौढश्लाघ्यैर्मुखरितमठाः पावनैर्ब्रह्मघोषैः ।
रुद्धाभोगा द्विजवरविधिस्नानपूतैस्तटाकै-
र्द्रष्टव्यास्ते तदनु सरितं दक्षिणेनाग्रहाराः ॥ २५॥
सा वैदग्धी श्रुतिषु स पुनः सर्वशास्त्रावगाह-
स्तच्चाम्लानप्रसरसरसं निष्कलङ्कं कवित्वम् ।
तत्रत्यानां किमिह बहुना सर्वमेतत् पठन्तः
शृङ्गे शृङ्गे गृहविटपिनां स्पष्टयिष्यन्ति कीराः ॥ २६॥
तानुल्लङ्घ्य स्मितकुवलयस्निग्धमुत्कन्धराणां
चोलस्त्रीणामयि सफलयन् नेत्रमुत्पक्ष्ममालम् ।
विल्वक्षेत्रं विश पशुपतेर्वेश्म नीवासमीरै-
र्धूतालिन्दध्वजपटशिखैर्नूनमाहूयमानः ॥ २७॥
कामः स्वामी किल शलभतामाप नेत्रस्फुलिङ्गे
मा मा भैषीरिति भवभिदो दर्शनाच्चन्द्रमौलेः ।
श्यामा वर्णे वचसि मधुरा चञ्चला दृग्विलासे
वामोत्सङ्गे लसति करुणा कापि कामं दुहाना ॥ २८॥
पक्षिस्वानैः पटुमदकलैः स्वागतानि ब्रुवाणा
व्याकीर्णार्घ्याः कुसुममधुभिर्वीजयन्तः प्रवालैः ।
तत्रारामाः सुरभिसचिवं त्वां सखे मानयेयु-
स्तुल्यप्रीतिर्भवति हि जनो राजवद्राजमित्रे ॥ २९॥
काले तस्मिन् करधृतगलन्नीवयो वारकान्ताः
सम्भोगान्ते निबिडलतिकामन्दिरेभ्यश्चलन्त्यः ।
वीतस्वेदास्तव विहरतः पक्षपालीसमीरै-
राखिन्नभ्रूवलनमलसैरर्चयिष्यन्त्यपाङ्गैः ॥ ३०॥
भूयो गच्छन् जनपदमिमं स त्वमुल्लङ्घ्य चोला-
नालोकेथास्तरलहरिणीनेत्रतापिञ्छितानि ।
कान्ताराणि प्रसवशयनैश्छिन्नगुञ्जाकलापैः
कुञ्जे कुञ्जे कथितशबरद्वन्द्वलीलायितानि ॥ ३१॥
तत्रत्यास्त्वां कुसुमकलिकाशीथुधारां वमन्तो
नीरन्ध्रेषु स्खलितगतयो निर्झरीशीकरेषु ।
वल्लीडोलाविहरदटवीदेवतालालनीयाः
सेविष्यन्ते चपलचमरीबालभारास्समीराः ॥ ३२॥
चुम्बन् बिम्बाधरमिव नवं पल्लवं शीथुगर्भं
प्राप्ताश्लेषः स्तन इव नवे कोरके कामचारी ।
भोक्तासि त्वं कमपि समयं तत्र माकन्दवल्लीः
कान्तारागे सति विकसिते कः पुमांस्त्यक्तुमीष्टे ॥ ३३॥
दष्ट्वा चञ्च्वा कनककपिशा मञ्जरीश्चूतषण्डात्
पक्षच्छायाशबलितनभोभागमुद्गत्वरं त्वाम् ।
विद्युत्वन्तं नवजलधरं मन्यमानाः सलीलं
नर्तिष्यन्ति प्रियसख चलत्पिञ्छभारा मयूराः ॥ ३४॥
दृश्या दूरे तदनु लहरीसम्पतद्राजहंसा
सा कावेरी मदजलझरी सह्यदन्तावलस्य ।
मेघश्यामो भुजगशयनो मेदिनीहारयष्टे-
र्मध्ये यस्या मरतक इव प्रेक्ष्यते रङ्गनाथः ॥ ३५॥
पुण्यानस्यास्तटभुवि पुरीखर्वटग्रामरुद्धा-
नुद्यानद्रुप्रसवसुरभीन् होसलान् गाहमानः ।
लक्ष्मीनारायणपुरमिति ख्यातमन्तर्मुरारेः
प्राप्यावासं भव पिकपते पावनानां पुरोगः ॥ ३६॥
तत्रत्यानां रुचिरचिकुरन्यस्तसौगन्धिकानां
तारुण्योष्माञ्चितकुचतटीवित्रुटत्कञ्चुकानाम् ।
नासामुक्ताभरणकिरणोन्मिश्रमन्दस्मितानां
वेशस्त्रीणां भवति विवशो विभ्रमैर्दर्पकोऽपि ॥ ३७॥
ताश्चेन्मानग्रथितहृदयाः सन्नतान् नाद्रियेरन्
कान्ताः कान्तान् परभृत कुहूकारमेकं विमुञ्च ।
सन्तु त्रस्यन्निजनिजवधूदोर्लतालिङ्गितानां
यूनामार्द्रस्मितसहचरास्त्वय्यपाङ्गानुषङ्गाः ॥ ३८॥
क्रीडन्तीनां मुखरितलतामन्दिरं खेचरीणां
भूषानादैर्भुवनविदितं सह्यशैलं श्रयेथाः ।
क्षत्रध्वंसात् स्वयमुपरतो विप्रसात्कृत्य कृत्स्नं
पृथ्वीचक्रं भृगुकुलपतिर्यत्तटे सन्निधत्ते ॥ ३९॥
त्वञ्चद्धूमान् दवहुतभुजो ज्वालमालाजटालान्
वल्गद्भृङ्गान् वनविटपिनो भासुरान् पल्लवौघैः ।
दृष्ट्वा दूरादनुमिनुतमामुष्णशीतैः समीरैः
सन्दिग्धायां विपदि सहसावृत्तिरार्तिं हि सूते ॥ ४०॥
दृष्ट्वा तत्रामलकधरणीमन्दिरं शार्ङ्गपाणिं
तस्माच्छैलात्तटमवतरन् किञ्चिदाकुञ्च्य पक्षौ ।
कूलेऽम्भोधेः क्रमुककलिलां केरलक्षोणिमग्रे
पश्य स्फीतां भृगुसुतभुजाविक्रमोपक्रमं या ॥ ४१॥
प्राप्तव्यस्ते यदि कृतमहो वाङ्मयीतीरवासी
देवो दक्षाध्वरविमथनोड्डामरश्चन्द्रचूडः ।
आस्ते शातत्रिशिखशिखया दारुकं जघ्नुषी सा
यस्यादूरे मृगपतिशिरस्तस्थुषी भद्रकाली ॥ ४२॥
सिक्तः स्वच्छैर्झरजलकणैस्तं भज व्योम्नि तिष्ठन्
मुक्ताच्छन्नासितनवपटीकायमानायमानः ।
ध्वाङ्क्षभ्रान्त्या यदि परिजनास्त्वां समुत्सारयेरन्
कूजां किञ्चित् कुरु ननु गिरा व्यज्यते सन्नसंश्च ॥ ४३॥
इत्थं भक्त्या पुरमथनमाराध्य लब्धप्रसादः
कृष्टः कृष्टः पथि पथि सखे केरलीनां कटाक्षैः ।
उच्चैः सौधैरुडुगणगतीरूर्ध्वमुत्सारयन्तीं
फुल्लारामां प्रविश पुरलीक्ष्माभृतां राजधानीम् ॥ ४४॥
येषां वंशे समजनि हरिश्चन्द्रनामा नरेन्द्रः
प्रत्यापत्तिः पतग यदुपज्ञं च कौमारिलानाम् ।
युद्धे येषामहितहतये चण्डिका सन्निधत्ते
तेषामेषां स्तुतिषु न भवेत् कस्य वक्त्रं पवित्रम् ॥ ४५॥
पुत्रस्यासौ प्रियसख इति प्रीतिगर्भैः कटाक्षै-
र्दृष्टस्तस्यां पुरि विहरता रुक्मिणीवल्लभेन ।
तस्यैवाग्रे सदयमबलालूनसूनप्रवाले
बालोद्याने क्वचन विहरन् मार्गखेदं विजह्याः ॥ ४६॥
केलीयानक्वणितरशना कोमलाभ्यां पदाभ्या-
मालीहस्तार्पितकरतला तत्र चेदागता स्यात् ।
स्वाती नाम क्षितिपतिसुता सेवितुं देवमस्याः
स्वैरालापैस्तव पिक गिरां कापि शिक्षा भवित्री ॥ ४७॥
तामायान्तीं स्तनभरपरित्रस्तभुग्नावलग्नां
स्वेदच्छेदच्छुरितवदनां श्रोणिभारेण खिन्नाम् ।
किञ्चिच्चञ्चूकलितकलिकाशीथुभारेण सिञ्चे-
श्चञ्चच्चिल्लीचलनसुभगान् लप्स्यसेऽस्याः कटाक्षान् ॥ ४८॥
कञ्चित्कालं धुतकिसलयाच्छादनं सप्रकम्पं
प्रत्याख्यातभ्रमरतरुणा मञ्जरी भुज्यमाना ।
यात्रोद्युक्ते सुभग भवति व्यञ्जयेदात्मसादं
मुक्ताश्च्योतन्मधुरसमिषान्मुञ्चती बाष्पलेशम् ॥ ४९॥
दिग्यातव्या यदपि भवतो दक्षिणा रक्षणार्थं
मत्प्राणानां पुनरपि सखे पश्चिमामेव यायाः ।
धूतारामं मुकुटतटिनीमारुतैस्तत्र शम्भोः
सम्पद्ग्रामं यदि न भजसे जन्मना किं भृतेन ॥ ५०॥
सौधैस्तुङ्गैर्हसदिव सुधाक्षालितै राजताद्रिं
तेजोराशेः प्रविश भवनं धूर्जटेरूर्जितं तत् ।
पार्श्वे पार्श्वे परिचितनमस्कारजातश्रमाणां
क्ष्मादेवानां क्षणमनुभवंस्तालवृन्तस्य लीलाम् ॥ ५१॥
उत्कीर्णानां कनकवलभीषूद्गतो विष्किराणां
त्यक्ताशङ्कं प्रणम गिरिशं ध्याननिष्कम्पगात्रः ।
कण्ठच्छाया प्रतिफलति किं भर्तुरित्यद्रिपुत्र्या
निध्यातः सन् कुतुकनिभृतैर्नेत्रपातैः पवित्रैः ॥ ५२॥
श्रीनन्दिभ्रूनियमितमिथोरोधमाबद्धसेवान्
ब्रह्मेन्द्राद्यान् क्वचन विबुधान् सादरं वीक्षमाणः ।
गायन्तीनां क्वचिदपि सखे कोमलान् किन्नरीणां
वीणारावानुपशृणु भवत्कूजितेनाविशिष्टान् ॥ ५३॥
दिव्यैश्वर्यं दिशसि भजतां वर्तसे भिक्षमाणो
गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ ।
कृत्स्नं व्याप्य स्फुरसि भुवनं मृग्यसे चागमान्तैः
कस्ते तत्त्वं प्रभवति परिच्छेत्तुमाश्चर्यसिन्धो ॥ ५४॥
इत्थं स्तुत्वा बहिरुपवनोपान्तमाकन्दशृङ्गे
यावद्भानुर्व्रजति चरमं भूधरं तावदास्स्व ।
द्रक्ष्यस्यन्वक्सफलनयनं ताण्डवानीन्दुमौले-
र्लास्यक्रीडाललितगिरिजापाङ्गसम्भावितानि ॥ ५५॥
तस्मिन् काले बलिमहजुषां वारवामालकानां
स्थालीचक्रे स्तनतटधृते सानुरागे हृदीव ।
बिम्बव्याजाद्विशति भवति स्यादमुष्येति शङ्के
स्पष्टाङ्कस्य क्षणमुदयगस्येन्दुबिम्बस्य लक्ष्मीः ॥ ५६॥
विष्वक्कीर्णैरिव पशुपतेः कन्धराकान्तिपुञ्जै-
र्वीतालोके जगति तिमिरैर्व्योमनीलाब्जभृङ्गैः ।
विश्रान्तः सन् क्वचन विपुले वृक्षशाखाकुटुम्बे
तां तत्रैव क्षपय रजनीं श्रान्तविस्रस्तपक्षः ॥ ५७॥
वेलावाताश्चरमजलधेर्वीचिमान्दोलयन्तः
स्तोकोन्निद्रैः कुमुदमुकुलैः पीतमुक्ताः सरस्सु ।
स्वेदाङ्कूरान् सुरतजनितान् सुभ्रुवां चोरयन्तः
सेविष्यन्ते निशि परभृत त्वां सुखेन प्रसुप्तम् ॥ ५८॥
प्राप्तोन्मेषे प्रथमशिखरिप्रस्थदावाग्निकल्पे
बालाशोकस्तबकरुचिरे भानवीये मयूखे ।
प्रस्थातुं त्वं पुनरपि सखे प्रक्रमेथाः प्रभाते
स्वात्मक्लेशः सुहृदुपकृतौ त्वादृशानां सुखाय ॥ ५९॥
पद्मोपान्तादुषसि रमणे प्राप्नुवत्येव पार्श्वं
मध्ये मारज्वरपरवशां वीक्षमाणो रथाङ्गीम् ।
दूरं प्राप्ते मयि विधिवशाद्दूयमानां सखीं ते
स्मारं स्मारं द्विगुणगमनोत्साह एव ध्रुवं स्याः ॥ ६०॥
दृष्ट्वा देवं परिसरजुषं शम्बरे बालकृष्णं
लोपामुद्रासखतिलकितं दिङ्मुखं भूषयिष्यन् ।
कोलानेलावनसुरभिलान् याहि यत्र प्रथन्ते
वेलातीतप्रथितवचसः शङ्कराद्याः कवीन्द्राः ॥ ६१॥
उन्मज्जद्भिः पुनरिव जवात् पक्षवद्भिर्गिरीन्द्रै-
र्वृन्दैर्नावां भुजपटलिकोड्डामरैर्गाह्यमानम् ।
लक्ष्मीजानेः शयनसदनं पुष्पवाटं पुरारेः
पाकस्थानं निखिलमरुतां पश्य वारान्निधानम् ॥ ६२॥
मुक्ताजालैर्धवलपुलिनं वीचिमालाविकीर्णैः
कूलाध्वानं कुसुमिततरुस्निग्धमालम्बमानः ।
देशाद्देशं व्रजसि कुतुकोत्तानमुग्धाननानां
वामाक्षीणां नयनचुलकैः सादरं पीयमानः ॥ ६३॥
कुर्यात् प्रीतिं तव नयनयोः कुक्कुटक्रोडनाम
प्रासादाग्रोल्लिखितगगनं पत्तनं तत् प्रतीतम् ।
यद्दोर्वीर्यद्रढिमकरदीभूतराजन्यवीराः
शूराग्रण्यः शिखरिजलधिस्वामिनः पालयन्ति ॥ ६४॥
गेहे गेहे नवनवसुधाक्षालितं यत्र सौधं
सौधे सौधे सुरभिकुसुमैः कल्पितं केलितल्पम् ।
तल्पे तल्पे रसपरवशं कामिनीकान्तयुग्मं
युग्मे युग्मे स खलु विहरन् विश्ववीरो मनोभूः ॥ ६५॥
व्यर्थं कर्णे नवकुवलयं विद्यमाने कटाक्षे
भारो हारः स्तनकलशयोर्भासुरे मन्दहासे ।
यत्र स्निग्धेष्वपि कचभरेष्वेणशाबेक्षणानां
माद्यद्भृङ्गे सति परिमले मङ्गलाय प्रसूनम् ॥ ६६॥
यत्र ज्ञात्वा कृतनिलयनामिन्दिरामात्मकन्यां
मन्ये स्नेहाकुलितहृदयो वाहिनीनां विवोढा ।
तत्तद्द्वीपान्तरशतसमानीतरत्नौघपूर्णं
नौकाजालं मुहुरुपहरन् वीचिभिः श्लिष्यतीव ॥ ६७॥
तत्सौधाग्रेष्वरुणदृषदां सान्द्रसिन्दूरकल्पं
तेजःपुञ्जं किसलयधिया चर्वितुं मारभेथाः ।
दृष्ट्वा वातायनविनिहितैर्लोचनाब्जैस्तरुण्यो
वल्गद्वक्षोरुहमुपचितैर्हस्ततालैर्हसेयुः ॥ ६८॥
कृष्ट्वा दृष्टिं कथमपि ततः कौतुकानां निदाना-
दुड्डीयेथाः पथि विटपिनां पुष्पमाध्वीं लिहानः ।
हारं हारं मदनपृतनाकाहलैः कण्ठनादै-
रुत्कण्ठानां जनपदमृगीलोचनानां मनांसि ॥ ६९॥
ब्रह्माभ्यासप्रशमितकलीन् प्राप्य दीप्रान् प्रकाशान्
श्वेतारण्यं व्रज बहुमतं धाम मृत्युञ्जयस्य ।
दृष्ट्वा दूरे सकृदपि जना यन्न पश्यन्त्यवश्यं
मृत्योर्वक्त्रं निटिलघटितभ्रूकुटीकं कदाचित् ॥ ७०॥
सेव्यं शम्भोररुणमुरसस्ताडनाद्दण्डपाणेः
पादाम्भोजं शिखरितनयापाणिसंवाहयोग्यम् ।
येनाक्रान्ते सति गिरिपतौ लोष्टमानास्यचक्र-
श्चक्रन्दाधःकृतभुजवनो रक्षसां चक्रवर्ती ॥ ७१॥
पार्श्वे यस्य प्रवहति निला नाम कल्लोलिनी सा
सन्ध्यानृत्तभ्रमिषु पतिता मस्तकाज्जाह्नवीव ।
नावाक्षेत्रप्रणयि रमयाक्रान्तदोर्मध्यमास्ते
कूले यस्याः कुवलयदलश्यामलं धाम किञ्चित् ॥ ७२॥
साकं कान्तैर्मिलति ललितं केरलीनां कदम्बे
मत्प्रेयस्याः प्रियसख महामाघसेवागतायाः ।
पायं पायं मुखपरिमलं मोहनं यत्र मत्ताः
प्रायोऽद्यापि भ्रमरकलभा नैव जिघ्रन्ति पद्मान् ॥ ७३॥
शैवालौघच्छुरितकमला सैकतस्रंसिहंसा
नीता कार्श्यं तपनकिरणैर्वासरेष्वेषु सिन्धुः ।
आकीर्णास्यामलकनिकरैः श्रोणिविभ्रंशिकाञ्चीं
मन्ये दीनां विरहदशया प्रेयसीं मेऽनुयायात् ॥ ७४॥
शास्ता तस्या यदि तटपथैः शम्बरक्रोडवासी
तिष्ठन्नश्वे जविनि मृगयाकौतुकी सञ्चरेत ।
लुम्पेस्तस्य श्रमजलकणान् कोमलैः पक्षवातै-
र्भूयात् प्रीत्यै लघु च समये सेवनं हि प्रभूणाम् ॥ ७५॥
सर्वोत्कृष्टा जगति विदिताः केरलेषु द्विजेन्द्रा
वल्लीकौण्योस्तदपि महिमा कापि मध्यश्रितानाम् ।
तत्राप्यस्याः सलिलपवना यत्र यत्र प्रथन्ते
तेषां तेषामतिशयजुषः शीलविद्यानुभावाः ॥ ७६॥
ईष्टे तेषां स्तुतिषु न गुरुः का कथाल्पीयसां नो
भ्रातर्भूयः शृणु परिमितं प्रस्तुताद्यावशेषम् ।
तामुत्तीर्णः सरितममृतस्यन्दिमाकन्दवृन्दान्
देशान् पूतान् पत गुणगणैर्नेत्रनारायणीयैः ॥ ७७॥
यः प्राक्पाणिग्रहणसमये शम्भुना सानुकम्पं
हस्ते कृत्वा कथमपि शनैरश्मपृष्ठे न्यधायि ।
द्रष्टव्योऽसौ किसलयमृदुर्मुक्तिपुर्यालयायाः
कात्यायन्या महिषमथनोड्डामरः पादपद्मः ॥ ७८॥
किञ्चित्पूर्वं रणखलभुवि श्रीमदध्यक्षयेथा-
स्तन्मीमांसाद्वयकुलगुरोः सद्म पुण्यं महर्षेः ।
विद्वद्वृन्दे विवदितुमनस्यागते यत्र शश्व-
द्व्याख्याशालावलभिनिलयस्तिष्ठते कीरसङ्घः ॥ ७९॥
शास्त्रव्याख्या हरिहरकथा सत्क्रियाभ्यागताना-
मालापो वा यदि सह बुधैराक्षिपेदस्य चेतः ।
तद्विस्रब्धद्विजपरिवृते निष्कुटाद्रौ निषण्णः
कोकूयेथाः स खलु मधुरां सूक्तिमाकर्ण्य तुष्येत् ॥ ८०॥
श्लाघ्यच्छन्दस्थितिमयि मया शोभनेऽर्थे नियुक्तं
श्राव्यं शब्दैः सरससुमनोभाजमभ्रान्तवृत्तिम् ।
दूरप्राप्त्या प्रशिथिलमिव त्वां सखे काव्यकल्पं
धीमान् पश्येत् स यदि ननु ते शुद्ध एव प्रचारः ॥ ८१॥
पार्श्वादस्य प्रचलितवतः पावनानाहरन्तः
कुन्दस्वच्छान् वृषपतिमुखासक्तरोमन्थफेनान् ।
छिन्द्युस्तापं तव वृषपुरीसङ्गिनः शङ्कराङ्क-
क्रीडद्गौरीकचतरलनोद्गन्धयो गन्धवाहाः ॥ ८२॥
पूर्वो भागः स्तनभरनतः प्रेक्ष्यते चेच्चलाक्षः
पश्चाद्भागो ललितचिकुरो दृश्यते नो नितम्बी ।
इत्थं गौर्या युगपदुभयं द्रष्टुकामोऽष्टमूर्ति-
र्मूर्तिद्वन्द्वं वहति भगवान् यः स मुक्त्यै निषेव्यः ॥ ८३॥
भूषाभोगिश्वसितपवनैः भालनेत्रे प्रदीप्ते
स्विन्नस्येन्दोरमृतपृषतैरूर्जितं निर्गलद्भिः ।
मौलौ यस्य द्रुहिणशिरसां मण्डलं मण्डपान्तः-
क्ष्मादेवानां श्रुतिपदजुषां संशयानुच्छिनत्ति ॥ ८४॥
द्वारोपान्तस्थितिकृदणिमापाङ्गदत्तेहितार्थै-
राशापालैर्निबिडितबहिःप्राङ्गणं सेवमानैः ।
तस्यादूरे कनकभवनं पक्षपातात् प्रविष्टः
सम्पन्मूर्तिं प्रणम गिरिजां सा हि विश्वस्य माता ॥ ८५॥
संसर्पद्भिस्तनुरुचिभरैः सङ्गमग्रामशौरे-
स्तापिञ्छाभैः स्तबकिततलं गाहमानो विहायः ।
तुल्यच्छायस्मृतनवतमालावलीवाससौख्यो
मन्ये लोकैः क्षणमिव पृथङ्नो विभाविष्यसे त्वम् ॥ ८६॥
कालीवासं भज पथि महत् काननं यत्र शश्वत्
सेवायाते त्रिदशनिकरे श्राद्धदेवौपवाह्यम् ।
भूतैर्भेद्यो बलिमहिष इत्युद्भटैः कृष्टशृङ्गे
रज्जुग्राहं रुदति विजया रूढहासं रुणद्धि ॥ ८७॥
रम्यां हर्म्यध्वजपटमरुद्वीजितब्रध्नयुग्या-
मग्रे पश्याञ्जनखलपुरीमाश्रितां शङ्करेण ।
यत्राश्लिष्टो वरयुवतिभिश्चुम्बति स्विन्नगण्डं
चूर्णीवातः प्रिय इव रतिश्रान्तमास्यारविन्दम् ॥ ८८॥
सा च प्रेक्ष्या सरिदनुपदं यत्र कल्माषितायां
मज्जन्माहोदयपुरवधूकण्ठकस्तूरिकाभिः ।
रक्ताः पद्माः कुवलयवनीसाम्यमापद्यमाना
विज्ञायन्ते स्फुटमहिमधामोदये जृम्भमाणे ॥ ८९॥
चारुस्वच्छा शफरनयना चक्रवाकस्तनश्रीः
कल्लोलभ्रूः कमलवदना कम्रशौवालकेशा ।
संसेव्या स्यात् सरसमधुरा सानुकूलावतीर्णै-
र्दुर्गाहान्यैरिति हि सरणिः कापि गाम्भीर्यभाजाम् ॥ ९०॥
त्वय्याकाशे सुभग तटिनीं लम्बमाने सलीलं
बिम्बं दृष्ट्वा पयसि मणिभङ्गामले कम्पमानम् ।
वीचीवेगप्रचलदसिताम्भोजिनीगुच्छबुद्ध्या
कूजं कूजं मधुरमलयः कोकिल व्यालपेरन् ॥ ९१॥
तीरं तस्याः प्रति गतवतो दक्षिणं तत्क्षणं ते
देशः सर्वातिशयिविभवो दृक्पथेतः प्रथेत ।
तां जानीया दिशि दिशि जयन्ताख्यया ख्यायमानां
प्रत्यादिष्टत्रिदिवनगरप्राभवां प्राप्यभूमिम् ॥ ९२॥
बालोद्यानैः समदमहिलाभुक्तवल्लीनिकुञ्जैः
केलीहंसक्षुभितनगरभ्रान्तभृङ्गैः सरोभिः ।
रत्नश्रेणीघटितशिखरैगोपुरैः सा पुरी ते
प्रायः प्रज्ञाभरण सुगमा स्यादनावेदितापि ॥ ९३॥
उत्तरभागः
लक्ष्मीजन्मस्थितिमनुपमैः पूरितां रत्नजालै-
र्भूभृद्गर्भां प्रकटितकलेशोदयश्लाघ्यवृद्धिम् ।
पाथोराशेस्तनुमिव परां मन्यमानो विशालां
यामध्यास्ते स खलु निगमाम्भोजभृङ्गो रथाङ्गी ॥ १॥
वक्त्रौपम्यं वहति विमलं पश्य पार्श्वे सुधांशोः
पश्चाद्भागं सुमुखि रमणैरित्थमावेद्यमानाः ।
हर्म्ये यस्यां हरिणनयनाः कुर्वतेऽस्मिन् कलङ्कं
दृष्ट्वा सेर्ष्या इव कुवलयाध्येयशोभैरपाङ्गैः ॥ २॥
वीथ्यां वीथ्यां वलरिपुशिलाभङ्गबद्धस्थलायां
सम्मूर्छद्भिः किरणपटलैस्त्वद्गरुज्जालनीलैः ।
यत्रारब्धे दिनकरकरैरप्यहार्येऽन्धकारे
लोलाक्षीणां भवति दिवसे निर्विशङ्कोऽभिसारः ॥ ३॥
यस्यां रात्रौ युवतिवदनाम्भोजसौन्दर्यचौर्यात्
सत्यं सौधध्वजपटशिखाघृष्टबिम्बे हिमांशौ ।
दृष्ट्वा कृष्णं किणमणिकणं हन्त गाढं प्ररूढं
मूढो लोको वदति शशको रोहितोऽन्यत्तथेति ॥ ४॥
वीचीक्षिप्ता इव सुरधुनीबालशैवालमाला
यत्रोदीर्णा मरतकरुचश्चन्द्रशालातलेभ्यः ।
घासभ्रान्त्या गगनपदवीदीर्घपान्थायमाना-
श्चञ्चत्प्रोथं तरणितुरगाश्चर्वितुं प्रारभन्ते ॥ ५॥
यत्रोद्याने मलिनितदिशाकुञ्जपुञ्जे तरूणां
शृङ्गे लग्ना भ्रमरपटलीनिर्विशेषाः पयोदाः ।
वापीष्वम्बून्यधिकसुरभीण्युत्सृजन्ति स्वकाले
सोपानाग्रस्फटिककिरणोज्जृम्भणाम्रेडितानि ॥ ६॥
अन्यामग्रे मम मणिगृहे भुक्तवानित्यवादी-
र्मुग्धे कान्तो धृतनखपदा भित्तिलीना किमेषा ।
इत्थं यस्यां स्मितलवजुषो ह्रेपयन्ते नवोढां
सख्यस्तस्यास्तनुमनुपमां बिम्बितां दर्शयन्त्यः ॥ ७॥
चिल्लीवल्या धनुषि घटिते क्षिप्त एवेक्षुकाण्डो
नेत्रोपान्ते वहति शरतां न्यस्तमेवारविन्दम् ।
रोमावल्यामपि गुणदशां यत्र बिम्बाधराणां
बिभ्राणायां मदनविभुना भ्रंशितैवालिमाला ॥ ८॥
शृङ्गाराब्धिप्लव इव गलद्वेणि कम्प्रस्तनं तत्
भ्रश्यन्नीवि स्थितमिति विटा वीक्ष्य संश्लिष्य यत्र ।
मुग्धाक्षीणां मुकुलितदृशां मोहनाडम्बरान्ते
भूयः श्रान्तं पुनरपि रतोद्योगमुद्वेलयन्ति ॥ ९॥
यस्यां मेघा हरिमणिशिलाहर्म्यपर्यन्तभाजो
न ज्ञायेरन् श्रवणसुभगं गर्जितं चेन्न दद्युः ।
विद्युद्वल्ली पुनरपि नवारब्धसंभोगलीला-
वेल्लत्कान्ताविपुलजघनस्रस्तकाञ्चीसमैव ॥ १०॥
तस्यां लक्ष्मीरमणनिलयं दक्षिणेनेक्षणीयं
मत्कान्तायाः सदनमभितो वेष्टितं रत्नसालैः ।
मध्ये सौधं कनकघटितं बिभ्रदूढच्छदौघे
यस्मिन्नम्भोरुह इव कनत्कर्णिके खेलति श्रीः ॥ ११॥
माहाभाग्यं रतिपतिभुजाडम्बरः पौनरुक्त्यात्
कल्याणौघः स्फुरति रसिकानन्तताप्यत्र हीति ।
एषामाद्यक्षरगणमुपादाय बद्धेन नाम्ना
मान्यं मारक्करनिलयनं यत्कवीन्द्रा गृणन्ति ॥ १२॥
लीलावापी लसति ललिता तत्र सोपानमार्गे
माणिक्यांशुस्फुरणसततस्मेरनालीकषण्डा ।
यत्रायान्त्याः पयसि विमले स्नातुमस्मत्प्रियाया
मन्ये यानाभ्यसनविधये मल्लिकाक्षा वसन्ति ॥ १३॥
तस्यास्तीरे पुनरुपवनं तत्र चूतोऽस्ति पोत-
स्त्वज्जतीयैः पिक परिवृतः पल्लवास्वादलुब्धैः ।
पार्श्वे चास्य स्तबकनमिता माधवीमुग्धवल्ली
प्रेयस्या मे परिणयमहं प्रापितौ सादरं यौ ॥ १४॥
तस्यादूरे मरतकतले हेमबद्धालवालः
सिक्तो मूले हिमजलभरैश्चम्पकः कश्चिदास्ते ।
लब्ध्वा सख्यास्तव स सुकृती स्मेरवक्त्राब्जरागं
सूते तस्यास्तनुलतिकया तुल्यवर्णं प्रसूनम् ॥ १५॥
क्रीडानृत्ते भवनशिखिनां दूरमुक्ताहिसङ्गा
सान्द्रच्छायाहृतरविकरा तत्र पाटीरवाटी ।
मध्ये तस्यां स खलु लतिकामण्डपो रत्नभूमिः
शश्वद्यस्मिन् किमपि वलति स्मावयोः प्रेमवल्ली ॥ १६॥
स्निग्धस्कन्धस्रुतमधुरसः किञ्च तस्योपकण्ठे
कूजद्भृङ्गः कुरवकतरुर्यः कुरङ्गेक्षणायाः ।
काले काले करिकरशिरोविभ्रमाभ्यां भुजाभ्या-
माश्लिष्टाङ्गो वहति मुकुलच्छद्मना रोमभेदान् ॥ १७॥
स्थानेष्वेषु क्वचन कथितेषूत्सुका पुष्पशय्या-
मध्यासीना परिजनकृतां सा न चेदीक्षिता स्यात् ।
प्रासादोऽस्याः परमभिमतः कोऽपि माहेन्द्रनील-
स्तस्मिन् दृश्या तटिदिव घने चारुरूपा प्रिया मे ॥ १८॥
सा नेत्राणाममृतगुलिका सृष्टिसारो विधातुः
सौन्दर्येन्दोः प्रथमकलिका दीपिका भूतधात्र्याः ।
कन्दर्पस्य त्रिभुवनविभोः काञ्चनी केतुयष्टिः
शृङ्गाराब्धेः शशधरकला जीवितं मे द्वितीयम् ॥ १९॥
पश्यन्नेनां बहलसुषमामण्डलान्तर्निमग्नां
मध्येऽन्यासामपि चलदृशां ज्ञास्यसे नो कथं त्वम् ।
ज्तोत्स्नाजालस्नपितभुवना तारकाणां समीपे
चान्द्री मूर्तिः कथय जगतो ज्ञाप्यते केन रात्रौ ॥ २०॥
सान्द्रामोदस्तिमिरनिकरश्चन्द्रमा निष्कलङ्कः
शैलौ हैमौ भ्रमरपटलीकीलितो व्योमभागः ।
कम्रं चक्रं मृदुकरिकरद्वन्द्वमब्जे सलीले
सर्वं चैतन्मदनघटितं सौम्य सम्भूय साभूत् ॥ २१॥
नीचीकुर्वन्त्यलसवलिता नेत्रपाताः कुरङ्गान्
वीचीगर्वं हरति निखिलं विभ्रमान्दोलिता भ्रूः ।
पाणी कल्पद्रुमकिसलयप्राभवं न क्षमेते
वाणी तस्या वहति भवतां पञ्चमैर्बालमैत्रीम् ॥ २२॥
सा कान्तिश्चेद्द्रवति कनकं तन्मुखं चेत् क इन्दुः
सा चेद् बिम्बाधरमधुरता तिक्ततामेति माध्वी ।
सा वा तस्या यदि तनुलता मालती लोहतुल्या
तौ चेदूरू कनककदलीस्तम्भयोः क्वापि डम्भः ॥ २३॥
उक्तेष्वेव प्रसजति पुनर्नव्यलावण्यसारे-
ष्वङ्गेष्वस्या मम कथयतो हन्त वाचां प्रवृत्तिः ।
तादृग्भूते मनसि विवशे किन्नु कुर्वीत सेयं
यद्यच्चेतो विमृशति गिरां तत्तदेवाभिधेयम् ॥ २४॥
अद्य प्रायः प्रणयिनि मयि प्रोषिते भाग्यदोषात्
कल्पप्रायैरहह दिवसैरेभिरुत्कण्ठमाना ।
सञ्जायेत प्रबलविरहोद्वेजिता पेशलाङ्गी
मूर्छद्घर्मज्वरपरवशा नीलकण्ठीव खिन्ना ॥ २५॥
यत्रापाङ्गद्युतिकवचिते किञ्चिदुत्सार्य केशान्
दत्तः प्रेम्णा दिनमनु मया दीर्घिकारक्तपद्मः ।
तस्मिन्नस्या भवति नियतं हन्त चिन्ताकुलाया
गण्डन्यस्तः करकिसलयः कर्णजाहेऽवतंसः ॥ २६॥
पक्ष्मस्पन्दः समजनि सखे पश्यतोर्मां ययोः प्राङ्-
निष्पत्राकृन्मयि तु विधिना तादृशे दूरनीते ।
अन्तर्बाष्पच्छुरणनिभृते साम्प्रतं ते मृगाक्ष्या
नेत्रे धत्तस्तुहिनकणिकादन्तुराम्भोजदैन्यम् ॥ २७॥
सान्द्रामोदं सपटु सदयं सस्मरं सानुतर्षं
सम्भोगान्ते मुहुरपि मया सादरं चुम्बितो यः ।
नर्मालापस्मितलवसुधासेचनैर्मुच्यमान-
स्ताम्यत्युष्णश्वसितपवनैः सोऽति बिम्बाधरोऽस्याः ॥ २८॥
क्रीडाशैलौ मदननृपतेः कान्तिपूरस्य कोकौ
स्यातां तस्या ध्रुवमुरसिजौ किञ्चिदापाण्डुमूलौ ।
मद्विश्लेषः शरदुडुनिभां त्याजयन् हारमालां
मन्ये भीतो वितरति तयोरश्रुधाराभिरन्याम् ॥ २९॥
भूषास्वास्थां यदपि जहती तां वहत्येव काञ्चीं
ग्राहं ग्राहं पृथु पृथु मया मौक्तिकं गुम्भिता या ।
श्रोणीबिम्बे सुमहति तया भूषिते कोमलाङ्ग्याः
सालावीतां स किल मदनो मन्यते राजधानीम् ॥ ३०॥
मच्चिताख्यद्विपनियमनालानयोर्द्वन्द्वमूर्वोः
श्रोणीभारादलसमधुना जायते खिन्नखिन्नम् ।
आरब्धानां हर हर मया यत्र संवाहनानां
नित्यं जाता निरवधिरसाः केऽपि केऽप्यन्तरायाः ॥ ३१॥
आद्वारान्तं मदभिगमनाशङ्कया चञ्चलाक्ष्या
यातायातैः किसलयनिभौ क्लिश्यतः पादपद्मौ ।
मिथ्यागोत्रस्खलनमसकृत् प्रस्तुतं हन्त याभ्यां
लब्धुं पादप्रणतिषु मया हन्त सन्ताडनानि ॥ ३२॥
यद्यप्यस्याः क्रशयति वपुर्वल्लरीं दीप्यमानो
विश्लेषाग्निर्द्विगुणयति तां किन्तु लावण्यलक्ष्मीम् ।
तप्तां तप्तां नयति नितरां तानवं जातवेदा
हैमीं लेखामपि तु जनयत्येव वर्णप्रकर्षम् ॥ ३३॥
पृथ्वीरेणूनलकनिकरे नेत्रयोर्बाष्पपूरं
हस्ते गण्डं सितबिसलताहारजालं स्तनाग्रे ।
श्रोण्यां क्षौमं मलिनमसृणं सा वहत्येव हन्ते-
त्यास्तामेतद्बहुविलपितैर्मास्तु कालातिपातः ॥ ३४॥
स्थित्वा चूते प्रथमकथिते मुग्धकान्ताधराभं
दष्ट्वा स्वैरं किसलयमथ प्रेक्षणीया त्वया सा ।
पृच्छन्ती वा मलयवपनं प्रश्रयान्मत्प्रवृत्तिं
मद्वृत्तान्तं कथय कठिनस्येति वा प्रार्थयन्ती ॥ ३५॥
छिन्ते तापं हिमजलमयी चान्दनी किन्नु चर्चा
मन्दस्पन्दाः किमु सुखकरा मारुताश्चामराणाम् ।
पृच्छन्तीनामिति सवयसां सातिरेकेऽपि तापे
स्मित्वा रम्यं सकलमिति वा चित्तमाश्वासयन्ती ॥ ३६॥
प्रस्पन्दन्ते मलयपवना रुन्धि जालं कवाटैः
शम्भोर्नाम्ना शरगणमुचं भीषयेः पञ्चबाणम् ।
जीवञ्जीवं विसृज चरितुं चन्द्रिके चन्द्रिकाया-
मित्थं चेटीं सजलनयनामादिशन्ती मुहुर्वा ॥ ३७॥
प्राप्तालम्बा परिजनकरैः प्राप्य वा चित्रशालां
मुग्धा स्वस्याश्चरणपतितं वेति तं मां निरीक्ष्य ।
एह्युत्तिष्ठ प्रिय न कुपितास्मीति बाष्पाकुलाक्षी
गाढाश्लेषप्रचलितकरा रुध्यमाना सखीभिः ॥ ३८॥
कोपं चण्डि त्यज परिजने दैवमत्रापराद्धं
येनाकाण्डे समघटि महानावयोर्विप्रयोगः ।
इत्थं बद्धाञ्जलि कृतरुषं भावितामग्रतस्तां
साहंभूता प्रियचटुशतैरुद्यता वानुनेतुम् ॥ ३९॥
गण्डालम्बैर्लुलितमलकैर्धूसरैर्वक्त्रबिम्बं
दृष्ट्वा शुद्धस्फटिकघटिते बिम्बितं भित्तिभागे ।
अन्तर्गेहं जलदशकलैरावृतो रोहिताङ्कः
केनानीतः पुर इति भिया व्याहरन्ती सखीर्वा ॥ ४०॥
निद्रां प्राप्ता कथमपि चिरात्तत्र चालोकिनी मां
शून्याश्लेषं विरचितवती हन्त घातात् कुचाद्र्योः ।
निर्भिन्दाना निजकरधृतं कङ्कणं स्रस्तशेषं
पश्यन्तीनां नयनकमले बध्नती वा सखीनाम् ॥ ४१॥
वक्ति ध्वाङ्क्षः सुहृदुपगमं दक्षिणे क्षीरवृक्षे
वामं नेत्रं स्फुरति सुचिरादुच्छ्वसित्यद्य चेतः ।
किञ्च स्वानः श्रवणमधुरो जायते कोकिलानां
प्राणेष्वाशामिति कथमपि भ्रातराबध्नती वा ॥ ४२॥
मुक्त्वा जीवाम्यसुसममिति व्रीलिता विस्मिता वा
तत्सङ्गाशा पुनरिह परं हेतुरित्यासिता वा ।
शोचन्ती मां दयितमथवा विप्रयोगासहिष्णुं
स्त्रीणां चेष्टास्विति हि विरहोत्थासु दिङ्मात्रमेतत् ॥ ४३॥
गाढाश्लेषव्यतिकररसग्रन्थनादूयमानः
सम्भोगान्ते स्वपनविधये यः पुरा धूयते स्म ।
कण्ठोत्सङ्गान्मम स विधिना वैरिणा दूरकृष्टो
वामो बाहुस्त्वयि सविधगे यास्यति स्पन्दमस्याः ॥ ४४॥
वक्तुर्वक्त्रं तमसि भवतो नैव दृश्येत रात्रा-
वामध्याह्नं भवति नियमव्याकुला वासरे सा ।
सह्यस्पर्शे सति रविकरे तामसह्यस्मरार्तिं
मत्सन्देशं मणिवलभिकामाश्रितः श्रावयेथाः ॥ ४५॥
त्यक्त्वा चूतानपि कुसुमितानागतो मत्समीपं
किन्न्वेष स्यात् कमपि कुशलोदन्तमाख्यातुकामः ।
इत्यालीभिर्भृतजलकणं पाणिनामृष्टनेत्रं
दृष्टः स्पष्टाक्षरमिति शनैः शंसितुं प्रक्रमेथाः ॥ ४६॥
अम्लाना ते जयति कमनीयाङ्गि मङ्गल्यभूषा
पत्युः पार्श्वात् सुहृदहमुपेतोऽस्मि सन्देशहारः ।
जातं विद्धि श्रुतिसुखगिरां कोकिलानां कुले मां
ये पञ्चेषोः किमपि पथिकाकर्षणं षष्ठमस्त्रम् ॥ ४७॥
चोलेष्वास्ते सुमुखि कुशली त्वत्प्रियः पृच्छति त्वां
कच्चित् क्षेमं भजति भवतीत्यात्तवाचं भवन्तम् ।
भूयोभूयः कथय कथयेत्यालपन्त्यश्रुमिश्रैः
प्रीतिस्मेरैर्मदिरनयना मानयिष्यत्यपाङ्गैः ॥ ४८॥
एवं ब्रूयाः पुनरजनि यः प्रेमकोपे मिथो वां
जाते मौने चपलचपलस्तत्क्षणं पूर्वमुक्त्याम् ।
तादृक्प्रेम्णश्चिरविरहिणः प्राणनाथस्य वाणी
सेयं मत्तः श्रवणसरसा श्रूयतां श्राव्यबन्धा ॥ ४९॥
कल्याणाङ्गि प्रियसहचरीं त्वामनासादयद्भि-
र्बाह्यैरक्षैः सह परमहं यामि कामप्यवस्थाम् ।
धन्यं चेतः पुनरिदमहोरात्रमन्यानपेक्षं
त्वय्यामग्नं बत ननु पृथग्भाग्यमप्येकजानाम् ॥ ५०॥
माद्यद्भृङ्गैः कुमुदपवनैस्तर्ज्यमानस्य घोरै-
रातङ्काख्ये सरसि लुठतो हा निशीथे निशीथे ।
निद्रामूके जगति रुदति श्वासचिन्ताजुषो मे
सङ्क्रन्दन्तश्चटुलनयने चक्रवाकाः सहायाः ॥ ५१॥
मोहाद्वैतं विहरति धृतिर्लीयते जाड्यमीने
भात्युन्मादो भ्रमति मतिरित्यादि सोऽहं न वेद्मि ।
बाणं मुञ्चन् परिसरचरो न स्वपन् नापि खादन्
कृत्स्नं जानात्यलसगमने केवलं पञ्चबाणः ॥ ५२॥
काले चास्मिन् कनदलिभृतः कम्पिताग्रप्रवालाः
कम्रा वल्ल्यः किमपि मरुता चुम्बिता दक्षिणेन ।
किञ्चिद्दष्टाधरकिसलयां प्राङ्मया भोगकाले
सीत्कुर्वाणां धुतकरतलां त्वां प्रिये स्मारयन्ति ॥ ५३॥
अंसालम्बिश्लथकचभरं हस्तरुद्धाम्बरान्तं
प्राक्क्रीडान्ते तव मणिगवाक्षोपकण्ठेषु चारम् ।
स्मारं स्मारं कथमपि मया मुह्यता सह्यतेऽसौ
मन्दो वायुः सुतनु बकुलोद्भेदसौरभ्यबन्धुः ॥ ५४॥
तीर्त्वा रात्रिं विरहमहतीं तीव्रतापां कथञ्चि-
द्दृष्ट्वा भानोः किरणमरुणं जम्भशत्रोर्दिगन्ते ।
प्रत्युद्यान्तीं त्वरितमबलां श्लिष्यते भाग्यसीम्ने
सारङ्गाक्षि स्पृहयति मनो हन्त चक्राख्ययूने ॥ ५५॥
उत्कण्ठोऽस्मि त्वदुदितधिया मुग्धहंसीनिनादे
त्वद्भूषायां हरिति सततं लोचने पातयामि ।
त्वत्संस्पृष्टे मम च वपुषि प्रेम बध्नामि कान्ते
सत्यं प्राणानपि परमहं त्वत्प्रियान् धारयामि ॥ ५६॥
त्वं चाहं च क्षितिमुपगतावित्यविश्लेषचिन्ता
निन्दावन्तौ स्मर इति मिथो वाक्यसम्भेदसौख्यम् ।
स्पृश्येते नौ निशि शशिकरैरङ्गके यौगपद्यात्
तेनाप्यस्ति द्विरदगमने सत्यमाश्लेषबुद्धिः ॥ ५७॥
हाहन्तास्मिन्नसुलभमिथोदर्शने विप्रयोगे
सैवालम्बो मम भगवती भावनाकल्पवल्ली ।
त्वामासीनामसकृदनया गाढमालिङ्ग्य रागा-
दङ्कारूढामलघुजघने नोचितं वक्तुमन्यत् ॥ ५८॥
जातं चेतो मदनसुभटस्याद्य योग्यं शरव्यं
नैकच्छिद्रं नियतममुतः सुभ्रु विभ्रंशि धैर्यम् ।
कालात् क्षीणे पुनरवयवे वर्धते केवलं नो
तापस्तीव्रस्मरहुतभुजा तस्य वर्णोद्गमोऽपि ॥ ५९॥
एवंप्राया न हि न विरहे जीवितुं सन्त्युपायाः
सत्यं तैस्तैः कृतधृतिरहं प्राणिमि प्राणनाथे ।
निश्चित्यैवं निरुपमगुणे साहसेभ्यो निवृत्ता
त्वं च स्नानादिषु सवयसां प्रार्थनां मा निषेधीः ॥ ६०॥
तीर्णप्रायो विरहजलधिः शैलकन्याप्रसादा-
च्छेषं मासद्वितयमबले सह्यतां मा विषीद ।
धूपोद्गारैः सुरभिषु ततो भीरु सौधान्तरेषु
क्रीडिष्यावो नवजलधरध्वानमन्द्राण्यहानि ॥ ६१॥
कच्चिच्चित्ते स्फुरति चपलापाङ्गि चूर्ण्यां कदाचित्
स्रस्तोत्तंसं धवलनयनं धौतबिम्बाधरोष्ठम् ।
स्नानान्ते ते मुखमुपसखि प्रेक्षमाणे मयि द्रा-
ग्वक्षोदघ्ने पयसि पुनरप्यावयोर्मज्जनं तत् ॥ ६२॥
आश्लिष्यन्तं विटपभुजया तत्र वल्लीरनेकाः
क्रीडारामे कमपि तरुणं वीक्ष्य माकन्दवृक्षम् ।
साचीकृत्य स्फुरदधरया चण्डि वक्त्रं भवत्या
सुभ्रूभङ्गः सजलकणिकः प्रेषितो मय्यपाङ्गः ॥ ६३॥
प्रत्याख्यातः प्रणयिनि रुषा बिम्बितोऽहं स्तने ते
सैरन्ध्र्यज्ञा स्थगयितुमभूच्चन्दनेन प्रवृत्ता ।
मा पाटीरं पुलकिनि पुनश्चात्र लिम्पेति शंस-
त्यालीवृन्दे स्मितजुषि कृता दृक्त्वया व्रीलगर्भा ॥ ६४॥
उच्चिन्वत्याः किसलयरुचा पाणिनोद्यानपुष्पं
साकं भृङ्गैस्तव मयि मुखाम्भोजसौरभ्यलुब्धे ।
रेणुत्रस्ता इव सुमनसां दक्षिणाः केलिसख्यः
कञ्चित्कालं करकिसलयैरप्यधुर्लोचनानि ॥ ६५॥
इत्येतस्मान्मम कुशलितां विद्ध्यभिज्ञानदाना-
द्भूयश्चैकं शृणु सहचरीं धूतनैकानुनीतिम् ।
केलीहंसे स्मरजुषि हठाच्चुम्बतीषत्स्तनन्तीं
त्वं तु स्मृत्वा किमपि बहलव्रीलमालोकथा माम् ॥ ६६॥
रागो नाम त्रुटति विरहेणेति लोकप्रवाद-
स्त्वत्सम्बद्धो मम शतगुणः सङ्गमाद्विप्रयोगे ।
सोऽयं भेदो विषयभिदया सङ्गमे त्वं किलैका
विश्लेषे तु त्रिभुवनमिदं जायते त्वन्मयं हि ॥ ६७॥
एतत्कृत्यं प्रियसख मम भ्रातुरार्तस्य कृत्वा
नासीरः स्या जगति करुणाशालिनां संविभागे ।
शंसन्ति त्वां ननु परभृतं शैशवे यद्भृतोऽन्यैः
पत्रिव्राताभरण भरणेनाद्य स त्वं परेषाम् ॥ ६८॥
एवं तस्या विरहविधुरं जीवितं स्थापयित्वा
गच्छ स्वेच्छाविहरण यथाप्रार्थितं दिग्विभागम् ।
मान्यश्रीः स्यान्मदननृपतेः कोकिला तेऽनुकूला
भूयान्मैवं सकृदपि तया विप्रयोगप्रसङ्गः ॥ ६९॥
Contact Venetia Ansell
www.rasalabooks.com venetia at rasalabooks.com