॥ कुमारसम्भवम् सर्गः १-८ ॥

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १।१॥ यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ १।२॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ १।३॥ यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ॥ १।४॥ आमेखलं सञ्चरतां घनानां च्छायामधःसानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥ १।५॥ पदं तुषारस्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥ १।६॥ न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥ १।७॥ यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम् ॥ १।८॥ कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥ १।९॥ वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥ १।१०॥ उद्वेजयत्यङ्गुलिपार्ष्णिभागान्मार्गे शिलीभूतहिमे ऽपि यत्र । न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ १।११॥ दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् । क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥ १।१२॥ लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः ॥ १।१३॥ यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किम्पुरुषाङ्गनानाम् । दरीगृहद्वारविलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति ॥ १।१४॥ भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः । यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः ॥ १।१५॥ सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ १।१६॥ यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १।१७॥ स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे ॥ १।१८॥ कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे । मनोरमं यौवनमुद्वहन्त्या गर्भो ऽभवद्भूधरराजपत्न्याः ॥ १।१९॥ असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् । क्रुद्धे ऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥ १।२०॥ अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी । सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ॥ १।२१॥ सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या । सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन सम्पत् ॥ १।२२॥ प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ॥ १।२३॥ तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे । विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रत्नशलाकयेव ॥ १।२४॥ दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ॥ १।२५॥ तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव । उ मेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ॥ १।२६॥ महीभृतः पुत्रवतो ऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ १।२७॥ प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥ १।२८॥ मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥ १।२९॥ तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥ १।३०॥ असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ १।३१॥ उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् । बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ १।३२॥ अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ । आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥ १।३३॥ सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नूपुरसिञ्जितानि ॥ १।३४॥ वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥ १।३५॥ नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः । लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥ १।३६॥ एतावता नन्वनुमेयशोभं काञ्चीगुणस्थानमनिन्दितायाः । आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥ १।३७॥ तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥ १।३८॥ मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ १।३९॥ अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ १।४०॥ शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः । पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥ १।४१॥ कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥ १।४२॥ चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ १।४३॥ पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततो ऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ १।४४॥ स्वरेण तस्याममृतस्रुतेव प्रजल्पितायामभिजातवाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥ १।४५॥ प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ॥ १।४६॥ तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरानतलेखयोर्या । तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ १।४७॥ लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्युर्वालप्रियत्वं शिथिलं चमर्यः ॥ १।४८॥ सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥ १।४९॥ तां नारदः कामचरः कदा चित्कन्यां किल प्रेक्ष्य पितुः समीपे । समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ १।५०॥ गुरुः प्रगल्भे ऽपि वयस्यतो ऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥ १।५१॥ अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टे ऽप्यवलम्बते ऽर्थे ॥ १।५२॥ यदैव पूर्वे जनने शरीरं सा दक्षरोषात्सुदती ससर्ज । तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहो ऽभूत् ॥ १।५३॥ स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किं चित्क्वणत्किन्नरमध्युवास ॥ १।५४॥ गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः । मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥ १।५५॥ तुषारसङ्घातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् । दृष्टः कथं चिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद ॥ १।५६॥ तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः । स्वयं विधाता तपसः फलानाम्केनापि कामेन तपश्चचार ॥ १।५७॥ अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥ १।५८॥ प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशो ऽनुमेने । विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥ १।५९॥ अवचितबलिपुष्पा वेदिसम्मार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥ १।६०॥
तस्मिन्विप्रकृताः काले तारकेण दिवौकसः । तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः ॥ २।१॥ तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् । सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ २।२,॥ अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥ २।३॥ नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ २।४॥ यदमोघमपामन्तरुप्तं बीजमज त्वया । अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ २।५॥ तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् । प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ २।६॥ स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥ २।७॥ स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते । यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ २।८॥ जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ २।९॥ आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ २।१०॥ द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ २।११॥ उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् । कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ २।१२॥ त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ २।१३॥ त्वं पितॄणामपि पिता देवानामपि देवता । परतो ऽपि परश्चासि विधाता वेधसामपि ॥ २।१४॥ त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः । वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥ २।१५॥ इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयङ्गमाः । प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥ २।१६॥ पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥ २।१७॥ स्वागतं स्वानधीकारान्प्रभावैरवलम्ब्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥ २।१८॥ किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा । हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥ २।१९॥ प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् । वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥ २।२०॥ किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ २।२१॥ कुबेरस्य मनःशल्यं शंसतीव पराभवम् । अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ २।२२॥ यमो ऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा । कुरुते ऽस्मिन्नमोघे ऽपि निर्वाणालातलाघवम् ॥ २।२३॥ अमी च कथमादित्याः प्रतापक्षतिशीतलाः । चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ २।२४॥ पर्याकुलत्वान्मरुतां वेगभङ्गो ऽनुमीयते । अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ २।२५॥ आवर्जितजटामौलि- विलम्बिशशिकोटयः । रुद्राणामपि मूर्धानः क्षतहुङ्कारशंसिनः ॥ २।२६॥ लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः । अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २।२७॥ तद्ब्रूत वत्साः किमितः प्रार्थयध्वे समागताः । मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥ २।२८॥ ततो मन्दानिलोद्धूत- कमलाकरशोभिना । गुरुं नेत्रसहस्रेण चोदयामास वासवः ॥ २।२९॥ स द्विनेत्रो हरेश्चक्षुः सहस्रनयनाधिकम् । वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥ २।३०॥ एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् । प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥ २।३१॥ भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः । उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥ २।३२॥ पुरे तावन्तमेवास्य तनोति रविरातपम् । दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥ २।३३॥ सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते । नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥ २।३४॥ व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् । न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥ २।३५॥ पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः । उद्यानपालसामान्यमृतवस्तमुपासते ॥ २।३६॥ तस्योपायनयोग्यानि रत्नानि सरितां पतिः । कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते ॥ २।३७॥ ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि । स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते ॥ २।३८॥ तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः । अनुकूलयतीन्द्रो ऽपि कल्पद्रुमविभूषणैः ॥ २।३९॥ इत्थमाराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ २।४०॥ तेनामरवधूहस्तैः सदयालूनपल्लवाः । अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥ २।४१॥ वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः । चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥ २।४२॥ उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः । आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥ २।४३॥ मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम साम्प्रतम् ॥ २।४४॥ भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते । खिलीभूते विमानानां तदापातभयात्पथि ॥ २।४५॥ यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ २।४६॥ उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च । देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥ २।४७॥ तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः । वीर्यवत्यौषधानीव विकारे सान्निपातिके ॥ २।४८॥ जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥ २।४९॥ तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु । अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥ २।५०॥ तदिच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये । कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥ २।५१॥ गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् । प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम् ॥ २।५२॥ वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः । गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या ॥ २।५३॥ सम्पत्स्यते वः कामो यं कालः कश्चित्प्रतीक्ष्यताम् । न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥ २।५४॥ इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षो ऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ २।५५॥ वृतं तेनेदमेव प्राङ्मया चास्मै प्रतिश्रुतम् । वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ २।५६॥ संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः । अंशादृते निषिक्तस्य नीललोहितरेतसः ॥ २।५७॥ स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् । परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥ २।५८॥ उमारूपेण ते यूयं संयमस्तिमितं मनः । शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ २।५९॥ उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम् । सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम ॥ २।६०॥ तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः । मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः ॥ २।६१॥ इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे । मनस्याहितकर्तव्यास्ते ऽपि प्रतिययुर्दिवम् ॥ २।६२॥ तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः । मनसा कार्यसंसिद्धि- त्वराद्विगुणरंहसा ॥ २।६३॥ अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ २।६४॥
तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात । प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥ ३।१॥ स वासवेनासनसन्निकृष्टमितो निषीदेति विसृष्टभूमिः । भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् ॥ ३।२॥ आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥ ३।३॥ केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः । यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥ ३।४॥ असम्मतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः । बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ॥ ३।५॥ अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते । कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥ ३।६॥ कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां कण्ट्ःए स्वयङ्ग्राहनिषक्तबाहुम् ॥ ३।७॥ कयासि कामिन्सुरतापराधात्पादानतः कोपनयावधूतः । यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥ ३।८॥ प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमः सुरारिः । बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्यो ऽपि कोपस्फुरिताधराभ्यः ॥ ३।९॥ तव प्रसादात्कुसुमायुधो ऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनो ऽन्ये ॥ ३।१०॥ अथोरुदेशादवतार्य पादमाक्रान्तिसम्भावितपादपीठम् । सङ्कल्पिथार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥ ३।११॥ सर्वं सखे त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च । वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं त्वं सर्वतोगामि च साधकं च ॥ ३।१२॥ अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥ ३।१३॥ आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् । निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥ ३।१४॥ अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः । स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा ॥ ३।१५॥ तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ ३।१६॥ गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ॥ ३।१७॥ तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थो ऽयमर्थान्तरभाव्य एव । अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥ ३।१८॥ तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् । अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥ ३।१९॥ सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥ ३।२०॥ मधुश्च ते मन्मथ साहचर्यादासवनुक्तो ऽपि सहाय एव । समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥ ३।२१॥ तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थे । ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ ३।२२॥ स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः । अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥ ३।२३॥ तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती । सङ्कल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥ ३।२४॥ कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य । दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥ ३।२५॥ असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां सम्पर्कमासिञ्जितनूपुरेण ॥ ३।२६॥ सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे । निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ॥ ३।२७॥ वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः । प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥ ३।२८॥ बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ ३।२९॥ लग्नद्विरेफाञ्जनभक्तिचित्रम्मुखे मधुश्रीस्तिलकं प्रकाश्य । रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलञ्चकार ॥ ३।३०॥ मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्नितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः ॥ ३।३१॥ चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ ३।३२॥ हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् । स्वेदोद्गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ ३।३३॥ तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् । प्रयत्नसंस्तम्भितविक्रियाणां कथं चिदीशा मनसां बभूवुः ॥ ३।३४॥ तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने । काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ ३।३५॥ मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ ३।३६॥ ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा ॥ ३।३७॥ गीतान्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्वासितपत्रलेखम् । पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे ॥ ३।३८॥ पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः । लतावधूभ्यस्तरवो ऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ ३।३९॥ श्रुताप्सरोगीतिरपि क्षणे ऽस्मिन्हरः प्रसङ्ख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ ३।४०॥ लतागृहद्वारगतो ऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः । मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैषीत् ॥ ३।४१॥ निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् । तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतस्थे ॥ ३।४२॥ दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रमिव प्रयाणे । प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ॥ ३।४३॥ स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् । आसीनमासन्नशरीरपातस्त्र्यम्बकं संयमिनं ददर्श ॥ ३।४४॥ पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं सन्नमितोभयांसम् । उत्तानपाणिद्वयसन्निवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥ ३।४५॥ भुजङ्गमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् । कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥ ३।४६॥ किञ्चित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः । नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ॥ ३।४७॥ अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् । अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम् ॥ ३।४८॥ कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः । मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥ ३।४९॥ मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् । यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥ ३।५०॥ स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् । नालक्षयत्साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात् ॥ ३।५१॥ निर्वाणभूयिष्ठमथास्य वीर्यं सन्धुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥ ३।५२॥ अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् । मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥ ३।५३॥ आवर्जिता किं चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । पर्याप्तपुष्पस्तबकावनम्रा सञ्चारिणी पल्लविनी लतेव ॥ ३।५४॥ स्रस्तां नितम्बादवलम्बमाना पुनः-पुनः केसरदामकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण मौर्वीं द्वितीयामिव कार्मुकस्य ॥ ३।५५॥ सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् । प्रतिक्षणं सम्भ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती ॥ ३।५६॥ तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् । जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनराशशंसे ॥ ३।५७॥ भविष्यतः पत्युरुमा च शम्भोः समाससाद प्रतिहारभूमिम् । योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥ ३।५८॥ ततो भुजङ्गाधिपतेः फणाग्रैरधः कथं चिद्धृतभूमिभागः । शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥ ३।५९॥ तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम् । प्रवेशयामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥ ३।६०॥ तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य । व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ ३।६१॥ उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् । चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ ३।६२॥ अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन । न हीश्वरव्याहृतयः कदा चित्पुष्यन्ति लोके विपरीतमर्थम् ॥ ३।६३॥ कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ ३।६४॥ अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण । विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करबीजमालाम् ॥ ३।६५॥ प्रतिग्रहीतुं प्रणयिप्रियत्वात्त्रिलोचनस्तामुपचक्रमे च । सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥ ३।६६॥ हरस्तु किञ्चित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ ३।६७॥ विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ३।६८॥ अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्बलवन्निगृह्य । हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ ३।६९॥ स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ ३।७०॥ तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य । स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ॥ ३।७१॥ क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ३।७२॥ तीव्राभिषङ्गप्रभवेण वृत्तिम्मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ ३।७३॥ तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य । स्त्रीसन्निकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥ ३।७४॥ शैलात्मजापि पितुरुच्छिरसो ऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथं चित् ॥ ३।७५॥ सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम् । सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीद्वेगदीर्घीकृताङ्गः ॥ ३।७६॥
अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता । विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥ ४।१॥ अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने । न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् ॥ ४।२॥ अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ ४।३॥ अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥ ४।४॥ उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया । तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥ ४।५॥ क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः । नलिनीं क्षतसेतुबन्धनो जलसङ्घात इवासि विद्रुतः ॥ ४।६॥ कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ४।७॥ स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥ ४।८॥ हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ ४।९॥ परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव । विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ॥ ४।१०॥ रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ॥ ४।११॥ नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे-पदे । असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥ ४।१२॥ अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः । बहुले ऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ॥ ४।१३॥ हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः । वद सम्प्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ ४।१४॥ अलिपङ्क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता । विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदितीव माम् ॥ ४।१५॥ प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ ४।१६॥ शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च । सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे ॥ ४।१७॥ रचितं रतिपण्डित त्वया स्वयमङ्गेषु ममेदमार्तवम् । ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ ४।१८॥ विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः । तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ ४।१९॥ अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिणी भवामि ते । चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥ ४।२०॥ मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे । वचनीयमिदं व्यवस्थितं रमण त्वामनुयामि यद्यपि ॥ ४।२१॥ क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया । सममेव गतो ऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ ४।२२॥ ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत् ॥ ४।२३॥ क्व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः । न खलूग्ररुषा पिनाकिना गमितः सो ऽपि सुहृद्गतां गतिम् ॥ ४।२४॥ अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः । रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ ४।२५॥ तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च । स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥ ४।२६॥ इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् । यदिदं कणशः प्रकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥ ४।२७॥ अयि सम्प्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः । दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ ४।२८॥ अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव । बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥ ४।२९॥ गत एव न ते निवर्तते स सखा दीप इवानिलाहतः । अहमस्य दशेव पश्य मामविषह्यव्यसनप्रधूषिताम् ॥ ४।३०॥ विधिना कृतमर्धवैशसं ननु माम्कामवधे विमुञ्चता । अनघापि हि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ ४।३१॥ तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् । विधुरां ज्वलनातिसर्जनान्ननु मां प्रापय पत्युरन्तिकम् ॥ ४।३२॥ शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ ४।३३॥ अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना । नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ ४।३४॥ कुसुमास्तरणे सहायतां बहुशः सौम्य गतस्त्वमावयोः । कुरु सम्प्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ॥ ४।३५॥ तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः । विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥ ४।३६॥ इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ । अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ ४।३७॥ परलोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः । निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥ ४।३८॥ इति देवविमुक्तये स्थितां रतिमाकाशभवा सरस्वती । शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पत ॥ ४।३९॥ कुसुमायुधपत्नि दुर्लभस्तव भर्ता न चिराद्भविष्यति । शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥ ४।४०॥ अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः । अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥ ४।४१॥ परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः । उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥ ४।४२॥ इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् । अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ ४।४३॥ तदिदं परिरक्ष शोभने भवितव्यप्रियसङ्गमं वपुः । रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी ॥ ४।४४॥ इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनामाश्वासयत्सुचरितार्थपदैर्वचोभिः ॥ ४।४५॥ अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयां बभूव । शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥ ४।४६॥
तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥ ५।१॥ इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥ ५।२॥ निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥ ५।३॥ मनीषिताः सन्ति गृहे ऽपि देवतास्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीशपुष्पं न पुनः पतत्रिणः ॥ ५।४॥ इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ५।५॥ कदा चिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी । अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥ ५।६॥ अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत् ॥ ५।७॥ विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ ५।८॥ यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् । न शट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ ५।९॥ प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् । अकारि तत्पूर्वनिबद्धया तया सरागमस्या रसनागुणास्पदम् ॥ ५।१०॥ विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतो ऽक्षसूत्रप्रणयी तया करः ॥ ५।११॥ महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥ ५।१२॥ पुनर्ग्रहीतुं नियमस्थया तया द्वये ऽपि निक्षेप इवार्पितम्द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ ५।१३॥ अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणैर्व्यवर्धयत् । गुहो ऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ ५।१४॥ अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥ ५।१५॥ कृताभिशेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिग्दृक्षवस्तामृषयो ऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते ॥ ५।१६॥ विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि । नवोटजाभ्यन्तरसम्भृतानलं तपोवनं तच्च बभूव पावनम् ॥ ५।१७॥ यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काङ्क्षितम् । तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥ ५।१८॥ क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत । ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ॥ ५।१९॥ शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ॥ ५।२०॥ तथाभितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः-शनैः श्यामिकया कृतं पदम् ॥ ५।२१॥ अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः । बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥ ५।२२॥ निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन च । तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ ५।२३॥ स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥ ५।२४॥ शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु । व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥ ५।२५॥ निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥ ५।२६॥ मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्धानमिवाकरोदपाम् ॥ ५।२७॥ स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ ५।२८॥ मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥ ५।२९॥ अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ ५।३०॥ तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्ये ऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ५।३१॥ विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ ५।३२॥ अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ ५।३३॥ अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ ५।३४॥ अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । य उत्पलाक्षि प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥ ५।३५॥ यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । तथा हि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ ५।३६॥ विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्च्युतैः । यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥ ५।३७॥ अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि । त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ ५।३८॥ प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि । यतः सतां सन्नतगात्रि सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥ ५।३९॥ अतो ऽत्र किञ्चिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः । अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ ५।४०॥ कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वयस्तपःफलं स्यात्किमतः परं वद ॥ ५।४१॥ भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि ॥ ५।४२॥ अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥ ५।४३॥ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥ ५।४४॥ दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥ ५।४५॥ निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ ५।४६॥ अहो स्थिरः को ऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥ ५।४७॥ मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ ५।४८॥ अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥ ५।४९॥ कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसञ्चितं तपः । तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ ५।५०॥ इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥ ५।५१॥ सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५।५२॥ इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ५।५३॥ असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमां हृदि व्यायतपातमक्षणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ ५।५४॥ तदाप्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि ॥ ५।५५॥ उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् । अनेकशः किन्नरराजकन्यका वनान्तसङ्गीतसखीररोदयत् ॥ ५।५६॥ त्रिभागशेषासु निशासु च क्षणम्निमील्य नेत्रे सहसा व्यबुध्यत । क्व नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥ ५।५७॥ यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं जनं कथम् । इति स्वहस्ताल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥ ५।५८॥ यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती । तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥ ५।५९॥ द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखो ऽपि दृश्यते मनोरथो ऽस्याः शशिमौलिसंश्रयः ॥ ५।६०॥ न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् । तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥ ५।६१॥ अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया । अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥ ५।६२॥ अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथं चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ ५।६३॥ यथा श्रुतं वेदविदां वर त्वया जनो ऽयमुच्चैःपदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ ५।६४॥ अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे । अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥ ५।६५॥ अवस्तुनिर्बन्धपरे कथं नु ते करो ऽयमामुक्तविवाहकौतुकः । करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ ५।६६॥ त्वमेव तावत्परिचिन्तय स्वयं कदा चिदेते यदि योगमर्हतः । वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ ५।६७॥ चतुष्कपुष्पप्रकराविकीर्णयोः परो ऽपि को नाम तवानुमन्यते । अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ॥ ५।६८॥ अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वये ऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ ५।६९॥ इयं च ते ऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ ५।७०॥ द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ ५।७१॥ वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ५।७२॥ निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ ५।७३॥ इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥ ५।७४॥ उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ ५।७५॥ विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥ ५।७६॥ अकिञ्चनः सन्प्रभवः स सम्पदां त्रिलोकनाथः पितृसद्मगोचरः । स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥ ५।७७॥ विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथ वेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ ५।७८॥ तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये । तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसां ॥ ५।७९॥ असम्पदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा । करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥ ५।८०॥ विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवो ऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ ५।८१॥ अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः । ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ५।८२॥ निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतो ऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥ ५।८३॥ इतो गमिश्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला । स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥ ५।८४॥ तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ ५।८५॥ अद्यप्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ ५।८६॥
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥ ६।१॥ तया व्याहृतसन्देशा सा बभौ निभृता प्रिये । चूतयष्टिरिवाभ्याष्ये मधौ परभृतामुखी ॥ ६।२॥ स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥ ६।३॥ ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः । सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥ ६।४॥ आप्लुतास्तीरमन्दार- कुसुमोत्किरवीचिषु । आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु ॥ ६।५॥ मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः । रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥ ६।६॥ अधःप्रवर्त्तिताश्वेन समावर्जितकेतुना । सहस्ररश्मिना शश्वत्सप्रमाणमुदीक्षिताः ॥ ६।७॥ आसक्तबाहुलतया सार्धमुद्धृतया भुवा । महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥ ६।८॥ सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् । पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥ ६।९॥ प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् । तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥ ६।१०॥ तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा । साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ॥ ६।११॥ तामगौरवभेदेन मुनींश्चापश्यदीश्वरः । स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥ ६।१२॥ तद्दर्शनादभूच्छम्भोर्भूयान्दारार्थमादरः । क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम् ॥ ६।१३॥ धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति । पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः ॥ ६।१४॥ अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् । इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ॥ ६।१५॥ यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् । यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः ॥ ६।१६॥ यदध्यक्षेण जगतां वयमारोपितास्त्वया । मनोरथस्याविषयं मनोविषयमात्मनः ॥ ६।१७॥ यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः । किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥ ६।१८॥ सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् । अद्य तूच्चैस्तरं तस्मात्स्मरणानुग्रहात्तव ॥ ६।१९॥ त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम् । प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ ६।२०॥ या नः प्रीतिर्विरूपाक्ष त्वदनुध्यानसम्भवा । सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥ ६।२१॥ साक्षाद्दृष्टो ऽसि न पुनर्विद्मस्त्वां वयमञ्जसा । प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥ ६।२२॥ किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् । अथ विश्वस्य संहर्ता भागः कतम एष ते ॥ ६।२३॥ अथवा सुमहत्येषा प्रार्थना देव तिष्ठतु । चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ॥ ६।२४॥ अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः । उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥ ६।२५॥ विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः । ननु मूर्तिभिरष्टाभिरित्थम्भूतो ऽस्मि सूचितः ॥ ६।२६॥ सो ऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः । अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ ६।२७॥ अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने । उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥ ६।२८॥ तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः । विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥ ६।२९॥ उन्नतेन स्थितिमता धुरमुद्वहता भुवः । तेन योजितसम्बन्धं वित्त मामप्यवञ्चितम् ॥ ६।३०॥ एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते । भवत्प्रणीतमाचारमामनन्ति हि साधवः ॥ ६।३१॥ आर्याप्यरुन्धती तत्र व्यापारं कर्तुं अर्हति । प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥ ६।३२॥ तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् । महाकोशीप्रपाते ऽस्मिन्सङ्गमः पुनरेव नः ॥ ६।३३॥ तस्मिन्संयमिनामाद्ये जाते परिणयोन्मुखे । जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः ॥ ६।३४॥ ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् । भगवानपि सम्प्राप्तः प्रथमोद्दिष्टमास्पदम् ॥ ६।३५॥ ते चाकाशमसिश्याममुत्पत्य परमर्षयः । आसेदुरोषधिप्रस्थं मनसा समरंहसः ॥ ६।३६॥ अलकामतिवाह्येव वसतिं वसुसम्पदाम् । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥ ६।३७॥ गङ्गास्रोतःपरिक्षिप्त- वप्रान्तर्ज्वलितौषधि । बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥ ६।३८॥ जितसिंहभया नागा यत्राश्वा बिलयोनयः । यक्षाः किम्पुरुषाः पौरा योषितो वनदेवताः ॥ ६।३९॥ शिखरासक्तमेघानां व्यजन्ते यत्र वेश्मनाम् । अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः ॥ ६।४०॥ यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः । गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता ॥ ६।४१॥ यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥ ६।४२॥ यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥ ६।४३॥ यौवनान्तं वयो यस्मिन्नातङ्कः कुसुमायुधः । रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥ ६।४४॥ भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः । यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥ ६।४५॥ सन्तानकतरुच्छाया- सुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्यं सुगन्धिर्गन्धमादनः ॥ ६।४६॥ अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥ ६।४७॥ ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुर्जटाभारैर्लिखितानलनिश्चलैः ॥ ६।४८॥ गगनादवतीर्णा सा यथावृद्धपुरस्सरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ ६।४९॥ तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः । नमयन्सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥ ६।५०॥ धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः । प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥ ६।५१॥ विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ॥ ६।५२॥ तत्र वेत्रासनासीनान्कृतासनपरिग्रहः । इत्युवाचेश्वरान्वाचं प्राञ्जलिः पृथिवीधरः ॥ ६।५३॥ अपमेघोदयं वर्षमदृष्टकुसुमं फलम् । अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ६।५४॥ मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम् । भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ॥ ६।५५॥ अद्यप्रभृति भूतानामधिगम्यो ऽस्मि शुद्धये । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥ ६।५६॥ अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः । मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥ ६।५७॥ जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् । विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥ ६।५८॥ भवत्सम्भावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥ ६।५९॥ न केवलं दरीसंस्थं भास्वतां दर्शनेन वः । अन्तर्गतमपास्तं मे रजसो ऽपि परं तमः ॥ ६।६०॥ कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते । शङ्के मत्पावनायैव प्रस्थानं भवतामिह ॥ ६।६१॥ तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥ ६।६२॥ एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥ ६।६३॥ इत्यूचिवांस्तमेवार्थं दरीमुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥ ६।६४॥ अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयश्चोदयामासुः प्रत्युवाच स भूधरम् ॥ ६।६५॥ उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥ ६।६६॥ स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥ ६।६७॥ गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूलात्त्वमवालम्बिष्यथा न चेत् ॥ ६।६८॥ अच्छिन्नामलसन्तानाः समुद्रोर्म्यनिवारिताः । पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥ ६।६९॥ यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥ ६।७०॥ तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत्स च स्वाभाविकस्तव ॥ ६।७१॥ यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया । उच्चैर्हिरण्मयं शृङ्गं सुमेरोर्वितथीकृतम् ॥ ६।७२॥ काठिन्यं स्थावरे काये भवता सर्वमर्पितम् । इदं तु भक्तिनम्रं ते सतामाराधनं वपुः ॥ ६।७३॥ तदागमनकार्यं नः शृणु कार्यं तवैव तत् । श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ॥ ६।७४॥ अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥ ६।७५॥ कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मनि । येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ॥ ६।७६॥ योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् । अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥ ६।७७॥ स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणः । वृणुते वरदः शम्भुरस्मत्सङ्क्रामितैः पदैः ॥ ६।७८॥ तमर्थमिव भारत्या सुतया योक्तुमर्हसि । अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता ॥ ६।७९॥ यावदेतानि भूतानि स्थावराणि चराणि च । मातरं कल्पयन्त्येनामीशो हि जगतः पिता ॥ ६।८०॥ प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । चरणौ रञ्जयन्त्यस्याश्चूडामणिमरीचिभिः ॥ ६।८१॥ उमा वधूर्भवान्दाता याचितार इमे वयम् । वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥ ६।८२॥ अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः । सुतासम्बन्धविधिना भव विश्वगुरोर्गुरुः ॥ ६।८३॥ एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥ ६।८४॥ शैलः सम्पूर्णकामो ऽपि मेनामुखमुदैक्षत । प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः ॥ ६।८५॥ मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् । भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥ ६।८६॥ इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः । आददे वचसामन्ते मङ्गलालङ्कृतां सुताम् ॥ ६।८७॥ एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता । अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥ ६।८८॥ एतावदुक्त्वा तनयामृषीनाह महीधरः । इयं नमति वः सर्वांस्त्रिलोचनवधूरिति ॥ ६।८९॥ ईप्सितार्थक्रियोदारं ते ऽभिनन्द्य गिरेर्वचः । आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम् ॥ ६।९०॥ तां प्रणामादरस्रस्त- जाम्बूनदवतंसकाम् । अङ्कमारोपयामास लज्जमानामरुन्धती ॥ ६।९१॥ तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ ६।९२॥ वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना । ते त्र्यहादूर्ध्वमाख्याय चेलुश्चीरपरिग्रहाः ॥ ६।९३॥ ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ ६।९४॥ पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥ ६।९५॥
अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् । समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥ ७।१॥ वैवाहिकैः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरन्ध्रिवर्गम् । आसीत्पुरं सानुमतो ऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥ ७।२॥ सन्तानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् । भासा ज्वलत्काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे ॥ ७।३॥ एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव । आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥ ७।४॥ अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त । सम्बन्धिभिन्नो ऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥ ७।५॥ मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु । तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ ७।६॥ सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नरागम् । निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलञ्चकार ॥ ७।७॥ बभौ च सम्पर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन । करेण भानोर्बहुलावसाने सन्धुक्ष्यमाणेव शशाङ्कलेखा ॥ ७।८॥ तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् । वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥ ७।९॥ विन्यस्तवैदूर्यशिलातले ऽस्मिन्नविद्धमुक्ताफलभक्तिचित्रे । आवर्जिताष्टापदकुम्भतोयाः सतूर्यमेनां स्नपयां बभूवुः ॥ ७।१०॥ सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा । निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ ७।११॥ तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन । पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम् ॥ ७।१२॥ तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहिते ऽपि नार्यः ॥ ७।१३॥ धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम् । पर्याक्षिपत्काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ ७।१४॥ विन्यस्तशुक्लागुरु चक्रुरस्या गोरोचनापत्रविभङ्गमङ्गम् । सा चक्रवाकाङ्कितसैकतायास्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥ ७।१५॥ लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश्च बिम्बम् । तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥ ७।१६॥ कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे । तस्याः कपोले परभागलाभाद्बबन्ध चक्षूंषि यवप्ररोहः ॥ ७।१७॥ रेखाबिभक्तश्च विभक्तगात्र्याः किञ्चिन्मधूच्छिष्टविमृष्टरागः । कामप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलो ऽध्ररोष्ठः ॥ ७।१८॥ पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ ७।१९॥ तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर्नयने निरीक्ष्य । न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ॥ ७।२०॥ सा सम्भवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा । सरिद्विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥ ७।२१॥ आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी । हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥ ७।२२॥ अथाङ्गुलिभ्यां हरितालमार्द्रं माङ्गल्यमादाय मनःशिलां च । कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखमुन्नमय्य ॥ ७।२३॥ उमास्तनोद्भेदमनुप्रवृद्धो मनोरथो यः प्रथमो बभूव । तमेव मेना दुहितुः कथञ्चिद्विवाहदीक्षातिलकं चकार ॥ ७।२४॥ बबन्ध चास्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसन्निवेशम् । धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णमयं कौतुकहस्तसूत्रम् ॥ ७।२५॥ क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा । नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥ ७।२६॥ तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता । अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥ ७।२७॥ अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा । तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषो ऽ पि ॥ ७।२८॥ इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा । सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥ ७।२९॥ तावद्वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् । प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ॥ ७।३०॥ तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण । स्व एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥ ७।३१॥ बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ ७।३२॥ शङ्खान्तरद्योति विलोचनं यदन्तर्निविष्टामलपिङ्गतारम् । सान्निध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः ॥ ७।३३॥ यथाप्रदेशं भुजगेश्वराणां करिश्यतामाभरणान्तरत्वम् । शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥ ७।३४॥ दिवापि निष्ठ्यूतमरीचिभासा बाल्यादनाविष्कृतलाञ्छनेन । चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ॥ ७।३५॥ इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता । आत्मानमासन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥ ७।३६॥ स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् । तद्भक्तिसङ्क्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥ ७।३७॥ तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः । मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिवान्तरीक्षम् ॥ ७।३८॥ तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे । बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतह्रदेव ॥ ७।३९॥ ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः । विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥ ७।४०॥ उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ ७।४१॥ मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् । समुद्रगारूपविपर्यये ऽपि सहंसपाते इव लक्ष्यमाणे ॥ ७।४२॥ तमन्वगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् । जयेति वाचा महिमानमस्य संवर्धयन्त्या हविषेव वह्निम् ॥ ७।४३॥ एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥ ७।४४॥ तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः । दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ ७।४५॥ कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन । आलोकमात्रेण सुरानशेषान्सम्भावयामास यथाप्रधानम् ॥ ७।४६॥ तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह । विवाहयज्ञे वितते ऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥ ७।४७॥ विश्वावसुप्राग्रहरैः प्रवीणैः सङ्गीयमानत्रिपुरावदानः । अध्वानमध्वान्तविकारलङ्घ्यस्ततार ताराधिपखण्डधारी ॥ ७।४८॥ खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिङ्किणीकः । तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥ ७।४९॥ स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् । पुरो विलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः ॥ ७।५०॥ तस्योपकण्ठे घननीलकण्ट्ःअः कुतूहलादुन्मुखपौरदृष्टः । स्वबाणचिह्नादवतीर्य मार्गादासन्नभूपृष्ठमियाय देवः ॥ ७।५१॥ तमृद्धिमद्बन्धुजनाधिरूढैर्वृन्दैर्गजानां गिरिचक्रवर्ती । प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ॥ ७।५२॥ वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने । समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवौघौ ॥ ७।५३॥ ह्रीमानभूद्भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः । पूर्वं महिम्ना स हि तस्य दूरमावर्जितं नात्मशिरो विवेद ॥ ७।५४॥ स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रेसरतामुपेत्य । प्रावेशयन्मन्दिरमृद्धमेनमागुल्फकीर्णापणमार्गपुष्पम् ॥ ७।५५॥ तस्मिन्मुहूर्ते पुरसुन्दरीणामीशानसन्दर्शनलालसानाम् । प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥ ७।५६॥ आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बन्धुं न सम्भावित एव तावत्करेण रुद्धो ऽपि न केशपाशः ॥ ७।५७॥ प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ ७।५८॥ विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसन्निकर्षं ययौ शलाकामपरा वहन्ती ॥ ७।५९॥ जालान्तरप्रेषितदृष्तिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ७।६०॥ अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ७।६१॥ तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ७।६२॥ तावत्पताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे । प्रासादशृङ्गाणि दिवापि कुर्वञ्ज्योत्स्नाभिषेकद्विगुणद्युतीनि ॥ ७।६३॥ तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ ७।६४॥ स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयापि तप्तम् । या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम् ॥ ७।६५॥ परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां विफलो ऽभविश्यत् ॥ ७।६६॥ न नूनमारूढरुषा शरीरमनेन दग्धं कुसुमायुधस्य । व्रीडादमुं देवमुदीक्ष्य मन्ये सन्न्यस्तदेहः स्वयमेव कामः ॥ ७।६७॥ अनेन सम्बन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण । मूर्धानमालि क्षितिधारणोच्चमुच्चैस्तरां वक्ष्यति शैलराजः ॥ ७।६८॥ इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः । केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयमाससाद ॥ ७।६९॥ तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानिवोक्ष्णः । क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥ ७।७०॥ तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च । गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः ॥ ७।७१॥ तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्घ्यं मधुमच्च गव्यम् । नवे दुकूले च नगोपनीतं प्रत्यग्रहीत्सर्वममन्त्रवर्जम् ॥ ७।७२॥ दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः । वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥ ७।७३॥ तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या । प्रसन्नचेतःसलिलः शिवो ऽभूत्संसृज्यमानः शरदेव लोकः ॥ ७।७४॥ तयोः समापत्तिषु कातराणि किञ्चिद्व्यवस्थापितसंहृतानि । ह्रीयन्त्रणां तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि ॥ ७।७५॥ तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्त्तिः । उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम् ॥ ७।७६॥ रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् । वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥ ७।७७॥ प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमग्र्याम् । सान्निध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ॥ ७।७८॥ प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे । मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ७।७९॥ तौ दम्पती त्रिः परिणीय वह्निम्कराग्रसंस्पर्शनिमीलिताक्षीम् । तां कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ॥ ७।८०॥ सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ७।८१॥ तदीषदार्द्रारुणगण्डलेखमुच्छ्वासिकालाञ्जनरागमक्ष्णोः । वधूमुखं क्लान्तयवावतंसमाचारधूमग्रहणाद्बभूव ॥ ७।८२॥ वधूं द्विजः प्राह तवैष वत्से वह्निर्विवाहं प्रति पूर्वसाक्षी । शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥ ७।८३॥ आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या । निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ ७।८४॥ ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन । सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच ॥ ७।८५॥ इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ । प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥ ७।८६॥ वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति । वाचस्पतिः सन्नपि सो ऽष्टमूर्त्तवाशास्य चिन्तास्तिमितो बभूव ॥ ७।८७॥ कॢप्तोपचारां चतुरस्रवेदीं तावेत्य पश्चाट्कनकासनस्थौ । जायापती लौकिकमेषितव्यमार्द्राक्षतारोपणमन्वभूताम् ॥ ७।८८॥ पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम् । तयोरुपर्यायतनालदण्डमाधत्त लक्ष्मीः कमलातपत्रम् ॥ ७।८९॥ द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव । संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥ ७।९०॥ तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ॥ ७।९१॥ देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपत्य । शापावसाने प्रतिपन्नमूर्त्तेर्ययाचिरे पञ्चशरस्य सेवाम् ॥ ७।९२॥ तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् । काले प्रयुक्ता खलु कार्यविद्भिर्विज्णापना भर्तृषु सिद्धिमेति ॥ ७।९३॥ अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य क्षितिधरपतिकन्यामाददानः करेण । कनककलशरक्षाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारमागात् ॥ ७।९४॥ नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीं तत्कृतोत्क्षेपमीशः । अपि शयनसखीभ्यो दत्तवाचं कथञ्चित्प्रमथमुखविकारैर्हासयामास गूढम् ॥ ७।९५॥
पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति । भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं वपुः ॥ ८।१॥ व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ ८।२॥ कैतवेन शयिते कुतूहलात्पार्वती प्रतिमुखं निपातितम् । चक्षुरुन्मिषति सस्मितं प्रिये विद्युदाहतमिव न्यमीलयत् ॥ ८।३॥ नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः । तद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥ ८।४॥ एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥ ८।५॥ अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥ ८।६॥ शूलिनः करतलद्वयेन सा सन्निरुध्य नयने हृतांशुका । तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ ८।७॥ चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहने । क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥ ८।८॥ यन्मुखग्रहणमक्षताधरं दत्तमव्रणपदं नखं च यत् । यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥ ८।९॥ रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम् । नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे ॥ ८।१०॥ दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । प्रेक्ष्य बिम्बमनु बिम्बमात्मनः कानि कानि न चकार लज्जया ॥ ८।११॥ नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् । भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ ८।१२॥ वासराणि कतिचित्कथञ्चन स्थाणुना रतमकारि चानया । ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥ ८।१३॥ सस्वजे प्रियमुरोनिपीडिता प्रार्थितं मुखमनेन नाहरत् । मेखलापणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ ८।१४॥ भावसूचितमदृष्टविप्रियं चाटुमत्क्षणवियोगकातरम् । कैश्चिदेव दिवसैस्तदा तयोः प्रेम रूढमितरेतराश्रयम् ॥ ८।१५॥ तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् । सागरादनपगा हि जाह्नवी सो ऽपि तन्मुखरसैकनिर्वृतिः ॥ ८।१६॥ शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया । शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ॥ ८।१७॥ दष्टमुक्तमधरोष्ठमाम्बिका वेदनाविधुतहस्तपल्लवा । शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥ ८।१८॥ चुम्बनादलकचूर्णदूषितं शङ्करो ऽपि नयनं ललाटजम् । उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ ८।१९॥ एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः । शैलराजभवने सहोमया मासमात्रमवसद्वृषध्वजः ॥ ८।२०॥ सो ऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् । तत्र तत्र विजहार सम्पतन्नप्रमेयगतिना ककुद्मता ॥ ८।२१॥ मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान्कृती । हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान् ॥ ८।२२॥ पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः । मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः ॥ ८।२३॥ वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः । एकपिङ्गलगिरौ जगद्गुरुर्निर्विवेश विशदाः शशिप्रभाः ॥ ८।२४॥ तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् । आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ॥ ८।२५॥ हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा । खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला ॥ ८।२६॥ तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् । नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ॥ ८।२७॥ इत्यभौममनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् । लोहितायति कदाचिदातपे गन्धमादनगिरिं व्यगाहत ॥ ८।२८॥ तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् । दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥ ८।२९॥ पद्मकान्तिमरुणत्रिभागयोः सङ्क्रमय्य तव नेत्रयोरिव । सङ्क्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥ ८।३०॥ सीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते विवस्वति । इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्व्रजन्त्यमी ॥ ८।३१॥ दष्टतामरसकेसरस्रजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः । निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥ ८।३२॥ स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् । आविभातचरणाय गृह्णाते वारि वारिरुहबद्धषट्पदम् ॥ ८।३३॥ पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता । दीर्घया प्रतिमया सरो ऽम्भसां तापनीयमिव सेतुबन्धनम् ॥ ८।३४॥ उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्क्तमतिवाहितातपाः । दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ ८।३५॥ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः । हीयमानमहरत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥ ८।३६॥ पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः । खं हृतातपजलं विवस्वता भाति किञ्चिदिव शेषवत्सरः ॥ ८।३७॥ आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः । आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥ ८।३८॥ बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् । षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ ८।३९॥ दूरमग्रपरिमेयरश्मिना वारुणी दिगरुणेन भानुना । भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥ ८।४०॥ सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः । भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥ ८।४१॥ सो ऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः । अस्तमेति युगभुग्नकेसरैः सन्निधाय दिवसं महोदधौ ॥ ८।४२॥ खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः । तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ॥ ८।४३॥ सन्ध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् । येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥ ८।४४॥ रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्यमूः । द्रक्ष्यसि त्वमिति सन्ध्ययानया वर्तिकाभिरिव साधुमण्डिताः ॥ ८।४५॥ सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च । पश्य धातुशिखरेषु भानुना संविभक्तमिव सान्ध्यमातपम् ॥ ८।४६॥ अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः । ब्रह्म गूढमभिसन्ध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी ॥ ८।४७॥ तन्मुहूर्त्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि । त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति ॥ ८।४८॥ निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥ ८।४९॥ ईश्वरो ऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् । पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥ ८।५०॥ मुञ्च कोपमनिमित्तकोपने सन्ध्यया प्रणमितो ऽस्मि नान्यया । किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥ ८।५१॥ निर्मितेषु पितृषु स्वयम्भुवा या तनुः सुतनु पूर्वमुज्झिता । सेयमस्तमुदयं च सेवते तेन मानिनि ममात्र गौरवम् ॥ ८।५२॥ तामिमां तिमिरवृद्धिपीडितां शैलराजतनये ऽधुना स्थिताम् । एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ ८।५३॥ सान्ध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् । साम्परायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुज्झितम् ॥ ८।५४॥ यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा । एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ॥ ८।५५॥ नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः । लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥ ८।५६॥ शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् । सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसतां हृतान्तरम् ॥ ८।५७॥ नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये । पुण्डरीकमुखि पूर्वदिङ्मुखं कैतकैरिव रजोभिरावृतम् ॥ ८।५८॥ मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका । त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः ॥ ८।५९॥ रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम् । एतदुद्गिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिचोदितम् ॥ ८।६०॥ पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरो ऽम्भसा । विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥ ८।६१॥ शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव । अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसम्पुटैः कराः ॥ ८।६२॥ अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ ८।६३॥ पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् । लक्ष्यते द्विरदभोगदूषितं सम्प्रसीददिव मानसं सरः ॥ ८।६४॥ रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः । विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ ८।६५॥ उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः । नूनमात्मसदृशी प्रकल्पिता वेधसेह गुणदोषयोर्गतिः ॥ ८।६६॥ चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः । मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ॥ ८।६७॥ कल्पवृक्षशिखरेषु सम्प्रति प्रस्फुरद्भिरिव पश्य सुन्दरि । हारयष्टिगणनामिवांशुभिः कर्तुमागतकुतूहलः शशी ॥ ८।६८॥ उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् । भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥ ८।६९॥ एतदुच्छ्वसितपीतमैन्दवं वोढुमक्षममिव प्रभारसम् । मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥ ८।७०॥ पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् । मारुते चलति चण्डि केवलं व्यज्यते विपरिवृत्तमंशुकम् ॥ ८।७१॥ शक्यमङ्गुलिभिरुद्धृतैरधः शाखिनां पतितपुष्पपेशलैः । पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ॥ ८।७२॥ एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी । साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥ ८।७३॥ पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रतिकृतिप्रसन्नयोः । रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ॥ ८।७४॥ लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् । त्वामियं स्थितिमतीमुपस्थिता गन्धमादनवनाधिदेवता ॥ ८।७५॥ आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः । अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि मदः करिष्यति ॥ ८।७६॥ मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् । इत्युदारमभिधाय शङ्करस्तामपाययत पानमम्बिकाम् ॥ ८।७७॥ पार्वती तदुपयोगसम्भवां विक्रियामपि सतां मनोहराम् । अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ॥ ८।७८॥ तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः शयनमिद्धरागयोः । सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥ ८।७९॥ घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमदकारणस्मितम्। आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ ८।८०॥ तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् । ध्यानसम्भृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ॥ ८।८१॥ तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् । अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ॥ ८।८२॥ क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् । तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ॥ ८।८३॥ केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु । तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ ८।८४॥ स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् । मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः ॥ ८।८५॥ तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर्मयः । पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ॥ ८।८६॥ ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः । वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥ ८।८७॥ स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् । आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥ ८।८८॥ तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् । निर्मले ऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥ ८।८९॥ स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः । दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात् ॥ ८।९०॥ समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः शतमगमदृतूनां साग्रमेका निशेव । न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलेषु ॥ ८।९१॥ Encoded by Utz Podzeit for Gretil collection
% Text title            : kumArasambhavam sarga 1-8
% File name             : kumArasambhavam8.itx
% itxtitle              : kumArasambhavam sargaH 1-8
% engtitle              : kumArasambhavam sargaH 1-8
% Category              : major_works, kAlidAsa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : kAlidAsa
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Encoded by Utz Podzeit for Gretil collection Ulrich Stiehl helped converting the REE format to Itrans notation.
% Indexextra            : (sarga 1-8) audio)
% Latest update         : January 28, 2008
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP