श्रीमल्लक्ष्यसङ्गीतम् प्रथमावृत्तिः
A treatise, in Sanskrit, on the theory of music in slokas and describing the important ragas by Pandit Vishnu Narayan Bhatkhande.
भरतखण्डनिवासिचतुराख्यपण्डितेन निर्मितम् ।
(अर्वाचीनसङ्गीतपद्धतिपरिचयसौकर्यसमेतम्)
॥ श्रीः ॥
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः ।
अथ श्रीमल्लक्ष्यसङ्गीतप्रारम्भः ।
मङ्गलाचरणम्
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
सर्वविघ्नोपशान्त्यर्थं लक्ष्यसङ्गीतमारभे ॥ १॥
श्रीब्रह्माद्यैरर्चिता या सुरेन्द्रै-र्भक्तिश्रद्धाभावयुक्तैः सदैव ।
प्राचीनार्वाचीनसङ्गीततत्त्वस्फूर्त्यै तां श्रीशारदां नौम्यभीष्टाम् ॥ २॥
श्रीसद्गुरोस्तस्य पदारविन्दद्वन्द्वं तमोन्नतय आशु वन्दे ।
यस्यानुकम्पा सहसैव मूकं करोति वाचालमिति प्रथेयम् ॥ ३॥
सङ्गीतपूर्वाचार्याणां महतामप्यनुज्ञया ।
धैर्यमालम्ब्य कुर्वेऽमुं प्रबन्धं स्वान्तशुद्धये ॥ ४॥
प्रथमाध्याय
अथ श्रीलक्ष्यसङ्गीतप्रथमाध्याय ईर्यते ।
चतुराख्येन भरत-पूर्वखण्डनिवासिना ॥ ५॥
निर्मथ्यातिप्रयत्नेन मतभेदपयोनिधिम् ।
चतुराभिमतां वक्ष्ये हिन्दुस्थानीयपद्धतिम् ॥ ६॥
प्रणाल्यौ तत्र द्वे प्रोक्ते सङ्गीतस्य विचक्षणैः ।
आद्या कर्णाटकीयासौ हिन्दुस्थानी तथा परा ॥ ७॥
कर्णाटकी पद्धतिर्या सा मद्रासनिबन्धिनी ।
अन्यत्र सर्वतो हिन्दुस्थानीया बहुसम्मता ॥ ८॥
तत्र तत्र स्थानभेदे वैचित्र्ये सत्यपि क्वचित् ।
सामान्यत्वेन सैकैव पद्धतिर्विदुषां मता ॥ ९॥
गीतं वाद्यं तथा नृत्यं त्रयं सङ्गीतमुच्यते ।
मार्गदेशीविभागेन सङ्गीतं द्विविधं मतम् ॥ १०॥
मार्गितं प्रथमाचार्यैर्यन्त्रितं नियमोत्तमैः ।
अतिशुद्धरूपमपि साम्प्रतं नैव गोचरम् ॥ ११॥
अधुना लक्ष्यमार्गे यत् स्वरूपं परिदृश्यते ।
तत्सर्वं देशिसंज्ञं स्यादित्याहुर्लक्ष्यवेदिनः ॥ १२॥
रागविबोधे
गीतं द्वेधा मार्गो देशी मार्गः स यो विरिञ्चाद्यैः ।
अन्विष्टो भरताद्यैः शम्भोरग्रे प्रयुक्तोऽर्च्यः ॥ १३॥
देशे देशे रुच्या यज्जनहृद्रञ्जनं तु सा देशी ।
स तु लोकरुचिविकलितः प्रायो लक्ष्यात्र देशी तत् ॥ १४॥
रत्नाकरे
मार्गो देशीति तद्द्वेधा तत्र मार्गः स उच्यते ।
यो मार्गितो विरिञ्च्याद्यैः प्रयुक्तो भरतादिभिः ।
देवस्य पुरतः शम्भोर्नियताभ्युदयप्रदः ॥ १५॥
देशे देशे जनानां यद्रुच्या हृदयरञ्जकम् ।
गानं च वादनं नृत्यं तद्देशीत्यभिधीयते ॥ १६॥
अबलाबालगोपालैः क्षितिपालैर्निजेच्छया ।
गीयते यानुरागेण स्वदेशे देशिरुच्यते ॥ १७॥
सङ्गीतदर्पणे
गीतं वाद्यं नर्तनं च त्रयं सङ्गीतमुच्यते ।
मार्गदेशीविभागेन सङ्गीतं द्विविधं मतम् ॥ १८॥
द्रुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च ।
महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम् ॥ १९॥
तत्तद्देशस्थया रीत्या यत्स्याल्लोकानुरञ्जनम् ।
देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते ॥ २०॥
टिप्पनी
रत्नाकरः शास्त्रग्रन्थेष्वाद्येष्वनुपमो मतः ।
तत्राप्यङ्गीकृतं नूनं प्राधान्यं देशिकस्य तत् ॥ २१॥
पूर्वप्रसिद्धसङ्गीतं प्रसिद्धमधुना तथा ।
द्विविधमेव तत्रोक्तं सङ्गीतं शास्त्रकारिणा ॥ २२॥
शार्ङ्गदेवस्यापि काले देशी सङ्गीतमेव हि ।
लक्ष्येऽधिकं सुप्रतीतमिति तर्कयितुं क्षमम् ॥ २३॥
रत्नाकरानुगाश्चापि तद्विनिर्मितपद्धतिम् ।
यथायोग्यप्रमाणेन नैव ज्ञातुमशक्नुवन् ॥ २४॥
दाक्षिणात्यप्रणाल्यास्तु निर्माता व्यङ्कटेश्वरः ।
रत्नाकरगतान्रागानुद्दिश्य चेदमब्रवीत् ॥ २५॥
चतुर्दण्डिप्रकाशिकायाम्
रागास्तावद्दशविधा भरताद्यैरुदीरिताः ।
ग्रामरागाश्चोपरागा रागा भाषाविभाषिकाः ॥ २६॥
तथैवान्तरभाषाख्या रागाङ्गाख्यास्ततः परम् ।
भाषाङ्गानि क्रियाङ्गानि चोपाङ्गानि पुनः क्रमात् ॥ २७॥
दशस्वेतेषु रागेषु ग्रामरागादयः पुनः ।
रागास्त्वन्तरभाषान्ता मार्गरागा भवन्ति षट् ॥ २८॥
ततो गन्धर्वलोकेन प्रयोज्यास्ते व्यवस्थिताः ।
तस्माद्रागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गसंज्ञिकाः ।
रागाश्चत्वार एवैते देशिरागाः प्रकीर्तिताः ॥ २९॥
रागाङ्गादिचतुष्टयमधुनापि सुगोचरम् ।
सङ्गीते दाक्षिणात्यानामिति सर्वसुसम्मतम् ॥ ३०॥
मूर्छनाया रहस्यं तद्रत्नाकरप्रपञ्चितम् ।
स्फुटमेवाभवद्बोद्धुं न शक्तः कोऽपि पण्डितः ॥ ३१॥
जातिप्रकरणं चापि तद्ग्रन्थे सुनिरूपितम् ।
अनेकानुकृतं सद्यो ज्ञातुं शक्तो न कोऽपि तत् ॥ ३२॥
सङ्गीतसमयसारे चन्द्रिकायां सुधाकरे ।
चूडामणिशिरोमण्यो रत्नाकरानुवर्तनम् ॥ ३३॥
अर्वाचीनैर्ग्रन्थकारैर्दृश्यतेऽनुकृतो भृशम् ।
रत्नाकरस्वराध्यायो रागाध्यायस्त्वनादृतः ॥ ३४॥
दामोदरश्च सोमेशो रत्नाकरानुगावपि ।
रागाध्यायमपसार्य चक्रतुर्ग्रन्थनिर्मितिम् ॥ ३५॥
अहोबलव्यङ्कटेशरामामात्यतुलाधिपाः ।
रागाख्याने स्वतन्त्रास्ते दोषभाजो न मे मते ॥ ३६॥
पुण्डरीको भावभट्टो मोषदेवस्तथैव च ।
लक्ष्यमार्गमनुसृत्य स्वस्वग्रन्थानकुर्वत ॥ ३७॥
रागलक्षणकाराद्या अन्येपि लेखकाः स्फुटम् ।
विषये तत्र रागाणां स्वातन्त्र्यं दर्शयन्ति ते ॥ ३८॥
श्रीमद्रत्नाकरप्रोक्तरागाध्यायाशयोऽखिलः ।
स्वश्लोकैर्ग्रथितः कैश्चिद्ग्रन्थकारैरसंशयम् ॥ ३९॥
तथाप्येतैराशयोऽसाववबुद्धो यथार्थतः ।
इति तल्लेखतो नैव प्रतिभाति कथञ्चन ॥ ४०॥
यद्गूढं तद्गूढतरभावं प्रापयितुं भृशम् ।
नैवोचितं कदाचित्स्याद्धीमतामिति मे मतिः ॥ ४१॥
प्राचीनशास्त्रे ह्यज्ञाते सङ्गीतपरिवर्तनात् ।
वस्तुस्थितिरुदाहार्या ग्रन्थकृद्भिरमायया ॥ ४२॥
परिवर्तनशीलं यत्सङ्गीतं ग्रन्थकर्तृभिः ।
प्राचीनं नष्टप्रायं तत्स्पष्टीकर्तुं न शक्यते ॥ ४३॥
नावश्यकं हि तत्किन्तु यया कयापि भाषया ।
तदसामञ्जस्यवृद्धिर्नेष्टेत्येव ब्रवीम्यहम् ॥ ४४॥
या रत्नाकरीयरागव्याख्योक्ता जातिमूर्छनाः ।
तदधीनग्रामरागमेला न क्वाप्यवेक्षिताः ॥ ४५॥
अज्ञाते ग्रामरागाणां मेले ग्रन्थो निरर्थकः ।
यतस्ते जनका रागास्ततश्च रागविस्तरः ॥ ४६॥
रागादीनामुदीर्यन्ते नानाग्रन्थेषु मूर्तयः ।
तत्र तेषां च रागाणां न स्वराद्युपलभ्यते ॥ ४७॥
सङ्गीतदृष्ट्या ते ग्रन्थाः केवलं निष्फला मताः ।
मेलाः कथं मूर्तितः स्युरित्यप्युल्लेखमर्हति ॥ ४८॥
हनुमन्मतमद्यापि प्रचरत्येव सर्वथा ।
इति प्रतिपादयन्ति बहवः पण्डिता इह ॥ ४९॥
तथापि कस्तस्य ग्रन्थः किं च तत्राभिधीयते ।
इत्येवं नैव स्वप्नेऽपि तेषां समुपलभ्यते ॥ ५०॥
जाने नाक्षेप इष्टः स्याद्ग्रन्थकारोक्तिषु क्वचित् ।
तथापि नार्थो वस्तुस्थित्या वृत्यास्तीति मे मतिः ॥ ५१॥
जातिप्रकरणस्योपयोगः सम्यक्तया तथा ।
यत्र स्पष्टतया चोक्तः स ग्रन्थो नोपलभ्यते ॥ ५२॥
विद्यते ह्यभिमानो मे ग्रन्थोपरि महत्तरः ।
नूनं परिश्रमोप्यत्र यथाशक्ति समादृतः ॥ ५३॥
रत्नाकरीयरागाणां मेलैरात्मीयमेलने ।
न यत्नो विहितः कैश्चिद्ग्रन्थकृद्भिरिति स्फुटम् ॥ ५४॥
अतएव कीदृशास्ते रागाः स्युरिति तत्त्वतः ।
ज्ञातं तैरथ वा नेति शङ्कास्पदमिदं भवेत् ॥ ५५॥
ते तत्कालीनसङ्गीतनिपुणाः स्युर्बुधास्तथा ।
नावश्यकतया रत्नाकरसङ्गीतकोविदाः ॥ ५६॥
न दर्पणादिग्रन्थेषु समीचीनतया पुनः ।
मूर्छनानां विचारोऽपि कृतो रागेष्विति स्फुटम् ॥ ५७॥
रत्नाकराभिधं ग्रन्थं पठतो यस्य कस्यचित् ।
पुरतः प्रस्फुरन्त्येव प्रश्ना एवंविधा द्रुतम् ॥ ५८॥
श्रुतिजात्युपयोगः क्व क्रियेत नियमैश्च कैः ।
मेला आधुनिकाः के स्युर्मध्यमग्रामनामकाः ॥ ५९॥
मध्यमग्रामगा रागाः प्रचरन्ति नवाऽधुना ।
प्रचारेऽप्येकवाक्यत्वं भवेद्रत्नाकरेण किम् ॥ ६०॥।
ग्रामरागे साधारणप्रकरणस्य सर्वदा ।
उपयोगः कीदृशः स्यादिष्टः सङ्गीतवेदिनाम् ॥ ६१॥
रत्नाकरे मृदुगनीग्राहा रागाः क ईरिताः ।
तीव्रमग्राहकाः के स्युः किञ्चात्र कारणं भवेत् ॥ ६२॥
के च त्रिंशद्ग्रामरागमेला रत्नाकरे स्थिताः ।
कथमेते च सिध्येयुरित्युदाह्रियतामिह ॥ ६३॥
यथार्थमूर्च्छनाटीका कल्लीनाथकृताऽस्ति किम् ।
तथात्वे कीदृशा मेलाः सिध्येयुरिति कथ्यताम् ॥ ६४॥
प्रतिरागमलङ्कारा नियताः किमितीर्यताम् ।
शुद्धतानरहस्यं च किमासीदित्युदीर्यताम् ॥ ६५॥
रागाध्याये किमित्येषामुल्लेखो नोपलभ्यते ।
केषुचिच्छुद्धतानेषु कुतः षड्जविवर्जनम् ॥ ६६॥
रागतत्स्त्र्या(?)दिरचना तत्त्वमाश्रित्य किं कृता ।
रागमिश्रणमानानि तत्र ज्ञेयान्यथो कथम् ॥ ६७॥
मध्यमग्रामापेक्षाऽसीत्प्राक्कस्मात्साऽद्य नो कुतः ।
आसीत्तीव्रमरागेण सम्बन्धः कश्चिदस्य किम् ॥ ६८॥
एवं स्युः कतिचित्प्रश्ना अर्वाचीनविदां हृदि ।
ज्ञानसामग्र्यभावे तु किं ते ब्रूयुस्तपस्विनः ॥ ६९॥॥
दुर्बोधांशं परित्यज्य प्रचारमनुसृत्य च ।
यत्तेषां ग्रन्थनिर्माणं समीचीनं तदेव तु ॥ ७०॥
स्वाभिप्रायं स्पष्टतया जानीयुः सकला जनाः ।
एतदर्थं लेखनं स्याद्ग्रन्थानामित्यसंशयम् ॥ ७१॥
रागबोधश्चतुर्दण्डी स्वरमेलकलानिधिः ।
सारामृतं चेति ग्रन्थान् कुर्वाणा यान्ति धन्यताम् ॥ ७२॥
स्पष्टं प्रामाणिकतयाप्युक्तानि स्वमतानि तैः ।
अकारि च समीचीनं यत्प्रचारोऽनुलक्षितः ॥ ७३॥
ननु नावगताः सम्यग् ग्रन्थास्त इति चेन्मतम् ।
तदास्मल्लेखजाद्वादादिष्टः स्यात्तत्त्वनिर्णयः ॥ ७४॥
सङ्गीतं ग्रन्थगं लक्ष्यगं भाविगमिति त्रिधा ।
ग्रन्थगेन्तर्गतं ह्यस्मत्कृतं भाषान्तरं पृथक् ॥ ७५॥
यदिदानीं प्रचरति लक्ष्यसङ्गीतमेव तत् ।
एतावदेव ग्रन्थेऽस्मिन्नान्यच्छास्त्ररहस्यकम् ॥ ७६॥
केनोपायेनाधुनिकं लक्ष्यसङ्गीतमाश्विदम् ।
अवगन्तव्यमित्येव साध्यमत्र न संशयः ॥ ७७॥
गीतप्रशस्तिः, दर्पणे
नादेन व्यज्यते वर्णः पदं वर्णात्पदाद्वचः ।
वचसो व्यवहारोऽयं नादाधीनमतो जगत् ॥ ७८॥
रत्नाकरे
अज्ञातविषयास्वादो बालः पर्यङ्किकागतः ।
रुदन्गीतामृतं पीत्वा हर्षोत्कर्षं प्रपद्यते ॥ ७९॥
वनेचरस्तृणाहारश्चित्रं मृगशिशुः पशुः ।
लुब्धो लुब्धकसङ्गीते गीते त्यजति जीवितम् ॥ ८०॥
पारिजाते
क्रुद्धो विषं वमन्सर्पः फणामान्दोलयन्मुहुः ।
गानं जाङ्गलिकाच्छ्रुत्वा हर्षोत्कर्षं प्रपद्यते ॥ ८१॥
दर्पणेऽपि
पशुः शिशुर्मृगो वापि नादेन परितुष्यति ।
अतो नादस्य माहात्म्यं व्याख्यातुं केन शक्यते ॥ ८२॥
अखिलस्यास्य शास्त्रस्य नादो हि जीवितोपमः ।
तस्य द्वाविंशतिर्भेदाः सङ्गीते श्रुतयो मताः ॥ ८३॥
नित्यं गीतोपयोगित्वमभिज्ञेयत्वमुत्तमम् ।
लक्ष्यमार्गे समादिष्टं पण्डितैः श्रुतिलक्षणम् ॥ ८४॥
नादस्य मुख्यतो भेदास्त्रय एव प्रकीर्तिताः ।
मन्द्रमध्यतारसंज्ञा लक्ष्यमार्गविशारदः ॥ ८५॥
रत्नाकरे
व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते ।
कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ॥ ८६॥
प्रतिस्थानसम्प्रसक्ता पूर्वोक्तश्रुतयो मताः ।
सङ्गीतोक्तस्वराणां स्युरखिला जन्मभूरिमाः ॥ ८७॥
श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः ।
पञ्चमो धैवतश्चाथ निषाद इति सप्त ते ॥ ८८॥
श्रुतिवण्टनप्रकारः
चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ।
द्वे द्वे निषादगान्धारौ त्रिस्त्री रिषभधैवतौ ॥ ८९॥
श्रुतिनामानि
तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः ।
दयावती तुरेज्ञे(र्ज्ञे?)या रञ्जनी रक्तिकेत्यमूः ॥ ९०॥
रौद्री क्रोधीति गान्धारे वज्रिकाथ प्रसारिणी ।
प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥ ९१॥
क्षिती रक्ता च सन्दीपिन्यालापिन्यपि पञ्चमे ।
मदन्ती रोहिणी रम्येत्येतास्तिस्रस्तु धैवते ।
उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥ ९२॥
पुरातनैर्ग्रन्थकारैर्वर्णिताः श्रुतयो ह्यमूः ।
द्वयोर्हि षड्जयोर्मध्ये मतं तासां सुवण्टनम् ॥ ९३॥
यद्यपि द्वाविंशतिस्ते नादा इत्थं व्यवस्थिताः ।
प्रत्यक्षोपयोगिनस्ते सर्वे नैव कदाचन ॥ ९४॥
उपर्युक्तस्वराणां च संज्ञा लक्ष्ये प्रकीर्तिताः ।
सरिगमपधनीति ह्यपराः सर्वसम्मताः ॥ ९५॥
प्राचीनस्वरव्यवस्थितिः, रत्नाकरे
व्यवस्थिताः स्वराः प्राच्यैस्तत्र षड्जश्चतुःश्रुतिः ।
स्थाप्यः श्रुत्यां तृतीयायामृषभस्त्रिश्रुतिस्ततः ॥ ९६॥
पञ्चमीतस्तृतीयायां गान्धारो द्विश्रुतिस्ततः ।
अष्टमीतो द्वितीयायां मध्यमोऽथ चतुःश्रुतिः ॥ ९७॥
दशमीतश्चतुर्थ्यां स्यात्पञ्चमोऽथ चतुःश्रुतिः ।
चतुर्दशीतस्तुर्यायां धैवतस्त्रिश्रुतिस्ततः ॥ ९८॥
अष्टादश्यास्तृतीयायां निषादो द्विश्रुतिस्ततः ।
एकविंश्या द्वितीयायामिति ग्रन्थव्यवस्थितिः ॥ ९९॥
श्रुतिस्वरसङ्केतः, श्रुतिवीणादण्डे
सर्वग्रन्थकारसम्मतं शुद्धस्वरस्थापनम्
श्रुतयः अंकः शुद्धसप्तस्वराः
तीव्रा १
कुमुद्वती २
मन्दा ३
छन्दोवती ४ षड्जः शुद्धः
दयावती ५
रञ्जनी ६
रक्तिका ७ रिषभः शुद्धः
रौद्री ८
क्रोधी ९ गांधारः शुद्धः
वज्रिका १०
प्रसारिणी ११
प्रीतिः १२
मार्जनी १३ मध्यमः शुद्धः
क्षितिः १४
रक्ता १५
सन्दीपिनी १६
आलापिनी १७ पंचमः शुद्धः
मदन्ती १८
रोहिणी १९
रम्या २० धैवतः शुद्धः
उग्रा २१
क्षोभिणी २२ निषादः शुद्धः
तीव्रा १
कुमुद्वती २
मन्दा ३
छन्दोवती ४
सङ्गीतसारामृते शुद्धस्वरमेलनिर्णयः
सर्वेषु रागमेलेषु मुखारीमेल आदिमः ।
शुद्धैः सप्तस्वरैर्युक्तो मुखारीमेल ईरितः ॥ १००॥
चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ।
द्वे द्वे निषादगान्धारौ त्रिस्त्री रिषभधैवतौ ॥ १०१॥
लोकप्रसिद्धनामायं शास्त्रसिद्धाभिधस्त्वसौ ।
शुद्धसाधारित इति तुलजेन्द्रेण निश्चितः ॥ १०२॥
एनयैव व्यवस्थित्या ह्युत्पन्नः स्वरमेलकः ।
कनकाङ्गीति सम्प्रोक्तः कर्णाटकीयपण्डितैः ॥ १०३॥
ग्रन्थानां तत्र चाद्यानां शुद्धमेलो भवेदसौ ।
इति सर्वेपि जानन्ति मर्मज्ञा लक्ष्यवेदिनः ॥ १०४॥
तयैव च व्यवस्थित्या शुद्धमेलः सुसाधितः ।
हरप्रियः समाख्यातो ह्यहोबलादिपण्डितैः ॥ १०५॥
हिन्दुस्थानीयपद्धत्यां श्रुतिक्रमविपर्ययात् ।
शङ्कराभरणाख्यातो मेलः शुद्धः सुनिश्चितः ॥ १०६॥
अत्र मेले मतः षड्जः प्रथमश्रुतिमाश्रितः ।
ग्रन्थेषु दृश्यते सोऽपि चतुर्थ्यां स्थापितो बुधैः ॥ १०७॥
केषुचिदपि ग्रन्थेषु मृदुत्वं सपयोर्मतम् ।
हिन्दुस्थानीयपद्धत्यां तौ स्वरौ त्वचला मतौ ॥ १०८॥
शुद्धमेलो हि सर्वत्र षड्जग्राम इतीरितः ।
शङ्कराभरणस्तस्मात्षड्जग्रामत्वमर्हति ॥ १०९॥
विकृतस्वरनिर्णयः
स्वरस्तु प्रच्युतः श्रुत्या नियताया यदा भवेत् ।
तदा तस्य विकृतत्वमङ्गीकुर्वन्ति पण्डिताः ॥ ११०॥
रिगमधनयो लक्ष्ये विकृताः सम्भवन्ति यत् ।
अथ तेषां विकारांस्तान्वर्णयामि सविस्तरम् ॥ १११॥
षड्जर्षभयोश्च मध्ये (/ षड्जर्षभयोर्मध्ये)कोमलो रिषभः स्थितः ।
कोमलो धैवतश्चापि पधयोरन्तरे पुनः ॥ ११२॥
गान्धारो रिगयोर्मध्ये सम्मतः कोमलाभिधः ।
निषादोऽपि धनीमध्ये मृदुसंज्ञः सुसंस्थितः ॥ ११३॥
तीव्रमध्यमस्तु प्रोक्तो ह्यन्तरे मपयोरपि ।
सर्वसङ्गीतवैचित्र्याधारभूतोऽतिरक्तिदः ॥ ११४॥
प्राचीनविकृतसंज्ञाः
अथ वक्ष्ये ग्रन्थसंज्ञा विकृतानां ततः क्रमात् ।
यतः स्याद्ग्रन्थरागाणामनायासेन व्यक्तता ॥ ११५॥
समपा लक्ष्यशुद्धास्ते ग्रन्थेष्वपि तथैव च ।
कोमलौ तु रिधावत्र ग्रन्थेषु शुद्धसंज्ञकौ ॥ ११६॥
अस्माकं यः कोमलो गस्तत्र साधारणो मतः ।
तीव्रगान्धारसंज्ञोऽत्र ग्रन्थेषु चान्तराभिधः ॥ ११७॥
निषादस्तीव्रकोऽस्माकं भवेत्काकलिनामकः ।
कोमलो निर्व्यवहारे ग्रन्थे स्यात्कैशिकाह्वयः ॥ ११८॥
तीव्रमस्य ग्रन्थसंज्ञा बहवः स्युः सुलक्षिताः ।
वराळीमः प्रतिमोऽपि कैशिकी पञ्चमो मृदुः ॥ ११९॥
अस्मच्छुद्धरिधौ तत्र शुद्धौ स्यातां गनी क्रमात् ।
सौकर्यार्थं ततः कुर्वे वीणादण्डे निदर्शनम् ॥ १२०॥
शुद्धविकृतस्वराणां वीणादण्डे निदर्शनम्
शुद्धमतन्त्र्यां
हिन्दुस्थानीयपद्धत्यां स्वरनामानि ।
१ शुद्धमध्यमः, अथवा कोमलमध्यमः
२ तीव्रमध्यमः
३ शुद्धपञ्चमः
४ कोमलधैवतः
५ शुद्धधैवतः, अथवा तीव्रधैवतः
६ कोमलनिषादः
७ तीव्रनिषादः, अथवा शुद्धनिषादः
८ शुद्धषड्जः
९ कोमलर्षभः
१० शुद्धः ऋषभः, अथवा तीव्ररिषभः
११ कोमलगान्धारः
१२ शुद्धगान्धारः, अथवा तीव्रगान्धारः
१ कोमलमध्यमः, अथवा शुद्धमध्यमः
२ तीव्रमध्यमः
३ शुद्धपञ्चमः
४ कोमलधः
५ शुद्धधैवतः अथवा तीव्रधः
६ कोमलनिः
७ तीव्रनिषादः, अथवा शुद्धनिः
८ शुद्धषड्जः
च्युतौ षड्जमध्यमौ तावन्तर्भूतो मतौ बुधैः ।
काकल्यन्तरयोर्लक्ष्ये सुप्रसिद्धं मतं त्विदम् ॥ १२१॥
तथाहि स्वरमेलकलानिधौ
च्युतमध्यमगान्धारच्युतषड्जनिषादकौ ।
क्रमादन्तरकाकल्योः स्थाने प्रतिनिधी विदुः ॥ १२२॥
पुण्डरीकविठ्ठलकृतरागमञ्जर्याम्
काकल्यन्तरयोः स्थाने तृतीयगतिकौ निगौ ।
प्रयोगे च प्रतिनिधी क्रियेते साम्प्रदायिकैः ।
स्वल्पप्रयोगः सर्वत्र काकली चान्तरस्वरः ॥ १२३॥
तत्र रागविबोधे द्वितीयविवेके सम्मतिः
श्रुत्यैकयाधिकत्वं न्यूनत्वं वा न दोषाय ॥ १२४॥
लक्ष्यसङ्गीतोपयोगी योंऽशोऽन्यग्रन्थगः स्वयम् ।
अध्यायेऽस्मिन्मयाप्यसौ यथायथमुदाहृतः ॥ १२५॥
तद्गतस्यैवाशयस्य केवलं स्वीयभाषया ।
नास्त्यर्थो लेखनेनैवं कृतं प्राग्ग्रन्थकर्तृभिः ॥ १२६॥
स्वराणां शुद्धत्वविकृतत्वविषये ग्रन्थोक्तयः
रत्नाकरे
शुद्धस्वरव्यवस्थितिः
तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः ।
दयावती रञ्जनी च रक्तिका चर्षभे स्थिताः ॥ १२७॥
रौद्री क्रोधा च गान्धारे वज्रिकाथ प्रसारिणी ।
प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥ १२८॥
क्षिती रक्ता च सन्दीपिन्यालापिन्यपि पञ्चमे ।
मदन्ती रोहिणी रम्येत्येतास्तिस्रस्तु धैवते ॥
उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥ १२९॥
तदुक्तम्
श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः ।
पञ्चमो धैवतश्चाथ निषाद इति सप्त ते ।
तेषां संज्ञाः सरिगमपधनीत्यपरा मताः ॥ १३०॥
ते मन्द्रमध्यताराख्यस्थानभेदान्त्रिधा मताः ।
त एव विकृतावस्था द्वादश प्रतिपादिताः ॥ १३१॥
विकृतस्वराः
च्युतोऽच्युतो द्विधा षड्जो द्विश्रुतिर्विकृतो भवेत् ।
साधारणे काकलीत्वे निषादस्य च दृश्यते ॥ १३२॥
साधारणे श्रुतिं षाड्जीमृषभः संश्रितो यदा ।
चतुःश्रुतित्वमायाति तदैको विकृतो भवेत् ॥ १३३॥
साधारणे त्रिश्रुतिः स्यादन्तरत्वे चतुःश्रुतिः ।
गान्धार इति तद्भेदौ द्वौ निःशङ्केन कीर्तितौ ॥ १३४॥
मध्यमः षड्जवद्वेधाऽन्तरसाधारणाश्रयात् ।
पञ्चमो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः ॥ १३५॥
कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः ।
प्राप्नोति विकृतौ भेदौ द्वाविति द्वादश स्मृताः ॥
तैः शुद्धैः सप्तभिः सार्धं भवत्येकोनविंशतिः ॥ १३६॥
दर्पणे
शुद्धाः सप्तस्वरास्ते च मन्द्रादिस्थानतस्त्रिधा ।
च्युताच्युतादिभेदेन विकृता द्वादशोदिताः ॥ १३७॥
चतुःश्रुतिर्यदा षड्जो द्विश्रुतिर्विकृतस्तदा ।
साधारणे च्युतः स स्यात्काकलीत्वेऽच्युतः स्मृतः ॥ १३८॥
त्रिश्रुतिरृषभः साधारणे षाड्जीं श्रुतिं श्रितः ।
चतुःश्रुतित्वमापन्नस्तदैको विकृतो भवेत् ॥ १३९॥
साधारणे मध्यमस्य गान्धारस्त्रिश्रुतिर्भवेत् ।
स्वस्यान्तरत्वे भवति चतुःश्रुतिरिति द्विधा ॥ १४०॥
च्युताच्युतादिभेदेन मध्यमः षड्जवद्भवेत् ।
साधारणेऽन्तरत्वे च द्विश्रुतिर्विकृतस्तदा ॥ १४१॥
पञ्चमो मध्यमग्रामे त्रिश्रुतिर्जायते स्वरः ।
मध्यमस्य श्रुतिं प्राप्य कैशिके तु चतुःश्रुतिः ॥ १४२॥
धैवतो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः ।
कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः ।
एतैश्च सप्तभिः शुद्धैर्भवन्त्येकोनविंशतिः ॥ १४३॥
श्रुतिस्वरव्यवस्थिती रत्नाकरनिरूपिता ।
यथार्थतोऽनुकृतैव मन्ये सङ्गीतदर्पणे ॥ १४४॥
वीणादण्डे, रत्नाकरगतश्रुतिस्वरनिदर्शनम्
शुद्धषड्जतन्त्र्यां
लक्ष्यगतस्वराः ग्रन्थोक्तस्वराः
शुद्धषड्जः शुद्धषड्जः; अच्युतषड्जः
कोमलरिः शुद्धरिः, विकृतरिः
शुद्धरिः शुद्धगः
कोमलगः साधारणगः
तीव्रगः अन्तरगः
च्युतमः
शुद्धमः शुद्धम; अच्युतमः
तीव्रमः कैशिकपः; विकृतपः
शुद्धपः शुद्धपः
कोमलधः शुद्धधः; विकृतधः
शुद्धधः शुद्धनिः
कोमलनिः कैशिकनिः
तीव्रनिः काकलीनिः
च्युतषड्जः
शुद्धषड्जः शुद्धषड्जः
कोमलरिः शुद्धरिः
शुद्धरिः शुद्धगः
कोमलगः साधारणगः
तीव्रगः अन्तरगः
शुद्धमः शुद्धमः
रागविबोधे, स्वरनिर्णयः
ऋषभस्तृतीयसार्यां गः पञ्चम्यां नवम्यां मः ॥ १४५॥
पस्तु त्रयोदशीस्थः षोडश्यष्टादशस्थितौ च धनी ।
द्वाविंशीस्थः षड्जो द्विगुणसमः पूर्वषड्जेन ॥ १४६॥
ध्वनिशुद्धिनिश्चयार्थं विकृतन्यर्थं च सश्चतुःश्रुतिकः ।
इति सप्तोक्ताः शुद्धा विकृतान्सप्तैव वच्मि सह नाम्ना ।
साधारणोऽन्तरश्च श्रुतिं श्रुती चैत्य गो मस्य ॥ १४७॥
निः कैशिकी च काकल्यथ सस्यैकां भजश्चतां ते द्वे ।
निगमा मृदुपरसमपाः समपतृतीयश्रुतिस्थित्या ॥ १४८॥
द्वादशविकृतान्पूर्वे वदन्ति तत्र तु पृथक् पृथग्ध्वनितः ।
सप्तैव स्युर्भिन्ना न पञ्च यदिमे समध्वनयः ॥ १४९॥
यथाहि
न पृथक् शुद्धसमाभ्यामच्युतसमकौ चतुःश्रुती च रिधौ ।
शुद्धरिधाभ्यां विकृतस्त्रिश्रुतिपादपि चतुःश्रुतिपः ॥ १५०॥
भिन्नो न चतुःश्रुतिधो निःशङ्कमतेपि कूटपुनरुक्तौ ।
तल्लक्षणतो भेदेप्यमीषु पञ्चसु न लक्ष्ये भित् ॥ १५१॥
प्राचीनोक्तविकृतेभ्योऽन्यानपि विकृतान्सम्भावयनाह
रिधयोः परश्रुतिगतेश्चतस्र इह पञ्च षट् तथा श्रुतयः ।
देशीरागेष्वभिवीक्ष्यन्ते च षट् तथा गमयोः ॥ १५२॥
इति तेषु सम्भवन्ति त्रयोऽन्य एभ्यो विलक्षणा विकृताः ।
पञ्चश्रुतिः शुचेर्गात्साधारणतश्च षट्श्रुतिकः ॥ १५३॥
रिर्नपृथक्तादृग्धो नेः कैशिकिनश्च षट्श्रुतेर्गो मात् ।
किन्तूक्तरिधगमानां व्यवहृतये पृथगिमाः संज्ञाः ॥ १५४॥
टीकायां
पञ्चश्रुतिः रिः शुचेः शुद्धात् गात् गान्धारात् । षट्श्रुतिकश्च रिः साधारणतः साधारणाख्यविकृतगान्धारात् । न पृथक् न भिन्नः, स एव स इत्यर्थः ॥ चपरं तादृक् पञ्चश्रुतिः षट्श्रुतिश्च धः धैवतः नेः । शुचेर्निषादात्, कैशिकिनश्च तदाख्यविकृतनिषादाच्च क्रमेणेत्येव । षट्श्रुतिर्गः मात् शुचेर्मध्यमात् न पृथक् । पञ्चश्रुतिको रिः गान्धार एव । षट्श्रुतिकश्च रिः साधारण एव । एवं पञ्चश्रुतिर्धो निषाद एव । षट्श्रुतिश्च धः कैशिक्येव ।
चतुःश्रुत्यादिप्रकाराणां रिधगमानां पृथक्संज्ञाः
तीव्रश्चतुःश्रुतित्वे पञ्चश्रुतिकत्व एव तीव्रतरः ।
षट्श्रुतिकत्वे तीव्रतम इति परं ता यथायोग्यम् ॥ १५५॥
टीकायाम्
चतुःश्रुतित्वे एव तीव्र इति रिधादीनां संज्ञेत्यर्थात् । एवं पञ्चश्रुतिकत्वषट्श्रुतिकत्वयोरेव तीव्रतरस्तीव्रतम इति च संज्ञेयम् । एवं सति गमयोरपि संज्ञात्रये प्राप्ते आह । परं ता इति । परन्तु ताः संज्ञा यथायोग्यं यथार्हं गस्य मस्य च षट्श्रुतिकत्वे तीव्रतम इत्येकैव संज्ञा न तु तीव्रतीव्रतरसंज्ञे, गस्य तु चतुःश्रुतिकत्वपञ्चश्रुतिकत्वयोः अन्तरमृदुमसंज्ञयोः प्रवृत्तेः, मस्य तु चतुःश्रुतिकत्वस्याव्यभिचारात् पञ्चश्रुतिकत्वस्य चासम्भवादित्यर्थः ।
रागविबोधे, शुद्धविकृतस्वरनिर्णयः
लक्ष्यसङ्गीते रागविबोधे
शुद्धमः शुद्धमध्यमः
तीव्रतममः
तीव्रमः मृदुपः
शुद्धपः शुद्धपः
कोमलधः शुद्धधैवतः
तीव्रधः
तीव्रधः तीव्रतरधः; शुद्धनिः
कोमलनिः कैशिकनिः; तीव्रतमधः
तीव्रनिः काकली निः
मृदुसः
शुद्धषड्जः शुद्धषड्जः
कोमलरिः शुद्धरिः
तीव्ररिः
शुद्धरिः तीव्रतररिः शुद्धगान्धारः
कोमलगः तीव्रतमरिः साधारणगः
तीव्रगः अन्तरगः
मृदुमः
शुद्धमः शुद्धमः, तीव्रतमगः
तीव्रतममः
तीव्रमः मृदुपः
शुद्धपः शुद्धपः
कोमलधः शुद्धधः
तीव्रधः
तीव्रधः तीव्रतरधः; शुद्धनिषादः
कोमलनिः कैशिकनिः; तीव्रतमधः
तीव्रनिः काकली निः
मृदुसः
शुद्धसः शुद्धसः
स्वरैरेतैर्वर्णितास्ते सर्वे मेला स्वग्रन्थके ।
सोमनाथेन विदुषा स्फुटमेतत्तु तद्विदाम् ॥
पूर्वापरस्वरैकवाक्यताप्रयत्नः
स्वरमेलकलानिधौ ।
चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ।
द्वे द्वे निषादगान्धारौ त्रिस्त्री रिषभधैवतौ ॥ १५६॥
एते षड्जादयः सप्त स्वराः शुद्धाः प्रकीर्तिताः ।
विकृताश्चैव सप्तैवेत्येवं सर्वे चतुर्दश ॥ १५७॥
ननु रत्नाकरे शार्ङ्गदेवेन विकृताः स्वराः ।
द्वादशोक्ताः कथं ते तु सप्तैव कथितास्त्वया ॥ १५८॥
सत्यं लक्षणतो भेदो द्वादशानामपीष्यते ।
शुद्धेभ्यस्तत्र भेदस्तु सप्तानामेव लक्षितः ॥ १५९॥
आधारश्रुतिसन्त्यागात् ध्वनिभेदः प्रकीर्तितः ।
पञ्चानां, परिशिष्टानां स्वराणां विकृतात्मनाम् ॥ १६०॥
पूर्वस्वरश्रुतिग्राहाद्वा पूर्वश्रुतिवर्जनात् ।
अपि लक्षणतो भेदे पूर्वोक्तश्रुतिसंहतेः ॥ १६१॥
आधारश्रुतिनिष्ठत्वाल्लक्ष्यभेदो न विद्यते ।
कथं न भेद इति चेत्स लक्ष्यतो निरूप्यते ॥ १६२॥
शुद्धषड्जादच्युतस्तु स षड्जो नैव भिद्यते ।
अच्युतो मध्यमः शुद्धान्मध्यमान्न भिदां भजेत् ॥ १६३॥
शुद्धर्षभाच्च विकृतो रिषभो न पृथग्भवेत् ।
विकृतो धैवतः शुद्धाद्धैवतान्नातिरिच्यते ॥ १६४॥
मध्यमश्रुत्युपादानाद्विकृतः पञ्चमस्तु यः ।
विकृतात्पञ्चमाच्चैव न कामप्यश्नुते भिदाम् ॥ १६५॥
तस्माच्चतुर्दशस्वेषु पूर्वोक्तेष्वेव पञ्चमः ।
अन्तर्भूतो यतस्तस्मान्न पृथक्कथितो मया ॥ १६६॥
चतुर्दशस्वरेष्वेषु वक्ष्ये लक्ष्यानुसारतः ।
नामान्तराणि केषाञ्चिद्व्यवहारप्रसिद्धये ॥ १६७॥
च्युतषड्जस्वरो लक्ष्ये निषादत्वेन कीर्तितः ।
च्युतषड्जनिषादाभिधानं तस्य विधीयते ॥ १६८॥
च्युतस्य मध्यमस्यापि गान्धारव्यवहारतः ।
च्युतमध्यमगान्धारसंज्ञास्य क्रियते मया ॥ १६९॥
च्युतपञ्चम इत्याहुर्लोका, मध्यमसंज्ञया ।
अस्माभिः कथ्यते सोऽतश्चुतपञ्चममध्यमः ॥ १७०॥
लक्ष्ये तु कुत्रचिच्छुद्धगान्धारस्थानमाश्रयन् ।
ऋषभः कीर्त्यतेऽस्माभिः पञ्चश्रुतिसमाह्वयः ॥ १७१॥
ससाधारणगान्धारस्थानस्थो रिषभो यदि ।
लक्ष्यानुसारतः प्रोक्तस्ततः षट्च्छ्रुतिनामकः ॥ १७२॥
स्वरमेलकलानिधौ स्वरनिर्णयः
लक्ष्ये स्वराः कलानिधौ स्वराः
शुद्धमः शुद्धमध्यमः
तीव्रमः च्युतपञ्चममध्यमः
शुद्धपः शुद्धपञ्चमः
कोमलधः शुद्धधैवतः
शुद्धधः पञ्चश्रुतिधैवतः; शुद्धनिषादः
कोमलनिः कैशिकनिः; षट्श्रुतिनिषादः
तीव्रनिः काकलीनिः
च्युतषड्जनिषादः
शुद्धसः शुद्धसः
कोमलरिः शुद्धरिः
शुद्धरिः पञ्चश्रुतिरिः; शुद्धगान्धारः
कोमलगः साधारणगः षट्श्रुतिरिः
शुद्धगः अन्तरगः
च्युतमध्यमगान्धारः
शुद्धमः शुद्धमः
तीव्रमः च्युतपञ्चममध्यमः
शुद्धपः शुद्धपः
कोमलधः शुद्धधः
शुद्धधः पञ्चश्रुतिधः; शुद्धनिः
कोमलनिः कैशिकनिः, षट्श्रुतिधः
शुद्धनिः काकलीनिः
च्युतषड्जनिषादः
शुद्धषड्जः शुद्धषड्जः
चतुर्दण्डिप्रकाशिकायां स्वरनिर्णयः
चतुश्चतुश्चतश्चैव पडजमध्यमपञ्चमाः ।
द्वेद्वे निषादगान्धारी त्रिस्त्री रिषभधैवत ॥
इत्येवं भरतश्लोकसङ्ख्यातश्रुतिशालिनः ॥ १७२॥ number repeated
विकृतास्तु स्वराः पञ्चेत्यस्माभिरवधार्यते ।
रत्नाकरे तु निःशङ्को विकृतान् द्वादशस्वरान् ॥ १७३॥
अब्रवीत्केचन पुनः सप्ताहुर्विकृतिस्वरान् ।
सर्वमेतत्समालोच्य लक्ष्यमार्गानुसारतः ॥ १७४॥
स्वराः पञ्चैव विकृता इति सिद्धान्तितं मया ।
तांश्च पञ्चस्वरान् सम्यग्विविच्य व्याहरामहे ॥ १७५॥
साधारणश्च गान्धारो गान्धारश्चान्तराभिधः ।
द्वौ तौ च मध्यमक्षेत्रसम्भूतौ विकृतौ स्वरौ ॥ १७६॥
वराळीमध्यमश्चैकः पञ्चमक्षेत्रसम्भवः ।
षड्जक्षेत्रसमुद्भूतौ कैशिकीकाकलीस्वरौ ॥ १७७॥
एवमेते स्वराः पञ्च विकृता इति निर्णयः ।
आहत्य शुद्धविकृताः स्वरा द्वादश कीर्तिताः ॥ १७८॥
ग्रन्थेऽस्मिन् दृश्यते स्पष्टं द्वादशस्वरकल्पनम् ।
आधारः सर्वसङ्गीतमात्रस्य लक्ष्यवर्त्मनि ॥ १७९॥
सङ्गीतसारामृते स्वरनिर्णयः
अत्र श्रुतिप्रकरणे श्रुतिवीणोदिता मया ।
रत्नाकरानुसारेण स्वरवीणोच्यतेऽधुना ॥ १८०॥
स्वरैर्या वाद्यते वीणा स्वरवीणेति गीयते ।
स्वराः षड्जादयः शुद्धाः सप्तैव परिकीर्तिताः ॥ १८१॥
विकृताः पञ्च मिलिता द्वादश प्रतिपादिताः ।
विभान्ति यत्र सा वीणा स्वरवीणेति निश्चयः ॥ १८२॥
अथास्यां पर्वसंवेशं वक्ष्ये वैणिकसम्मतम् ।
सारण्यां मध्यषड्जाख्यतन्त्र्या शुद्धर्षभो यथा ॥ १८३॥
स्यात्तथा सारिका स्थाप्या प्रथमाऽथ द्वितीयका ।
तत्तन्त्र्या शुद्धगान्धारसिध्यै स्थाप्या च सारिका ॥ १८४॥
तृतीया सारिका स्थाप्या तया तन्त्र्या यथा स्फुटः ।
स्यात्साधारणगान्धारः, स्थाप्या सारी चतुर्थिका ॥ १८५॥
अन्तराख्यानगान्धारस्तया तन्त्र्या यथा भवेत् ।
शुद्धमध्यमसिध्यर्थं पञ्चमीं सारिकां ततः ॥ १८६॥
निवेश्यैव तया तन्त्र्या षष्ठी स्थाप्याथ सारिका ।
यथा व्यक्तस्तया तन्त्र्या वराळीमध्यमस्तथा ॥ १८७॥
मध्यस्थानस्वरा ह्येते जाताः स्युः षट्सु पर्वसु ।
मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ तृतीयया ॥ १८८॥
शुद्धश्च धैवतः शुद्धनिषादश्च ततः परम् ।
कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ॥ १८९॥
षड्जः शुद्धर्षभश्चेति षट्स्वराः षट्सु पर्वसु ।
स्वराः स्युः श्रुतिनिष्पन्नाः श्रुतिन्यूनाधिकत्वतः ॥ १९०॥
एते बहुविधाः शुद्धा विकृता व्यावहारिकाः ।
इति त्रिधा निगद्यन्ते तान् ब्रूमोऽत्र विशेषतः ॥ १९१॥
षड्जाद्याः शुद्धशब्दाद्याः स्वराः शुद्धा इतीरिताः ।
शुद्धषड्जस्तथा शुद्धर्षभ इत्यादिनामभिः ॥ १९२॥
अत्रैते व्यवहर्तव्या विकृतास्तत्तदाख्यया ।
ताभिस्तेऽत्र निरूप्यन्ते क्रमशो विकृतस्वराः ॥ १९३॥
साधारणाख्यगान्धारोन्तरगान्धार एव च ।
पञ्चमोपान्त्यश्रुतौ विकृतपञ्चममध्यमः ॥ १९४॥
कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ।
पञ्चैते विकृताः शुद्धैः स्वरैर्द्वादश कीर्तिताः ॥ १९५॥
उपर्युक्तानां केषाञ्चित्स्वराणां संज्ञान्तराणि
विहाय स्वस्वसंज्ञा ये स्वरा अन्योन्यसंज्ञकाः ।
तेषां नामान्तराण्यत्र विहितानीह तद्यथा ॥ १९६॥
शुद्धगान्धार एवायं पञ्चश्रुत्यृषभाह्वयः ।
साधारणाख्यगान्धारः षट्श्रुत्यृषभसंज्ञकः ॥ १९७॥
तथा शुद्धनिषादोऽपि स्याच्चतुःश्रुतिधैवतः ।
स्यात्कैशिकनिषादोऽपि तथा षट्श्रुतिधैवतः ।
लक्ष्यानुसारतस्त्वेतल्लौकिकं सुखबोधकम् ॥ १९८॥
उपर्युक्तपर्वसंवेशनिदर्शनं वीणादण्डे
षड्जाख्यतन्त्री
पञ्चमाख्यतन्त्री
शुद्धषड्जः १
२ १
३ २
४ ३
५ ४
६ ५
वराळीमः ७ ६
स्पष्टीकरणं
षड्जाख्यतन्त्र्यां क्रमेण स्वराः
१ शुद्धषड्जः २ शुद्धरिः ३ शुद्धगः
४ साधारणगः ५ अन्तरगः ६ शुद्धमः
७ वराळीमः
पञ्चमाख्यतन्त्र्यां क्रमेण स्वराः
१ शुद्धपञ्चमः २ शुद्धधः ३ शुद्धनिः
४ कैशिकनिः ५ काकलीनिः ६ शुद्धसः
७ शुद्धरिः
सारामृते; चतुर्दण्डिप्रकाशिकायां च स्वरनिर्णयः
लक्ष्ये स्वराः उपर्युक्तग्रन्थगतस्वराः
शुद्धमः शुद्धमध्यमः
तीव्रमः वराळीमध्यमः; विकृतपञ्चममध्यमः
शुद्धपः शुद्धपञ्चमः
कोमलधः शुद्धधैवतः
शुद्धधः शुद्धनिषादः; चतुःश्रुतिधः; पञ्च श्रुतिधः
कोमलनिः कैशिकनिषादः; षट्श्रुतिधः
तीव्रनिः काकलीनिषादः
शुद्धसः शुद्धषड्जः
कोमलरिः शुद्धरिषभः
शुद्धरिः शुद्धगान्धार पञ्चश्रुतिरिः
कोमलगः साधारणगः, षट्श्रुतिरिः
शुद्धगः अन्तरगः
शुद्धमः शुद्धमः
तीव्रमः वराळीमध्यमः
शुद्धपः शुद्धपः
कोमलधः शुद्धधः
शुद्धधः शुद्धनिः, पञ्चश्रुतिधः,
कोमलनिः कैशिकनिः, षट्श्रुतिधः
तीव्रनिः काकलीनिः
शुद्धषड्जः शुद्धषड्जः
सङ्गीतपारिजातगतस्वरप्रपञ्चः
शुद्धाः सप्त विकाराख्या द्व्यधिका विंशतिर्मताः ।
एकोनत्रिंशदुच्यन्ते ते सर्वे मिलिताः स्वराः ॥ १९९॥
सरी गमौ पधौ निश्च स्वरा इत्यपि संज्ञिताः ।
चतुःश्रुतिसमायुक्ताः स्वराः स्युः समपाभिधाः ॥ २००॥
गनी श्रुतिद्वयोपेतौ रिधौ त्रिश्रुतिकौ मतौ ।
स्वरः स्वोत्तरगामी चेत्तीव्रादिवचनोदितः ॥ २०१॥
स्वरोग्रिमश्रुतिं याति तीव्रसंज्ञां प्रयात्यसौ ।
स्वरोग्रिमश्रुतीयाति तदा तीव्रतरो भवेत् ॥ २०२॥
स्वरोग्रिमश्रुतीर्याति तर्हि तीव्रतमः स्मृतः ।
चतस्रः श्रुतयो यस्मिन्नधिकाः स्युर्यदा स्वरः ॥ २०३॥
अतितीव्रतमाख्यां च प्राप्नोतीति बुधा जगुः ।
स्वरः पश्चान्निवृत्तश्चेत् कोमलादिभिरीरितः ॥ २०४॥
एकश्रुतिपरित्यागात् स्वरः कोमलसंज्ञकः ।
श्रुतिद्वयपरित्यागात् पूर्वशब्देन मन्यते ॥ २०५॥
तथापि
प्रत्यक्षरागवर्णनप्रसङ्गेऽहोबलः स्वयमेव प्राह,
पूर्वकोमलतीव्रैश्च तथा तीव्रतरेण च ।
अतितीव्रतमेनैव सर्वे रागा उदीरिताः ॥ २०६॥
रिं च पूर्वं तथा तीव्रं तीव्रतरं च गस्वरम् ।
तीव्रतमं तथा गं च मं च तीव्रं स्वरं तथा ॥ २०७॥
मं च तीव्रतमं धं च पूर्वाख्यं तीव्रसंज्ञितम् ।
तीव्रतरं निषादं च तीव्रतमं च निस्वरम् ।
इत्येतांश्च दश त्यक्त्वा रागलक्षणमीरितम् ॥ २०८॥
सएव पुनः,
ऋषभः शुद्ध एवासौ पूर्वगान्धार इष्यते ।
गान्धारः शुद्ध एवासौ रिस्तीव्रतर इष्यते ॥ २०९॥
अतितीव्रतमो गः स्यान्मध्यमः शुद्ध एव हि ।
धैवतः शुद्ध एवासौ निषादः पूर्वसंज्ञकः ॥ २१०॥
निषादः शुद्ध एवासौ धस्तीव्रतर इष्यते ।
एवं स्यात् सर्वयन्त्रेषु स्वरस्थानस्य लक्षणम् ॥ २११॥
अतः
अहोबलेन विदुषा स्वरास्तु बहवो मताः ।
द्वादशानामेव लक्ष्ये प्रयोगः प्रायशः कृतः ॥ २१२॥
वीणादण्डे शुद्धविकृतस्वरस्थापनप्रकारः पारिजाते
स्वरस्य हेतुभूताया वीणायाश्चाक्षुषत्वतः ।
तत्र स्वरविबोधार्थं स्थानलक्षणमुच्यते ॥ २१३॥
ध्वन्यवच्छिन्नवीणायां मध्ये तारकसः स्थितः ।
उभयोः षड्जयोर्मध्ये मध्यमं स्वरमाचरेत् ॥ २१४॥
त्रिभागात्मकवीणायां पञ्चमः स्यात्तदग्रिमे ।
षड्जपञ्चमयोर्मध्ये गान्धारस्य स्थितिर्भवेत् ॥ २१५॥
सपयोः पूर्वभागे च स्थापनीयोऽथ रिस्वरः ।
सपयोर्मध्यदेशे तु धैवतं स्वरमाचरेत् ।
तत्रांशद्वयसन्त्यागान्निषादस्य स्थितिर्भवेत् ॥ २१६॥
इति शुद्धस्वराः ।
भागत्रयान्विते मध्ये मेरोः ऋषभसंज्ञितात् ।
भागद्वयोत्तरं मेरोः कुर्यात् कोमलरिस्वरम् ॥ २१७॥
मेरुधैवतयोर्मध्ये तीव्रगान्धारमाचरेत् ।
भागत्रयविशिष्टेऽस्मिन् तीव्रगान्धारषड्जयोः ।
पूर्वभागोत्तरं मध्ये मं तीव्रतममाचरेत् ॥ २१८॥
भागत्रयान्विते मध्ये पञ्चमोत्तरषड्जयोः ।
कोमलो धैवतः स्थाप्यः पूर्वभागे मनीषिभिः ॥ २१९॥
तथैव धसयोर्मध्ये भागत्रयसमन्विते ।
पूर्वभागद्वयादूर्ध्वं निषादं तीव्रमाचरेत् ॥ २२०॥
पारिजातोक्तस्वराणां वीणादण्डे निदर्शनं
शुद्धमतन्त्र्यां
लक्ष्ये स्वराः पारिजातोक्तस्वराः
शुद्धमः शुद्धमः, अतितीव्रतमगः
तीव्रमः
तीव्रमः तीव्रतरमः
तीव्रतममः
शुद्धपः शुद्धपः
पूर्वधः
कोमलधः कोमलधः
शुद्धधः शुद्धधः; पूर्वनिषादः
कोमलनिः; तीव्रधः
कोमलनिः शुद्धनिः; तीव्रतरधः
तीव्रनिः तीव्रनिः
तीव्रतरनिः
तीव्रतमनिः
शुद्धषड्जः शुद्धषड्जः
पूर्वरिः
कोमलरिः कोमलरिः
शुद्धरिः शुद्धरिः; पूर्वगः
तीव्ररिः; कोमलगः
कोमलगः शुद्धगः; तीव्रतररिः
तीव्रगः तीव्रगः
तीव्रतरगः
तीव्रतमगः
शुद्धमः शुद्धमः; अतितीव्रतमगः
तीव्रमः
तीव्रमः तीव्रतरमः
तीव्रतममः
शुद्धमः शुद्धपः
प्रचलितदाक्षिणात्यपद्धत्यां व्यवहृतस्वरनामानि
लक्ष्येऽत्र स्वराः, अधुनाप्रसिद्धदाक्षिणात्यस्वराः,
शुद्धमः शुद्धमध्यमः
तीव्रमः प्रतिमध्यमः, वराळीमः
शुद्धपः शुद्धपञ्चमः
कोमलधः शुद्धधैवतः
शुद्धधः चतुःश्रुतिधः; पञ्चश्रुतिधः, शुद्धनिः
कोमलनिः कैशिकनिः, षट्श्रुतिधः
तीव्रनिः काकलीनिः
शुद्धषड्जः शुद्धषड्जः
कोमलरिः शुद्धरिः
शुद्धरिः चतुःश्रुतिरिः; पञ्चश्रुतिरिः; शुद्धगः
कोमलगः साधारणगः, षट्श्रुतिरिः
तीव्रगः अन्तरगः
शुद्धमः शुद्धमः
तीव्रमः प्रतिमः, वराळीमः
शुद्धपः शुद्धपः
ग्रामविचारः
विशिष्टश्रुतिविन्यासो ग्राम इत्यभिधीयते ।
तद्गौरवं पुरा चासीन्न तावद्दृश्यतेऽधुना ॥ २२१॥
षड्जमध्यमगान्धारास्त्रयोग्रामा निरूपिताः ।
पुराणैस्तत्र चान्त्यस्य लोप्यत्वं परिकल्पितम् ॥ २२३॥
अपुराणैर्ग्रन्थकारैर्लक्ष्यमार्गानुसारतः ।
एक एव षड्जग्रामः स्वीकृतो लक्ष्यकेऽधुना ॥ २२३॥
प्रतिरागगतो मेलः पुरासीन्मूर्छनाश्रितः ।
ग्रामो हि मूर्च्छनाधारः स्वरान्तरनियामकः ॥ २२४॥
विकृतानां स्वराणां च तदासीद्वण्टनं मतम् ।
द्वयोस्तु ग्रामयोर्मध्ये न तदिहोपलभ्यते ॥ २२५॥
तिरोधानं मध्यमस्य ग्रामस्य वर्णितं पुनः ।
अर्वाचीनेषु ग्रन्थेषु दृश्यते सुपरिस्फुटम् ॥ २२६॥
ग्रामपरिवर्तने ग्रन्थोक्तयः
सङ्गीतसारामृते,
भरतेनोदिते शास्त्रे ग्रामौ द्वौ षड्जमध्यमौ ।
षड्जग्रामः पञ्चमे तु सप्तदश्यां श्रुतौ स्थिते ॥ २२७॥
स्वरेऽस्मिन् पञ्चमे किन्तु षोडशीं श्रुतिमास्थिते ।
तदैव मध्यमग्रामः सोऽत्र लक्ष्ये न दृश्यते ॥ २२८॥
षड्जग्रामाश्रितान्रागान् सर्वे गायन्ति गायकाः ।
तस्मान्मुख्यतमः षड्जग्रामोऽसौ नैव मध्यमः ॥ २२९॥
चतुर्दण्डिप्रकाशिकायाम्
ग्रामेष्वेतेषु गान्धारग्रामो नास्ति महीतले ।
स्वर्गलोके वर्ततेऽसौ सर्वेषामेव सम्मतम् ॥ २३०॥
अस्माभिर्मध्यमग्रामोऽप्यसत्प्राय इतीर्यते ।
तथाहि मध्यमग्रामे त्रिश्रुतिः पञ्चमः खलु ॥ २३१॥
वराळीमध्यमो जातः स पुनर्लक्ष्यवर्त्मनि ।
मध्यमादिप्रभृतिषु मध्यमग्रामजन्मसु ॥ २३२॥
रागेषु दृश्यते चैव वराळी मध्यमस्ततः ।
अयुक्तो मध्यमग्रामो लक्ष्यमार्गविरोधतः ॥ २३३॥
एक एव ततः षड्जग्राम इत्यवधार्यते ।
षड्जग्रामोद्भवा रागा इत्यनेन निरूपितम् ॥ २३४॥
रागविबोधे तथैव
स्वान्त्यश्रुतावुपान्त्यश्रुतौ च सति पञ्चमे क्रमात् स स्यात् ।
किन्तु विकारो देश्यां न पञ्चमे तदिह स प्रथमः ॥ २३५॥
टिप्पनी
प्राचीनैस्तत्र सङ्गीतं विभक्तं ग्रामभेदतः ।
दाक्षिणात्या अधुनापि कुर्वन्ति मध्यमाश्रितम् ॥ २३६॥
हिन्दुस्थानीयपद्धत्यां वैचित्र्यं मध्यमस्य तत् ।
सर्वसङ्गीतमात्रस्य स्वभावं सुप्रदर्शयेत् ॥ २३७॥
अतो मन्ये लक्ष्यकेऽत्र कस्मादपि च कारणात् ।
ग्रामद्वयसम्मिश्रणं लक्ष्यज्ञैर्दृश्यते कृतम् ॥ २३८॥
एकस्मिन्नेव ग्रामे हि प्रयोजनानुसारतः ।
द्वयोरेव मध्यमयोः प्रयोगो न विसङ्गतः ॥ २३९॥
कोमलादिविकारास्ते सम्भवत्येकग्रामके ।
सुसम्मतमिदं नूनं सङ्गीते परिवर्तनम् ॥ २४०॥
अस्माभिर्लक्ष्यसङ्गीतमवेक्ष्यमवशं स्वयम् ।
अतिवर्तामहे ग्रन्थानर्वाचीनान्यतोऽधुना ॥ २४१॥
सङ्गीतान्तर्गतग्रामत्रयान्नो द्वादश स्वराः ।
मिलन्त्याधुनिका एवं यदाहुर्लक्ष्यपण्डिताः ॥ २४२॥
लक्ष्यदृष्ट्या समीचीनं स्पष्टीकरणमीदृशम् ।
ग्रन्थतोऽसङ्गतं त्वासीद्ग्रामतत्त्वं पृथक् तदा ॥ २४३॥
देशकालानुवर्तित्वात्सङ्गीते परिवर्तनम् ।
भवितव्यं तत्र चेति शास्त्रविदां सुसम्मतम् ॥ २४४॥
ग्रन्थोक्ता बहवो रागाः साम्प्रतं परिवर्तिताः ।
दृश्यन्ते स्वीकृता लक्ष्ये यतस्ते स्युः सुरक्तिदाः ॥ २४५॥
अस्मदीये च सङ्गीते यवनैरप्यसंशयम् ।
नानाविधतया सद्यो विहितं परिवर्तनम् ॥ २४६॥
प्रमादादपि सम्मोहाद्ये रागा भ्रष्टतां गताः ।
लक्ष्ये स्युस्ते सुनियताः कर्तव्याः शास्त्रकोविदैः ॥ २४७॥
मेलप्रकरणम्
हिन्दुस्थानीयपद्धत्यां स्वराः प्रोक्तास्तु द्वादश ।
उद्गमस्थानभूतास्ते रागाणामिति सम्मतम् ॥ २४८॥
सप्त शुद्धास्तु विकृताः पञ्च तत्र समीरिताः ।
योग्यमेलव्यवस्थित्या भवेयू रक्तिहेतवः ॥ २४९॥
सूक्ष्मस्वरप्रयोगाणां विधानं श्रूयते क्वचित् ।
ग्रन्थोक्तनियमाभावात्तच्चर्चा वादमूलका ॥ २५०॥
तत्राऽपि मत्कृताः केचिन्नियमा वाञ्छिता यदि ।
कथयिष्यामि तान्नूनमन्यस्माच्च प्रसङ्गतः ॥ २५१॥
भिन्नश्रुतिसमायोगे परिणामोऽपि स्यात्पृथक् ।
विज्ञानं तु तथाप्येतच्छ्रोतृगणेऽतिदुर्लभम् ॥ २५२॥
मूर्च्छनाः
क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।
मूर्छनेत्युच्यते लक्ष्ये सैव स्याद्रागजन्मभूः ॥ २५३॥
प्राक्कालीनेषु ग्रन्थेषु मूर्च्छनाः सप्त वर्णिताः ।
प्रतिग्रामसमासक्ता याभी रागाः समुत्थिताः ॥ २५४॥
भिन्नस्वरं समारभ्य सप्तस्वरप्रकल्पनात् ।
नूनं परिस्फुटा तत्र स्वरान्तरप्रभिन्नता ॥ २५५॥
रत्नाकरादिग्रन्थेषु मूर्छनाभिः प्रबोधिताः ।
रागमेला रहस्यं तत्सर्वेषां विदुषां मतम् ॥ २५६॥
आधुनिकेषु शास्त्रेषु रागमेलनिरूपणम् ।
तीव्रकोमलादिकाभिः संज्ञाभिः परिकल्पितम् ॥ २५७॥
मूर्छनं तु स्वरस्यैव गमकादिकसंज्ञितम् ।
स्वीकृतं लक्ष्यसम्मत्या श्रोतृचित्तानुरञ्जकम् ॥ २५८॥
मूर्छनाप्रस्तारः
त्रैविध्यं स्वीकृतं तत्र मुर्छनाया मनीषिभिः ।
सम्पूर्णत्वं षाडवत्वमोडवत्वं तथैव च ॥ २५९॥
यतः सर्वे हि रागाख्या दृश्यन्ते मूर्छनाश्रिताः ।
त्रैविध्यं सुमतं तेषामपि शास्त्रे सुलक्षितम् ॥ २६०॥
चतुःस्वरादिसङ्घातान्न रागोत्पत्तिसम्भवः ।
इति शास्त्रविदां तत्त्वं साम्प्रतं सर्वसम्मतम् ॥ २६१॥
सरिगमपधनीति सङ्गीते मेलको मतः ।
पर्यायो मूर्छनायास्तु सत्कृतो लक्ष्यवर्त्मनि ॥ २६२॥
सरिगमस्वरात्मकं मेले पूर्वाङ्गमीप्सितम् ।
पधनिसस्वरैश्चापि सम्भवेदुत्तराङ्गकम् ॥ २६३॥
पूर्वाङ्गे कोमलौ प्रोक्तौ स्वरौ रिगौ तथैव च ।
उत्तराङ्गे निधौ ज्ञेयौ रागावयवभूतकौ ॥ २६४॥
पूर्वाङ्गे ह्यचलौ मान्यौ सुस्वरौ षड्जमध्यमौ ।
उत्तराङ्गे पसावपि लक्षितावचलौ पुनः ॥ २६५॥
रिगधनिस्वराणां च विकृतिभिर्निरूपिताः ।
प्रस्तारक्रियया लक्ष्ये मुख्यतो रागमेलकाः ॥ २६६॥
मेलज्ञानं विना मेलजन्यं ज्ञातुं न शक्यते ।
तस्मात्तन्मेलबोधार्थं तत्स्वरूपं निरूप्यते ॥ २६७॥
प्रस्तारक्रिया
सारामृते
षड्ज आद्यस्तदुपरि चत्वारः क्रमशः स्वराः ।
ऋषभाख्यानकाश्चापि गान्धाराख्यानकाश्च ते ॥ २६८॥
आद्यस्तत्र न गान्धारश्चतुर्थो रिषभो नहि ।
ऋषभावपि गान्धारौ द्वितीयकतृतीयकौ ॥ २६९॥
प्रथमादित्रयं ह्यत्र भवेदृषभसंज्ञकम् ।
द्वितीयादित्रयं चात्र गान्धारसंज्ञितं भवेत् ॥ २७०॥
ऋषभादित्रयं चापि रारीरूसंज्ञितं यदि ।
गागीगूसंज्ञकं भूयाद्गान्धारादित्रयं पुनः ॥ २७१॥
चतुर्ष्वेवं सुस्वरेषु षट् संज्ञाः पण्डितैर्मताः ।
प्रस्तारस्य सुसिध्यर्थमित्यस्ति तद्विदां स्फुटम् ॥ २७२॥
एवं च पञ्चमाग्रेऽथ निवसत्सु चतुर्ष्वपि ।
धाधीधुनानिनवश्च संज्ञाषट्कं प्रकीर्तितम् ॥ २७३॥
उपर्युक्तेऽथ पूर्वाङ्गे प्रस्तारक्रियया ध्रुवम् ।
षट्प्रकाराः सम्भवेयू रागोपयोगिनश्च ते ॥ २७४॥
सरागामा सरागीमा सरागुमा सरीगिमाः ।
सरीगुमा सरूगूमा इत्येते स्युः परिस्फुटाः ॥ २७५॥
वीणादण्डखण्डे प्रस्तारक्रियानिदर्शनम्
लक्ष्यगतस्वराः ग्रन्थोक्तस्वराः
शुद्धषड्जः शुद्धषड्जः,
कोमलरिः १ शुद्धरिषभः (रा)
शुद्धरिः २ पञ्चश्रुतिरिः, शुद्धगः (री)(गा)
कोमलगः ३ साधारणगः, षट्श्रुतिरिः; (रुः)(गी)
तीव्रगः ४ अन्तरगः,(गुः)
शुद्धमः शुद्धमध्यमः (मा)
तथैव च
शुद्धपः शुद्धपञ्चमः
कोमलधः १ शुद्धधैवतः,(धा)।
शुद्धधः २ पञ्चश्रुतिधः, शुद्धनिः; (धी)(ना)
कोमलनिः ३ कैशिकनिः; षट्श्रुतिधः; (धुः)(नी)
तीव्रनिः ४ काकलीनिः; (नुः)
शुद्धषड्जः शुद्धषड्जः
उत्तराङ्गे त्वनेनैव न्यायेन चोद्भवन्ति हि ।
पधानासा पधानीसा पधानुसादिकाः पुनः ॥ २७६॥
द्वयोरप्यङ्गयोर्योगादुद्भूतः पूर्णमेलकः ।
रागजनकत्वमपि लोके तस्यैव युज्यते ॥ २७७॥
शुद्धमध्यमस्य संज्ञा मेति प्रोक्ताऽत्र पण्डितैः ।
तीव्रमस्य पुनश्चोक्ता मीति भेदः परिस्फुटः ॥ २७८॥
प्रयोजनादुत्तराङ्गषट्कस्य प्रथमे दले ।
षट्त्रिंशन्मेलसम्प्राप्तिर्भवेत्सद्यो न संशयः ॥ २७९॥
मासंज्ञमध्यमस्थाने मीसंज्ञो यदि मध्यमः ।
प्रयुज्येत तदा चान्यत्षट्त्रिंशन्मेलसम्भवः ॥ २८०॥
इति द्वासप्ततिः प्रोक्ता मेलसङ्ख्या तु लक्ष्यके ।
सर्वरागाश्रयीभूता व्यङ्कटेश्वरनिर्मिता ॥ २८१॥
मूर्छनाया नव प्रकाराः
सम्पूर्णेभ्यश्च मेलेभ्यः षाडवौडवमार्गतः ।
ये प्रकाराः सम्भवन्ति तान्वक्ष्येऽथ सविस्तरम् ॥ २८२॥
आरोहे स्यात्सुसम्पूर्णो, विलोमेऽपि तथैव च ।
स भवेत्प्रथमो भेदो द्वितीयः कथ्यतेऽधुना ॥ २८३॥
अनुलोमे तु सम्पूर्णो विलोमे षाडवः पुनः ।
तृतीयः पूर्ण आरोहे विलोमे चौडवो मतः ॥ २८४॥
षाडवो रोहणे यस्तु सम्पूर्णः स्याद्विलोमके ।
चतुर्थो वर्णितो भेदः पञ्चमः कथ्यते बुधैः ॥ २८५॥
आरोहणे षाडवत्वं विलोमके तथैव च ।
स्यात्षाडवौडवः षष्ठः सर्वत्रापि सुसम्मतः ॥ २८६॥
औडवो रोहणे यस्तु सम्पूर्णश्च विलोमके ।
सम्मतः सप्तमो भेदो लक्ष्ये नित्यं सुखप्रदः ॥ २८७॥
आरोहणे चौडवः स्याद्विलोमे षाडवः पुनः ।
अष्टमो निश्चितस्तज्ज्ञैर्नवमः प्रोच्यतेऽधुना ॥ २८८॥
औडवो रोहणे नित्यमवरोहेऽपि चौडवः ।
इत्येते वर्णिता भेदाः सर्वरागाश्रया मया ॥ २८९॥
द्विसप्ततिर्मूर्छनास्ताः पूर्वमेव मयोदिताः ।
उपर्युक्ता नवभेदाः प्रत्येकस्या भवन्ति ते ॥ २९०॥
शक्यरागसङ्ख्यानिर्णयः
अथ कुर्वे प्रबोधार्थं जिज्ञासूनां निरूपणम् ।
मूर्छनागतरागाणां प्रस्फुटं च सविस्तरम् ॥ २९१॥
शुद्धस्वरमूर्छनाऽसौ शङ्कराभरणाभिधा ।
तत्र सम्भाव्यरागाणां कुर्मः सङ्ख्या निदर्शनम् ॥ २९२॥
सम्पूर्णारोहावरोहप्रकार एक एव हि ।
सम्पूर्णषाडवास्तत्र षडेव सम्भवन्ति ते ॥ २९३॥
सम्पूर्णौडवकाश्चापि पञ्चदशमिताः पुनः ।
इति परिस्फुटं भूयादनायासेन तद्विदाम् ॥ २९४॥
षाडवारोहसम्पन्ना विलोमे पूर्णतायुताः ।
षट्प्रकाराः सम्भवन्ति न तत्र कोऽपि संशयः ॥ २९५॥
षाडवारोहसंयुक्ता विलोमेऽपि च षाडवाः ।
षट्त्रिंशद्भेदकास्तत्र मन्यन्ते लक्ष्यकोविदैः ॥ २९६॥
षाडवौडवभेदास्तु नवतिः सम्प्रकीर्तिताः ।
पञ्चदशहताः षट् ते परिस्फुटमिदं पुनः ॥ २९७॥
औडवारोहसम्पन्नाः सम्पूर्णा अवरोहणे ।
पञ्चदश प्रकारास्ते सर्वगुणिसुसम्मताः ॥ २९८॥
औडवारोहसंयुक्ता विलोमे षाडवा अपि ।
नवतिमितप्रभेदा लक्ष्यज्ञैस्तत्र निश्चिताः ॥ २९९॥
औडवौडवभेदास्ते शरनेत्रकरा मताः ।
एकैकस्यां मूर्छनायां प्रकाराः सम्भवन्ति ते ॥ ३००॥
मूर्छनाप्रस्तारनिदर्शनम्
क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।
मूर्छनेत्युच्यते शास्त्रे तद्भेदास्तु त्रयो मताः ॥
शक्यभेदसङ्ख्या निर्णयः
सम्पूर्ण-सम्पूर्णः १ प्रकारः
आरोहः
१ स रि ग म प ध नि
अवरोहः
नि ध प म ग रि स
सम्पूर्णषाडवाः ६ प्रकाराः
१ स रि ग म प ध नि -०- ध प म ग रि स
२ स रि ग म प ध नि नि -०- प म ग रि स
३ स रि ग म प ध नि नि ध -०- म ग रि स
४ स रि ग म प ध नि नि ध प -०- ग रि स
५ स रि ग म प ध नि नि ध प म -०- रि स
६ स रि ग म प ध नि नि ध प म ग -०- स
सम्पूर्णौडवाः १५ प्रकाराः
१ स रि ग म प ध नि -०- -०- प म ग रि स
२ स रि ग म प ध नि -०- ध -०- म ग रि स
३ स रि ग म प ध नि -०- ध प -०- ग रि स
४ स रि ग म प ध नि -०- ध प म -०- रि स
५ स रि ग म प ध नि -०- ध प म ग -०- स
६ स रि ग म प ध नि नि -०- -०- म ग रि स
७ स रि ग म प ध नि नि -०- प -०- ग रि स
८ स रि ग म प ध नि नि -०- प म -०- रि स
९ स रि ग म प ध नि नि -०- प म ग -०- स
१० स रि ग म प ध नि नि ध -०- -०- ग रि स
११ स रि ग म प ध नि नि ध -०- म -०- रि स
१२ स रि ग म प ध नि नि ध -०- म ग -०- स
१३ स रि ग म प ध नि नि ध प -०- -०- रि स
१४ स रि ग म प ध नि नि ध प -०- ग -०- स
१५ स रि ग म प ध नि नि ध प म -०- -०- स
षाडवसम्पूर्णः ६ प्रकाराः
१ स रि ग म प ध -०- नि ध प म ग रि स
२ स रि ग म प -०- नि नि ध प म ग रि स
३ स रि ग म -०- ध नि नि ध प म ग रि स
४ स रि ग -०- प ध नि नि ध प म ग रि स
५ स रि -०- म प ध नि नि ध प म ग रि स
६ स -०- ग म प ध नि नि ध प म ग रि स
ओडवसम्पूर्णः १५ प्रकाराः
१ स रि ग म प -०- -०- नि ध प म ग रि स
२ स रि ग म -०- ध -०- नि ध प म ग रि स
३ स रि ग -०- प ध -०- नि ध प म ग रि स
४ स रि -०- म प ध -०- नि ध प म ग रि स
५ स -०- ग म प ध -०- नि ध प म ग रि स
६ स रि ग म -०- -०- नि नि ध प म ग रि स
७ स रि ग -०- प -०- नि नि ध प म ग रि स
८ स रि -०- म प -०- नि नि ध प म ग रि स
९ स -०- ग म प -०- नि नि ध प म ग रि स
१० स रि ग -०- -०- ध नि नि ध प म ग रि स
११ स रि -०- म -०- ध नि नि ध प म ग रि स
१२ स -०- ग म -०- ध नि नि ध प म ग रि स
१३ स रि -०- -०- प ध नि नि ध प म ग रि स
१४ स -०- ग -०- प ध नि नि ध प म ग रि स
१५ स -०- -०- म प ध नि नि ध प म ग रि स
षाडवषाडवाः ६*६=३६
१ स रि ग म प ध -०- -०- ध प म ग रि स
२ स रि ग म प ध -०- नि -०- प म ग रि स
३ स रि ग म प ध -०- नि ध -०- म ग रि स
४ स रि ग म प ध -०- नि ध प -०- ग रि स
५ स रि ग म प ध -०- नि ध प म -०- रि स
६ स रि ग म प ध -०- नि ध प म ग -०- स
७ स रि ग म प -०- नि -०- ध प म ग रि स
८ स रि ग म प -०- नि नि -०- प म ग रि स
९ स रि ग म प -०- नि नि ध -०- म ग रि स
१० स रि ग म प -०- नि नि ध प -०- ग रि स
११ स रि ग म प -०- नि नि ध प म -०- रि स
१२ स रि ग म प -०- नि नि ध प म ग -०- स
१३ स रि ग म -०- ध नि -०- ध प म ग रि स
१४ स रि ग म -०- ध नि नि -०- प म ग रि स
१५ स रि ग म -०- ध नि नि ध -०- म ग रि स
१६ स रि ग म -०- ध नि नि ध प -०- ग रि स
१७ स रि ग म -०- ध नि नि ध प म -०- रि स
१८ स रि ग म -०- ध नि नि ध प म ग -०- स
१९ स रि ग -०- प ध नि -०- ध प म ग रि स
२० स रि ग -०- प ध नि नि -०- प म ग रि स
२१ स रि ग -०- प ध नि नि ध -०- म ग रि स
२२ स रि ग -०- प ध नि नि ध प -०- ग रि स
२३ स रि ग -०- प ध नि नि ध प म -०- रि स
२४ स रि ग -०- प ध नि नि ध प म ग -०- स
२५ स रि -०- म प ध नि -०- ध प म ग रि स
२६ स रि -०- म प ध नि नि -०- प म ग रि स
२७ स रि -०- म प ध नि नि ध -०- म ग रि स
२८ स रि -०- म प ध नि नि ध प -०- ग रि स
२९ स रि -०- म प ध नि नि ध प म -०- रि स
३० स रि -०- म प ध नि नि ध प म ग -०- स
३१ स -०- ग म प ध नि -०- ध प म ग रि स
३२ स -०- ग म प ध नि नि -०- प म ग रि स
३३ स -०- ग म प ध नि नि ध -०- म ग रि स
३४ स -०- ग म प ध नि नि ध प -०- ग रि स
३५ स -०- ग म प ध नि नि ध प म -०- रि स
३६ स -०- ग म प ध नि नि ध प म ग -०- स
षाडवाउडवाः ६*१५=९०
१ स रि ग म प ध -०- -०- -०- प म ग रि स
२ स रि ग म प ध -०- -०- ध -०- म ग रि स
३ स रि ग म प ध -०- ध प -०- ग रि स
४ स रि ग म प ध -०- ध प म -०- रि स
५ स रि ग म प ध -०- ध प म ग -०- स
६ स रि ग म प ध -०- -०- -०- म ग रि स
७ स रि ग म प ध -०- -०- प -०- ग रि स
८ स रि ग म प ध -०- -०- प म -०- रि स
९ स रि ग म प ध -०- -०- प म ग -०- स
१० स रि ग म प ध -०- नि ध -०- -०- ग रि स
११ स रि ग म प ध -०- नि ध -०- म -०- रि स
१२ स रि ग म प ध -०- नि ध -०- म ग -०- स
१३ स रि ग म प ध -०- नि ध प -०- -०- रि स
१४ स रि ग म प ध -०- नि ध प -०- ग -०- स
१५ स रि ग म प ध -०- नि ध प म -०- -०- स
१६ स रि ग म प -०- नि -०- -०- प म ग रि स
१७ स रि ग म प -०- नि -०- ध -०- म ग रि स
१८ स रि ग म प -०- नि -०- ध प -०- ग रि स
१९ स रि ग म प -०- नि -०- ध प म -०- रि स
२० स रि ग म प -०- नि -०- ध प म ग -०- स
२१ स रि ग म प -०- नि नि -०- -०- म ग रि स
२२ स रि ग म प -०- नि नि -०- प -०- ग रि स
२३ स रि ग म प -०- नि नि -०- प म -०- रि स
२४ स रि ग म प -०- नि नि -०- प म ग -०- स
२५ स रि ग म प -०- नि नि ध -०- -०- ग रि स
२६ स रि ग म प -०- नि नि ध -०- म -०- रि स
२७ स रि ग म प -०- नि नि ध -०- म ग -०- स
२८ स रि ग म प -०- नि नि ध प -०- -०- रि स
२९ स रि ग म प -०- नि नि ध प -०- ग -०- स
३० स रि ग म प -०- नि नि ध प म -०- -०- स
३१ स रि ग म -०- ध नि -०- -०- प म ग रि स
३२ स रि ग म -०- ध नि -०- ध -०- म ग रि स
३३ स रि ग म -०- ध नि -०- ध प -०- ग रि स
३४ स रि ग म -०- ध नि -०- ध प म -०- रि स
३५ स रि ग म -०- ध नि -०- ध प म ग -०- स
३६ स रि ग म -०- ध नि नि -०- -०- म ग रि स
३७ स रि ग म -०- ध नि नि -०- प -०- ग रि स
३८ स रि ग म -०- ध नि नि -०- प म -०- रि स
३९ स रि ग म -०- ध नि नि -०- प म ग -०- स
४० स रि ग म -०- ध नि नि ध -०- -०- ग रि स
४१ स रि ग म -०- ध नि नि ध -०- म -०- रि स
४२ स रि ग म -०- ध नि नि ध -०- म ग -०- स
४३ स रि ग म -०- ध नि नि ध प -०- -०- रि स
४४ स रि ग म -०- ध नि नि ध प -०- ग -०- स
४५ स रि ग म -०- ध नि नि ध प म -०- -०- स
४६ स रि ग -०- प ध नि -०- -०- प म ग रि स
४७ स रि ग -०- प ध नि -०- ध -०- म ग रि स
४८ स रि ग -०- प ध नि -०- ध प -०- ग रि स
४९ स रि ग -०- प ध नि -०- ध प म -०- रि स
५० स रि ग -०- प ध नि -०- ध प म ग -०- स
५१ स रि ग -०- प ध नि नि -०- -०- म ग रि स
५२ स रि ग -०- प ध नि नि -०- प -०- ग रि स
५३ स रि ग -०- प ध नि नि -०- प म -०- रि स
५४ स रि ग -०- प ध नि नि -०- प म ग -०- स
५५ स रि ग -०- प ध नि नि ध -०- -०- ग रि स
५६ स रि ग -०- प ध नि नि ध -०- म -०- रि स
५७ स रि ग -०- प ध नि नि ध -०- म ग -०- स
५८ स रि ग -०- प ध नि नि ध प -०- -०- रि स
५९ स रि ग -०- प ध नि नि ध प -०- ग -०- स
६० स रि ग -०- प ध नि नि ध प म -०- -०- स
६१ स रि -०- म प ध नि -०- -०- प म ग रि स
६२ स रि -०- म प ध नि -०- ध -०- म ग रि स
६३ स रि -०- म प ध नि -०- ध प -०- ग रि स
६४ स रि -०- म प ध नि -०- ध प म -०- रि स
६५ स रि -०- म प ध नि -०- ध प म ग -०- स
६६ स रि -०- म प ध नि नि -०- -०- म ग रि स
६७ स रि -०- म प ध नि नि -०- प -०- ग रि स
६८ स रि -०- म प ध नि नि -०- प म -०- रि स
६९ स रि -०- म प ध नि नि -०- प म ग -०- स
७० स रि -०- म प ध नि नि ध -०- -०- ग रि स
७१ स रि -०- म प ध नि नि ध -०- म -०- रि स
७२ स रि -०- म प ध नि नि ध -०- म ग -०- स
७३ स रि -०- म प ध नि नि ध प -०- -०- रि स
७४ स रि -०- म प ध नि नि ध प -०- ग -०- स
७५ स रि -०- म प ध नि नि ध प म -०- -०- स
७६ स -०- ग म प ध नि -०- -०- प म ग रि स
७७ स -०- ग म प ध नि -०- ध -०- म ग रि स
७८ स -०- ग म प ध नि -०- ध प -०- ग रि स
७९ स -०- ग म प ध नि -०- ध प म -०- रि स
८० स -०- ग म प ध नि -०- ध प म ग -०- स
८१ स -०- ग म प ध नि नि -०- -०- म ग रि स
८२ स -०- ग म प ध नि नि -०- प -०- ग रि स
८३ स -०- ग म प ध नि नि -०- प म -०- रि स
८४ स -०- ग म प ध नि नि -०- प म ग -०- स
८५ स -०- ग म प ध नि नि ध -०- -०- ग रि स
८६ स -०- ग म प ध नि नि ध -०- म -०- रि स
८७ स -०- ग म प ध नि नि ध -०- म ग -०- स
८८ स -०- ग म प ध नि नि ध प -०- -०- रि स
८९ स -०- ग म प ध नि नि ध प -०- ग -०- स
९० स -०- ग म प ध नि नि ध प म -०- -०- स
पञ्चदशप्रकारैश्चेदौडवैः षाडवा युताः ।
खाङ्कमिता भवेत्सङ्ख्या तादृशानामसंशयम् ॥ ३०१॥
औडवौडवभेदास्ते शरनेत्रकरा मया ।
पूर्वमेव समाख्याताः पुनरुक्तिर्निरर्थिका ॥ ३०२॥
एवं प्रतिमूर्छनायां शक्या मेलाः परिस्फुटाः ।
वेदवसुवेदमिताः सुनिश्चिता विचक्षणैः ॥ ३०३॥
द्विसप्ततिमेलकेषु न्यायेनानेन लक्षिताः ।
वसुवेदवसुवेदरामा रागा ततः पुनः ॥ ३०४॥
रागोत्पादनपद्धतिरियं कर्णाटदेशके ।
अधुनाऽपि सुप्रतीता भवेत्सर्वसुसम्मता ॥ ३०५॥
हिन्दुस्थानीयपद्धत्यां मार्गाः स्युरपरा अपि ।
निरूपिता लक्ष्यविद्भि रागोत्पादनहेतवः ॥ ३०६॥
आरोहणे चालितास्ते स्वरा न स्युर्विलोमके ।
अथवा तद्विपर्यासो जनयेद्रागभेदकम् ॥ ३०७॥
स्याद्रागोचितस्वरेषु विशिष्टा वक्रता पुनः ।
समानस्वरेष्वथवा वादिभेदाद्भवेद्भिदा ॥ ३०८॥
न रागाणां न तालानामन्तः कुत्रापि विद्यते ।
इति यच्छ्रूयते लोके केवलं तद्यथार्थकम् ॥ ३०९॥
वस्तुस्थितिः
एतावती यदि सङ्ख्या रागाणां शास्त्रनिश्चिता ।
लक्ष्यमार्गे न ते सर्वे प्रतीता इति प्रस्फुटम् ॥ ३१०॥
मेलसङ्ख्या ग्रन्थकृद्भिर्महत्योऽपि प्रपञ्चिताः ।
लक्ष्ये प्रसिद्धिवैधुर्याद्बहवस्ताह्युपेक्षिताः ॥ ३११॥
आधुनिका गायका ये निष्णाता गानशास्त्रके ।
गायन्तस्तत्र श्रूयन्ते क्वचिद्रागशतद्वयम् ॥ ३१२॥
द्विसप्ततिमेलसमर्थनं
चतुर्दण्डिप्रकाशिकायां
द्विसप्ततिमेलकानां निर्माता व्यङ्कटेश्वरः ।
स्वकीये ग्रन्थके ब्रूते स्पष्टं तत्सृष्टिकारणम् ॥ ३१३॥
ननु द्विसप्ततिर्मेला भवता परिकल्पिताः ।
प्रसिद्धाः पुनरेतेषु मेला कतिचिदेव हि ॥ ३१४॥
दृश्यन्ते नतु सर्वेऽपि तेन तत्कल्पनं वृथा ।
कल्पनागौरवन्यायादिति चेदिदमुच्यते ॥ ३१५॥
अनन्ताः खलु भेदास्ते देशस्था अपि मानवाः ।
तेषु साङ्गीतिकैरुच्चावचसङ्गीतकोविदः ॥ ३१६॥
ये कल्पयिष्यमाणाश्च कल्प्यमानाश्च कल्पिताः ।
अस्मदादिभिरज्ञाता ये च शास्त्रैकगोचराः ॥ ३१७॥
ये च देशीयरागास्तद्रागसामान्यमेलकाः ।
सङ्ग्रहीतुं समुन्नीता एते मेला द्विसप्ततिः ॥
ततस्त्वेतेषु वैयर्थ्यशङ्का किङ्कारणं भवेत् ॥ ३१८॥
रञ्जनाद्रागता नित्यं नियमो बुधसम्मतः ।
सुरागाणामपि सङ्ख्या तेन मर्यादिता भवेत् ॥ ३१९॥
प्राचीनरागलक्षणानि
चतुर्दण्डिप्रकाशिकायां
रञ्जयन्ति मनांसीति रागास्ते दशलक्षणाः ।
कीर्तिताः पूर्वग्रन्थेषु लक्षणानि ब्रुवेऽधुना ॥ ३२०॥
लक्षणानि दशोक्तानि लक्ष्यन्ते तावदादितः ।
ग्रहांशौ मन्द्रतारौ च न्यासापन्यासकौ तथा ॥ ३२१॥
अथ संन्यासविन्यासौ बहुत्वं चाल्पता तथा ।
लक्षणानि दशैतानि रागाणां मुनयोऽब्रुवन् ॥ ३२२॥
लक्ष्ये
प्रारभ्यते येन गीतं स स्वरो ग्रहको मतः ।
गीतसमाप्तिकृन्न्यासो वर्ण्यते चांशकः पुनः ॥ ३२३॥
बहुशो गीयते येन स्वरेणांशः स कथ्यते ।
अंशस्वरस्त्वसावेव जीवस्वर इति स्मृतः ॥ ३२४॥
उक्तदशलक्षणानां नूनं स्याद्गौरवं पुरा ।
देश्यामिह पुनस्तेषां सम्मतं परिवर्तनम् ॥ ३२५॥
व्यवहारे लक्षणानां त्रयाणामेव वर्णनम् ।
दृश्यते कृतमाचार्यैर्वयं लक्ष्यानुवर्तिनः ॥ ३२६॥
ग्रहन्यासापन्यासानां नियमाः साम्प्रतं हि ते ।
यथायोग्यं नैव लक्ष्ये दृश्यन्त इति सम्मतम् ॥ ३२७॥
तथाहि कल्लिनाथटीकायां
येषां श्रुतिस्वरग्रामजात्यादि नियमो नहि ।
नानादेशगतिच्छाया देशीरागास्तु ते मताः ॥ ३२८॥
कामचारप्रवर्तित्वं देशीरागत्वलक्षणम् ।
नियमे तु सति तत्र मार्गत्वमनुलक्षितम् ॥ ३२९॥
सारामृते मतङ्गसम्मतरागलक्षणानि
ग्रहांशतारमन्द्राश्च न्यासापन्यासकौ तथा ।
अपि संन्यासविन्यासौ बहुत्वं चाल्पता तथा ॥ ३३०॥
लक्षणानि दशैतानि रागाणां मुनयोऽब्रुवन् ।
दशानामपि चैतेषां क्रमाल्लक्षणमुच्यते ॥ ३३१॥
येनादौ गीयते गीते स्वरेण स भवेद्ग्रहः ।
बहुशो गीयते येन स्वरेणांशः स कथ्यते ॥ ३३२॥
अंशः स्वरोप्यसावेव जीवस्वर इति स्मृतः ।
नीचैः स्वरेण यद्गानं स मन्द्रस्वर उच्यते ॥ ३३३॥
उच्चैः स्वरेण यद्गानं स तारस्वर उच्यते ।
न्यासस्वरः स कथितो येन गीतं समाप्यते ॥ ३३४॥
अवान्तरसमाप्तिं यो रागस्य वितनोति सः ।
अपन्यासः स स्मृतोऽन्यस्त्वात्यन्तिकसमाप्तिकृत् ॥ ३३५॥
इति भेदो भवेन्न्यासापन्यासस्वरयोर्द्वयोः ।
संन्यासो नाम गीताद्यखण्डस्यैवसमाप्तिकृत् ॥ ३३६॥
गीतखण्डाद्यावयवस्यान्ते तिष्ठति स स्वरः ।
विन्यास, एतौ सन्यासविन्यासौ भरतादिभिः ॥
अन्तर्भूतावपन्यासस्वर एवेति कीर्तितम् ॥ ३३७॥
अलङ्घनं तदभ्यासो बहुत्वं द्विविधं मतम् ।
स्वरस्यास्पर्शनं यत्तल्लङ्घनं परिकीर्तितम् ॥ ३३८॥
साकल्येन स्वरस्पर्शस्त्वलङ्घनमिति स्मृतम् ।
यदेकस्य स्वरस्यैव नैरन्तर्येण वाथवा ॥ ३३९॥
व्यवधानेन स्याद्भूयो भूयोप्युच्चारणं हि तत् ।
अभ्यास इति शंसन्ति बहुत्वं द्विविधं ततः ॥ ३४०॥
अल्पत्वं च द्विधा प्रोक्तमनभ्यासाच्च लङ्घनात् ।
पूर्वोक्ताभ्यासराहित्यमनभ्यासः प्रकीर्तितः ।
पूर्वोक्तालङ्घनाभावो लङ्घनं परिकीर्तितम् ॥ ३४१॥
वादिसंवादिप्रकरणं
प्रतिरागे लक्षितव्याश्चतुर्विधाः स्वरा बुधैः ।
वादिसंवाद्यनुवादिविवादिनश्च नित्यशः ॥ ३४२॥
वादीस्वरस्त्वेक एव संवाद्यपि तथैव च ।
शेषाणामनुवादित्वं विवादी वर्जितस्वरः ॥ ३४३॥
ग्रन्थोक्तयः
रत्नाकरे,
चतुर्विधाः स्वरा वादी संवादी च विवाद्यपि ।
अनुवादी च वादी तु प्रयोगे बहुलः स्वरः ॥ ३४४॥
श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः ।
मिथः संवादिनौ तौ स्तो निगावन्यविवादिनौ ॥ ३४५॥
रिधयोरेव वा स्यातां तौ तयोर्वा रिधावपि ।
शेषाणामनुवादित्वं वादी राजाऽत्र गीयते ॥ ३४६॥
संवादी त्वनुसारित्वादस्यामात्योऽभिधीयते ।
विवादी विपरीतत्वाद्धीरैरुक्तो रिपूपमः ।
नृपामात्यानुसारित्वादनुवादी तु भृत्यवत् ॥ ३४७॥
विवादिस्वरव्याख्याने रत्नाकरप्रपञ्चितम् ।
रहस्यं किञ्चिदप्यासीद्भिन्नं मर्मविदां मते ॥ ३४८॥
पारिजाते
सङ्गीतशास्त्रवेत्तारः प्रवदन्ति मुनीश्वराः ।
प्रयोगो बहुधा यस्य वादिनं तं स्वरं जगुः ॥ ३४९॥
मिथः संवादिनौ तौ स्तः सपौ स्यातां पसौ तथा ।
न वादी नच संवादी न विवाद्यपि यः स्वरः ॥
सोऽनुवादीति विज्ञेयः सूक्ष्मदृष्ट्या विचक्षणैः ॥ ३५०॥
रक्तिविच्छेदहेतुत्वं यस्मिन्रागे तु यस्य तत् ।
तद्रागस्थस्वरैस्तस्य विवादित्वं भवेद्ध्रुवम् ॥ ३५१॥
सङ्गीतसमयसारे
सप्तस्वराणां मध्येऽपि स्वरे यस्मिन्सुरागता ।
स जीवस्वर इत्युक्तो ह्यंशो वादीति कथ्यते ॥ ३५२॥
जीवस्वरस्य सदृशः संवादीस्वर उच्यते ।
विवादी स्याद्विसदृशः सोऽनुवादी त्रयात्मकः ॥ ३५३॥
अनुवादिनि संवादिनि जीवस्वरके सदा कलाविद्भिः ।
बहुतबहुतरबहवः कार्या रागा विलोमेन ॥ ३५४॥
सुप्रयोगे विवादी सः स्वल्पः कार्योऽथवा पुनः ।
प्रच्छादनीयो लोप्यो वा मनाक् स्पर्शः स्वरस्य यः ॥
प्रच्छादनं तदेवाहुर्लोपः स्वरस्य निकृतिः ॥ ३५५॥
पुण्डरीकविठ्ठलेन स्वग्रन्थे प्रतिपादितम् ।
विवादी तु सदा त्याज्य इति मतं सुनिश्चितम् ॥ ३५६॥
प्रयोगे बहुधावृत्तः स्वरो वादीति नामकः ।
रागस्य जीवभूतोऽसौ मन्यते गानकोविदैः ॥ ३५७॥
प्रत्येकस्मिंस्तु रागेऽसौ वादी ह्यतिमहत्ववान् ।
निश्चायको रागनाम्नः समयस्यापि व्यञ्जकः ॥ ३५८॥
विदग्धा गायका गीते विवादिनमपिस्वरम् ।
ईषत्स्पर्शचालनेन प्रदर्शयन्ति लक्ष्यके ॥ ३५९॥
प्रायः स्वरं विवादिनं योजयन्त्यवरोहणे ।
न तच्छास्त्रेऽपि दोषार्हं ग्रन्थेषु नियमोऽह्यसौ ॥ ३६०॥
सुप्रमाणयुतो मन्ये विवाद्यपि सुरक्तिदः ।
यथेषत्कृष्णवर्णेन शुभ्रस्यातिविचित्रता ॥ ३६१॥
सङ्गीतसाधारणलक्षणं
प्रातःकाले तथा सायं गेया रागास्तु ये मताः ।
सन्धिप्रकाशनामानो ह्यस्माभिरत्र लक्षिताः ॥ ३६२॥
एतादृशेषु रूपेषु रमणीयत्वमिष्यते ।
कोमलत्वे रिधयोश्च तीव्रत्वे निगयोरपि ॥ ३६३॥
सायङ्कालस्तीव्रमेण शुद्धमेन तथेतरः ।
प्रदर्श्यते यथायोगं नियमोयं सुसम्मतः ॥ ३६४॥
सङ्गीतस्य मुख्यवर्गास्त्रयः कैश्चित्समर्थिताः ।
स्वराणां विकृत्यधीना मर्मज्ञैः शास्त्रकोविदैः ॥ ३६५॥
शुद्धस्वरसम्मेलने प्रथमो भेदको भवेत् ।
रिधयोश्च कोमलत्वे द्वितीयोऽपि सुरक्तिः ॥ ३६६॥
मृदुत्वे निगयोर्नित्यं तृतीयः स्यात् स्वतन्त्रकः ।
द्विरूपिणा मध्यमेन तत्र भेदास्तु षड्विधाः ॥ ३६७॥
षट्स्वेतेष्वपि वर्गेषु लक्ष्यसङ्गीतविस्तरः ।
समावेशयितुं शक्य इति नूनं वदन्ति ते ॥ ३६८॥
तानप्रकरणं
विस्तार्यते येन रागः स तानः कथ्यते बुधैः ।
शुद्धकूटविभेदेन द्विविधास्ते सुलक्षिताः ॥ ३६९॥
शुद्धतानरहस्यं तल्लक्ष्ये नेह परिस्फुटम् ।
इति तेषां समाख्यानं मन्येत्र निष्प्रयोजनम् ॥ ३७०॥
केचिद्वदन्ति तानेभ्य एतेभ्यो लक्ष्यवर्त्मनि ।
प्रसिद्धं रागत्रैविध्यं समुत्थितमसंशयम् ॥ ३७१॥
चतुर्दण्डिप्रकाशिकायाम्
तानो द्विधा शुद्धतानः कूटतान इति क्रमात् ।
एकैकरागमात्राभिव्यक्तिसम्पादकस्तु यः ॥ ३७२॥
स शुद्धतान इत्युक्तः कूटतानः स उच्यते ।
यस्तु रागद्वयस्फूर्तिः साधारणतया स्थितः ॥ ३७३॥
ग्रन्थकारास्तु प्राचीनाः कस्माच्चिदपि कारणात् ।
प्रयोजनं लक्ष्यगामि न वदन्ति परिस्फुटम् ॥ ३७४॥
चतुरशीतीति सङ्ख्या सुव्यक्ता सर्वसम्मता ।
प्रस्तारो मूर्च्छनायाः स्यात्कदाचिदेतदुत्थितः ॥ ३७५॥
कूटतानाः
रत्नाकरे
असम्पूर्णाश्च सम्पूर्णा व्युत्क्रमोच्चारितस्वराः ।
मूर्च्छनाः कूटतानाः स्युस्तत्सङ्ख्यामभिदध्महे ॥ ३७६॥
पूर्णाः पञ्चसहस्राणि चत्वारिंशद्युतानि तु ।
एकैकस्यां मूर्छनायां कूटतानाः सह क्रमैः ॥ ३७७॥
स्युः षाडवानां विंशत्या सह सप्तशतानि तु ।
औडुवानां तु विंशत्या सहितं शतमिष्यते ॥ ३७८॥
चतुःस्वराणां कूटानां चतुर्विंशतिरीरिताः ।
त्रिस्वराः षड्द्विस्वरौ द्वावेकस्त्वेकस्वरो मतः ॥ ३७९॥
नियमोऽयं यथायोग्यं कल्पनीयो विचक्षणैः ।
प्रस्तारेऽपि मूर्च्छनाया उपर्युक्ते सविस्तरम् ॥ ३८०॥
अङ्कानेकादिसप्तान्तानूर्ध्वमूर्ध्वं लिखेत्क्रमात् ।
हते पूर्वेण पूर्वेण तेषु चाङ्के परे परे ॥
एकस्वरादिसङ्ख्या स्यात्क्रमेण प्रतिमूर्धनम् ॥ ३८१॥
प्रस्तारनियमः रत्नाकरे
क्रमं न्यस्य स्वरः स्थाप्यः पूर्वः पूर्वः परादधः ।
स चेदुपरि तत्पूर्वः पुरस्तूपरिवर्तिनः ।
मूलक्रमक्रमात्पृष्ठे शेषाः प्रस्तार ईदृशः ॥ ३८२॥
खण्डमेरुः दर्पणे
नष्टोद्दिष्टप्रबोधार्थं खण्डमेरुरथोच्यते ।
सप्तकोष्ठां लिखेदाद्यां पङ्क्तिमेकैककोष्ठतः ॥ ३८३॥
हीनं तु पूर्वपूर्वं स्यात्पङ्क्तिषट्कमधो लिखेत् ।
आद्यपङ्क्त्यादिकोष्ठे तु लिखेदेकं परेषु खम् ॥ ३८४॥
द्वितीयपङ्क्तावप्येकमाद्यकोष्ठे लिखेद्बुधः ।
परेषु पूर्वपूर्वाङ्कं कोष्ठसङ्ख्यागुणं न्यसेत् ॥ ३८५॥
एवमेव लिखेदङ्कमधोऽधः पङ्क्तिकोष्ठके ।
खण्डमेरुरयं प्रोक्तो नष्टोद्दिष्टप्रबोधकः ॥ ३८६॥
तदुपयोगः
वेद्यतानस्वरमितान्दत्वा तेष्वेव लोष्टकान् ।
मूलक्रमं लिखित्वादावुद्दिष्टं तदधो लिखेत् ॥ ३८७॥
स्वरान्मूलक्रमस्यान्त्यात्पूर्वं यावतिथः स्वरः ।
उद्दिष्टान्त्यस्तावतिथे कोष्ठेऽधो लोष्टकं क्षिपेत् ॥ ३८८॥
लोष्टचालनमन्त्यात्स्यात्त्यक्त्वा लब्धं क्रमो भवेत् ।
समश्चेदन्तिमोऽन्तेन सोऽपि त्याज्यः प्रयत्नतः ॥ ३८९॥
लोष्टकान्त्याङ्कसंयोगादुद्दिष्टस्य मितिर्भवेत् ।
सङ्ख्यया तु यदा रूपे पृष्ठे नष्टं तदुच्यते ॥ ३९०॥
यैरङ्कैर्नष्टसङ्ख्या स्यान्मौलिकाङ्कसमन्वितैः ।
नष्टतानस्वरस्थानं तैर्ज्ञात्वा तं स्वरं लिखेत् ॥ ३९१॥
क्रमोऽत्रापि च कर्तव्यो लब्धत्यागेन पूर्ववत् ।
तथैवात्र लिखेच्छिष्टमेवं नष्टोत्तरं वदेत् ॥ ३९२॥
तानस्वरमितोर्ध्वाधः पङ्क्तिगान्त्याङ्कमिश्रणात् ।
एकस्वरादितानानां सङ्ख्या सञ्जायते स्फुटम् ॥ ३९३॥
अलङ्काराः
दर्पणे
विशिष्टं वर्णसन्दर्भमलङ्कारं प्रचक्षते ।
एकैकस्यां मूर्च्छनायां त्रिषष्टिरुदिता बुधैः ॥ ३९४॥
भरतः (कल्लिनाथटीकायाम्)
शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव ।
अविभूषितेव कान्ता गीतिरलङ्कारहीना स्यात् ॥ ३९५॥
तत्प्रयोजनं रागविबोधे
अलमेतेऽलङ्कारा रञ्जनलब्ध्यै स्वरावबोधाय ।
वर्णाङ्गव्यासाय च तदवश्यं पूर्वमभ्यस्याः ॥ ३९६॥
ग्रन्थोक्तसप्ततालाः
ध्रुवो मठ्यो रूपकच झम्पस्त्रिपुट एव च ।
अठताल एकतालः सप्ततालाः प्रकीर्तिताः ॥ ३९७॥
उपर्युक्ततालाश्रितालङ्काराः
एतत्तालसमाश्रिता ह्यलङ्कारास्तु सप्त ते ।
अहोबलेन सम्प्रोक्ता पारिजाते स्वनिर्मितौ ॥ ३९८॥
इन्द्रनीलो महावज्रो निर्दोषः सीरकोकिलौ ।
आवर्तकः सदानन्दस्तेषां संज्ञा भवन्त्विमाः ॥ ३९९॥
अन्येऽपि लक्ष्यगतालङ्काराः
अन्येऽपि स्युरलङ्कारा नियतमुपयोगिनः ।
नव्यशिक्षार्थिवर्गस्य तान् प्रवक्ष्यामि नामतः ॥ ४००॥
भद्रो नन्दो गात्रवर्णो बिन्दुरभ्युच्छ्रयस्तथा ।
आक्षिप्तः प्रेङ्खितः श्येनस्त्रिवर्णो जववारिदौ ॥ ४०१॥
शङ्खाक्षेपौ मताह्येते त्रयोदश सुलक्षणाः ।
सम्मत्याहोबलस्यैव सङ्गृहीता मात्र ते ॥ ४०२॥
अलङ्कारलक्षणानि सुप्रसिद्धानि ग्रन्थके ।
पारिजाते यतस्तेषां पुनरुक्तिर्निरर्थिका ॥ ४०३॥
रागजातयः
रागप्रसक्तांशकादीन् विवादिनः स्वरानपि ।
विचार्य शार्ङ्गदेवेन रागजातीः सुलक्षिताः ॥ ४०४॥
तदेव तत्त्वमालम्ब्य मन्येऽत्र शक्नुयाद्बुधः ।
वर्गीकर्तुं व्यवहारप्रसिद्धान् रागभेदकान् ॥ ४०५॥
इति श्रीलक्ष्यसङ्गीतप्रथमाध्याय ईरितः ।
चतुराख्येन भरतपूर्वखण्डनिवासिना ॥ ४०६॥
द्वितीयाध्यायः
अथ श्रीलक्ष्यसङ्गीतद्वितीयाध्याय ईर्यते ।
चतुराख्येन भरतपूर्वखण्डनिवासिना ॥ १॥
रागप्रकरणं
दर्पणे
योऽयं ध्वनिविशेषस्तु स्वरवर्णविभूषितः ।
रञ्जको जनचित्तानां स रागः कथ्यते बुधैः ॥ २॥
औडवः पञ्चभिः प्रोक्तः स्वरैः षद्भिश्च पाडवः ।
सम्पूर्णः सप्तभिर्ज्ञेय एवं रागस्त्रिधा मतः ॥ ३॥
रागजनकमेलसङ्केतः
द्विसप्ततिमेलकेषु त्यक्त्वा ताननवश्यकान् ।
दिङ्मात्रानेव स्वीकुर्मो लक्ष्यमार्गोपयोगिनः ॥ ४॥
पर्यायो मेलशब्दस्य भाषायां थाट ईक्षितः ।
ग्रन्थेषु केषुचित्तत्र संस्थितिरपि लक्ष्यते ॥ ५॥
प्रचरद्रूपसङ्गीतमखिलं स्यात्परिस्फुटम् ।
तन्मेलेषु समाविष्टमिति मर्मविदां मतम् ॥ ६॥
जन्यजनकमेलानां कल्पनं नैव गर्हितम् ।
प्राक्प्रसिद्धं त्विदमेव तत्त्वमासीत्सुसम्मतम् ॥ ७॥
अस्मिन् ग्रन्थे मेलकानां दशानां यत्प्रयोजनम् ।
तत्सौकर्याय सङ्गीतदृष्ट्या चाकारि केवलम् ॥ ८॥
दशमेलवर्णनं
अथ वक्ष्ये क्रमान्मेलान् दशसङ्ख्यान् सविस्तरम् ।
लक्ष्यसङ्गीतपद्धत्या जीवभूतांश्च तत्त्वतः ॥ ९॥
शुद्धस्वरसमुद्भूतो वेलावलस्य मेलकः ।
शङ्कराभरणाख्योऽसौ पूर्वसूरिविनिश्चितः ॥ १०॥
तस्मिन्नेव तीव्रमस्य स्वरस्य परिकल्पनात् ।
शेषशुद्धस्वरैस्तत्र कल्याणीमेलसम्भवः ॥ ११॥
रिधौ तु कोमलौ यत्र गनी तीव्रौ च तीव्रमः ।
स्यात्पौरवीनामकोऽसौ सन्ध्याकालोचितो ध्रुवम् ॥ १२॥
उपर्युक्ते तु मेले चेन्मध्यमः शुद्धसंज्ञकः ।
भैरवाख्यो नियतं स्यात् प्रथमप्रहरोचितः ॥ १३॥
प्रसिद्धा भैरवीमेले कोमला रिगधानयः ।
सूर्योदयात्परं गानं तन्मेलस्य सुसम्मतम् ॥ १४॥
कोमला रिगधाश्चाथ मनी तीव्रौ स्वरावपि ।
लक्ष्यमार्गप्रसिद्धे स्युर्मेलके तोडिकाह्वये ॥ १५॥
कोमला निधगा यत्र शेषास्ते शुद्धसंज्ञिताः ।
यस्मिन्नासावरी मेलः स प्रोक्तो लक्ष्यवेदिभिः ॥ १६॥
काम्भोजीमेलने सन्ति शुद्धाः सरिगमापधाः ।
निस्वरे स्यात्कोमलत्वमपि प्रज्ञा ब्रुवन्ति ते ॥ १७॥
इत्येवं दश सम्प्रोक्ता लक्ष्यलक्षणसङ्गताः ।
सविस्तरं मया मेलाः सुमता रागहेतवः ॥ १८॥
दशमेलनामनिर्देशः
कल्याणीमेलकस्त्वाद्यो बिलावल्या द्वितीयकः ।
खम्माजाख्यस्तृतीयः स्याद्भैरवस्य चतुर्थकः ॥ १९॥
पञ्चमो भैरवीनामा षष्ठस्त्वासावरीरितः ।
सप्तमस्तोडिकाह्वोऽपि पूर्व्यभिधोऽष्टमः स्मृतः ॥ २०॥
नवमो मारवाभिज्ञो दशमः काफिसंज्ञितः ।
इत्येते दश मेलास्ते रागोत्पादनहेतवः ॥ २१॥
तेषामेव ग्रन्थसंज्ञाः
अत ऊर्ध्वं प्रवक्ष्यामि ग्रन्थसंज्ञाः सविस्तरम् ।
जिज्ञासूनां भवेद्येन सौकर्यमविशङ्कितम् ॥ २२॥
कल्याणीमेलको लक्ष्ये ग्रन्थेष्वपि तथैव च ।
भवेद्विलावलीमेलः शङ्कराभरणाभिधः ॥ २३॥
खम्माजीमेलकोऽस्माकं ग्रन्थे काम्भोजिनामकः ।
लक्ष्यज्ञानां भैरवो यस्तत्र मालवगौडकः ॥ २४॥
भैरव्यासावरीमेलौ तोडीभैरविनामकौ ।
तोडिव्यपदिष्टमेलो वराळीनामकः पुनः ॥ २५॥
लक्ष्येऽत्र पूर्विसंज्ञो यस्तत्र स्यात्कामवर्द्धनः ।
मारवाख्यो लक्ष्यगतो ग्रन्थेषु गमनश्रमः ॥ २६॥
काफिनामाऽधुनिकोऽपि तत्र श्रीरागसंज्ञितः ।
एवं जनकमेलानां संज्ञाः स्युर्ग्रन्थसम्मताः ॥ २७॥
टिप्पनी
शक्या नेतुं मेलसङ्ख्या तत्रेषन्न्युनतामसौ ।
तदूनत्वं तु रचनाकाठिन्याधिक्यमावहेत् ॥ २८॥
सरिगमपधाख्येषु शुद्धस्वरेषु केवलम् ।
प्रत्येकं षड्जभावेन कल्पितेषु यथाक्रमम् ॥ २९॥
बिलावली तथा काफी भैरवी यमनोऽप्यसौ ।
खमाज आसावरी चेत्येते मेलाः स्युरञ्जसा ॥ ३०॥
शुद्धविकृतभिद्द्वारा ह्येतेषु स्यात् सपाटवम् ।
क्षमं समावेशयितुमस्मत्सङ्गीतमुत्तमम् ॥ ३१॥
कदाचिदेवमेवास्मत्पण्डितैः स्युः प्रकल्पिताः ।
केवलं मुख्यषड्ररागा येन केनापि वर्त्मना ॥ ३२॥
सादृश्यमप्यसादृश्यमन्यरागगतं ततः ।
दृष्ट्वा तत्स्त्र्यादिनियमः कृत एतैरसंशयम् ॥ ३३॥
व्यवस्थैवं समीचीना किन्त्वादावेकवाक्यता ।
रागरूपगताभीष्टा यतः प्रीतिः सतां भवेत् ॥ ३४॥
प्राचीनग्रन्थकारैर्हि मुख्यरागाः षडीरिताः ।
दशमेलान्वयं ब्रूमो नात्र दोषोऽस्ति कश्चन ॥ ३५॥
तत्तद्ग्रन्थैर्हि जनकसङ्ख्या भिन्नाः प्रकल्पिताः ।
सारासारविचारज्ञैरेतज्ज्ञेयं यथोचितम् ॥ ३६॥
ग्रन्थे चत्वारिंशच्छतरागनिरूपणाभिधे ।
नारदोक्ते दशसङ्ख्याः पुंरागाः परिकल्पितः ॥ ३७॥
जन्यरागनामानि
कल्याणीमेले
यमनः शुद्धकल्याणो भूपाली हम्मिराह्वयः ।
केदारश्छायनाटश्च कामोदः श्यामसंज्ञितः ॥ ३८॥
हिन्दोलो गौडसारङ्गो मालश्रीर्यमनी तथा ।
चन्द्रकान्तादिका एते रागाः कल्याणमेलजाः ॥ ३९॥
बिलावलमेले
बिलावलो बिहागश्च देशिकारः पहाडिका ।
ककुभः शङ्करा नट्टो माडोदेवगिरी पुनः ॥ ४०॥
सर्पर्दाख्या गुणकेली शुक्ला नटबिलावली ।
हंसध्वनिस्तथैवापि लच्छाशाखो गुणिप्रियः ॥ ४१॥
कल्याणो हेमपूर्वः स्याद्दुर्गा शुद्धस्वरैर्युता ।
इत्येते सम्मता लक्ष्ये रागा वेलावलोत्थिताः ॥ ४२॥
खम्माजीमेले
खम्माजश्चाथ झिञ्झूटी सोरटी देशनामकः ।
खम्बावती तिलङ्गिका दुर्गा रागेश्वरी तथा ॥ ४३॥
जयावन्ती गौण्डसंज्ञः कामोदस्तिलकाभिधः ।
बडहंसस्तथा गारा नारायणी सुलक्षणा ॥ ४४॥
प्रतापाद्यवराळी स्यान्नागाद्यापि स्वरावलिः ।
इत्येते कीर्तितास्तज्ज्ञैर्मेले खम्भाजनामके ॥ ४५॥
भैरवमेले
भैरवश्व कलिङ्गश्च रञ्जनी मेघपूर्विका ।
सौराष्ट्री जोगिया चैव रामकेली प्रभातकः ॥ ४६॥
विभासो गौर्यहीरी स्यात्पञ्चमो ललिताद्यकः ।
सावेरी चाथ बङ्गालो भैरवः शिवपूर्वकः ॥ ४७॥
आनन्दभैरवोऽप्यत्र गुणक्रिया हिजेजकः ।
इत्येते भैरवान्मेलाजाता रागा बुधैर्मताः ॥ ४८॥
भैरवीमेले
भैरवी मालकोशश्च ह्यासावरी धनाश्रिका ।
भूपालो झीलफो रागो जङ्गूलो मोटकी तथा ॥ ४९॥
शुद्धसामन्तनामापि दाक्षिणात्यगुणिप्रियः ।
वसन्ताद्यमुखार्येतेरागा भैरविमेलजाः ॥ ५०॥
आसावरीमेले
आसावरी जौनपूरी देवगान्धारझीलफौ ।
सिङ्घभैरविकासंज्ञा ह्यडाणाखटकौशिकाः ॥ ५१॥
दरबारीकानडाख्या देशिका विबुधप्रिया ।
आसावरीसुमेलोत्था रागा एते सुसम्मताः ॥ ५२॥
तोडीमेले
तोडी गुर्जरिकाप्यन्या मीयान्तोडी तथैव च ।
दरबारी मूलतानी तोडीमेलसमुद्भवाः ॥ ५३॥
पूर्वीमेले
पूर्वी गौरी तथा रेवा विभासो दीपकः पुनः ।
त्रिवेणी मालवी टङ्की जेतश्रीश्च वसन्तिका ॥ ५४॥
परजा क्षुद्रगीतार्हा धनाश्रीः पूरियाद्यका ।
श्रीरागः सुमताह्येते रागाः पूर्व्याः सुमेलने ॥ ५५॥
मारुवामेले
मारुवा पूरिया चैव ललिता सोहनी तथा ।
वराटीजेतभङ्खारा विभासो भट्टिहारिका ॥ ५६॥
साजगीरी विचित्रासौ मालीगौरा गुणिप्रिया ।
मारुवाख्ये मता मेले रामा गानविशारदैः ॥ ५७॥
काफीमेले
धनाश्रीसैन्धवीकाफीधानीभीमपलासिकाः ।
बहारो मध्यमादिश्च वागीश्वरी ह्यडाणकः ॥ ५८॥
हुसेनी मेघमल्लारो मीयाम्मल्लारनामकः ।
सुहा नीलाम्बरी सूरमल्लारः पटमञ्जरी ॥ ५९॥
प्रदीपकी शहाणा च देशाख्या हंसकङ्कणी ।
वृन्दावनस्तथा पीलुः कौशिको नायकी पुनः ॥ ६०॥
मीयाम्पूर्वकसारङ्गः सुग्राही स्यात् गुणिप्रिया ।
इत्येते काफिमेलोक्ताः स्मर्तव्या गायनोत्तमैः ॥ ६१॥
कल्याणीमेले
जन्यरागाः
इमनः
कल्याणीमेलसञ्जातः कल्याणैमनाभिधः ।
गान्धारांशग्रहन्यासः सायङ्कालोचितो मतः ॥ १॥
केचिदेनं सङ्गिरन्ति पारशीकप्रदेशजम् ।
अन्येऽस्मद्देशजमाहुर्बुधैः कार्योऽत्र निर्णयः ॥ २॥
पद्धत्यां दाक्षिणात्यानां नूनं तत्र प्रवर्तते ।
कल्याणो यमुनासंज्ञः सायङ्गेयो निवर्जितः ॥ ३॥
स्वरे गान्धारकेऽप्यत्र न्यासः स्यादतिरक्तिदः ।
ईषत्स्पर्शः शुद्धमस्य लक्ष्ये दृष्टोऽवरोहणे ॥ ४॥
कल्याणे शास्त्रग्रन्थोक्ते शुद्धमस्य प्रवेशनात् ।
कदाचिदिमनोत्पत्तिरिति नैव विसङ्गतम् ॥ ५॥
आलापयोग्यता ह्यस्य रागस्य बहुसम्मता ।
पूर्णत्वसरलत्वाभ्यां गानं चास्य निरर्गलम् ॥ ६॥
कल्याणीमेलकन्यस्तरागभ्रष्टास्तु गायकाः ।
निश्चयेन पतन्त्यत्र यतोऽसौ स्यात्तदाश्रयः ॥ ७॥
कल्याणीमेलजा रागा विभज्यन्ते त्रिधा पुनः ।
अमैकमद्विमा इति सौकर्यार्थं विचक्षणैः ॥ ८॥
द्विमध्यमेषु रागेषु मर्मज्ञैस्तत्र दृश्यते ।
ईषद्वेलावलस्पर्शः कौशल्यापन्हुतो ध्रुवम् ॥ ९॥
सन्धिप्रकाशरागाणां मृदुता रिधयोस्ततः ।
मेलमेनं समारभ्य तीव्रत्वे परिवर्तिता ॥ १०॥
परिवर्तनमप्येतन्नूनं सन्तोषकारणम् ।
भिन्नरससमास्वादान्मनो हर्षं प्रपद्यते ॥ ११॥
द्रुतमध्यविलम्बितलयैस्त्रिभिरलङ्कृतः ।
रागोऽयं नियतं लक्ष्ये सर्वेषां सुखमावहेत् ॥ १२॥
प्राधान्यं तत्र पूर्वाङ्गे पूर्वरात्र्यां सुलक्षितम् ।
ततो गीतमध्यबिन्दुश्चलतीव क्रमात्पुरः ॥ १३॥
मध्यरात्रिगतौ गन्यौ कोमलौ सर्वरक्तिदौ ।
अवगतं रहस्यं तत् सर्वैश्च मर्मवेदिभिः ॥ १४॥
कोमलत्वं तद्रिधयोस्तीव्रत्वं निगयोरपि ।
शेषयामसुप्रसक्तमुषःकालस्य दर्शकम् ॥ १५॥
तीव्रमस्य स्थितिस्तत्र रात्रिशेषप्रसूचिका ।
अपनयस्तु तस्यैव दिनोदयमुदीरयेत् ॥ १६॥
प्रतिमेलं केचिद्रागाः परमेलप्रसूचकाः ।
द्विरूपाणां स्वराणां च प्रयोगेण व्यवस्थिताः ॥ १७॥
प्रायो लक्ष्ये समीरितं नैवांशत्वं तु निस्वरे ।
संवादित्वं भवेत्तस्य नियतं दृष्टिगोचरम् ॥ १८॥
प्रकारा बहवोऽप्यत्र कल्याणस्य मता बुधैः ।
व्यवहारप्रसिद्धा ये सङ्गृहीता मया पुनः ॥ १९॥
शुद्धकल्याणः
कल्याणीमेलकोत्पन्नो रागोऽसौ मन्यते बुधैः ।
शुचिकल्याण इत्याह आरोहे मनिवर्जितः ॥ २०॥
गान्धारः सुमतो वादी कैश्चिदृषभ ईरितः ।
मन्द्रमध्यस्वरैर्गीतो नियतं स्यात् सुखावहः ॥ २१॥
गवादित्वे सनियमं धैवतो मन्त्रिसन्निभः ।
सत्यंशे रिषभे नूनं संवादी पञ्चमो भवेत् ॥ २२॥
ऱ्यंशो गेयः सदा पूर्वं यमनादिति सम्मतम् ।
गान्धारांशस्तत्परं स्यान्नियमो हि मनीषिणाम् ॥ २३॥
भूपाल्याः स्फुटभेदोऽस्य लक्ष्यते गुणिसम्मतः ।
मनीहीनागांशकासावेतस्मिंस्तद्विरुध्यते ॥ २४॥
स्यातां विलोमके ह्यत्र स्वरौ यदि निमध्यमौ ।
घर्षणेनैव सुश्राव्यं कर्तव्यं तत्प्रदर्शनम् ॥ २५॥
भूपाली
कल्याणीमेलसञ्जाता भूपाली बुधसम्मता
आरोहे चावरोहेऽपि मनिहीना भवेत् सदा ॥ २६॥
गान्धारः केवलं वादी धैवतोऽमात्य ईरितः ।
स्यादस्याः प्रकृतिः शुद्धकल्याणसदृशी ध्रुवम् ॥ २७॥
पूर्वाङ्गस्य प्रधानत्वात् सायङ्गेयत्वमीक्षितम् ।
सम्पूर्णावरोहणोऽपि कल्याणोऽस्या भवेत्पृथक् ॥ २८॥
सत्युत्तराङ्गप्राधान्ये देशीकारः समुद्भवेत् ।
वादित्वाद्धैवतस्यैव वैलक्षण्यं प्रकाशयेत् ॥ २९॥
स्वरयोर्निमयोर्यत्र दौर्बल्यं लक्षितं भवेत् ।
सङ्गतिर्गपयोः प्रायस्तत्र रक्तिं समावहेत् ॥ ३०॥
मन्यूनो मोहनः शास्त्रे सन्ध्याकालोचितः स्वयम् ।
कर्णाटकीय पद्धत्यां तन्नामैवाधुनापि सः ॥ ३१॥
भूपाली कुत्रचित्प्रोक्ता प्रातर्गेया च गांशका ।
रिगधकोमलान्यत्र मन्ये लक्ष्यविरोधि तत् ॥ ३२॥
गान्धारोद्ग्राहसम्पन्न आलापः सुमतो सताम् ।
विविधस्वस्थानकेषु सुगीतो रञ्जयेन्मनः ॥ ३३॥
सकलरागसाधारणालापलक्षणं
रत्नाकरे
ग्रहांशमन्द्रताराणां न्यासापन्यासयोस्तथा ।
अल्पत्वस्य बहुत्वस्य षाडवौडुवयोरपि ।
अभिव्यक्तिर्यत्र दृष्टा स रागालाप उच्यते ॥ ३४॥
रूपकलक्षणं
रूपकं तद्वदेव स्यात्पृथग्भूतविदारिकम् ॥ ३५॥
आक्षिप्तिकालक्षणं
चञ्चत्पुटादितालेन मार्गत्रयविभूषिता ।
आक्षिप्तिका स्वरपदग्रथिता कथिता बुधैः ॥ ३६॥
कल्लिनाथटीकायां
पृथग्भूता विच्छिद्य विच्छिद्य प्रयुक्तविदार्यो गीतखण्डानि यस्मिन्निति रूपकम् । अपन्यासेष्वविरम्यैकाकारेण प्रवृत्त आलापः । स एवापन्यासेषु विरम्य विरम्य प्रवृत्तं रूपकम् ।
चञ्चत्पुटादिमार्गतालाः प्रसिद्धाः । चित्रादयस्त्रयो मार्गा मार्गसङ्गीते प्रसिद्धाः ।
आलप्तिलक्षणं
रागालपनमालप्तिः प्रकटीकरणं मतम् ।
सा द्विधा गदिता रागरूपकाभ्यां विशेषणात् ॥ ३७॥
रागालतिस्तु सा या स्यादनपेक्ष्यैव रूपकम् ।
स्वस्थानैः सा चतुर्भिः स्यादिति गीतविदो विदुः ॥ ३८॥
प्राचीनशास्त्रोक्तस्वस्थानानि
यत्रोपवेश्यते रागः स्वरे स्थायी स कथ्यते ।
ततश्चतुर्थो द्व्यर्धः स्यात्स्वरे तस्मादधस्तने ॥ ३९॥
चालनं मुखचालः स्यात्स्वस्थानं प्रथमं च तत् ।
द्व्यर्धस्वरे चालयित्वा न्यसनं तद्द्वितीयकम् ॥ ४०॥
स्थायिस्वरादष्टमस्तु द्विगुणः परिकीर्तितः ।
व्यर्धद्विगुणयोर्मध्ये स्थिता अर्धस्थिताः स्वराः ॥ ४१॥
अर्धस्थिते चालयित्वा न्यसनं तु तृतीयकम् ।
द्विगुणे चालयित्वा तु स्थायिन्यासाच्चतुर्थकम् ॥
एभिश्चतुर्भिः स्वस्थानै रागालप्तिर्मता सताम् ॥ ४२॥
रागस्थापनाप्रकारः
स्तोकस्तोकैस्ततः स्थायैः प्रसन्नैर्बहुभङ्गिभिः ।
जीवस्वरव्याप्तिमुख्यै रागस्य स्थापना भवेत् ॥ ४३॥
टीकायां
जीवस्वरोंऽशस्वरः । उक्तस्वस्थानचतुष्टयप्रयुक्तायामालप्तावुक्तलक्षणैः स्वल्पै रागावयवैर्विस्तार्यमाणायामापाततोऽभिव्यक्तस्य रागस्य रागान्तरसाधारणस्थायादिप्रयोगात्स्वरूपतिरोभावे सति किञ्चित्प्रतीयमानता भवेदित्यभिप्रायः ।
उदाहरणं
यथा लोके सभां प्रत्यागच्छतो देवदत्तस्य स्वरूपेणाभिव्यक्तस्य ततः सभां प्रविश्योपविष्टस्य तस्य स्वसदृशरूपवेषभाषादिसाङ्कर्यात्स्वरूपतिरोभावे सति यथा तस्य किञ्चित्प्रतीयमानत्वम् । यथा वा पृथगानीय भिन्नवर्णेषु मणिषु प्रोतस्य मुक्तामणेर्मण्यन्तरच्छायोपरागात्स्वरूपतिरोभावे सति यथा तस्य किञ्चित्प्रतीयमानत्वं तद्वत् ।
हम्मीरः
कल्याणीनामके मेले हम्मीरः प्रोच्यते बुधैः ।
गग्रहः पांशकः कैश्चिद्धैवतांशोऽपि लक्ष्यते ॥ ४४॥
धैवतेऽवधारणं यन्नैतद्वादित्वकारणम् ।
लक्ष्यगतं समालोच्य बुधः कुर्यात्स्वनिर्णयम् ॥ ४५॥
स्यादारोहे निदौर्बल्यमवरोहेऽपि गस्य तत् ।
सायङ्गेयं तथा पूर्णं वक्रं रूपं सतां मतम् ॥ ४६॥
मध्यमावत्र द्वौ ग्राह्यौ रोहण एव तीव्रमः ।
सरलत्वे रोहणस्य यमनः स्यात्सुनिश्चितम् ॥ ४७॥
सङ्घाताद्गमधानां स्यादेतद्रूपं परिस्फुटम् ।
प्रायोऽनेनैव श्रोतारः कुर्वन्ति नामनिर्णयम् ॥ ४८॥
द्विमध्यमेषु रागेषु नियमः प्रायशो भवेत् ।
आरोहे स्यान्निदौर्बल्यं गदौर्बल्यं विपर्यये ॥ ४९॥
शुद्धकल्याणकेदारयमना मिश्रिता इह ।
इति केचिद्वर्णयन्ति व्यवहाराध्वनि ध्रुवम् ॥ ५०॥
केदारः
कल्याणीमेलके प्रोक्तः केदारो बहुसम्मतः ।
शङ्कराभरणेऽप्यन्ये केचिदाहुर्विपश्चितः ॥ ५१॥
मद्वन्द्वमिह सम्प्रोक्तं गौणत्वं तीव्रमे यदि ।
अंशत्वं शुद्धमेऽभीष्टं व्यस्तत्वं चापि तत्स्वरे ॥ ५२॥
रिगोनत्वं रोहणेस्यात् पूर्वाङ्गे सम्मतं सताम् ।
असत्प्रायत्वमारोहे चावरोहे तु गस्यतत् ॥ ५३॥
पङ्गुत्वं यदि गान्धारे निषादे नियमेन तत्
साधारणो दृश्यतेऽयं नियमो लक्ष्यवेदिनाम् ॥ ५४॥
प्रयोगेऽत्र मध्यमौ द्वौ सुयुक्तावतिरक्तिदौ ।
लक्षितं नैतदन्येषु बहुषु ललितं विना ॥ ५५॥
धमार्दवं रिधाल्पत्वं सोमनाथादिका विदुः ।
रागेऽस्मिँल्लक्ष्यरोधि तन्मतं नास्मत्सुसम्मतम् ॥ ५६॥
पूर्वाङ्गे रिगदौर्बल्यं यथोपरि निरूपितम् ।
तथैव चोत्तराङ्गेऽपि निधयोस्तत्सुनिश्चितम् ॥ ५७॥
हिन्दोलः
कल्याणीमेलकोत्थः स्याद्धिन्दोलः सर्वसम्मतः ।
प्रातःकालप्रगेयोऽपि धांशको गांशकोऽथवा ॥ ५८॥
वादित्वं तद्गस्वरस्य प्रातर्नैव सुरक्तिदम् ।
इति केचिद्धस्य प्राहुः समीचीनं हि मे मते ॥ ५९॥
रिपयोरत्र लुप्तत्वादमात्यो गस्वरो भवेत् ।
अवरोहेण वर्णेन प्रायो गानं सुखावहम् ॥ ६०॥
लक्ष्ये क्रमात्सगासक्ता रिमच्छायावरोहणे ।
न तन्मन्येऽतिदोषार्हं तत्रापि यत्सशास्त्रता ॥ ६१॥
केचिदेनं वर्णयन्ति भैरवस्यैव मेलने ।
आसावरीमेलनेऽन्ये लक्ष्यमार्गविरोधि तत् ॥ ६२॥
मालश्रीः पूरिया चैव वसन्तीनामिका पुनः ।
अत्र रूपे सम्मिलन्ति मतमेतन्मनीषिणाम् ॥ ६३॥
सायङ्गेयत्वगांशत्वे प्रोक्ते कैश्चिद्विचक्षणैः ।
सुसङ्गतं तदपि स्याद्बुधः कुर्यात्स्वनिर्णयम् ॥ ६४॥
कामोदः
कल्याणीमेलके तत्र कामोदो विबुधप्रियः ।
द्विमध्यमप्रयोगेण लक्ष्येऽसौ स्याद्द्विमेलजः ॥ ६५॥
पञ्चमस्यैव वादित्वं विदुषामत्र सम्मतम् ।
अमात्यत्वं रिस्वरे स्याद्भवक्रमवरोहणे ॥ ६६॥
तीव्रमस्य प्रयोगोऽपि स्वल्प एवानुलोमके ।
निषादः स्यादसत्प्राय आरोहे तद्विदां मते ॥ ६७॥
रिपयोः सङ्गतिर्नित्यं रागमेनं प्रकाशयेत् ।
रात्र्यां प्रथमके यामे गानं चास्य शुभं भवेत् ॥ ६८॥
गौडहम्मीरसंयोगाद्रूपमेतत्सुलक्षितम् ।
कैश्चिल्लक्ष्ये न चाप्येतद्भाति मेऽतिविसङ्गतम् ॥ ६९॥
सोमनाथेन विदुषा काम्बोदी कीर्तिता पुनः ।
शङ्कराभरणे मेले निषादेन विवर्जिता ॥ ७०॥
मते च दाक्षिणात्यानां कामोदः पधवर्जितः ।
लक्ष्यरोधी भवेदत्र तेन नाङ्गीकृतो मया ॥ ७१॥
रिवक्रत्वान्मधयोश्च सङ्गत्यैवापि रोहणे ।
हम्मीरो निश्चितं लक्ष्ये रागोऽस्माद्भेदमर्हति ॥ ७२॥
छायानट्टः
स्यात् कल्याणीमेलकेऽपि छायानट्टोऽतिरञ्जकः ।
रिपसंवादसम्पन्नः सन्ध्याकालोचितः पुनः ॥ ७३॥
सुसङ्गतिरत्र प्रोक्ता पर्योश्चैव सुसम्मता ।
पञ्चमादृषभे पातो नूनं स्यात् हृदयङ्गमः ॥ ७४॥
रागेऽस्मिन् गायकैः कैश्चिद्धैवतो ग्रह ईरितः ।
न्यसनंषड्जस्वरेऽपि मते तेषां सुनिश्चितम् ॥ ७५॥
आरोहणे तीव्रमस्य प्रयोगो दृश्यते कृतः ।
गवक्रं स्यादवरोहे नियमेन सतां मते ॥ ७६॥
कल्याणगौडहम्मीरनटालैय्याः सुरागकाः ।
मिलन्ति च्छायनट्टेऽस्मिन्निति शंसन्ति केचन ॥ ७७॥
द्विमध्यमेषु रागेषु द्वितीयेऽवयवे पुनः ।
अन्तरानामके नित्यं सादृश्यमवगम्यते ॥ ७८॥
अतस्तन्निवारणाय कुर्वन्ति लक्ष्यवेदिनः ।
पूर्वाङ्गस्य पौनरुक्त्यं यथान्यायं सपाटवम् ॥ ७९॥
श्यामः
कल्याणीमेलसम्प्रोक्तः श्यामरागः सुसम्मतः ।
कल्याणस्य प्रकारोयमिति कैश्चिदुदीर्यते ॥ ८०॥
मध्यमावत्र द्वौ प्रोक्तौ लक्ष्यमार्गे विचक्षणैः ।
स्यात् षड्जस्यैव वादित्वं संवादित्वं तु मे स्वरे ॥ ८१॥
गायने चास्य रागस्य कामोदाङ्गं स्फुटं भवेत् ।
निगाल्पत्वं तत्र दृष्टं नैवमत्र मते सताम् ॥ ८२॥
रिपयो रिमयोर्वापि सङ्गती रक्तिदा भवेत् ।
आरोहणे धैवतस्य वर्जनं सुखमावहेत् ॥ ८३॥
कामं सङ्गत्यात्र मर्योच्छायामल्लारिकोद्भवेत् ।
प्रस्फुटेन निषादेन गायकस्तां निवारयेत् ॥ ८४॥
ग्रन्थेषु सामसंज्ञोऽपि क्वचिद्रागो निरूपितः ।
आरोहे गनिहीनोसाववरोहे निवर्जितः ॥ ८५॥
हम्मीरगौडकेदारमेलनात् सम्भवेदयम् ।
इति केचित् सङ्गिरन्ति पण्डिता लक्ष्यवेदिनः ॥ ८६॥
केचिदन्ये रागमेनं सम्पूर्णं धांशकं विदुः ।
सायङ्गेयं रूपमेदतोऽग्राह्यं मतं त्विदम् ॥ ८७॥
गौडसारङ्गः
कल्याणीमेलके ज्ञेयो गौडसारङ्गनामकः ।
अतिवक्रस्वरूपोऽपि द्वाभ्यां माभ्यां सुभूषितः ॥ ८८॥
मध्यान्हार्हो भवेन्न्यल्पो गवक्रश्चावरोहणे ।
वादित्वं स्याद्धैवतस्य संवादित्वं तु गे पुनः ॥ ८९॥
नूनं विसङ्गतं चास्य गानं माध्याह्निकं भवेत् ।
वादित्वं चेन्मतं गे तदिति धांशो मतो मया ॥ ९०॥
तीव्रमध्यमस्य चास्मिन् गौणत्वं लक्ष्यते स्फुटम् ।
तेनैव स्यादयं कैश्चित् शङ्कराभरणे मतः ॥ ९१॥
केषुचित्तत्र ग्रन्थेषु वीरशान्तिरसाश्रितः ।
संर्पूणो वर्ण्यते गांशो गेयो मध्याहृतः परम् ॥ ९२॥
नाटकेदारपूर्वीणां मेलनादयमुद्भवेत् ।
इति केचित् सङ्गिरन्ति लक्ष्यमार्गविचक्षणाः ॥ ९३॥
मालश्रीः
कल्याणीमेलके तत्र मालश्रीर्गीयते बुधैः ।
पञ्चमांशग्रहन्यासा रिधहीनौडवा मता ॥ ९४॥
त्रिस्वरा सगपैः कैश्चिदुच्यते लक्ष्यवर्त्मनि ।
नैव शास्त्रानुमतं तन्नात्र रागस्य सम्भवः ॥ ९५॥
पञ्चोनेभ्यः स्वरेभ्यश्च न स्याद्रागः कदाचन ।
जानन्ति पण्डिताः सर्वे रहस्यमिदमद्भुतम् ॥ ९६॥
यद्यप्यत्र मनी मान्यौ स्वरसङ्ख्याप्रपूरणे ।
असत्प्रायौ निश्चितं ताविति मतं तु तद्विदाम् ॥ ९७॥
गपयोरेव सङ्गत्या भवेद्रागस्य व्यक्तता ।
बुधैरस्याः समादिष्टं गानं प्रथमयामके ॥ ९८॥
ग्रन्थेषु मालवश्र्याख्या काफीमेले सुलक्षिता ।
नासावस्मल्लक्ष्यमार्गप्रसिद्धेति परिस्फुटम् ॥ ९९॥
धन्याश्रीधवलाजेता मिलन्त्यस्यामिति क्वचित् ।
वर्णयन्ति पण्डितास्ते लक्ष्यलक्षणकोविदाः ॥ १००॥
यमनी
कल्याणीनामके मेले यमनी लक्षिता बुधैः ।
वेलावल्याः प्रकारोयं स्वीकृतो यमनाङ्गतः ॥ १०१॥
सम्पूर्णो गीयते प्रातर्द्विमध्यमसुभूषितः ।
मिथः संवादिनावत्र सपाविति मतं सताम् ॥ १०२॥
आरोहणे तीव्रमेण यमनाङ्गं स्फुटं भवेत् ।
अवरोहे शुद्धमेन बुधस्तत्परिमार्जयेत् ॥ १०३॥
अवरोहो बिलावल्याः सुप्रसिद्धो हि लक्ष्यके ।
सायङ्गेयेपि रागे चेत् प्रविष्टो हानिमाचरेत् ॥ १०४॥
निषादे प्रायशो दृष्टं वक्रत्वमनुलोमके ।
अस्यामपि प्रसक्तं तद्भवेदिति सुसम्मतम् ॥ १०५॥
चन्द्रकान्तः
कल्याणीमेलके ख्यातश्चन्द्रकान्तो गुणिप्रियः ।
आरोहे मध्यमत्यक्तो ह्यवरोहे समग्रकः ॥ १०६॥
गान्धारस्यैव वादित्वं सन्ध्याकालप्रसूचकम् ।
प्राधान्यं स्यात् सुनिश्चितं पूर्वाङ्गेऽत्र सतां मते ॥ १०७॥
अप्रसिद्धं त्विदं रूपमुद्धृतं गायकैः क्वचित् ।
शुद्धकल्याणसादृश्यं तत्रावगम्यते बुधैः ॥ १०८॥
टिप्पनी
अभिन्नस्वरसङ्घाते केवलं वादिभेदतः ।
स्याद्भिन्नरूपरागाणां सम्भव इति मे मतिः ॥ १०९॥
पूर्वाङ्गस्यैव प्राबल्यं पूर्वरात्र्यां प्रकीर्तितम् ।
तीव्रमस्तु सदैवात्र ह्यध्वदर्शित्वमाचरेत् ॥ ११०॥
बिलावलमेले
बिलावली
शङ्कराभरणे मेले रागो वेलावलः स्मृतः ।
षड्जांशको बुधैः प्रोक्तो धैवतांशोऽपि सम्मतः ॥ १॥
आरोहणं भवेत्तत्र मन्यल्पस्वरसंयुतम् ।
अस्य गानं मतं प्रातरुत्तराङ्गप्रधानकम् ॥ २॥
प्रातःकालीयकल्याण इति केचिद्वदन्त्यमुम् ।
अवरोहे गदौर्बल्यं कल्याणं च निवारयेत् ॥ ३॥
धमयोः सङ्गतिस्तत्र नित्यं वैचित्र्यकारिणी ।
आरोहे तु निवऋत्वं केषाञ्चित्सुमतं सताम् ॥ ४॥
उत्तराङ्गप्रधानत्वाद्वैचित्र्यमपि तत्र तत् ।
प्रायेणोत्तररागास्ते प्रभवन्त्यवरोहणे ॥ ५॥
प्रकारा बहवस्तत्र वेलावलस्य कीर्तिताः ।
प्रसिद्धा लक्ष्यमार्गे ये सङ्गृहीता मयात्र ते ॥ ६॥
बिहागः
वेलावलस्य सम्मेलाज्जातो रागः सुनामकः ।
बिहाग इति विख्यातो गान्धारांशग्रहो मतः ॥ ७॥
आरोहे रिधवर्जं स्यादवरोहे समग्रकम् ।
रात्र्यां द्वितीयके यामे गानं तस्य सुसम्मतम् ॥ ८॥
रिधयोः सति प्राबल्ये स्याद्बिलावलशङ्कनम् ।
अतो गायकोत्तमैस्तौ लक्षितौ दुर्बलौ स्वरौ ॥ ९॥
अपन्यासो निस्वरस्य नूनं स्यादतिरक्तिदः ।
प्रायस्तत्रापि कुर्वन्ति श्रोतारो रागनिर्णयम् ॥ १०॥
बिहागडे मतः कैश्चित्प्रयोगः कोमलस्य नेः ।
विलोमके प्राहुरन्ये द्विमध्यमप्रयोजनम् ॥ ११॥
शङ्करा
शङ्करा षाडवा प्रोक्ता मस्वरेण विवर्जिता ।
शङ्कराभरणे मेले राज्यां द्वितीययामके ॥ १२॥
रिमवर्जा चौडवापि दृश्यते लक्ष्यवर्त्मनि ।
षड्जो गो वा भवेद्वादी बिहागाङ्गेन मण्डनम् ॥ १३॥
उत्तराङ्गप्रधानत्वे केचिदेनां सुरागिणीम् ।
प्रातर्गेयामपि प्राहुस्तारषड्जसुभूषिताम् ॥ १४॥
गानमस्या यतो दृष्टं राज्यामधिकसम्मतम् ।
मानमर्हेत्तदेवात्र लक्ष्यमार्गानुवर्तनात् ॥ १५॥
मध्यमस्य लङ्घनेन बिहागाद्भित्परिस्फुटा ।
गान्धारस्यापि वादित्वे गानं रात्र्यां न दूषितम् ॥ १६॥
देशीकारः
शङ्कराभरणान्मेलाद्देशीकारः प्रजायते ।
औडवो मनिवर्जः स्यात्प्रथमे यामके दिने ॥ १७॥
धैवतस्यात्र वादित्वं पञ्चमे न्यास उच्यते ।
उत्तराङ्गप्रधानोऽयं प्रातःकाले प्रगीयते ॥ १८॥
केचिदाहू रूपमेतद्विभासस्य सुनिश्चितम् ।
विभांशुको मतोऽस्मद्भिर्मेले मालवगौडके ॥ १९॥
विभांशुक इति नाम प्रस्फुटं सवितुर्यतः ।
गानं तस्यापि रागस्य मतं भानूदयात्परम् ॥ २०॥
सन्ध्याकाले यथा प्रोक्ता भूपाली गांशका बुधैः ।
देशीकारो भवेदत्र प्रातःकाले सुधांशकः ॥ २१॥
केचिदन्ये वदन्त्येनं पूर्वीमेलसमाश्रितम् ।
मध्याह्लार्हं कम्प्रमनिं वयं लक्ष्यानुवर्तिनः ॥ २२॥
पाहाडिः
शङ्कराभरणे मेले पाहाडिर्गीयतेऽधुना ।
मन्द्रमध्यस्वरैश्चापि सम्मता सार्वकालिका ॥ २३॥
षड्जपञ्चमयोरत्र संवादो रुचिरो मतः ।
मन्द्रस्थो धैवतो नूनं वैचित्र्यं प्रतनोति सः ॥ २४॥
भूपाल्याः प्रकृतिं धत्ते गानमस्या यतोंऽशतः ।
स्पर्शः शुद्धमध्यमस्यानुमतो लक्ष्यवेदिनाम् ॥ २५॥
ग्रन्थेषु केषुचित्पाडी प्रोक्ता मालवगौडके ।
व्यवहाराध्वनि नैषा तत्स्वरैरत्र गीयते ॥ २६॥
खम्माजी मेलकेऽप्येनां केचिदाहुर्निकोमलाम् ।
न तन्मन्ये सुसङ्गतं लक्ष्यमार्गविचारतः ॥ २७॥
माडः
वेलावलाख्यसम्मेलान्माडस्योत्पत्तिरीरिता ।
मारूमेवाडदेशेऽस्य जन्मभूः श्रूयते क्वचित् ॥ २८॥
प्राबल्यं समपानां स्यान्निषादस्यात्र कम्पनम् ।
गानमनुमतं तज्ज्ञैः रञ्जकं सार्वकालिकम् ॥ २९॥
आरोहे रिधदौर्बल्यं वक्रत्वमवरोहणे ।
मध्यमस्यापि व्यस्तत्वं सर्वत्रातिमनोहरम् ॥ ३०॥
केचिदत्रारोहणेऽपि वक्रत्वमादिशन्ति तत् ।
मन्ये नूनमुपपन्नं लक्ष्यमार्गविचारतः ॥ ३१॥
देवगिरिः
शुद्धस्वरसमायोगाज्जातो देवगिरिस्तथा ।
बिलावलप्रभेदोऽयं कल्याणाङ्गेन मण्डितः ॥ ३२॥
षड्जस्तत्र भवेद्वादी विलोमे दुर्बलौ धगौ ।
नातिदीर्घस्तीव्रमोऽपि क्वचिलक्ष्ये प्रदृश्यते ॥ ३३॥
बिलावलप्रभेदेषु नियमोऽतिमनोहरः ।
अवरोहक्रमे नित्यं तदङ्गं प्रकटीभवेत् ॥ ३४॥
अभ्यासात्तीव्रमस्यात्र यमनीरागसम्भवः ।
स तु पृथग्मतो रागः सर्वैश्च गायकोत्तमैः ॥ ३५॥
अवरोहे धैवतेन सह कोमलनेर्लवः ।
वेलावलस्वरूपं तत्प्रदर्शयेदसंशयम् ॥ ३६॥
आरोहणे रात्रिगेया यथा रागाः परिस्फुटाः ।
तथैवावरोहणे ते दिनगेयाः प्रकीर्तिताः ॥ ३७॥
पूर्वाङ्गस्य प्रधानत्वात्पूर्वरागविचित्रता ।
सा चैवोत्तररागाणां सामान्यतोऽवरोहणे ॥ ३८॥
केचिदत्र विकल्पेन ह्यादिशन्ति पवर्जनम् ।
न तल्लक्ष्याध्वनि प्राप्तमिति नाङ्गीकृतं मया ॥ ३९॥
नटः
शङ्कराभरणान्मेलान्नटरागसमुद्भवः ।
मध्यमांशन्यासकश्च रसे वीरे प्रयुज्यते ॥ ४०॥
आरोहणे सुसम्पूर्णो विलोमे धगवर्जितः ।
गानमस्य समीचीनं रात्र्यां यामे द्वितीयके ॥ ४१॥
ग्रन्थेषु केषुचित्तत्र कोमलो गोऽपि लक्षितः ।
प्रतीतं नेह लक्ष्ये यत्तन्मानं नार्हति ध्रुवम् ॥ ४२॥
छायाकामोदसंयुक्तो ह्यलय्यामिश्रितः क्वचित् ।
रागोऽयं दृश्यते गीतो लक्ष्यमार्गविचक्षणैः ॥ ४३॥
पूर्वाङ्गस्य प्रधानत्वाद्बिलावलो न सम्भवेत् ।
मध्यमस्य च व्यस्तत्वाच्छायाकामोदवारणम् ॥ ४४॥
शुक्लबिलावली
या शुद्धस्वरमेलात्सा शुक्ला वेलावली मता ।
वेलावल्याः प्रभेदोऽयं प्रातःकालोचितो मतः ॥ ४५॥
शुद्धमोऽत्र भवेद्वादी संवादी षड्ज ईरितः ।
आरोहे स्याद्रिदौर्बल्यं न्यासो मध्यम एव च ॥ ४६॥
उत्तराङ्गप्रधानत्वादवरोहे विचित्रता ।
व्यस्तत्वं शुद्धमस्यात्र विशिष्टां रक्तिमाचरेत् ॥ ४७॥
वेलावल्या अवरोहः सुप्रसिद्धः सताम्मते ।
तस्यैवात्र सुप्रयोगः श्रोतृचित्तं प्रहर्षयेत् ॥ ४८॥
कोमलस्य निषादस्य स्पर्शो धैवतसंयुतः ।
अवरोहे सुप्रविष्टो नूनं स्याद्रक्तिदः सदा ॥ ४९॥
नटबिलावली
शङ्कराभरणान्मेलाज्जातो रागः सुनामकः ।
बिलावलो नट्टपूर्वो मध्यमांशो गुणिप्रियः ॥ ५०॥
पूर्वाङ्गे नट्टयोगेन धत्ते गौडस्वरूपकम् ।
बिलावलस्यावरोहे भवेदङ्गं सुनिश्चितम् ॥ ५१॥
स्यान्मध्यमस्य व्यस्तत्वं प्रसिद्धं नट्टगायने ।
अत्रापि तद्योजनीयं यथायोग्यं विचक्षणैः ॥ ५२॥
रिधयोः सङ्गतिश्चापि भवेद्वैचित्र्यकारिणी ।
समीचीनं गानमस्य प्रथमप्रहरे दिने ॥ ५३॥
मलुहाकेदारः
केदारो मलुहानामा शङ्कराभरणस्वरैः ।
श्यामकामोदसंयोगादुद्भूतो लोकविश्रुतः ॥ ५४॥
केदारस्य प्रभेदोऽयं मन्यते लक्ष्यवेदिभिः ।
गानमप्यस्य रागस्य रात्र्यां प्रथमयामके ॥ ५५॥
जलधारश्चान्दनिश्च मलुहोऽयं तृतीयकः ।
आधुनिका मता एते प्रभेदा लक्ष्यवर्त्मनि ॥ ५६॥
केदारे प्रबला नित्यं षड्जमध्यमपञ्चमाः ।
मतमेतत् सुप्रसिद्धं रागेऽस्मिन्नपि युज्यते ॥ ५७॥
मन्द्रस्थानस्वरैः कुर्यादस्य रागस्य रोपणम् ।
तत्रैवासौ प्रशोभेत लयः स्यात्सुविलम्बितः ॥ ५८॥
मन्द्रस्थो मध्यमो नूनं रागे वैचित्र्यमावहेत् ।
निषादात्षड्जसंस्पर्शः कस्य नो हृदयङ्गमः ॥ ५९॥
गुणकली ।
शङ्कराभरणे मेले सञ्जातो राग उत्तमः ।
गुणकेलीतिनामासौ कल्याणाङ्गसुशोभितः ॥ ६०॥
बिलावलस्याङ्गभूतः षड्जांशश्चातिरक्तिदः ।
उत्तराङ्गप्रधानत्वात्प्रातर्गेयो बुधैर्मतः ॥ ६१॥
यद्वा ह्युत्तररागाणां प्रकृतिर्नियता मता ।
अवरोहेण वर्णेन समाकर्षन्ति ते मनः ॥ ६२॥
ग्रन्थेषु दृश्यते यान्या गुण्डक्री रागिणी पुनः ।
सा मता गुणिभिस्तत्र मेले मालवगौडके ॥ ६३॥
ककुभः
स्याच्छुद्धस्वरसम्मेलाद्रागः ककुभनामकः ।
वेलावलप्रभेदोऽयं रिपसंवादशोभनः ॥ ६४॥
रिपयोः सङ्गतिश्चित्रा सर्वेषां स्यान्मनोहरा ।
बेलावलावरहेण भवेद्रागप्रसूचनम् ॥ ६५॥
कम्पनमृषभेह्यत्र जयावन्तीं प्रदर्शयेत् ।
अभावे तु कोमलस्य गान्धारस्य न सा भवेत् ॥ ६६॥
अलय्याझिञ्झुटीयोगात् ककुभोत्पत्तिरीरिता ।
कैश्चिदपि लक्ष्यविद्भिर्बुधः कुर्यात्स्वनिर्णयम् ॥ ६७॥
दुर्गा
द्राक्शुद्धस्वरसम्मेलाद्दुर्गानाम्नी प्रजायते ।
औडवा गनिहीनासौ मध्यमांशेन मण्डिता ॥ ६८॥
अत्रेषद्विलसेच्छाया शुद्धमल्लारिका पुनः ।
पण्डितैर्गानमेतस्या द्वितीयप्रहरे मतम् ॥ ६९॥
गान्धारस्य विलुप्तत्वात्प्रतीतः सोरटो भवेत् ।
आरोहे धैवतः स्पष्टस्तद्रूपमपसारयेत् ॥ ७०॥
रिपयोः सङ्गतिश्चात्र मल्लार्यङ्गं निवारयेत् ।
व्यस्तमध्यमयोगोऽपि श्रोतृचित्तहरो भवेत् ॥ ७१॥
निषादस्य प्रलुप्तत्वे कुतः सारङ्गसम्भवः ।
अवरोहे गसंयोगे सोमरागस्य नोद्भवः ॥ ७२॥
ग्रन्थेषु कथितं रूपं शुद्धसावेरिनामकम् ।
इदमेव कदाचित्स्याद्बुधः कुर्याद्यथोचितम् ॥ ७३॥
हंसध्वनिः
हंसध्वन्याह्वयो रागः स्यात् शुद्धस्वरमेलनात् ।
आरोहेऽप्यवरोहे च मधहीनो भवेत्सदा ॥ ७४॥
स्वरः षड्जो मतो वादी कैश्चिद्गान्धारको ह्यसौ ।
गानमस्य समादिष्टं रात्र्यां प्रथमयामके ॥ ७५॥
हिन्दुस्थानीयपद्धत्यां प्राचुर्यं नास्य दृश्यते ।
सङ्गीते दाक्षिणात्यानां स तु साधारणो मतः ॥ ७६॥
हेमकल्याणः
शङ्कराभरणे मेले हेमकल्याणनामकः ।
सायं गेयः सांशकोऽपि लक्ष्यविद्भिः प्रकीर्तितः ॥ ७७॥
षड्जस्वरो भवेद्वादी संवादी पञ्चमो मतः ।
मन्द्रमध्यस्वरैरेव सर्वेषां रक्तिदो भवेत् ॥ ७८॥
कल्याणे मिश्रणात्तत्र कामोदस्य समुद्भवेत् ।
रागोऽयमिति केषाञ्चित्सम्मतं लक्ष्यवेदिनाम् ॥ ७९॥
आरोहणे धहीनः स्यान्मन्द्रपोद्ग्राहको भवेत् ।
विलम्बितलये गीतो विशिष्टं सुखमावहेत् ॥ ८०॥
क्षेमकल्याणनामापि रागोऽन्यो वर्णितः क्वचित् ।
लक्ष्ये प्रसिद्धिवैधुर्यादस्माभिर्नात्र लक्षितः ॥ ८१॥
सर्पर्दा
शुद्धस्वरसम्मेलने सर्पर्दा रागिणी मता ।
बिलावलप्रकारोऽयं प्रातःकालोचितः पुनः ॥ ८२॥
सपयोरत्र संवादः स्वीकृतो बहुसम्मतः ।
अवरोहे सनिश्चयं बिलावलप्रदर्शनम् ॥ ८३॥
गान्धारस्य केचिदिह वादित्वमादिशन्ति तत् ।
मते तेषां धैवतोऽपि महत्वमाप्नुयाद्भृशम् ॥ ८४॥
यद्यप्यत्र बिहागस्य किञ्चिद्रूपंसमुद्भवेत् ।
आयतो रिषभो नूनं श्रोतृभ्रान्तिं निवारयेत् ॥ ८५॥
यमनालायिकागौडा रागिण्यामत्र मिश्रिताः ।
इति केचित्सङ्गिरन्ति लक्ष्यसङ्गीतकोविदाः ॥ ८६॥
रागे कर्णाटगौडे तु बिलावलीसुमिश्रणात् ।
सर्पर्दा सम्भवेदिति सोमनाथेन लक्षितम् ॥ ८७॥
लच्छाशाखः
शङ्कराभरणे मेले लच्छाशाखो बुधैर्मतः ।
बिलावलाङ्गभूतत्वात्प्रातःकालः परिस्फुटः ॥ ८८॥
धगयोश्चैव संवादः सम्मतो लक्ष्यवेदिनाम् ।
यतोऽत्र दृश्यते स्पष्टा झिञ्झूटीसङ्गतिर्ध्रुवम् ॥ ८९॥
गान्धारस्य प्रयोगे चेद्गौडसारङ्गशङ्कनम् ।
बिलावलस्य प्राधान्यात्स्याच्छङ्कापरिमार्जनम् ॥ ९०॥
नूनं बिलावलस्यैते प्रकारा वादमूलकाः ।
केवलं लक्ष्यमाश्रित्य बुधाः कुर्वन्ति निर्णयम् ॥ ९१॥
रागोऽयं स्यात्सुसम्पूर्णो निषादद्वयमण्डितः ।
अवरोहे निश्चयेन बिलावलं प्रदर्शयेत् ॥ ९२॥
खम्माजीमेले
झिञ्झूटिः
काम्भोजीमेलको ग्रन्थे खम्माजीनामकोऽधुना ।
तदुद्भवाश्च ये रागा निकोमलाः सुसम्मताः ॥ १॥
झिञ्झूटिं प्रथमं वक्ष्ये मेलरागसमाश्रयाम् ।
गान्धारांशादिकां पूर्णां सायङ्गेयां सुशोभनाम् ॥ २॥
सुगमं सरलं रूपं काम्भोजीमेलके त्विदम् ।
क्षुद्रगीतक्षममाहुः सर्वेषामपि रञ्जकम् ॥ ३॥
आश्रयीभूतरागत्वान्नियमः कथ्यते बुधैः ।
भ्रष्टश्चेदन्यरागेभ्य एतस्यां गायको विशेत् ॥ ४॥
आरोहे रिस्वरस्पर्शः खम्माजमपसारयेत् ।
सरलारोहणत्वाच्च गौडसारङ्गकोऽपि नो ॥ ५॥
खम्माजः
काम्भोजीमेलसञ्जातो रागः खमाजनामकः ।
आरोहे तु रिवर्जं स्यादवरोहे समग्रकम् ॥ ६॥
यदा हि धैवतो दीर्घस्तदा मध्यमसङ्गतिः ।
आरोहे पञ्चमाल्पत्वं निषादो रक्तिव्यञ्जकः ॥ ७॥
प्रयोगस्तीव्रनेरेवमारोहे सर्वसम्मतः ।
दृश्यते नियमोऽप्येष लक्ष्यज्ञानां विपश्चिताम् ॥ ८॥
गान्धारः सम्मतो वादी निषादोऽमात्यसंज्ञितः ।
गानमेतस्य रागस्य रात्र्यां यामे द्वितीयके ॥ ९॥
सङ्गतिर्धमयोरत्र विशेषेण सुखप्रदा ।
अवसानं गेस्वरेतद्वदेद्रागं परिस्फुटम् ॥ १०॥
तिलङ्गिका
जाता काम्भोजिमेले या रागिणी सा तिलङ्गिका ।
आरोहे चावरोहेऽपि रिधहीनैव सम्मता ॥ ११॥
गान्धारोऽत्र भवेद्वादी निषादोऽमात्यसन्निभः ।
खम्माजीं प्रकृतिं धत्ते नीपयोः सङ्गतिः सदा ॥ १२॥
धैवतस्य विलुप्तत्वे सिद्धा खम्माजभिन्नता ।
रिधहीना यतो गीता झिञ्झूटिर्नैव सर्वथा ॥ १३॥
पञ्चमेन प्रस्फुटेन दुर्गाया नैव सम्भवः ।
गानमस्याः समीचीनं भूयाद्यामे द्वितीयके ॥ १४॥
खम्बावती
खम्माजीमेलके प्रोक्ता खम्बावत्याह्वया शुभा ।
खम्माजनियमानां सा भवेन्नूनं विपर्ययात् ॥ १५॥
आरोहे रिषभः स्पृष्टस्त्यक्तोऽसौ चावरोहणे ।
मध्यमात्षड्जसंस्पर्शः सर्वथैव मनोहरः ॥ १६॥
मधयोः सङ्गतिः प्रोक्ता ह्यवरोहे पवक्रता ।
उत्तरार्धस्वरैः किञ्चिद्वागीश्वर्यङ्गमावहेत् ॥ १७॥
प्राचुर्येरिधयोरत्र खम्माजाङ्गं कथं भवेत् ।
गानमस्याः समादिष्टं रात्र्यां यामे द्वितीयके ॥ १८॥
ग्रन्थेषु केषुचिदस्यां धकोमलत्वमीरितम् ।
पहीनत्वमपि प्रोक्तं न तल्लक्ष्ये सुसम्मतम् ॥ १९॥
दुर्गा
काम्भोजी मेलकेऽप्यन्या दुर्गा स्याल्लक्ष्यवर्त्मनि ।
औडवा रिपहीनाऽसौ गान्धारांशेन भूषिता ॥ २०॥
मधयोरत्र सङ्गत्या वागीश्वर्यङ्गसम्भवः ।
गान्धारः कोमलस्तत्र सचात्रैवास्ति तीव्रकः ॥ २१॥
ऋषभस्य प्रलुप्तत्वे झिञ्झूटिर्नैव सम्भवेत् ।
धसंयोगात्पलुप्तत्वाद्विभिन्नापि तिलङ्गिका ॥ २२॥
सम्पूर्णेनावरोहेण खम्माजो भिन्नतां भजेत् ।
गानमस्या मतं नित्यं रात्र्यां यामे द्वितीयके ॥ २३॥
ईषत्स्पर्शोरिस्वरे चेद्ग्रन्थोक्ता रागिणी भवेत् ।
नाटकुरञ्जिकानाम्नी गान्धारांशमनोहरा ॥ २४॥
गनीहीना द्वितीयापि दुर्गा लक्ष्याध्वनि श्रुता ।
शङ्कराभरणे मेले वर्णिता पूर्वमेव सा ॥ २५॥
रागेश्वरी
काम्भोजीमेलके तत्र रागेश्वरी बुधैर्मता ।
आरोहेचावरोहेऽपि पहीना षाडवा पुनः ॥ २६॥
षड्जांशा मध्यमांशा वा गीयते लक्ष्यवर्त्मनि ।
सङ्गतिर्मधयोर्नूनं विशेषेणाऽत्र रक्तिदा ॥ २७॥
आरोहणे रिवर्जं स्याद्धवक्रं चावरोहणे ।
गान्धारस्य हि तीव्रत्वाद्वागीश्वर्याः प्रभिन्नता ॥ २८॥
रिस्वरस्यात्र योगेन दुर्गाया नैव सम्भवः ।
ग्रन्थेषु केषुचित्त्वेषा संज्ञिता रविचन्द्रिका ॥। २९॥
खम्बावत्यां रिवर्जत्वमवरोहे समीरितम् ।
खम्माजतिलङ्गिकयोः पञ्चमस्य न लङ्घनम् ॥ ३०॥
मते केषाञ्चिदप्येषा खम्माजप्रकृतिर्यतः ।
प्रशस्तं गायनं तस्या नित्यं यामे द्वितीयके ॥ ३१॥
सोरटी
काम्भोजीमेलकोत्पन्ना सोरटीनामिका पुनः ।
आरोहे रिधवर्जं स्यादवरोहे समग्रकम् ॥ ३२॥
ऋषभोऽत्र मतो वादी सर्ववैचित्र्यकारणम् ।
संवादी धैवतो मान्यो रक्तिनिर्वाहकस्ततः ॥ ३३॥
केचिद्वदन्ति सोरट्यां गस्पर्शाद्देशिका भवेत् ।
लक्षणं तत्समीचीनं देशीभिन्नत्वसूचकम् ॥ ३४॥
अवरोहे गस्वरस्य प्रयोगोघर्षणान्वितः ।
कार्योयस्माद्भवेद्व्यक्ता सारङ्गस्य प्रभिन्नता ॥ ३५॥
मध्यमादृषभे पातः सोरट्यां जीवभूतकः ।
तत्रैवहि निर्णयन्ति श्रोतारो रागिणीमिमाम् ॥ ३६॥
केचित्पञ्चमके न्यासं कृत्वा देशीं परिस्फुटाम् ।
दर्शयन्ति न तन्मन्ये दोषार्हमिह सर्वथा ॥ ३७॥
तिलककामोदः
खम्माजीमेलके प्रोक्तः कामोदस्तिलकान्वितः ।
सम्पूर्णः सांशको गीतो रात्र्यां यामे द्वितीयके ॥ ३८॥
आरोहे धैवतस्त्यक्तो रिवक्रमवरोहणे ।
सोरटीदेशिकाङ्गेन गायना उद्धरन्त्यमुम् ॥ ३९॥
गान्धारात्षड्जसंस्पर्शो नूनं स्यादतिरक्तिदः ।
अपन्यासो निषादेऽसौ सर्वदाभ्रान्तिहारकः ॥ ४०॥
आरोहणे रिप्रयोगात्खम्माजः सम्भवेत्कथम् ।
गान्धारस्यप्रस्फुटत्वात्सोरट्यङ्गं भवेत्कुतः ॥ ४१॥
झिञ्झूट्यादिमिश्रणेऽत्र रागो बिहारिसंज्ञकः ।
समुद्भवेदिति केचित् कथयन्ति विचक्षणाः ॥ ४२॥
जयावन्ती
काम्भोजीमेलके जाता जयावन्ती सुखप्रदा ।
ऋषभांशा सुसम्पूर्णा सोरट्यङ्गेन मण्डिता ॥ ४३॥
तीव्रगस्य प्रयोगोऽत्र सोरटीमपसारयेत् ।
अवरोहे रिसंलग्नं कोमलं गं बुधः स्पृशेत् ॥ ४४॥
मन्द्रस्थस्य पञ्चमस्य रिस्वरेण सुसङ्गतिः ।
छायानट्टस्वरूपस्य क्वचित्सन्देहकारिणी ॥ ४५॥
छायानट्टे मतः पातः पञ्चमादृषभे शुभः ।
मध्यस्थानगतस्तज्ञैरवश्यं रागव्यञ्जकः ॥ ४६॥
कोमलस्य तत्र गस्य प्रयोगो नोपलभ्यते ।
न चापि सोरटीरूपमितितस्य स्फुटा भिदा ॥ ४७॥
साधारणो नियमोऽपि जयावन्त्यां मतो बुधैः ।
गनी तीव्रावनुलोमे कोमलौ तु विपर्यये ॥ ४८॥
वेलावली तथा गौडः सोरटीनामिका पुनः ।
त्रयोऽप्यत्र सम्मिलन्ति यथायोग्यं वदन्ति ते ॥ ४९॥
काम्भोजीमेलजातेषु रागेषु रिषभांशकः
मतोऽयं मार्मिकैर्नूनं परमेलप्रवेशकः ॥ ५०॥
गौण्डमल्लारः
खम्माजीमेलके ख्यातो गौण्डमल्लारनामकः ॥
शङ्कराभरणेऽप्येनं केचिदाहुर्विपश्चितः ॥ ५१॥
सम्पूर्णोऽयं मध्यमांशो गीयते लक्ष्यवर्त्मनि ।
आरोहणे निदुर्बलो वर्षासु सुखदायकः ॥ ५२॥
गन्योरत्र परित्यागाच्छुद्धमल्लारसम्भवः ।
मध्यमादृषभे पातो विशिष्टां रक्तिमावहेत् ॥ ५३॥
न्यल्पो मध्यान्हप्रगेयो धांशको लक्षितः पुनः ।
सोमनाथेन स्वग्रन्थे गौडराग इति स्फुटम् ॥ ५४॥
नटमल्लाररागोऽपि धांशको गनिवर्जितः ।
वर्णितस्तेन कार्योत्र लक्ष्यविद्भिः सुनिर्णयः ॥ ५५॥
ईषच्छायानटस्पर्शान्मल्लारे मन्यते क्वचित् ।
नटमल्लारसम्प्राप्तिर्मृदुगस्य लवादपि ॥ ५६॥
द्विगान्धारप्रयोगेण रामदास्याख्यसम्भवः ।
इति केचिद्वद्वन्त्यन्ये बुधः कुर्याद्यथोचितम् ॥ ५७॥
मेघसोरटदेशाख्या जयावन्ती तथैव च ।
स्याद्धुण्डिया सूरदासी नायकीनटशुद्धकाः ॥ ५८॥
तानसेनी तथा गौण्डो ह्यरुणी झाञ्झनामिका ।
इति मल्लारिकाभेदा व्यवहारे बुधैर्मताः ॥ ५९॥
गारा
हरिकाम्भोजिमेलेऽपि गारानाम्नी सुरागिणी ।
प्रकीर्तिता लक्ष्यविद्भिः सम्पूर्णा सांशका सदा ॥ ६०॥
मन्द्रमध्यस्वरैर्गीता सदैव स्यात्सुखप्रदा ।
गानमस्याः समीचीनं सुमतं सार्वकालिकम् ॥ ६१॥
गान्धारी द्वौ तथैवात्र निषादौ द्वौ समीरितौ ।
अवरोहे कोमलौ तौ रोहणे तीव्रकौ निगौ ॥ ६२॥
कल्याणीझिञ्झुटीयोगः कौशल्येन सुसाधितः ।
आरोहे प्रथमा व्यक्ता द्वितीया चावरोहणे ॥ ६३॥
क्षुद्रगीतार्हताप्यस्य सर्वेषामस्ति सम्मता ।
अतः साधारणं रूपमिदं तज्ञैः सुनिश्चितम् ॥ ६४॥
मन्द्रमे षड्जमारोप्य प्रायशो गायका अमुम् ।
आमध्यमध्यमं नूनं गायन्ति भूरिरक्तिदम् ॥ ६५॥
बडहंसः
काम्भोजीमेलकेऽप्यत्र बडहंसो मतो बुधैः ।
कैश्चिदन्यैर्वर्णितोऽसौ शङ्कराभरणे पुनः ॥ ६६॥
वादित्वं पञ्चमे प्रोक्तममात्यत्वं तु षड्जके ।
गानमस्य समीचीनं द्वितीयप्रहरे दिने ॥ ६७॥
सारङ्गस्य विशेषोऽयं सम्मतः सर्वतोऽधुना ।
गान्धारस्यैव लोपोऽत्र स्वीकृतस्तेन हेतुना ॥ ६८॥
ग्रन्थेषु धगलोप्यत्वे मतैक्यं नोपलभ्यते ।
लङ्घनं तु तयोर्लक्ष्ये सुमतं तद्विदां ध्रुवम् ॥ ६९॥
स्याद्व्यस्तत्वं मध्यमे तन्नूनं रक्तिप्रदायकम् ।
गलुप्तत्वाद्भवेत्सद्यः सूहायाः प्रस्फुटाभिदा ॥ ७०॥
सारङ्गस्य विभेदास्ते मेलेऽस्मिन् कैश्चिदीरिताः ।
अस्माभिस्तु मता एते हरप्रियाख्यमेलने ॥ ७१॥
नारायणी
काम्भोजीमेलसञ्जाता नारायणी प्रकीर्तिता ।
आरोहे गनिहीनासाववरोहे गवर्जिता ॥ ७२॥
कैश्चित्सैव मनीत्यक्ता शङ्कराभरणे मता ।
मतभेदास्तत्र सन्तु ग्रन्थेऽत्र प्रथमा मता ॥ ७३॥
ऋषभं वादिनं मत्वा भवेत्सारङ्गसन्निभा ।
निवर्जत्वे धसंयोगे भक्तद्रूपवारणम् ॥ ७४॥
प्रतापवराळी
काम्भोजीमेलकात्तत्र सञ्जातो राग उत्तमः ।
प्रतापाद्यवराळ्याख्यो रिषभांशग्रहो मतः ॥ ७५॥
आरोहणेनिगौनस्तोऽवरोहेस्यान्निवर्जनम् ।
गानमस्य समादिष्टं द्वितीयप्रहरे निशि ॥ ७६॥
केचिदत्र तीव्रमस्य प्रयोगमादिशन्त्युत ।
न तद्युक्तमहं मन्ये निषादः कोमलो यतः ॥ ७७॥
मतीव्रेषु तु रागेषु कोमलो निर्न युज्यते ।
नियमोयं मतस्तज्ज्ञैर्व्यवहारे सुसङ्गतः ॥ ७८॥
नागस्वरावली
काम्भोजीमेलके चापि जाता नागस्वरावली ।
आरोहेप्यवरोहे च निरिवर्जं तथौडवम् ॥ ७९॥
षड्जांशा मध्यमांशा वा गीताऽसौ लक्ष्यपण्डितैः ।
गानं तस्याः समादिष्टं रात्र्यां यामे द्वितीयके ॥ ८०॥
दाक्षिणात्यामतारागास्त्रयोऽन्तिमा असंशयम् ।
दृष्टा लक्ष्ये यतोऽस्माभिरत्र ग्रन्थे सुलक्षिताः ॥ ८१॥
टिप्पनी
काम्भोजीमेलजा रागा विभक्तास्ते द्विधा बुधैः ।
गांशकाऱ्यंशकाश्चेति रहस्यं गुणिसम्मतम् ॥ ८२॥
खम्माज्यङ्गा मता गांशाः सोरट्यङ्गास्तु ऱ्यंशकाः ।
तत्त्वं त्विदं स्मरेन्नित्यं लक्ष्यमार्गविशारदः ॥ ८३॥
खम्माजी रागश्रीर्दूर्गा खम्बावती तिलङ्गिका ।
गान्धारांशे मता वर्गे मर्मज्ञैर्गीतवेदिभिः ॥ ८४॥
सोरटी देशिका चैव कामोदस्तिलकान्वितः ।
जयावन्त्यादिका वर्गे द्वितीये लक्षिताः पुनः ॥ ८५॥
जयावन्तीहसा नूनं द्विगान्धारसुयोगतः ।
सूचयेत्परमेलं तं कर्णाटाख्यमसंशयम् ॥ ८६॥
मिश्ररागांस्त्वनन्तांस्तान् कोवा वर्णयितुं क्षमः ।
केवलं ते समुन्नीता लक्ष्यमालम्ब्य कोविदैः ॥ ८७॥
ग्रन्थे रत्नाकराभिख्ये भावभट्टकृते ध्रुवम् ।
दृश्यन्ते बहवो भेदा नाममात्रेण कीर्तिताः ॥ ८८॥
लक्षणानि पुनस्तेषां तत्र नोक्तानि सर्वशः ।
प्रसङ्गान्मदभिप्रायं प्रवक्ष्यामि यथोचितम् ॥ ८९॥
वेलावल्यथ कल्याणो नटसारङ्गगौडकाः ।
मल्हारः कानडाप्येते ह्युपाङ्गजनकाः स्वयम् ॥ ९०॥
भैरवमेले
भैरवः
लक्ष्ये भैरवमेलो यः स ग्रन्थे गौडमालवः ।
तदुत्पन्नः सुविख्यातो भैरवो गीयते बुधैः ॥ १॥
धैवतांशग्रहः प्रोक्तः सम्पूर्णः सर्वसम्मतः ।
आरोहणेभवेद्यल्पः प्रातःकालोचितः पुनः ॥ २॥
अस्मान्मेलात्समुत्पन्नाः प्रसिद्धा बहवोऽपि ते ।
प्रातर्गेयप्रकारा ये ह्युत्तराङ्गप्रधानकाः ॥ ३॥
रिधयोरत्र वैचित्र्यं यथा गन्योः प्रदोषके ।
आन्दोलनं तयोरेव कुरुते चित्तरञ्जनम् ॥ ४॥
ग्रन्थेषु केषुचित्प्रोक्तो निषादः कोमलोऽपि यत् ।
अवरोहप्रसङ्गेऽसौ रक्तिघ्नो नैव मे मते ॥ ५॥
यत्र मस्य प्रधानत्वं गस्य तत्राल्पता भवेत् ।
इति साधारणो लक्ष्ये नियमो बहुसम्मतः ॥ ६॥
भैरवोऽयं यथा प्रातः सायं श्रीराग ईरितः ।
एकस्मिन्धैवतो राजा द्वितीये रिस्वरस्तथा ॥ ७॥
सन्धिप्रकाशरागाणां प्रायेणेदंहि व्यञ्जनम् ।
कोमलत्वं भवेद्धर्योर्गन्योस्तीव्रत्वमीक्षितम् ॥ ८॥
भैरवस्य रिधौ यस्माद्विशेषेणातिरक्तिदौ ।
उत्तमा गायका नूनं प्रथमं साध्नुवन्ति तौ ॥ ९॥
मेघरञ्जनी
भैरवस्यैव सम्मेलाद्रागिणी मेघरञ्जनी ।
औडवा पधहीनाऽसौ मध्यमेन सुभूषिता ॥ १०॥
व्यस्तमध्यमयोगोऽत्र ललिताङ्गं प्रदर्शयेत् ।
धैवतस्य प्रलुप्तत्वे तदपि नैव सम्भवेत् ॥ ११॥
तीव्रमस्य लवं केचिदादिशन्ति विचक्षणाः ।
विलोमे रात्रिगेये तद्दोषार्हं नैव मे मते ॥ १२॥
अथवा सम्मतो लक्ष्ये नियमो हि मनीषिणाम् ।
द्रुतगीतो विवाद्यपि क्षम्यः स्यादवरोहणे ॥ १३॥
धैवतस्य परित्यागाद्भैरवाङ्गमसम्भवम् ।
विलम्बितं भवेद्गानं शेषयामेऽतिरक्तिदम् ॥ १४॥
गुणक्री
भैरवान्मेलकाज्जाता गुणकी रागिणी पुनः ।
आरोहे चावरोहेऽपि गनीहीना सुसम्मता ॥ १५॥
धैवतस्तु भवेद्वादी यतोऽसौ भैरवाङ्गिका ।
मन्द्रमध्यस्वरैर्गीता नित्यं श्रोतृसुखावहा ॥ १६॥
रिमयोः सङ्गतेस्तत्र जोगियाशङ्कनं भवेत् ।
निषादस्याप्यपाहाराद्बुधस्तदपसारयेत् ॥ १७॥
सन्ध्याकालप्रगेयेषु रागेषु नैव युज्यते ।
निगयोर्लङ्घनं प्रातर्गेयेषु रिधयोस्तथा ॥ १८॥
गुण्डक्रीनामिकाप्यन्या धरिक्ता सांशका पुनः ।
या दिनान्ते मता कैश्चित्तस्याभित्स्यात्परिस्फुटा ॥ १९॥
जोगिया
गौडमालवमेलोत्था जोगिया कथ्यते बुधैः ।
उत्तराङ्ग प्रधानत्वात्प्रातःकालोऽपि प्रस्फुटः ॥ २०॥
समयोरत्र संवादो भैरवेरिधयोरसौ ।
निषादाकलनात्प्रज्ञैर्गुणक्रीभेद उच्यते ॥ २१॥
गान्धारः सर्वथा त्याज्यो निस्त्यक्तश्चाधिरोहणे ।
रिमयोर्धमयोर्वा स्यात्सङ्गतिः सर्वरक्तिदा ॥ २२॥
अवरोहक्रमे पोऽल्पो निषादे घर्षणं स्मृतम् ।
मध्यमस्य सुव्यस्तत्वं कस्य न स्यान्मनोहरम् ॥ २३॥
आसावर्या मिश्रणेन भैरवे रूपकं त्विदम् ।
कदाचित्स्यात्समुत्पन्नमितिकेचिद्विदोविदुः ॥ २४॥
प्रभातः
भैरवे मेलके प्रोक्तः प्रभातो लक्ष्यवेदिभिः ।
मध्यमांशः प्रभातार्हो ललिताङ्गविभूषितः ॥ २५॥
भैरवस्थरिधावत्र प्रातःकालप्रसूचकौ ।
वादित्वान्मध्यमस्यैव तद्भिन्नत्वं परिस्फुटम् ॥ २६॥
प्रयोगः पञ्चमस्यास्मिन् ललिताङ्गनिवारकः ।
भक्तिमार्गसुप्रयुक्तो नूनं स्याद्भुक्तिमुक्तिदः ॥ २७॥
अनुलोमे मनीयोगा द्रामकल्यानसम्भवः ।
गुणत्र्यां तु गनीत्यक्तावतस्तस्याः स्फुटा भिदा ॥ २८॥
विचित्रता सदैवात्र विलम्बितलये मता ।
द्रुतलये कदाचित्स्यात् कलिङ्गेन विमिश्रणम् ॥ २९॥
कलिङ्गडा
गौडमालवके मेले बुधैः ख्याता कलिङ्गडा ।
गान्धारो मध्यमो वापि तत्र स्याद्बहुलः स्वरः ॥ ३०॥
ऱ्हस्वत्वाद्रिधयोश्चैव भैरवस्य न सम्भवः ।
गानं सुसम्मतं तस्या रात्र्यां यामे तृतीयके ॥ ३१॥
प्रकृतिर्लक्षितैतस्याश्चञ्चला पण्डितास्ततः ।
क्षुद्रगीतोपपन्नत्वमपि तस्या वदन्ति ते ॥ ३२॥
सम्पूर्णं सरलं रूपमेतत्सर्वगुणिप्रियम् ।
असंशयं सुप्रगीतं भवेद्वैचित्र्यकारणम् ॥ ३३॥
सौराष्ट्रः
भैरवे मेलके तत्र सौराष्ट्रो वर्ण्यते बुधैः ।
मध्यमांशश्च सम्पूर्णः प्रातर्गेयो निदुर्बलः ॥ ३४॥
धैवतावत्र द्वौ युक्ताविति लक्ष्यविदां मतम् ।
तीव्राख्यस्त्वनुलोमे स्याद्विलोमे कोमलः पुनः ॥ ३५॥
उत्तराङ्गे क्वचिच्छाया भट्टिहारस्य लक्षिता ।
सङ्गत्या मधयोस्तत्र पूर्वाङ्गे भैरवस्य सा ॥ ३६॥
कलिङ्गडोऽथ बङ्गालस्तृतीयः पञ्चमाह्वयः ।
एतत्सम्मिश्रणोद्भूतं स्वरूपं मन्यते क्वचित् ॥ ३७॥
केचिदन्येह्युत्तराङ्गे बिलावलस्य सङ्गतिम् ।
समर्थयन्ति लक्ष्यज्ञा बुधः कुर्यात् स्वनिर्णयम् ॥ ३८॥
रामकली
मेले मालवगौडीये रागो जातः सुमङ्गलः ।
रामकेलीति विख्यातः प्रातर्गेयो बुधप्रियः ॥ ३९॥
धैवतस्यैव वादित्वं संवादित्वं तु रेः स्मृतम् ।
आरोहे मनिवर्जं स्यादवरोहे समग्रकम् ॥ ४०॥
केचिदत्र निर्दिशन्ति मध्यमौ द्वौ विपश्चितः ।
शुद्धमध्यमव्यस्तत्वं गर्हणीयं न तन्मते ॥ ४१॥
निषादयोर्द्वयोरेव प्रयोगो दृश्यते क्वचित् ।
भैरवाङ्गप्रभूतत्वं तथापि बहुसम्मतम् ॥ ४२॥
यथा रामकली प्रातःसायं रामक्रिया मता ।
शुद्धमध्यमयुक्ताद्या द्वितीया तीव्रमान्विता ॥ ४३॥
विभासः
मेले भैरवके तत्र मनिहीनो विभांशुकः ।
औडवो धैवतांशोपि पञ्चमन्यासमण्डितः ॥ ४४॥
विचित्रो गपसङ्गत्या सुशान्तप्रकृतिः पुनः ।
उत्तराङ्गप्रधानोऽयं प्रभाते हर्षयेन्मनः ॥ ४५॥
यत्र यत्र मनित्यागः सङ्गतिर्गपयोर्भवेत् ।
नियमोऽयं सुप्रसिद्धः पूर्वमेव मयोदितः ॥ ४६॥
पञ्चमस्वरके न्यासो धैवतात्क्रियते यदा ।
न कोऽपि शक्नुयात् ख्यातुं श्रोतृचित्तगतं सुखम् ॥ ४७॥
तीव्रमेण तथा तीव्रधेनापि श्रूयते क्वचित् ।
उत्तराङ्गप्रधानत्वं तत्रापि दृश्यते स्फुटम् ॥ ४८॥
अवरोहे मनित्यागे रामकेली कुतो भवेत् ।
न कोप्यन्यो मनीहीनो रागः प्रातः सुलक्ष्यते ॥ ४९॥
सन्ध्याकाले यथा रेवा तथा प्रातर्विभांशुकः ।
गांशकाद्या मता तज्ज्ञैर्द्वितीयो धांशको मतः ॥ ५०॥
भैरवस्तु सुसम्पूर्णो गुणक्री स्यान्निगोज्झिता ।
रामकेली मनीहीना त्वनुलोमे सुसम्मता ॥ ५१॥
गौरी
मेले मालवगौडस्य गौरी शास्त्रेषु लक्षिता ।
ऋषभांशग्रहा नित्यं सायङ्गेयैव सम्मता ॥ ५२॥
आरोहणे धगोना स्यात् सम्पूर्णा च विलोमके ।
मन्द्रमध्यस्वरैस्तस्या गानं स्यादतिरक्तिदम् ॥ ५३॥
केचिदत्र निर्दिशन्ति तीव्रमस्यापि योजनम् ।
सायङ्गेये स्वरूपेऽस्मिन् भाति मे न विसङ्गतम् ॥ ५४॥
मन्द्रस्थस्य निषादस्य वैचित्र्यमद्भुतं मतम् ।
श्रोतारः प्रायशस्तत्र कुर्वन्ति रागनिर्णयम् ॥ ५५॥
कलिङ्गाङ्गा मता गौरी पूरियाङ्गा तथैव च ।
मतं त्विदं सुप्रसिद्धं नियतं लक्ष्यवेदिनाम् ॥ ५६॥
मतभेदा यद्यप्येते व्यवहारे समीक्षिताः ।
श्रीरागाङ्गस्य प्राबल्यं सर्वत्र दृश्यते स्फुटम् ॥ ५७॥
केचिदाहुर्गस्वरस्य सर्वथैव विवर्जनम् ।
यतः स्यात् प्रस्फुटा गौर्याः श्रीरागादपि भिन्नता ॥ ५८॥
ललितपञ्चमः
गौडमालवमेलोत्थो रागो ललितपञ्चमः ।
आरोहे तु पवर्जं स्यात् पूर्णवक्रावरोहकम् ॥ ५९॥
मध्यमस्यैव बाहुल्यान्निश्चितं चित्तरञ्जनम् ।
गानं चानुमतं रात्र्यां तृतीये यामके सदा ॥ ६०॥
ललिताङ्गालङ्कृतोऽयं स्वीकृतो गायनोत्तमैः ।
मध्यमावप्युभौ ग्राह्याविति लक्ष्यविदां मतम् ॥ ६१॥
अवरोहे यथायोग्यं पञ्चमस्य प्रयोगतः ।
गोपनं ललिताङ्गस्य कुर्वन्ते गानकोविदाः ॥ ६२॥
सावेरी
गौडमालवमेलाञ्च ख्याता सावेरिनामिका ।
आरोहे गनिवर्जं स्यादवरोहे समग्रकम् ॥ ६३॥
पञ्चमोऽत्र मतो वादी संवादी षड्ज ईरितः ।
गानमस्याः समादिष्टं प्रभाते गायनोत्तमैः ॥ ६४॥
प्रचारोऽस्याश्च रागिण्याः कर्णाटकेऽधिकोमतः ।
कर्हिचित्साश्रुताऽत्रापि सङ्गृहीतेह ग्रन्थके ॥ ६५॥
पूर्णत्वादवरोहस्य रागिण्यावपवारयेत् ।
गुणक्रीजोगिये चैव स्फुटमेतत्तु तद्विदाम् ॥ ६६॥
बङ्गालः
भैरवे मेलके तत्र बङ्गालोत्पत्तिरीरिता ।
भैरवस्यैव भेदोऽसाविति तज्ज्ञैः सुनिश्चितम् ॥ ६७॥
आरोहे चावरोहेऽत्र निषादो वर्जितः स्वरः ।
अवरोहे पुनर्दृष्टा गान्धारस्ववक्रता ॥ ६८॥
भैरवस्य प्रभेदत्वात्तदङ्गं स्यात्सुसम्मतम् ।
निवर्जत्वाद्गवक्रत्वाद्भैरवस्य प्रभिन्नता ॥ ६९॥
गान्धारस्य परित्यागे स्वर्णाकर्षणनामकः ।
भैरवस्यैव भेदः स्यात्षाडवो मध्यमांशकः ॥ ७०॥
सधयोः सङ्गतिर्नूनं बङ्गाले रक्तिदायिनी ।
गानमस्यापि रागस्य प्रथमप्रहरोचितम् ॥ ७१॥
शिवमतभैरवः
भैरवस्यैव मेलेऽसौ भैरवः शिवपूर्वकः ।
नियुक्तो नित्यमाचार्यैर्मिश्रमेलसमुद्भवः ॥ ७२॥
आरोहे गनितीव्रत्वं भैरवाङ्गं प्रदर्शयेत् ।
अवरोहे तन्मृदुत्वं भवेत्तोड्यादिकारणम् ॥ ७३॥
प्रसिद्धिविधुरत्वात्तु रागोऽयं वादमूलकः ।
लक्ष्यमार्गमनुसृत्य कुर्यादिह स्वनिर्णयम् ॥ ७४॥
भैरवस्य रिधौ योज्यौ सदैव गायकोत्तमैः ।
तदङ्गं तत्त्वतस्तेन सुव्यक्तं प्रकटीभवेत् ॥ ७५॥
आनन्दभैरवः
मेलान्मालवगौळीयाज्जातो रागो गुणिप्रियः ।
आनन्दभैरवाख्यातः सम्पूर्णः सांशकः पुनः ॥ ७६॥
पूर्वाङ्गे भैरवो मेलः शङ्कराभरणाह्वयः ।
उत्तराङ्गे प्रसक्तः स्यादिति लक्ष्यविदां मतम् ॥ ७७॥
मिश्रणाद्भैरवे तत्र बिलावल्याः समुद्भवेत् ।
गायनं तस्य सम्प्रोक्तं प्रातःकाले मनीषिभिः ॥ ७८॥
प्रयोगात्तीव्रधस्येह सूर्यकान्ताभिधः पुनः ।
ग्रन्थोक्तो मेलको भूयादिति केचिद्वदन्ति ते ॥ ७९॥ १२
श्रीमहक्ष्यसङ्गीतम्
भैरवाङ्गस्य प्राधान्याद्रागोऽयं परिकल्पितः ।
भैरवस्यैव मेलेऽत्र सौकर्यार्थं मया पुनः ॥ ८०॥
हिजेजः
भैरवाभिधमेले तु हिजेजो गीयते बुधैः ।
यावनिकमिदं रूपं स्वीकृतं ग्रन्थकर्तृभिः ॥ ८१॥
सम्पूर्णो मग्रहांशश्च सायङ्गेयस्तथैव च ।
द्विधैवतो निहीनोऽपि केषाञ्चित्कथ्यते मते ॥ २॥
धैवतो मृदुरारोहे ह्यवरोहे तु तीव्रकः ।
आदिशन्ति क्रमं भद्रं लक्ष्यमार्गविचक्षणाः ॥ ८३॥
भैरवे मेलनं केचिद्भैरव्याः सङ्गिरन्त्युत ।
ग्रन्थेषु तूपरिख्यातं वर्णनं दृश्यते ध्रुवम् ॥ ८४॥
सायङ्गेयेषु रूपेषु मांशत्वमपवादकम् ।
इति मन्ये सुरागोऽयं प्रथमप्रहरे दिने ॥ ८५॥
अहीरी, (अहीरभैरवः)
भैरवस्यैव मेलाच्च जाताऽहीरी सुनामिका ।
सम्पूर्णा भैरवाङ्गाऽपि षड्जांशा व्यस्तमध्यमा ॥ ८६॥
पूर्वाङ्गे भैरवो दृष्टो ह्युत्तराङ्गे हरप्रियः ।
वैचित्र्यमस्य रागस्य तेनैव स्यात्सुरक्तिदम् ॥ ८७॥
ग्रन्थेषु केषुचित्प्रोक्ता भैरवीमेलनोत्थिता ।
आभीरी नामिकाप्यन्या नटभैरविमेलके ॥ ८८॥
भावभट्टमते
औडवः षाडवश्चैव सम्पूर्णश्च त्रिधा मतः ।
वसन्तनन्दकानन्दस्वर्णाकर्षणपूर्वकाः ॥ ८९॥
गान्धारपञ्चमाद्यश्च बहुलीपूर्वकस्ततः ।
रामभैरव इत्येवं भैरवो दशधा स्मृतः ॥ ९०॥
गुणकी पारिजातोक्ता भैरवीमेलनेऽप्युत ।
अभावे निगयोः कैश्चित्सुगीता भैरवाव्हये ॥ ९१॥
भैरवीमेले
भैरवी
लक्ष्ये भैरविमेलो यो ग्रन्थानां तोडिसंज्ञकः ।
अस्मान्मेलात्समुत्पन्ना भैरवी लोकविश्रुता ॥ १॥
आरोहेऽप्यवरोहे सा सम्पूर्णैव सदा मता ।
उत्तराङ्गप्रधानत्वे प्रातःकालोचिता भवेत् ॥ २॥
केचिदत्र वर्णयन्ति समौ संवादिनौ स्वरौ ।
धगावन्ये जगुः केचिद्बुधः कुर्याद्यथोचितम् ॥ ३॥
ग्रन्थेषु भैरवी प्रोक्ता ह्यासावरीसुमेलके ।
ऋषभः कोमलो लक्ष्ये गृह्यते नात्र संशयः ॥ ४॥
प्रत्यक्षे तीव्ररिश्चापि दृश्यते रोहणे क्वचित् ।
लक्ष्यदृष्ट्या भवेन्नैतदोषास्पदं सतां मते ॥ ५॥
दाक्षिणात्यास्त्वधुनापि हिन्दुस्थानीयभैरवीम् ।
तोडिनाम्नैव मन्यते किं न जानन्ति पण्डिताः ॥ ६॥
नटभैरविमेले हि भैरवीं स्थापयन्ति ते ।
ग्रन्थसङ्गीतदृष्ट्या तन्न चापि स्याद्विसङ्गतम् ॥ ७॥
मालकोशः
भैरवीमेलसञ्जातः स्मृतो रागः सुनामकः ।
मालकोशो गुणिख्यातो रिपवर्जित ओडवः ॥ ८॥
आलापनार्हताप्यस्य सम्मता गानवेदिनाम् ।
गम्भीरप्रकृतिर्गीतस्तृतीयप्रहरात्परम् ॥ ९॥
शुद्धमध्यमवादित्वं प्रायो गाम्भीर्यवाचकम् ।
व्यस्तत्वं तत्स्वरेनिष्ठं रागजातिं प्रकाशयेत् ॥ १०॥
विदग्धा गायका अत्र कुर्वन्ति बुद्धिपूर्वकम् ।
रिपयोगमल्पशस्ते रक्तिदमवरोहणे ॥ ११॥
कल्याणीमेलके तत्र हिन्दोलो रिपवर्जितः ।
भैरवी मेलकेप्यत्र रिपहीनो भवेदयम् ॥ १२॥
केषुचिच्छास्त्रग्रन्थेषु रागो मङ्गलकौशिकः ।
दृश्यते लक्षितश्चासौ मेले मालवगौडके ॥ १३॥
भूपालः
भैरवीमलके प्रोक्तो रागो भूपालनामकः ।
औडवो मनिहीनोऽसौ धगसंवादभूषितः ॥ १४॥
लक्ष्ये प्रसिद्धिवैधुर्याद्रागोऽयं नातिविश्रुतः ।
गानं चास्य समाख्यातं प्रातर्नित्यं मनीषिभिः ॥ १५॥
अभ्यासात्पगयोः किञ्चित् तोडीरूपं समुद्भवेत् ।
निमयोस्त्वपकर्षाच्च बुधस्तदपवारयेत् ॥ १६॥
सायङ्गेया तु भूपाली प्रातर्गेयो भवेदयम् ।
इति सङ्गीतवैचित्र्यं जनयेत्कौतुकं महत् ॥ १७॥
आसावरी
भैरवीमेलसञ्जाता रागिण्यासावरी मता ।
नटभैरविमेलेऽपि गुणिभिः कैश्चिदीरिता ॥ १८॥
आरोहे गनिहीना स्यादवरोहे समग्रका ।
मग्रहाधांशिकापान्ता द्वितीयप्रहरे दिने ॥ १९॥
ग्रन्थेषु केषुचित्सैव भैरवे मेलके स्थिता ।
लक्ष्यमार्गविरोधित्वान्न ग्राह्यं तन्मतं ध्रुवम् ॥ २०॥
धनाश्रीः
भैरवीमेलके क्वापि धनाश्रीर्ग्रन्थसम्मता ।
आरोहे रिधवर्जं स्यादवरोहे समग्रकम् ॥ २१॥
लक्ष्ये धन्याश्रिका प्रोक्ता हरप्रियाह्वमेलके ।
गानं तस्याः समादिष्टं तृतीयप्रहरे दिने ॥ २२॥
षड्जपञ्चमयोरत्र संवादो बहुसम्मतः ।
समुद्ग्राहो मन्द्रनिना दृश्यते बहुशः कृतः ॥ २३॥
भैरव्युद्भूतधन्याश्रीः प्रातर्गेयैव युज्यते ।
तन्मेलस्योपपन्नत्वं प्रातरेव परिस्फुटम् ॥ २४॥
झीलफः, जङ्गूला च
भैरव्यासावरीयोगाज्झीलफो गुणिसम्मतः ।
आधुनिकस्तुरागोऽयं यावनिकः परिस्फुटः ॥ २५॥
उत्तराङ्ग प्राधान्यमुपपन्नं सुनिश्चितम् ।
यतोऽयं गीयते प्रातर्गायनैर्लक्ष्यवेदिभिः ॥ २६॥
जङ्गूलामिश्रमेलोत्था प्रातर्गेया निरूपिता ।
केवलं लक्ष्यमादृत्य तत्र स्याद्रागनिर्णयः ॥ २७॥
रागे कर्णाटगौडाख्ये समृद्ध्या भैरवस्य तु ।
जुलुफोत्पत्तिराख्याता सोमनाथेन सूरिणा ॥ २८॥
भैरवासावरीयोगे लक्षितो झीलफः क्वचित् ।
भैरव्यासावरीसन्धौ जङ्गूलोत्पत्तिरीरिता ॥ २९॥
मोटकी
भैरवीमेलजा प्रोक्ता लक्ष्ये मोटकिरागिणी ।
आरोहे चर्षभो ऱ्हस्वो धैवतस्त्ववरोहणे ॥ ३०॥
धैवतौ द्वौ प्रयोगे तो मध्यमो जीवकः स्वरः ।
वागीश्वर्यङ्गतो गीता श्रोतृचित्तसुखावहा ॥ ३१॥
दुर्लभं रक्तिदं रूपं मिश्रमेलोत्थितं त्विदम् ।
व्यवहारेऽल्पशो गीतं विवादास्पदमञ्जसा ॥ ३२॥
ग्रन्थेषु मोटकी प्रोक्ता ता पञ्चमाह्वयात् ।
सोऽपि हरप्रिये मेले वर्णितः पण्डितैः क्वचित् ॥ ३३॥
शुद्धसामन्तः
भैरवीमेलके प्रोक्तः शुद्धसामन्तनामकः ।
आरोहे गनिहीनः स्यादवरोहे निवर्जितः ॥ ३४॥
मध्यमस्यात्र वादित्वं ह्यासावर्यान्तु धस्य तत् ।
षड्जस्यापि वदन्त्यन्ये प्रातःकालोचितं पुनः ॥ ३५॥
कर्णाटकीयपद्धत्यां प्रचारोऽस्य मतोऽधिकः ।
दृश्यतेऽत्र यतो गीतः सङ्गृहीतो मयाप्यसौ ॥ ३६॥
वसन्तमुखारी
मेलनाद्भैरवीमेले भैरवाख्यस्य तत्त्वतः ।
वसन्ताद्यमुखारी सा प्रातःकालोचिता भवेत् ॥ ३७॥
पूर्वाङ्गे भैरवः स्पष्ट उत्तराङ्गेतु भैरवी ।
अतिमनोहरं रूपं निर्मितं गीतवेदिभिः ॥ ३८॥
धैवतस्यात्र वादित्वं प्रातःकालप्रबोधकम् ।
अप्रसिद्धं भवेन्नूनं रूपमेतत्सुरक्तिदम् ॥ ३९॥
केचिदेतद्वर्णयन्ति हिजाजस्यैव लक्षणम् ।
ग्रन्थेषु सम्मतं तस्माद्बुधः कुर्यात्स्वनिर्णयम् ॥ ४०॥
आसावरीमेले;
आसावरी
ग्रन्थानां भैरवीमेलो लक्ष्ये त्वासावरीरितः ।
आसावरी भवेत्तज्जा द्वितीयप्रहरोचिता ॥ १॥
आरोहे गनिहीना स्यादवरोहे समग्रका ।
धैवतस्यैव वादित्वं सुमतं तत्र तद्विदाम् ॥ २॥
मध्यमेन ग्रहः प्रोक्तः पञ्चमे न्यसनं भवेत् ।
उत्तराङ्गप्रधानत्वाद्ग्रहः पूर्वाङ्गगोचरः ॥ ३॥
अवरोहक्रमे केचिद्रिङ्कोमलं स्पृशन्ति तत् ।
मन्ये दोषास्पदं नैव नियमः शास्त्रसम्मतः ॥ ४॥
गौडमालवमेलेऽपि ग्रन्थेषु केषुचित्पुनः ।
आसावरी समाख्याता लक्ष्यमार्गविरोधि तत् ॥ ५॥
अङ्गमस्याश्च रागिण्याः प्रस्फुटमवरोहणे ।
मध्यमस्तत्र स्यादल्पः पगयोः सङ्गतिस्तथा ॥ ६॥
जौनपूरी
आसावर्याः स्थिता मेले जौनपूरी बुधैर्मता ।
आरोहणे गवर्जं स्यादवरोहे समग्रकम् ॥ ७॥
निषादोऽत्रोल्लसेद्वादी कैश्चिद्धैवत ईरितः ।
गानमस्याः समीचीनं द्वितीयप्रहरे दिने ॥ ८॥
ऋषभेणात्र तीव्रेण ह्यासावर्याः प्रभेदनम् ।
तस्या अपि समीपत्वात्तदङ्गा बहुसम्मता ॥ ९॥
आधुनिकमिदं रूपमासावरीसुमेलनात् ।
सूलतानहुसेनेन निर्मितमिति कथ्यते ॥ १०॥
आसावरीमध्यमाद्योर्योगमिच्छन्ति केचन ।
द्वितीयप्रहरे नूनं न चाप्येत द्विसङ्गतम् ॥ ११॥
देवगान्धारः
आसावरीसुमेलाञ्च देवगान्धार ईरितः ।
आरोहे रिधवर्जं स्यादवरोहे समग्रकम् ॥ १२॥
मध्यमेन ग्रहो न्याय्यः षड्जे न्यासः समुञ्चरेत् ।
द्वितीयप्रहरे गानमस्य रागस्य युज्यते ॥ १३॥
सपोरत्र संवादो विशेषेण सुखावहः ।
धनाश्र्यासावरीरूपे प्रदर्श्येते सपाटवम् ॥ १४॥
धनाश्र्यङ्गं रोहणे स्याद्वितीयमवरोहणे ।
उत्तराङ्गस्य प्राधान्यात्तदेव प्रभवेत्पुनः ॥ १५॥
ग्रन्थेषु केषुचिच्चैष भैरवे मेलके मतः ।
अगनिः पांशकः सान्तो लक्ष्ये नैतत्सुसङ्गतम् ॥ १६॥
केचिदेनं सङ्गिरन्ति हरप्रियाख्यमेलके ।
विरुध्यते यतो लक्ष्ये नैवस्यात्सम्मतं सताम् ॥ १७॥
कर्णाटकीयपद्धत्यां शङ्कराभरणस्वरैः ।
गानमस्य समादिष्टं न तल्लक्ष्येऽत्र दृश्यते ॥ १८॥
विदग्धा गायकाः केचिद्भैरवस्य सुमिश्रणात् ।
आसावर्यामुद्धरन्ति रागमेनं च कामतः ॥ १९॥
सिन्धभैरवी
आसावरीसुमेलाच्च भैरवी सिन्धपूर्विका ।
आरोहे चावरोहेऽपि सम्पूर्णा मध्यमांशिका ॥ २०॥
अवरोहे विकल्पेनं रिकोमलापि दृश्यते ।
द्वितीयप्रहरे गानमस्याः सर्वसुसम्मतम् ॥ २१॥
पञ्चमे षड्जमारोप्य भैरवी गीयते यदि ।
सिन्धभैरविकोत्पत्तिर्नूनं स्यात्तत्र प्रस्फुटा ॥ २२॥
मन्द्रमध्यस्वरैः प्रायो गायन्ति गानकोविदाः ।
तत्रैवास्या भवेच्छोभा कथितं तद्विदां मतम् ॥ २३॥
देशी
आसावरी सम्मेलने जाता देशी गुणिप्रिया ।
आरोहे गधवर्जं स्यादवरोहे समग्रकम् ॥ २४॥
समयोरत्र संवादो गकम्पनं मनोहरम् ।
गानं चापि समाख्यातं द्वितीयहरे दिने ॥ २५॥
सङ्गतिः स्वरयो रिन्योः सारङ्गाङ्गं प्रदर्शयेत् ।
मध्याह्नात्पूर्वकं तस्माद्गानमस्याः सुसम्मतम् ॥ २६॥
आसावरी ह्युत्तराङ्गे पूर्वाङ्गे विलसेत्पुनः ।
सारङ्गो मधुरो राग इति लक्ष्यविदां मतम् ॥ २७॥
केचिद्देश्यामादिशन्ति तीव्रधैवतयोजनम् ।
अन्येतु धैवतद्वन्द्वं बुधः कुर्याद्यथोचितम् ॥ २८॥
दरबारः
मेलादासावरीनाम्नोदरबारः सुसम्मतः ।
आलापार्हः प्रियो लोके निशियामे द्वितीयके ॥ २९॥
स्याद्वैचित्र्यमत्र रूपे ह्यखिलं मन्द्रस्थानके ।
दुर्बलो गो रोहणे स्याद्धैवतो वर्जितोऽन्यके ॥ ३०॥
मध्यस्थो रिर्मतो वादी नीपयोः सङ्गतिः शुभा ।
आन्दोलनं तु गान्धारे विलम्बितो लयः पुनः ॥ ३१॥
कर्णाटस्यापभ्रंशात्स्यात्कानडानामसम्भवः ।
दरबारः स्वयं शब्दः स्पष्टो यावनिको मतः ॥ ३२॥
आरोहणे गदौर्बल्यात्काफीरागादिका नहि ।
अवरोहे धवर्जनादासावरी न कर्हिचित् ॥ ३३॥
अड्डाणः
आसावर्याः सुमेलाच्च रागोऽड्डाणोऽपि निश्चितः ।
केचिदेनं वर्णयन्ति हरप्रियसमाश्रितम् ॥ ३४॥
ग्रन्थेषु धैवतस्तीव्रः श्रूयते शास्त्रसम्मतः ।
लक्ष्ये तु कोमलस्यापि प्रयोगोऽस्ति न संशयः ॥ ३५॥
मग्रहस्तारषड्जांशो ह्यवरोहमनोहरः ।
रात्र्यां तृतीयके यामे गीतोऽसौ गायकोत्तमैः ॥ ३६॥
गधयोर्दुर्बलत्वेन सारङ्गाङ्गं सुसम्भवेत् ।
विलोमे पगसङ्गत्या बुधस्तदपवारयेत् ॥ ३७॥
रागोऽड्डाणः क्वचिद् दृष्टो हरिकाम्भोजिमेलके ।
कर्णाटकीयपद्धत्यां स चास्माद्भेदमर्हति ॥ ३८॥
दरवारे यथा प्रोक्ता मन्द्रमध्यविचित्रता ।
तारमध्यगता सैव प्रोच्यतेऽत्र विचक्षणैः ॥ ३९॥
अर्द्धरात्र्याः परं गानं तारषड्जविचित्रकम् ।
रागा एतादृशास्तत्र भवेयुः सुप्रवेशकाः ॥ ४०॥
कौशिकः
संयोगो मालकोशस्य कानडायां भवेद्यदा ।
तदा स्यात्कौशिकोत्पत्तिरिति कैश्चित्सुनिश्चितम् ॥ ४१॥
मालकोशगतो मस्तु कस्य न स्यात्सुखावहः ।
तस्यैवात्र सुवादित्वाद्वैचित्र्यं नियतं स्फुटम् ॥ ४२॥
पञ्चमस्य प्रयोगाच्च धनाश्र्यङ्गं शुभं भवेत् ।
मालकोशस्य संस्पर्शाद्बुधस्तत्परिमार्जयेत् ॥ ४३॥
केचिदेनं मध्यमांशं हरप्रियाह्वजं जगुः ।
लक्ष्याध्वनि तथैवापि प्रयुक्तो दृश्यते क्वचित् ॥ ४४॥
खटः
नटभैरविमेलाञ्च खटरागस्य सम्भवः ।
धैवतांशो मग्रहोऽसौ पञ्चमन्यास उच्यते ॥ ४५॥
सङ्कीर्णत्वात्कैश्चिदत्र मिश्रमेलत्वमीरितम् ।
शङ्कराभरणस्यैव मिश्रणं बहुसम्मतम् ॥ ४६॥
प्रकृत्या चपलः पूर्णो बहुभिर्गमकैर्युतः ।
उत्तराङ्गप्रधानत्वे प्रातःकालः परिस्फुटः ॥ ४७॥
तीव्रगान्धारसाहित्यं भैरवाङ्गप्रदर्शकम् ।
तीव्रधस्य प्रयोगेण तस्यापि स्यान्निवारणम् ॥ ४८॥
पूर्वाङ्गे भैरवाङ्गं स्यादासावर्यङ्गमन्यके ।
मिश्ररूपं सुप्रगीतं सर्वेषामतिरक्तिदम् ॥ ४९॥
प्रतिपन्नं पुनः कैश्चिदत्र षड्रागमिश्रणम् ।
याथार्थ्यं खटनाम्नोऽपि तैरेव ह्युपक्रम्यते ॥ ५०॥
झीलफः
आसावरीमेलकेऽन्यो झीलफः परिकीर्तितः ।
राग आधुनिको ह्येष मिश्रमेलसमुत्थितः ॥ ५१॥
कलिङ्गडो भैरवो वा न्यासे स्यादतिशोभनः ।
जौनपूरी खटश्चापि तत्र चावयवौ मतौ ॥ ५२॥
प्रातःकालप्रगेयत्वादुत्तराङ्गसुभूषितः ।
धैवतस्य सुवादित्वं नूनं स्यादत्र रक्तिदम् ॥ ५३॥
तोडीमेलः
तोडी
मेले पन्तुवराळ्याख्ये लक्ष्ये तोडी प्रकीर्तिता ।
धैवतांशा सुसम्पूर्णा गम्भीरप्रकृतिर्मता ॥ १॥
आरोहणे रिदौर्बल्यं प्रातःकालप्रसूचकम् ।
गानमस्या मतं तज्ज्ञैर्द्वितीयप्रहरे दिने ॥ २॥
धैवतस्यात्र वादित्वे गेयत्वं दिवसे स्फुटम् ।
गान्धारं वादिनं प्राहुः केचिल्लक्ष्यविशारदाः ॥ ३॥
प्रातःकालोचितं न स्यात्तीव्रमस्य प्रयोजनम् ।
लोके तस्य प्रसक्तत्वात्स्वीकृतमपवादकम् ॥ ४॥
तीव्रमालङ्कृता रागाः प्रातःकाले मता बुधैः ।
गौडसारङ्गहिन्दोलतोड्याद्या लक्ष्यवर्त्मनि ॥ ५॥
शास्त्रग्रन्थेषु ते सर्वे शुद्धमालङ्कृताः पुनः ।
कुर्वन्ति महदाश्चर्यं निश्चितं मर्मवेदिनाम् ॥ ६॥
लक्ष्येऽधुना प्रगीयन्ते कैश्चित्प्रख्यातगायकैः ।
प्रकारास्तत्र तोड्यास्ते शुद्धमध्यमसंयुताः ॥ ७॥
मूलतानी नामिकासौ रागिणी चात्र मेलके ।
दिनशेषे मता तज्ज्ञैः परमेलप्रवेशिका ॥ ८॥
तत्रापि च रिधत्यागादारोहे दृश्यते स्फुटम् ।
सन्ध्याकालसमीपत्वमिति सर्वं सुसङ्गतम् ॥ ९॥
गुर्जरीतोडी
वराळीमेलके ख्याता गुर्जरीतोडिका तथा ।
आरोहे चावरोहेऽपि पञ्चमो वर्जितो भवेत् ॥ १०॥
वादी स्याद्धैवतस्तत्र रिस्वरोऽमात्यसन्निभः ।
गानमनुमतं तस्या दिने यामे द्वितीयके ॥ ११॥
ग्रन्थेषु गुर्जरी प्रोक्ता भैरवे मेलके तु सा ।
स्वतन्त्ररूपिणीत्यत्र विरोधो नैव शङ्क्यताम् ॥ १२॥
सम्पूर्णा गुर्जरी गीता कैश्चिल्लक्ष्येऽपि साम्प्रतम् ।
रागभ्रान्तिकरा नित्यं नासावत्र सुसम्मता ॥ १३॥
मीयाँतोडी
वराळीमेलके चैव प्रोक्ता तत्र सुनूतना ।
व्यवहारगता तोडी मीयाङ्ख्यया सुसंस्कृता ॥ १४॥
धैवतस्यैव वादित्वं संवादी रिस्वरो भवेत् ।
मन्द्रमध्यस्वरैर्लोके निरन्तरं सुरक्तिदा ॥ १५॥
विलम्बितलयेनास्या विस्तारः स्यान्मनोहरः ।
अल्पत्वं तु पञ्चमस्य कुर्याद्भागप्रभेदनम् ॥ १६॥
अङ्गीकृतः प्रकारोऽयं तोड्या लक्ष्ये विचक्षणैः ।
उपपन्नं हि तद्गानं द्वितीयप्रहरे दिने ॥ १७॥
दरबारीतोडी
दरबारी तथा तोडी यत्रस्यातां सुमिश्रिते ।
दरबारीतोडिकाख्या भवेत्तत्र स्फुटा स्वयम् ॥ १८॥
मनिस्वरस्थित्यधीनास्तोडीभेदाश्च साम्प्रतम् ।
प्रायशो लक्ष्यमार्गेस्यु रितिप्रज्ञा ब्रुवन्ति ते ॥ १९॥
दरबारीतोडिकायामासावरीप्रवेशनात् ।
तोडी विलासखान्याद्या कथ्यते लक्ष्यपण्डितैः ॥ २०॥
यावनिकाः प्रकारास्ते लक्ष्येऽनेके प्रकीर्तिताः ।
भिन्नरागमिश्रणोत्था अनिशं वादमूलकाः ॥ २१॥
आसातोडी गुर्जरी च गान्धार्यपि बहादुरी ।
लक्ष्मी देशी तथैवान्ये लाचारीखटतोडिके ॥ २२॥
सुग्राही मुद्रिका सूहा जौनपूरी तथापरा ।
तोडीभेदा गीतविज्ञैः स्वीकृता लक्ष्यवर्त्मनि ॥ २३॥
मिश्रणं स्यात्कृतं येषां तन्नाम चेत्परिस्फुटम् ।
नकिञ्चिदपि दोषाय तत्रेति प्रतिभातिमे ॥ २४॥
रागाणां नियमा व्यक्ता दृश्यन्ते यत्र निर्मितौ ।
उपपन्नं भवेत्तत्र रागत्वं नैवसंशयः ॥ २५॥
रञ्जनाद्रागता प्रोक्ता सर्वेषामिति सम्मतम् ।
यद्यत्स्यात्तद्गुणोपेतं मानमप्यर्हयेत् सताम् ॥ २६॥
मिश्ररागप्रपञ्चोऽयं वादमूलो यतो भवेत् ।
ग्रन्थेऽत्रापि तदुत्सर्गो बुद्धिपूर्वं कृतो मया ॥ २७॥
कैश्चिद्यावनिकैः प्रज्ञैरुन्नीतमविशङ्कितम् ।
अस्मत्सङ्गीतभाण्डारमिति मतं नचाद्भुतम् ॥ २८॥
सर्पर्दा तुरुष्कतोडी हिजेजो बाखरेजकः ।
पुष्क ईराखजूलूफौ नवरोजी हुसेनिका ॥ २९॥
उज्वलो मूसली चैव ग्रहपञ्चसुगादुगाः ।
सन्तो यावनिका रागाः सोमनाथेन लक्षिताः ॥ ३०॥
केदारगौडरूपे हि नानारूपविमिश्रणात् ।
उपर्युक्ताः समुन्नीता इति तेन समर्थ्यते ॥ ३१॥
पद्धत्यां दाक्षिणात्यानामद्यापि लक्षिताः पुनः ।
यावनिका मता रागा लोके रक्तिप्रदाः स्वयम् ॥ ३२॥
न मे दोषास्पदं भाति तत्र किञ्चिद्धि न्यायतः ।
मते मम भवेन्नूनं सङ्गीतोन्नतिरेव सा ॥ ३३॥
मूलतानी
तोडीमेलसमुत्पन्ना मूलतानी निरूपिता ।
आरोहे रिधहीना स्यात् पञ्चमांशा सुसम्मता ॥ ३४॥
मगयोः सङ्गतिश्चित्रा तयोरेव सुदोलनम् ।
भवेद्रक्तिकरं नित्यं तृतीयप्रहरोत्तरम् ॥ ३५॥
आरोहे रिधहीनत्वादपराह्णत्वमीरितम् ।
प्रसिद्धो नियमोऽप्येष सूरीणां पूर्ववर्तिनाम् ॥ ३६॥
मध्याह्नार्हान् धगाल्पांस्तान् गीत्वा रागान् यथोचितम् ।
प्रवर्तते रिधत्यक्तान् गातुं गातुर्मनः स्वयम् ॥ ३७॥
मूलतानीगते गेतु तीव्रत्यारोपणे पुनः ।
झटित्युत्पत्स्यते तत्र श्रीरागस्यैव रूपकम् ॥ ३८॥
शेषयामे दिने प्रायः समपाः सबला ध्रुवम् ।
रहस्यं तन्निरवद्यं को न वेत्तीह मर्मवित् ॥ ३९॥
धन्याः खलु पण्डितास्ते यैरिदं कौतुकं महत् ।
निर्मितं बुद्धिसामर्थ्यात् सन्ततं विश्वमोहनम् ॥ ४०॥
भावभट्टमते
प्रथमा शुद्धतोडी स्याद्देशीतोडी द्वितीयका ।
बहादुरी तृतीया स्याद्गुर्जरी च चतुर्थिका ॥ ४१॥
छायातोडी पञ्चमी स्यात् षष्ठी तोडी वराटिका ।
हुसेनी सप्तमी प्रोक्ता जौनपूरी तथाष्टमी ॥
आसातोडी च नवमी नवधा कीर्तिता बुधैः ॥ ४२॥
पूर्वीमेले
पूर्वी
शास्त्रे रामक्रियामेलो लक्ष्ये पूर्वीति कीर्तितः ।
कर्णाटकीयपद्धत्यां भाषितः कामवर्द्धनी ॥ १॥
एतन्मेलात्समुत्पन्ना पूर्वी सर्वगुणिप्रिया ।
सायं गेयाऽथ सम्पूर्णा गान्धारांशपरिष्कृता ॥ २॥
व्यवहारे प्रसिद्धैषा श्रीरागस्यैव रागिणी ।
गानं सुनिश्चितं तस्याः सायङ्काले मनोहरम् ॥ ३॥
श्रीरागे रिषभो वादी गान्धारोऽत्र समीरितः ।
उद्धारोऽस्या भवेद्युक्तः श्रीरागानन्तरं सदा ॥ ४॥
प्रयोगः शुद्धमस्यापि सह गेन मतो मनाक् ।
अवरोहे न मे भाति शास्त्रदृष्ट्यातिबाधकः ॥ ५॥
केषुचिच्छास्त्रग्रन्थेषु रागिणीयं निरूपिता ।
प्रस्फुटा भैरवे मेले मध्यमस्तेन कोमलः ॥ ६॥
तीव्रमोऽपेक्षितोऽवश्यं सायङ्गेयत्वसूचकः ।
अतो मन्ये प्रयुक्तौ तौ विदग्धैर्मध्यमावुभौ ॥ ७॥
वैचित्र्यं तीव्रमस्यैव दिनान्ते नित्यरक्तिदम् ।
उपकारी शुद्धमः स्याच्छ्रोतॄणां रागनिर्णये ॥ ८॥
मध्यमयोः सुसंयोगः सायं नान्यत्र चेदृशः ।
प्रायो भवेत्तत्सुबोधं रागनिर्णयसाधनम् ॥ ९॥
तीव्रत्वं धैवतेऽभीष्टं सम्प्रदाये तु दक्षिणे ।
लक्ष्यमार्गमनुल्लङ्घ्य कार्यमत्र यथोचितम् ॥ १०॥
रागचन्द्रोदये ग्रन्थे पुण्डरीकमहात्मना ।
गौडमालवके मेले पूर्वी सांशा प्रकीर्तिता ॥ ११॥।
सन्धिप्रकाशगेयेषु सामीप्यं नियतं महत् ।
भेदकं पञ्चमं लिङ्गं स्वीकुर्वन्ति विचक्षणाः ॥ १२॥
रामक्रिया मता सायं मनित्यक्ताधिरोहणे ।
रामकेलीं प्रगे चाहुर्यतोऽसौ शुद्धमध्यमा ॥ १३॥
उत्तराङ्गप्रधानेषु रागेष्वपि तथैवच ।
दृश्यते चरमे यामे परजाख्यो द्विमध्यमः ॥ १४॥
सुबोधं सरलं रूपं सायङ्गेयं सुरक्तिदम् ।
रागाश्रयत्वमाप्नोति लक्ष्याध्वनि मते सताम् ॥ १५॥
अथवैतन्मया प्रोक्तं रहस्यं सकलं पुरा ।
पुनरुक्तिर्न चापि स्यात् प्राप्तकालेति भाति मे ॥ १६॥
केचिदुच्चतरावूचुः स्वरावत्र रिधौ मनाक् ।
श्रीरागस्थाभ्यां प्रपञ्चः सम्भवेद्वादमूलकः ॥ १७॥
यथा जनपदे प्रायो राजमार्गा व्यवस्थिताः ।
तथैव स्युर्मेलरागाः सङ्गीतनगरे ह्यमी ॥ १८॥
क्षुद्रमार्गपरिभ्रष्टाः प्रमुखेषु पतन्ति ते ।
जन्यरागपरिभ्रान्ता मेलरागेषु केवलम् ॥ १९॥
श्रीरागः
पूर्वीमेलसमुत्पन्नः श्रीरागो लक्ष्यसम्मतः ।
शास्त्रे ख्याता तदुत्पत्तिर्हरप्रियाख्यमेलके ॥ २०॥
आरोहे गधहीनत्वं रागेऽत्र बहुसम्मतम् ।
पूर्णत्वमवरोहे स्यान्नियमेनातिरक्तिदम् ॥ २१॥
ऋषभोऽत्र भवेद्वादी संवादी पञ्चमो भवेत् ।
केचिद्विपर्ययं प्राहुर्न तत्रापि विसङ्गतिः ॥ २२॥
दाक्षिणात्या सदैवैनमङ्गीकुर्वन्ति मेलने ।
हरप्रियाव्हये नूनं शास्त्रग्रन्थानुसारिणः ॥ २३॥
गम्भीरप्रकृतिर्नित्यं विलम्बितलयोद्धृतः ।
अवश्यं स्याद्दिनान्तेऽसौ भुक्तिमुक्तिप्रदायकः ॥ २४॥
श्रीरागाङ्गं केवलं तत् स्वतन्त्रं मन्यते यतः ।
सावधानं यथान्यायमभ्यस्यं गायनार्थिभिः ॥ २५॥
जनकसन्निभो लोके ह्यादिरागः समीरितः ।
औडवः सन् विधानं तद्विचार्यं मार्मिकैर्जनैः ॥ २६॥
अथवा लोकप्रियास्ते पुंरागा औडवाहि षट् ।
स्वयमुत्पादका लक्ष्ये पूर्णानामिति विश्रुतम् ॥ २७॥
संवादित्वं धैवतस्य क्वचित्समर्थितं पुनः ।
न युक्तं तत्समारोहे तत्स्वरस्यैव गोपनात् ॥ २८॥
गौरी (द्वितीया)
पूर्वीमेले समादिष्टा द्वितीया गौरिका पुनः ।
आरोहे गधहीना स्यादवरोहे गवर्जिता ॥ २९॥
ऋषभोऽत्र भवेद्वादी सहचारी तु पञ्चमः ।
गानमस्याः समीचीनं लोके सायं समीरितम् ॥ ३०॥
श्रीरागस्य प्रसिद्धाङ्गं रूपेऽस्मिन्नपि प्रस्फुटम् ।
निषादो मन्द्रभागस्थो नूनं रक्तिप्रदो नृणाम् ॥ ३१॥
अथ प्रसङ्गतो वक्ष्ये मतभेदान् यथायथम् ।
पुरावृत्तं च रागिण्या अस्याः स्याद्येन प्रस्फुटम् ॥ ३२॥
श्रीरागः पण्डितैः पूर्वैः काफीमेले सुलक्षितः ।
आरोहणे गधत्यक्तः सम्पूर्णोऽप्यवरोहणे ॥ ३३॥
गौरी पुनर्मता तैश्च मेले भैरवनामके ।
धगोनारोहणे नित्यमवरोहे समग्रिका ॥ ३४॥
युक्तं नु वर्णनं चैतत्तत्कालवर्तिलक्ष्यतः ।
मेलभेदे ह्यवश्यं स्याद्रूपभेदस्य सम्भवः ॥ ३५॥
मते तूत्तरकालीने सङ्गीते परिवर्तनात् ।
रागावेतावुभावुक्तौ पूर्वीमेलसमाश्रितौ ॥ ३६॥
एकमेलाश्रितत्वे स्यात् समाने लक्षणे पुनः ।
अवश्यं गायनं कष्टं ततो वैमत्यसम्भवः ॥ ३७॥
केचिद्गौर्यामादिशन्ति समूलं गधवर्जनम् ।
अन्ये पुनः सङ्गिरन्ति पञ्चमस्यैव लङ्घनम् ॥ ३८॥
गौड्यधगा तथा ऱ्यंशा सोमनाथेन भाषिता ।
तल्लक्षणाऽपरा चैती सायङ्गेयेति कीर्तिता ॥ ३९॥
निपुणा गायकाः केचिद्द्विमध्यमप्रयोजनात् ।
श्रीरागाङ्गमनुवृत्य रागिणीमुद्धरन्ति ते ॥ ४०॥
भावभट्टकृते ग्रन्थे रत्नाकरे प्रकथ्यते ।
अष्टधा रागिणी गौरी नानारूपसमाश्रिता ॥ ४१॥
दीपकः
कामवर्द्धनिकामेलाद्दीपको गुणिसम्मतः ।
आरोहणे रिवर्जं स्यादवरोहे निवर्जितम् ॥ ४२॥
षड्जस्यैव प्रधानत्वं सम्मतं शास्त्रवेदिनाम् ।
गानं सुसम्मतं मन्ये दिने यामे तुरीयके ॥ ४३॥
केचिदेनं निर्दिशन्ति सम्पूर्णं सांशकं पुनः ।
कल्याणीमेलजं प्राहुर्निहीनं कुत्रचिद्बुधाः ॥ ४४॥
मालवाख्ये मतो मेले मनिहीनोऽपि सांशकः ।
पारिजाते मते मेतु प्रथमो हि सुसङ्गतः ॥ ४५॥
लुतोऽयं राग इत्येतद्यदुक्तं लक्ष्यपण्डितैः ।
न मे माति मतं तेषां केवलं युक्तिसङ्गतम् ॥ ४६॥
दीपकानां प्रज्वलनं स्वयं दृष्ट्वा सुदुष्करम् ।
गायने स्याद्विलोपन मस्यादिष्टं विचक्षणैः ॥ ४७॥
दीपकस्य तिरोभावे श्रीरागे परिवर्तनम् ।
रिधयोः कोमलत्वेन कदाचिद्विबुधैः कृतम् ॥ ४८॥
रेवा
पूर्वीमेलसमुद्भूता ख्याता रेवा सुखप्रदा ।
आरोहे चावरोहेऽपि मनिहीनैव सम्मता ॥ ४९॥
वर्जने निमयोः सिद्धा गपयोः सङ्गतिः स्वयम् ।
षड्जांशा गांशिका चाऽपि सायङ्गेया बुधैर्मता ॥ ५०॥
उत्तराङ्गप्रधानत्वे विभासाङ्गं परिस्फुटम् ।
परित्यागो मतो तत्र निमयोरिति विश्रुतम् ॥ ५१॥
भैरवे मेलके प्रोक्ता रेवगुप्तिर्निरन्तरम् ।
सैवेयं स्यादिति केचिच्छङ्कयन्ति विचक्षणाः ॥ ५२॥
वादित्वे सति पूर्वाङ्गे सायङ्गेयत्वमीप्सितम् ।
तत्पुनश्चेदुत्तराङ्गे प्रातर्गेयत्वसूचकम् ॥ ५३॥
विभासः (द्वितीयः)
पूर्वीमेलात्समुत्पन्नो रागोऽपरो बुधैर्मतः ॥
विभासो योग्यनामाऽसौ प्रातर्गेयः सुरक्तिदः ॥ ५४॥
धैवतस्यैव वादित्वं प्राबल्यमुत्तराङ्गके ।
विभांशुकस्यापभ्रंशे विभास इति युज्यते ॥ ५५॥
सारामृते शास्त्रग्रन्थे विभांशुकः प्रकीर्तितः ।
मनिहीनः प्रभातार्हस्तन्मया ध्वनितं पुरा ॥ ५६॥
गपयोः सङ्गतिर्नित्यं नियमेन भवेच्छुभा ।
शुद्धभावसुसङ्गीतो ह्यवश्यं द्रावयेन्मनः ॥ ५७॥
यथा सायं मता रेवा तथैवायं भवेत् प्रगे ।
सादृश्ये मनिवर्जत्वे वादिभेदेन भित्स्फुटा ॥ ५८॥
केचिदेनं निर्णयन्ति मारवामेलने बुधाः ।
अहोबलादिकास्त्वन्ये पूर्वीमेले वदन्त्यमुम् ॥ ५९॥
लक्ष्याध्वनि पुनः कैश्चिद्गीतोऽयं शुद्धमेलके ।
रूपमेतत्सुविख्यातं देशकारस्य केवलम् ॥ ६०॥
धैवतात्पञ्चमे न्यासो मार्मिकेण सुसाधितः ।
भ्रान्तिविच्छेदको भूयादवश्यं रागनिर्णये ॥ ६१॥
मालवी
पूर्वीमेले समादिष्टा मालवी रागिणी बुधैः ।
आरोहे स्यान्निदौर्बल्यमवरोहे तु धस्य तत् ॥ ६२॥
श्रीरागाङ्गा यतो गेया वैचित्र्यं रिस्वरे स्फुटम् ।
गानमस्या भवेत् सायं सर्वरक्तिप्रदायकम् ॥ ६३॥
सन्धिप्रकाशगेयेषु सङ्गतौ मधुरौ गपौ ।
रागेऽत्रापि सम्प्रयुक्तौ गायकैस्तौ सपाटवम् ॥ ६४॥
अपूर्वं रूपकं त्वेतल्लक्ष्यपण्डितनिर्मितम् ।
रक्तिदं सम्मतं यस्माद्ग्राह्यमेव मनीषिणाम् ॥ ६५॥
ग्रन्थवाक्योल्लङ्घनेऽपि ये रागाः स्युर्जनप्रियाः ।
मन्ये तेषामुपाङ्गत्वं देश्यां नैवातिबाधकम् ॥ ६६॥
अथवा मार्गमेनं हि समालम्ब्य पुरातनैः ।
समुन्नीतं तदाचार्यैः सङ्गीतमिति भाति मे ॥ ६७॥
मालवीं रागिणीं केचिदाहुर्मारुवमेलने ।
ग्रन्थे सारामृते दृष्टा मेलके गौडमालवे ॥ ६८॥
पूर्वी गौरी मालवी च ललिताह्वा पराजिका ।
वसन्ती रेवगुप्तिश्च शास्त्रे भैरवमेलजाः ॥ ६९॥
तथाप्येतेषु रूपेषु सर्वेषु दृश्यतेऽधुना ।
तीव्रमस्य प्रयोगस्तद्विचार्यं मर्मवेदिभिः ॥ ७०॥
ग्रन्थेषु केषुचित्तत्र काम्भोजी मेलगा मता ।
अतिवक्रस्वरूपाऽपि मालवी रागिणी ध्रुवम् ॥ ७९॥
मालवो भैरवोत्थोऽसौ तथा मालवगौडकः ।
मालवीरूपभिन्नत्वाद्भिन्नावेव सतां मते ॥ ७२॥
टक्कभाषा मालवी या शास्त्रेषु परिकीर्तिता ।
तस्या एव भवेदेतत्कदाचित्परिवर्तनम् ॥ ७३॥
श्रीरागाङ्गाश्च पूर्व्यङ्गा रागाः सायं विशेषतः ।
रिपसंवादयुक्ताद्या गनिसंवादजाऽन्तिमाः ॥ ७४॥
त्रिवेणी
पूर्वीमेलसमुद्भूता त्रिवेणी लक्ष्यसम्मता ।
आरोहे चावरोहेऽपि मध्यमो वर्जितस्वरः ॥ ७५॥
श्रीरागाङ्गा यतोऽभीष्टा लक्ष्यज्ञानां च साम्प्रतम् ।
रिस्वरस्यैव वादित्वं सुग्राह्यमिति भाति मे ॥ ७६॥
सङ्गतिर्गपयोः सिद्धा मध्यमस्य विवर्जनात् ।
अवरोहेण वर्णेन कुर्यान्मानसरञ्जनम् ॥ ७७॥
सम्पूर्णा रिग्रहांशाऽसौ सन्यासापि मता क्वचित् ।
मदुर्बला हि लक्ष्येस्यात्सर्वलोकप्रिया भृशम् ॥ ७८॥
अन्ये तां मारवामेले पञ्चमांशां ब्रुवन्ति ते ।
सायङ्गेया विकल्पेन बुधः कुर्यात्स्वनिर्णयम् ॥ ७९॥
यत्किञ्चिदप्यङ्गीकृतं भवेद्रूपं सतां मते ।
सुव्यक्तनियमाबद्धं नैव स्याद्दोषजं पुनः ॥ ८०॥
देशिकारस्तथा गौरी तृतीया पूर्विका सदा ।
रागिण्यामत्र संयुक्ता इति लक्ष्यविदां मतम् ॥ ८१॥
टङ्किरा
पूर्वीमेले सुप्रसिद्धा रागिणी टङ्किका मता ।
भार्या प्रोक्ता लक्ष्यविद्भिः श्रीरागस्यैव पांशिका ॥ ८२॥
श्रीरागाङ्गेन सा लक्ष्ये नूनं सर्वत्र लक्षिता ।
गानं चाभिमतं तस्याः सायङ्काले प्रतिष्ठितम् ॥ ८३॥
मालवी त्रिवणा गौरी पूर्वी टङ्की तथैव च ।
मता एता बुधैः पञ्च श्रीरागस्य वराङ्गनाः ॥ ८४॥
पञ्चमो यत्र वादी स्यात् संवादी षड्जको भवेत् ।
श्र्यङ्गसम्भूषितत्वात्तु रिषभोऽमात्यको भवेत् ॥ ८५॥
महीनामथवा पूर्णां केचिदन्ये विदो विदुः ।
त्रिवेण्यां रिस्वरो वादी ह्यतस्तस्या भिदा स्फुटा ॥ ८६॥
वादिभेदाद्रागभेद इति लक्ष्यविदां मतम् ।
सर्वत्रैव सुप्रसिद्धं महद्वैचित्र्यकारकम् ॥ ८७॥
तथापि स्पृश्यते कैश्चित् त्रिवेण्यां मध्यमो मनाक् ।
विलोमे रागभेदार्थं भात्येवं युक्तिसङ्गतम् ॥ ८८॥
रागबोधे मतष्टक्कः सांशन्यासग्रहः स्वयम् ।
वसन्तमेलने सायं सम्पूर्णो गुणिसम्मतः ॥ ८९॥
प्रदोषे गीयते यस्मात् तीमध्यमयोजनम् ।
सुसङ्गतं तत्त्वमेतत् पूर्वमेवोदितं मया ॥ ९०॥
आरोहे न धगोनत्वं श्रीगौर्यौ तेन प्रस्फुटे ।
पूर्वी द्विमध्यमा प्रोक्ता मालवी धनिदुर्बला ॥ ९१॥
जेताश्रीः
कामवर्द्धनिकामेले जेताश्रीः कीर्त्यते सदा ।
आरोहे रिधवर्जं स्यादवरोहे समग्रकम् ॥ ९२॥
गान्धारांशा तथा सान्ता सायङ्कालोचिता मता ।
कैश्चित्सैवोदिता प्रातर्नैवं भाति सुसङ्गतम् ॥ ९३॥
अन्ये तां तीव्रधां मत्वा मारवामेलने जगुः ।
अपसार्य मतान्यन्यान्युपर्युक्तैव स्वीकृता ॥ १४॥
वराटी देशकारश्च धवलाख्या ततः पुनः ।
मिलन्त्यत्र सप्रमाणमिति लक्ष्यविदो विदुः ॥ ९५॥
रिधत्यक्ता यतो नान्या रागिण्येतादृशी मता ।
सायङ्गेया ततस्तस्या दृश्यते प्रस्फुटा भिदा ॥ ९६॥
पूरियाधनाश्रीः
कामवर्द्धनिकामेलाज्जाता पूर्याधनाश्रिका ।
आरोहे चावरोहेऽपि सम्पूर्णा गुणिसम्मता ॥ ९७॥
पूर्वी धनाश्रिका योगाद्रूपमेतत्समुत्थितम् ।
भवेदिति मतं तत्र केषाञ्चिल्लक्ष्यवेदिनाम् ॥ १८॥
शुद्धमध्यमहीनत्वाद्वादित्वात्पञ्चमस्य च ।
स्यात्पूर्वीनामिकायास्तु रागिण्या भित्परिस्फुटा ॥ ९९॥
श्रीरागस्य प्रसिद्धाङ्गं नचैवात्रोपलभ्यते ।
अतस्तदङ्गभूतास्ते विविक्ताः सुखमञ्जसा ॥ १००॥
उत्तराङ्गप्रधानेषु वसन्तपरजादिषु ।
द्विमध्यमप्रयोगत्वाद्व्यर्थं तत्रापि शङ्कनम् ॥ १०१॥
स्वीकुर्वन्ति पुनः केचिदेनां धनाश्रिकां स्वयम् ।
काफीमेलोद्भवा तेषां मते भीमपलासिका ॥ १०२॥
मतभेदा भवन्त्वेते वयं लक्ष्यानुवर्तिनः ।
पूर्याधनाश्रिकामेव सत्कुर्मो रागिणीमिमाम् ॥ १०३॥
परजः
पूर्वीमेलोत्थितः प्रोक्तः परजो विबुधप्रियः ।
आरोहे चावरोहेऽपि सम्पूर्णो लक्ष्यसङ्गतः ॥ १०४॥
उत्तराङ्गप्रधानत्वात्तारषड्जांशशोभितः ।
गानमभीप्सितं तस्य नक्तं यामेऽन्तिमे सदा ॥ १०५॥
ग्रन्थेषु लक्ष्यते स्पष्टो निर्दिष्टः शुद्धमध्यमः ।
व्यवहारे तु तीव्रोऽपि युज्यते नात्र संशयः ॥ १०६॥
अथवा रात्रिगेयेऽस्मिन् स्वरूपे तत्प्रयोजनम् ।
विसङ्गतं कथं भूयात् नियमो ह्येष तद्विदाम् ॥ १०७॥
चपलप्रकृतिश्चायं क्षुद्रगीतसमाश्रयः ।
विलम्बितलये गीतो वासन्तीमिश्रितो भवेत् ॥ १०८॥
लक्ष्याध्वनि दृश्यतेऽसौ कलिङ्गेन विमिश्रितः ।
मिश्रणं तन्निश्चयेन रक्तिघ्नं नैव सर्वथा ॥ १०९॥
पूर्वाङ्गस्य दुर्बलत्वे सायङ्कालप्रसूचनम् ।
न कर्हिचिच्छङ्कनीयं नैसर्गिकं हि कौतुकम् ॥ ११०॥
वसन्तः
पूर्वीमेलसुसञ्जातो वसन्ताख्यो बुधैर्मतः ।
सम्पूर्णस्तारषड्जांशो वसन्तर्तौ सुखप्रदः ॥ १११॥
मगयोः पुनरावृत्त्या विशिष्टां रक्तिमावहेत् ।
परजस्यापि भिन्नत्वं तत्रैव प्रकटीभवेत् ॥ ११२॥
रागेऽस्मिन् गायनैः कैश्चिल्ललिताङ्गं समर्थ्यते ।
येनापि स्यान्मते तेषां रूपस्यास्य प्रभेदनम् ॥ ११३॥
ग्रन्थेषु कीर्तितो दृष्टो मेले मालवगौडके ।
रात्रिगेयो यतस्तस्मिंस्तीव्रमे न विसङ्गतिः ॥ ११४॥
प्रयोगो धैवतस्यापि तीव्रस्य लक्ष्यते क्वचित् ।
कुत्रचित्पञ्चमस्त्यक्तो बुधः कुर्याद्यथोचितम् ॥ ११५॥
वसन्ते पञ्चमो नैव ह्यारोहे रक्तिदो भवेत् ।
परजाख्ये पुनः सोऽपि विशिष्टां रक्तिमावहेत् ॥ ११६॥
निषादस्यापि चाधिक्यं परजाह्वे यथा मतम् ।
न तदत्र वसन्ताख्ये सम्भवेदिति सम्मतम् ॥ ११७॥
मारवामेले
मारवा
गमनश्रममेलोऽसौ लक्ष्यगो मारवाभिधः ।
धैवतस्यात्र तीव्रत्वात् पूर्वीमेलभिदा स्फुटा ॥ १॥
एतन्मेलसमुत्पन्ना प्रसिद्धा मारवा मता ।
आरोहे चावरोहेऽपि पञ्चमस्वरवर्जिता ॥ २॥
धैवतस्थितवादित्वं दृश्यते बहुसम्मतम् ।
न मेऽभीष्टं भवेदेतत् सायङ्गेयस्वरूपके ॥ ३॥
वादित्वे धैवते निष्ठे प्रातर्गेयत्वसूचनम् ।
हिन्दोलाङ्गगतं सिद्धं द्वयोः पञ्चमलङ्घनात् ॥ ४॥
सुसङ्गतं प्रधानत्वं पूर्वाङ्गे सायमीरितम् ।
ग्रन्थगा मारवा प्रोक्ता सांशा गांशाथवा पुनः ॥ ५॥
पारिजातोक्तमार्वाव्हः काफीमेलसमुद्भवः ।
वसन्तभैरवीजातः सोमनाथेन भाषितः ॥ ६॥
सारामृतेऽपि षड्जांशो मारुवः सायमीक्षितः ।
लोकेऽसौ तीव्रमोऽपश्च तीव्रधो नैव संशयः ॥ ७॥
व्यवहारे रिवक्रत्वं विशेषेण सुखप्रदम् ।
प्रच्छादनं निषादस्य ह्यनुलोमे गुणिप्रियम् ॥ ८॥
अत्र केचिन्निर्दिशन्ति रोहणे रिधलङ्घनम् ।
सुप्रतीतं न तल्लक्ष्ये यतो ग्राह्यं न तद्विदाम् ॥ ९॥
मारवा पूरिया चेति द्वे सायं पोज्झिते यथा ।
ललिता सोहनी चेति द्वे यामेऽन्ते पुनर्निशि ॥ १०॥
पूरिया
गमकक्रियमेलेऽपि पूरिया बहुसम्मता ।
षाडवा पञ्चमत्यक्ता गान्धारांशेन मण्डिता ॥ ११॥
मन्द्रावधिलक्ष्यविद्भिर्गान्धारोऽत्र नियोजितः ।
मन्द्रमध्यस्वरैरेषा नित्यं रक्तिप्रदा भवेत् ॥ १२॥
सायङ्गेया यतः सिद्धा पूर्वाङ्गप्रबला स्वयम् ।
उत्तराङ्गप्रधानत्वे सोहन्येव न संशयः ॥ १३॥
निर्योश्च निमयोश्चापि सङ्गतिः सुभगा पुनः ।
मन्द्रनिधनिस्वराणां संहती रागदर्शिनी ॥ १४॥
ईषत्कोमलधो लक्ष्ये प्रयुक्तो गायनैः क्वचित् ।
एकश्रुतिच्युतस्तेषां मते धः प्रतिपाद्यते ॥ १५॥
यतः शास्त्रे विधानं तत् कुत्रापि न समर्थितम् ।
ग्राह्यत्वं तन्मतस्यापि लोकरुच्यवलम्बितम् ॥ १६॥
मन्द्रन्यादिस्वराभ्यासान्मारवा दूरतां व्रजेत् ।
रिधौ तत्र निगावत्र भवेतां मार्गदर्शकौ ॥ १७॥
भावभट्टमते पूरियाभेदाः
पूर्विकाललितायुक्ता हिन्दोलान्ता तदा भवेत् ।
ललिताभैरवाभ्यां तु भैरवान्ता प्रकीर्तिता ॥ १८॥
ललिताबिहङ्गडाभ्यां स्यात् पूरियाबिहङ्गडा ।
युता पूर्याधनाश्रीः सा हिन्दोलेन धनाश्रिका ॥ १९॥
ललितेमनसंयोगे भवेत्पूर्येमनीरिता ।
सप्तमी शुद्धपूर्या स्यादेवं सप्तविधा स्मृता ॥ २०॥
विशिष्टलक्षणान्येषां रागाणां नैव चाब्रवीत् ।
ग्रन्थकारो यथायोग्यं विचार्यं तद्विचक्षणैः ॥ २१॥
प्रवचनं पुनस्तेषां क्लिष्टमेव भवेत् सदा ।
अतस्तेन धृतं मौनं न मे ह्याश्चर्यकारणम् ॥ २२॥
रागावयवभूतानामुत्तमांशान् विवृत्य ते ।
मुख्यरागान् पुरस्कृत्य गायन्ति लक्ष्यवेदिनः ॥ २३॥
वराटी
मारवामेलके प्रोक्ता वराटी बुधसम्मता ।
आरोहेऽप्यवरोहे च सम्पूर्णा परिकीर्तिता ॥ २४॥
गान्धारोङ्गीऽकृतो वादी धैवतोऽमात्यसन्निभः ॥
सान्दोलनं मतं गानं प्रदोषे सुखदं सताम् ॥ २५॥
प्राचुर्यान्मारवाङ्गस्य क्वचित्तच्छङ्कनं भवेत् ।
मारवायां तु पोनत्वमिति तस्याः स्फुटा भिदा ॥ २६॥
केचिदुपदिशन्त्यत्र कोमलत्वं तु धैवते ।
वादित्वमपि तत्रस्थं न तद्भाति सुसङ्गतम् ॥ २७॥
मृदुत्वं धैवते निष्ठं प्रदोषे नैव बाधितम् ।
वादित्वं तत्स्वरे प्राप्तं रागहानिकरं स्फुटम् ॥ २८॥
गपयोः सङ्गतिः केचिन्निर्दिशन्ति विचक्षणाः ।
न तद्दोषास्पदं भूयाद्दौर्बल्यान्मध्यमस्य च ॥ २९॥
पूर्णा सांशा रिग्रहाऽपि पूर्वीमेले प्रकीर्तिता ।
सोमनाथेन सा ग्रन्थे रागबोधे परिस्फुटा ॥ ३०॥
ग्रन्थेषु बहवो भेदा वराट्याः परिकीर्तिताः ।
हिन्दुस्थानीयपद्धत्यां न ते सर्वे जनप्रियाः ॥ ३१॥
वराटयुपभेदाः
आद्या शुद्धवराटी स्याद्द्वितीया कौतली मता ।
तृतीया द्राविडी प्रोक्ता चतुर्थी सैन्धवी मता ॥ ३२॥
अपस्वरा पञ्चमी स्यात् षष्ठी हतस्वरा पुनः ।
प्रतापाद्या सप्तमी स्यादष्टमी तोडिकादिका ॥ ३३॥
नागवराटी नवमी पुन्नागा दशमी स्मृता ।
एकादशी तु शोकाद्या कल्याणा द्वादशी मता ॥ ३४॥
जाने भेदा उपर्युक्ताः प्रचरन्ति न लक्ष्यके ।
अहोबलेन निर्दिष्टास्ते सर्वे पारिजातके ॥। ३५॥
रत्नाकरोक्तरूपाणि वादमूलानि यन्मथा ।
निरूपणं कृतं तेषामन्यत्रैव यथामति ॥ ३६॥
ललिता
मारवामेलने गीता रागिणी ललिताऽधुना ।
आरोहे चावरोहेऽपि पञ्चमेन विवर्जिता ॥ ३७॥
विश्लिष्टत्वं मध्यमस्य कस्य नो द्रावयेन्मनः ।
सङ्गतिर्मधयोर्नित्यमपूर्वां रक्तिमावहेत् ॥ ३८॥
शुद्धमध्यमवादित्वं सर्वत्र बहुसम्मतम् ।
अमात्यत्वं भवेत् षड्जे शास्त्रोक्तनियमागतम् ॥ ३९॥
उत्तराङ्गप्रधानत्वे तारषड्जविचित्रता ।
अत्रापि स्यात् सुप्रसक्ता रजन्यां प्रहरेऽन्तिमे ॥ ४०॥
मध्यरात्रिपरं ख्यातं ललिताङ्गं स्वतन्त्रकम् ।
पञ्चमाद्यास्तु रागास्ते तदङ्गा गुणिसम्मताः ॥ ४१॥
रागलक्ष्माभिधे ग्रन्थे रागोऽयं पञ्चमोज्झितः ।
भैरवे मेलने प्रोक्तः षड्जन्यासग्रहांशकः ॥ ४२॥
कोमलरिधसंयुक्तो तीव्रगन्यन्वितः पुनः ।
रामामात्येन सम्प्रोक्तः स्वरमेलकलानिधौ ॥ ४३॥
तथैवाह रागमेनं चतुर्दण्डिप्रकाशिका ।
शुद्धरामक्रियामेले सोमनाथो वदत्यमुम् ॥ ४४॥
जेतः (जयन्तः)
मारवामेलने तत्र रागः स्याज्जेतनामकः ।
आरोहे चावरोहेऽपि मनिवर्जो गुणिप्रियः ॥ ४५॥
स्याद्वादी पञ्चमो ह्यत्र संवादी षड्ज ईरितः ।
गानमस्य समीचीनं भवेत्सायं निरन्तरम् ॥ ४६॥
रेवायां मनिवर्जत्वं नूनं मया पुरोदितम् ।
तथैवापि विभासे तदिति स्याच्छङ्कनं क्वचित् ॥ ४७॥
वादिभेदे रागभेदः प्रस्फुटः सर्वसम्मतः ।
गीतवैचित्र्यमेवैतदिति शङ्का निरर्थिका ॥ ४८॥
तथाप्यत्र समादिष्टं तीव्रमस्य प्रयोजनम् ।
अवरोहे भवेद्येन सौकर्यं रागभेदने ॥ ४९॥
मते केषाञ्चिदप्युक्तो जेतः कल्याणमेलजः ।
कोमलत्वं रिस्वरस्य भाति मे युक्तिसङ्गतम् ॥ ५०॥
सन्त्यन्ये ते मते येषां जेतो धैवतवर्जितः ।
पूर्वीमेलेऽपि तद्गानं नियुक्तं तैः सुरक्तिदम् ॥ ५१॥
रिवर्जने भवेत्पूर्व्यां टङ्किकायाः समुद्भवः ।
त इत्याहुरनायासं विचार्यं तन्मनीषिभिः ॥ ५२॥
रागभेदव्यञ्जकत्वं यन्मते स्यात्परिस्फुटम् ।
न तस्य ग्रहणे दोषः शास्त्राभावे सतां मते ॥ ५३॥
भट्टिहारः
गमनश्रममेलोत्थो भट्टिहारः प्रकीर्तितः ।
सम्पूर्णो मध्यमांशोऽसौ चरमाङ्गविभूषितः ॥ ५४॥
मध्यमोऽत्र भवेन्मुक्तस्तत्रैव न्यसनं प्रियम् ।
विधानं लक्ष्यविज्ञानां भाति मे तत्सुसङ्गतम् ॥ ५५॥
अनुलोमे तीव्रमस्य प्रयोगो रात्रिसूचकः ।
पातो मे धैवतान्नूनं सर्वेषां ह्लादयेन्मनः ॥ ५६॥
ललितश्च कलिङ्गश्च परजोऽपि तृतीयकः ।
अवयवा भवन्त्यस्य नैतन्मतं निराश्रयम् ॥ ५७॥
उत्तराङ्गप्रसक्तं स्यात् क्वचिन्माडाख्यरूपकम् ।
रिस्तु तत्र भवेत्तीव्रो ह्यत्राऽसौ कोमलः सदा ॥ ५८॥
केचिदाहुरिमं रागं भर्तृहरिविनिर्मितम् ।
अस्तु तत्सम्मतं लोके रूपमेतद्गुणिप्रियम् ॥ ५९॥
गपयोर्मधयोश्चात्र सङ्गतिर्बहुसम्मता ।
अनुलोमे निदौर्बल्यं विलोमे वक्रता शुभा ॥ ६०
भङ्खारः
मारवामेलके प्रोक्तो रागो भङ्खारनामकः ।
आधुनिकं वदन्तीमं केचिल्लक्ष्यविचक्षणाः ॥ ६१॥
सम्पूर्णः पञ्चमांशः स्यादुत्तराङ्गप्रधानकः ।
यामे तृतीयके रात्र्यां गानमस्य सुखप्रदम् ॥ ६२॥
समावेशान्निमयोश्च विभासो मालवोत्थितः ।
भिन्नत्वमाप्नुयात्स्पष्टमिति तत्र न शङ्कनम् ॥ ६३॥
ईषत्स्पर्शो भवेदिष्टः शुद्धमस्याभिव्यक्तये ।
रागस्यास्य समुद्धारे प्रवदन्ति मनीषिणः ॥ ६४॥
तिरोभावे मुक्तमस्य कथं पुनः समुद्भवेत् ।
तत्स्वरांशयुतो रागो भट्टिहारः सुलक्षणः ॥ ६५॥
पञ्चमः
मारवामेलके जातः पञ्चमो लोकविश्रुतः ।
सम्पूर्णो मध्यमांशोऽपि नक्तं यामे ततोऽन्तिमे ॥ ६६॥
उत्तराङ्गप्रधानोऽयं द्विमध्यमविभूषितः ।
परजानन्तरं गीतो ह्यवश्यं रञ्जयेन्मनः ॥ ६७॥
मुक्तत्वान्मध्यमस्यात्र ललिताङ्गं परिस्फुटम् ।
प्रकृतिर्भट्टिहारस्य धारयेन्नैव संशयः ॥ ६८॥
केचिदस्मिन्वर्जयन्ति रिषभं वाऽथ पञ्चमम् ।
भवेल्लक्ष्यविरुद्धं तन्न वयं लक्ष्यरोधिनः ॥ ६९॥
रिषभस्य वर्जने स्याद्भट्टिहारप्रभेदनम् ।
अनायासं परन्त्वत्र बुधः कुर्याद्यथोचितम् ॥ ७०॥
ललिताङ्गप्रधानोऽन्यो रागो ललितपञ्चमः ।
धकोमलो मया प्रोक्तो भैरवे मेलने पुरा ॥ ७१॥
सोहन्यङ्गान्वितं केचित् पञ्चमं पण्डिता विदुः ।
परिक्तं शुद्धमत्यक्तं न तन्मे रोचते मतम् ॥ ७२॥
सोमनाथमते रागः पञ्चमो रिषभोज्झितः ।
भैरवे मेलके प्रोक्तः पञ्चमांशेन भूषितः ॥ ७३॥
रात्रिगेयो यतस्तस्मिन् कदाचित्पण्डितैः कृतम् ।
तीव्रमेण तथा तीव्रधेनापि परिवर्तनम् ॥ ७४॥
पूर्णपञ्चमकोऽप्यन्यो भैरवे मेलने मतः ।
निषादो वर्जितस्तत्र भवेत्तस्य भिदा स्फुटा ॥ ७५॥
सोहनी
मारवामेलसञ्जाता सोहनी लक्ष्यसम्मता ।
आरोहे चावरोहेऽपि परिक्ता कीर्त्यते सदा ॥ ७६॥
उत्तराङ्गप्रधानत्वे वादित्वं धैवते भवेत् ।
अमात्यसन्निभो गः स्याद्गायनं शेषयामके ॥ ७७॥
प्रयोगो दृश्यते शुद्धमध्यमस्य क्वचित् कृतः ।
सङ्गतिर्धगयोर्नित्यं रूपं प्रस्फुटमादिशेत् ॥ ७८॥
अन्त्ययामप्रगेयत्वात्तारषड्जे विचित्रता ।
सम्भवेत्तत्र सङ्गीतकेन्द्रस्थानं क्रमागतम् ॥ ७९॥
मन्द्रमध्यस्वरैः पूर्या सोहन्यप्युत्तरैः स्वरैः ।
इति सङ्गीतवैचित्र्यमद्भुतं हृदयङ्गमम् ॥ ८०॥
सुप्रसिद्धेषु ग्रन्थेषु रागिणीयं न लक्षिता ।
आधुनिका मता तस्माल्लक्ष्यमार्गविचक्षणैः ॥ ८१॥
वदन्ति धैवतं केचित्कोमलमत्र रूपके
न मे भाति सुयुक्तं तद्बुधः कुर्यात्स्वनिर्णयम् ॥ ८२॥
विभासः
मारवामेलकोत्पन्नो विभासः श्रूयते क्वचित् ।
सम्पूर्णो गीयते प्रातरन्तिमाङ्गप्रधानकः ॥ ८३॥
धैवतस्यात्र वादित्वं संवादित्वं तु गस्य तत् ।
गपयोर्मधयोश्चापि सङ्गती रक्तिकारणम् ॥ ८४॥
न्यसनं पञ्चमे नित्यं गाम्भीर्यं दर्शयेन्महत् ।
विलम्बितलये गीते रागेऽस्मिन् विधिसंयुते ॥ ८५॥
ग्रन्थेषु वर्णितं नूनं रोहणे मनिवर्जनम् ।
गपयोः सङ्गतिः श्रेष्ठा सुग्राह्यं भाति तन्मतम् ॥ ८६॥
पूर्वाङ्गे लक्षिता गौरी ह्युत्तराङ्गे ततः पुनः ।
देशिकारी भवेदेतल्लक्ष्ये कैश्चित्समर्थ्यते ॥ ८७॥
मालीगौरा
मारवामेलजन्योक्ता मालीगौरा मनीषिभिः ।
सम्पूर्णा रिग्रहांशाऽसौ सन्ध्याकालोचिता सदा ॥ ८८॥
पूरियाश्रीमिश्रणेन रूपमेतत्समुद्भवेत् ।
मन्द्रमध्यस्वरैरेषा प्रायो लक्ष्ये समीरिता ॥ ८९॥
अथ वक्ष्ये लक्ष्यगतमतभेदान्यथायथम् ।
जिज्ञासूनां यतोऽपि स्याद्रागनिर्णयसाधनम् ॥ ९०॥
केचिदत्र वर्णयन्ति विवादित्वं तु धैवते ।
येन स्याद्विशदो भेद एतस्या लक्ष्यवर्त्मनि ॥ ९१॥
अन्ये पुनः सङ्गिरन्ति द्विधैवतप्रयोजनम् ।
गौर्यङ्गेनयुतं गानमाहुस्ते ऱ्यंशकं शुभम् ॥ ९२॥
पूरियायां प्रविष्टश्चेत्पञ्चमो ह्यपरे जगुः ।
अवश्यं तत्र जायेत गौरारूपं न संशयः ॥ ९३॥
साजगिरी
मारवामेलने ख्याता साजगिरी जनप्रिया ।
आधुनिका मता तज्ज्ञैः सम्पूर्णा गांशमण्डिता ॥ १४॥
धैवतद्वन्द्वमत्राहुः सङ्गतिर्निमयोः शुभा ।
गानं गुणिमादिष्टं सायङ्कालेऽतिशोभनम् ॥ ९५॥
ईषत्स्पर्शः शुद्धमस्य नैव स्याद्रक्तिघातकः ।
पूर्यायाः पूर्विकायाश्च तेन स्यात्प्रस्फुटा भिदा ॥ ९६॥
पूरियाङ्गभूषितेयं रागिणी यत्सुसम्मता ।
मन्द्रमध्यस्वरैर्गानमवश्यं सुखमावहेत् ॥ ९७॥
पूर्वीपूर्यामिश्रणेन साजगिर्या जनिः स्मृता ।
रूपमेतन्मतं प्रायो विरलं लक्ष्यवर्त्मनि ॥ ९८॥
केषाञ्चित्तु मते तत्र तीव्रधो नैव सम्मतः ।
रिवर्जनमपि प्राहुस्ते तन्नास्तीह लक्ष्यके ॥ ९९॥
टिप्पनी
एवं च मारवामेले रागा द्वादश लक्षिताः ।
सायङ्गेया भवेयुः षट् प्रातर्गेयाः षडीरिताः ॥ १००॥
पूरिया मारवा जेता गौरा साजगिरी तथा ।
वराटीसहिता रागाः सायङ्गेया बुधैर्मताः ॥ १०१॥
ललितश्च पञ्चमश्च भट्टियारो विभांशुकः ।
भङ्खारः सोहनी चेति रागाः प्रातर्मता बुधैः ॥ २॥
गौर्यङ्गा पूरियाङ्गाश्च सायङ्गेया व्यवस्थिताः ।
ललिताङ्गास्तथा चोक्काः सोहन्यङ्गाः प्रभातगाः ॥ ३॥
सायङ्गेयेषु पूर्वाङ्गं प्रबलं गुणिसम्मतम् ।
प्रातर्गेयेषु प्राबल्यं ह्युत्तराङ्गस्य निश्चितम् ॥ ४॥
स्थूलदृष्ट्या मता एते नियमा मार्गदर्शकाः ।
विशेषास्तु तत्र तत्र द्रष्टव्या मर्मवेदिभिः ॥ ५॥
मतान्तरे सायङ्गेयरागनिर्णयसुलभोपायः
सम्पूर्णा पूर्विका ख्याता रिवर्जा तत्र टङ्किका ।
श्रीरागे लङ्घनं गस्य त्रिवणा मस्वरोज्झिता ॥ ६॥
अपञ्चमा भवेद्गौरी धैवतत्यक्तजेतकः ।
मालवी लक्षिता तज्ज्ञैर्निहीना प्रहरेऽन्तिमे ॥ ७॥
नियमा मुख्यतस्त्वेते सङ्गता रोहणे सदा ।
भवेयुर्नव्यशिक्षार्थिवर्गस्याप्युपकारिणः ॥ ८॥
काफीमेले
काफी
हरप्रियाख्यमेलोऽसौ लक्ष्ये काफीति संज्ञितः ।
काफीरागस्तदुत्थः स्यादिति लक्ष्यविदां मतम् ॥ १॥
पञ्चमोऽत्र मतो वादी संवादी षड्जनामकः ।
केचिद्गान्धारमाहुस्ते वादिनं गानकोविदाः ॥ २॥
मध्यरात्र्युचितो मेलो यथाऽयं गनिकोमलः ।
मध्याह्नार्हस्तथैवेति को न जानाति मर्मविद् ॥ ३॥
दरबारादिकान्नक्तं गीत्वा धैवतकोमलान् ।
तीव्रधैवतसंयुक्तान् गायन्ति गायकाः क्रमात् ॥ ४॥
आसावर्यादिकान् गीत्वा दिवसे तान् धकोमलान् ।
लोके सारङ्गधनाश्रीप्रमुखान् क्रमशो जगुः ॥ ५॥
अपवादा भवेयुस्ते सन्ति वा लक्ष्यवर्त्मनि ।
साधारणो मया प्रोक्तो नियमस्तत्ववेदिनाम् ॥ ६॥
काफीमेले यतो दृष्टमारोहे चावरोहणे ।
सरलत्वं ततोऽसौ स्यात्तन्मेलोत्थसमाश्रयः ॥ ७॥
काफीत्याधुनिकं नाम यावनिकं परिस्फुटम् ।
अङ्गीकृतं यतः शास्त्रे नैवास्माभिरूपेक्षितम् ॥ ८॥
केचिदाहुरिमं मेलं श्रीरागाख्यं मनीषिणः ।
ग्रन्थेषु लभ्यते यस्माद्रागोऽसौ तत्र लक्षितः ॥ ९॥
दाक्षिणात्यमतेऽद्यापि काफीमेलसमुद्भवः ।
श्रीरागो गीयते लोके स्मरणीयं सदैव तत् ॥ १०॥
हिन्दुस्थानीयपद्धत्यां स रागः पूर्विकागतः ।
इति मया समाख्यातं पूर्वमेव सविस्तरम् ॥ ११॥
न्यासः पञ्चमके काफ्यां केवलं रागवाचकः ।
श्रोतारोऽपि सुखं तत्र कुर्वन्ति रागनिर्णयम् ॥ १२॥
आरोहणे भवेत् क्षम्यः प्रयोगस्तीव्रनेर्मनाक् ।
काफीमेलोत्थरागेषु गानसौकर्यहेतवे ॥ १३॥
क्षुद्रगीतार्हता काफ्याः सर्वत्र सम्मता भवेत् ।
शृङ्गाररसभूयिष्ठां केचित्तां पण्डिता विदुः ॥ १४॥
धानी
हरप्रियाह्वमेलाच्च रागिणी बहुसम्मता ।
धानीसंज्ञा सुबोधाऽसौ सुरसा सार्वकालिका ॥ १५॥
आरोहे चावरोहेऽपि रिधयोरेव वर्जनम् ।
गान्धारो नियतो वादी निषादोऽमात्यसन्निभः ॥ १६॥
औडवधन्नासिकेयं वर्णिता पारिजातके ।
शुद्धधन्नासिकेत्याहुः केचिदन्ये विपश्चितः ॥ १७॥
धनाश्रीभेदसिद्ध्यर्थं कदाचिल्लक्ष्यकोविदैः ।
अङ्गीकारः कृतो धानीनाम्नो नैतद्विसङ्गतम् ॥ १८॥
वादमूले तथाप्यत्र विषये तत्त्वदर्शिभिः ।
लक्ष्यगतमनुल्लङ्घ्य कार्यं नित्यं प्रवर्तनम् ॥ १९॥
समपानां दुर्बलत्वे ह्यभावे रिधयोरपि ।
कुतो गाम्भीर्यसम्प्राप्तिर्भवेन्नैव सतां मते ॥ २०॥
सैन्धवी
काफीमेलसमुत्पन्ना सैन्धवी कीर्त्यते जने ।
आरोहणे गनित्यक्ता सम्पूर्णाप्यवरोहणे ॥ २१॥
सपयोरेव संवादः कैश्चित्तुरिधयोर्मतः ।
गानं गुणिसमादिष्टं कथ्यते सार्वकालिकम् ॥ २२॥
मतैक्यं नैव लक्ष्ये यन्निषादपरिवर्जने ।
प्रयोगस्तत्स्वरस्येह क्षम्यते रोहणे मनाक् ॥ २३॥
अगनिः सैन्धवी प्रोक्ता सोमनाथेन सूरिणा ।
विलोमे पूर्णता तस्या अहोबलसुसम्मता ॥ २४॥
प्रत्यक्षे गायनाः प्रायः काफीमिश्रितरूपकम् ।
सदैवास्या दर्शयन्ति लोकरञ्जनवाञ्छिनः ॥ २५॥
सिन्धोडानामिकासैव सैन्धवीति प्रकीर्तितम् ।
सुव्यक्तं रागबोधे तद्विचार्यं तत्त्वशोधकैः ॥ २६॥
यद्यप्यासावरी प्रोक्ता गनिवर्जा पुरामया ।
भेदमर्हेदसौ यस्मात्तत्र धः कोमलो मतः ॥ २७॥
अत्रोक्तदशमेलेषु निगयोः परिवर्जनात् ।
आरोहे भिन्नरागाणामुत्पत्तिः सम्भवेत्स्फुटा ॥ २८॥
धनाश्रीः (द्वितीया)।
काफीमेलसमुद्भूता धनाश्रीः कथिता पुनः ।
आरोहे रिधहीनाऽसौ सम्पूर्णा प्रतिलोमके ॥ २९॥
पञ्चमः सम्मतो वादी मन्त्री षड्जः समीरितः ।
लक्ष्याध्वनि मतं गानं तृतीयप्रहरे दिने ॥ ३०॥
ग्रहः प्रायो निषादेन भवेन्न्यासस्तु पञ्चमे ।
पगयोः सङ्गतिर्मिष्टा विलोमे विबुधैर्मता ॥ ३१॥
मध्यमस्यैव वादित्वे लसद्भीमपलासिका ।
आरोहणे रिधत्यक्ता मध्यमांशसमन्विता ॥ ३२॥
तृतीययामगेयेषु प्रायो रागेषु दृश्यते ।
दौर्बल्यं स्वरयोर्धऱ्योरारोहे तद्विदो विदुः ॥ ३३॥
दुर्बलत्वात्तयोरेव समपाः प्रभवन्ति ते ।
पवादित्वे धनाश्रीः स्यान्मवादित्वे पलाशिका ॥ ३४॥
काफीमेले रिधत्यक्तमारोहेऽहोबलस्तथा ।
रागमेनं यथान्यायमादिदेश जनप्रियम् ॥ ३५॥
व्यक्ता सारामृते ग्रन्थे धनाश्र्याख्या सदौडवा ।
प्रातर्गेया रिधत्यक्ता काफीमेले प्रकीर्तिता ॥ ३६॥।
केचिन्मर्मविदः प्राहुः पूर्वीमेले रिधोज्झितम् ।
रागमेनं विलोमे तत् स्मरणार्हं मतं पुनः ॥ ३७॥
नित्यं पमुद्रिता प्रोक्ता रिधोना सांशिका तथा ।
धनाश्री धवलाद्यासौ सोमनाथेन सूरिणा ॥ ३८॥
भीमपलासी
काफीमेलसुसञ्जाता मता भीमपलासिका ।
आरोहे रिधहीनं स्यादवरोहे समग्रकम् ॥ ३९॥
मध्यमांशग्रहन्यासा मुक्तमध्यममण्डिता ।
अपराह्णे समीचीनं गानमस्याः सुनिश्चितम् ॥ ४०॥
मध्यमस्यैव वादित्वाद्धनाश्रीर्नैव सम्भवेत् ।
प्रतिलोमे यतः पूर्णा धानी शङ्का कुतो भवेत् ॥ ४१॥
एकैकश्रुत्यपकृष्टौ क्वचिद्रिधौ समीरितौ ।
अन्ये रिवर्जनं प्राहुः समूलं रागभेदकम् ॥ ४२॥
सम्मतं श्रुतिभिन्नत्वे रक्तिभिन्नत्वमञ्जसा ।
मते मे वादिभिन्नत्वं पर्याप्तं लक्ष्म भेदकम् ॥ ४३॥
ग्रन्थेषु रागभेदास्ते श्रुत्यायत्ता न लक्षिताः ।
न चावश्यं तद्विधानं रागभेदोपलब्धये ॥ ४४॥
दाक्षिणात्यमते प्रोक्ता धनाश्री रिधकोमला ।
मयोक्ताऽसौ विस्तरेण भैरवीमेलने पुरा ॥ ४५॥
धानी धनाश्रिका चैव मूलतानी पलासिका ।
प्रदीपकी मता एता रागिण्या रिधदुर्बलाः ॥ ४६॥
हंसकङ्कणी
कर्णाटस्यैव मेले सा रागिणी हंसकङ्कणी ।
लक्ष्याध्वनि बुधैर्गीता तृतीयप्रहरोचिता ॥ ४७॥
रिधहीना मता रोहे सम्पूर्णा च विलोमके ।
धनाश्र्यङ्गप्रगीताऽसौ सर्वरक्तिप्रदायिका ॥ ४८॥
गान्धारद्वययोगोऽत्र कौशल्येन सुसाधितः ।
रोहणे तीव्रगः स्पृष्टो विलोमे कोमलाह्वयः ॥ ४९॥
तृतीयप्रहरोक्तानां रागाणां प्रकृतिर्मता ।
सन्ततं रिधदौर्बल्यं महत्वं समपेषु तत् ॥ ५०॥
शङ्कराभरणाख्यस्य कर्णाटाभिधमेलके ।
मिश्रणादिदमुद्भूतं स्वरूपमिति कथ्यते ॥ ५१॥
पञ्चमस्यैव वादित्वं योग्यमन्त्रेति मे मतम् ।
धनाश्र्यङ्गप्रधानत्वं यावल्लोकप्रियं भवेत् ॥ ५२॥
अप्रसिद्धं रूपमेतद्विचित्रमविशङ्कितम् ।
गीयते लक्ष्यमार्गेऽपि केवलं गायकोत्तमैः ॥ ५३॥
पटमञ्जरी
हरप्रियाह्वये मेले मञ्जरी पटपूर्विका ।
रागिणी श्रूयते गीता विरला गुणिसम्मता ॥ ५४॥
आरोहे धगदौर्बल्यं भवेत्सारङ्गसन्निभम् ।
सारङ्गेः लङ्घनं प्रोक्तं समूलं स्वरयोस्तयोः ॥ ३५॥
वादित्वं षड्जके निष्ठं संवादित्वं तु पञ्चमे ।
सारङ्गानन्तरं गानं भवेदस्याः सुसम्मतम् ॥ ५६॥
दुर्लभं रूपमेतद्यदवश्यं सम्भवेत् ततः ।
लक्ष्याध्वनि मतानैक्यं बुधः कुर्याद्यथोचितम् ॥ ५७॥
मते केषाञ्चिदप्यत्र द्विगान्धारप्रयोजनम् ।
पञ्चमस्यैव वादित्वं न तन्मे भाति सङ्गतम् ॥ ५८॥
मेले शुद्धस्वराणां तां केचिदन्ये विदो विदुः ।
लक्ष्यदृष्ट्या न मे भाति तन्मतं चापि सङ्गतम् ॥ ५९॥
शुद्धस्वरगतं रूपं रात्रिगतं भवेत्प्रियम् ।
मया प्रपञ्चितं भूयात्तृतीयप्रहरे दिने ॥ ६०॥
प्रदीपकी
स्यात्काफीमेलसञ्जाता प्रदीपकी सुसम्मता ।
आरोहे रिधहीनं स्यादवरोहे समग्रकम् ॥ ६१॥
मञ्जरीं रागिणीं गीत्वा यदैषारभ्यते पुनः ।
किञ्चिदवर्णनीयं तद्वैचित्र्यं चानुभूयते ॥ ६२॥
मन्द्रमध्यस्वरैः सैव पलाशिकां प्रसूचयेत् ।
मांशिकाऽसौ सदैवेयं सांशिकेति भिदा स्फुटा ॥ ६३॥
यद्यप्यत्रावरोहे नो रिषभो वर्जितस्वरः ।
असत्प्रायस्तु लक्ष्येऽसौ धनाभ्यां तद्विरुध्यते ॥ ६४॥
ईषन्मृदू समादिष्टौ कैश्चिदत्र रिधौ स्वरौ ।
एतन्मर्मपरिज्ञानं केवलं विदुषां भवेत् ॥ ६५॥
क्वचिल्लक्ष्येऽनुलोमे स्यात्तीव्रगस्य युजेक्षिता ।
विश्लिष्टो मो भवेत्तत्र कङ्कणीभेददर्शकः ॥ ६६॥
बाहारः
हरप्रियाख्यमेलाच्च जातो रागः सुसम्मतः ।
आधुनिको बहाराख्यश्चञ्चलप्रकृतिः सदा ॥ ६७॥
समयोरेव संवादः स्वीकृतोऽत्र विचक्षणैः ।
वसन्तर्तौ मतं गानं सङ्गत्या मधयोर्भृशम् ॥ ६८॥
आरोहणे रिहीनत्वं प्रतिलोमे धलोपनम् ।
इति मर्मविदामेतन्मतं भाति सुसङ्गतम् ॥ ६९॥
आरोहे मधसङ्गत्या वागीश्वर्यङ्गमाश्रयेत् ।
अवरोहे धलुप्तत्वादडाणाङ्गं प्रदर्शयेत् ॥ ७०॥
अडाणाख्ये तु ये केचित्सन्ति धैवतवादिनः ।
कोमलत्वं तथाल्पत्वं तत्स्वरे सङ्गिरन्ति ते ॥ ७१॥
समागमो बहारस्य नानारूपेषु युज्यते ।
यथासंज्ञं बुधः कुर्यात्तत्र लक्ष्यस्य निर्णयम् ॥ ७२॥
नीलाम्बरी
काफीमेलोद्भवा ख्याता नीलाम्बरी गुणिप्रिया ।
सम्पूर्णा पञ्चमांशाऽसौ चपलप्रकृतिः पुनः ॥ ७३॥
सपयोः सङ्गतिः प्रोक्ता गान्धारे कम्पनं मतम् ।
धैवतोनाऽनुलोमे स्यादिति तज्ज्ञा वदन्ति ते ॥ ७४॥
तीव्रगस्य समादिष्टः प्रयोगो रोहणे क्वचित् ।
सपाटवं निविष्टोऽसौ न रक्तिघ्नोऽपि मे मते ॥ ७५॥
मध्यमादिस्तथा भीमपलासी ह्यत्र मिश्रिते ।
इति यन्मन्यते लोके तन्न भाति विसङ्गतम् ॥ ७६॥
ग्रन्थेषु केषुचित्प्रोक्ता काम्बोजीमेलनोद्भवा ।
लभ्यते न यतो लक्ष्ये तद्रूपं भाति बाधितम् ॥ ७७॥
पीलुः
काफीमेले सम्प्रयुक्तः पीलुरागस्ततः पुनः ।
आधुनिको भवेलक्ष्ये यावनिकोऽपि निश्चितम् ॥ ७८॥
सम्पूर्णो गांशकः प्रोक्तो मिश्रमेलसमुत्थितः ।
गानं तस्य समीचीनं सुप्रियं सार्वकालिकम् ॥ ७९॥
तीव्राश्च कोमलाः सर्वे स्वरा रूपेऽत्र योजिताः ।
सङ्कीर्णं रूपमित्येवं सर्वेषां सुखदायकम् ॥ ८०॥
गौरी भीमपलासी च भैरव्यपि तृतीयका ।
गायनेऽस्य मिलन्त्येते यथायोगं सतां मते ॥ १॥
आरोहे तीव्रसंज्ञानां स्वराणां स्यात्प्रयोजनम् ।
विलोमे कोमलानां तन्नियम इति भाति मे ॥ ८२॥
क्षुद्रगीतार्हताप्यस्य लक्ष्याध्वनि बुधैर्मता ।
झटित्येव समाकर्षेत् श्रोतृगणस्य मानसम् ॥ ८३॥
भावभट्टविरचिते सङ्गीतानूपाङ्कुशे ग्रन्थे
कर्णाटभेदाः
शुद्धकर्णाटरागश्च कर्णाटो नायकी ततः ।
वागीश्वर्यादिकर्णाटः कर्णाटोऽड्डाणपूर्वकः ॥ ८४॥
ततः साहानाकर्णाटः पूर्यादिकस्तथैव च ।
ततो मुद्रिककर्णाटो गाराकर्णाटकस्ततः ॥ ८५॥
हुसेनीपूर्वकर्णाटः काफीकर्णाटकः पुनः ।
सोरटीपूर्वकश्चैव खम्बावत्यादिकस्ततः ॥
ततः कर्णाटगौडः स्यात् कर्णाटीति चतुर्दश ॥ ८६॥
वागीश्वरी
हरप्रियाख्यमेलाञ्च वागीश्वरी मता बुधैः ।
आरोहणे पहीनं स्यात् प्रतिलोमे समग्रकम् ॥ ८७॥
मध्यमो निश्चितो वादी संवादी षड्ज ईरितः ।
अल्पत्वं पञ्चमे प्रोक्तं विलोमे तद्विदां मते ॥ ८८॥
लङ्घनं पञ्चमस्यैव कैश्चिल्लक्ष्ये समर्थितम् ।
संयोगतो यतस्तस्य धनाश्र्यङ्गस्य सम्भवः ॥ ८९॥
त्यक्ते तु पञ्चमे सद्यो ग्रन्थोक्ता रागिणी भवेत् ।
पवर्जिता मध्यमांशा श्रीरञ्जनीतिनामिका ॥ ९०॥
दाक्षिणात्यमते त्वेषा रीतिगौडाह्वया स्वयम् ।
वागीश्वरी मते तेषां मुखारीमेलसम्भवा ॥ ९१॥
ग्रन्थेषु केषुचिद् दृष्टा वागीश्वरी द्विगा पुनः ।
अनुलोमे गतीव्रैव प्रतिलोमे गकोमला ॥ ९२॥
अद्यापि निपुणा लक्ष्ये तीव्रगस्य लवं क्वचित् ।
प्रच्छन्नं दर्शयन्तस्ते लक्षिता नैव संशयः ॥ ९३॥
धनाश्रीकानडायोगाद्वागीश्वरी सुकीर्तिता ।
रागतरङ्गिणीग्रन्थे लक्ष्ये तद्भाति सङ्गतम् ॥ ९४॥
टिप्पनी
बहुषु कानडाख्येषु भेदेषु तेषु निश्चितम् ।
मतानैक्यं सदा दृष्टं वितण्डामूलकं भृशम् ॥ ९५॥
प्रायो धगौ स्वरावेव सर्वत्र वादकारणम् ।
केवलं लक्ष्यमादृत्य भवेत्तत्र प्रवर्तनम् ॥ ९६॥
निरक्षरा गायकास्ते रागव्याख्यानिरूपणे ।
अवश्यमेव नो शक्ताः सर्वसम्भ्रमकारकाः ॥ ९७॥
त्रिष्वङ्गेषु विभक्तास्ते रागाः काफीसमुद्भवाः ।
स्थूलदृष्ट्या विभागास्ते भवेयुर्युक्तिसङ्गताः ॥ ९८॥
काफ्यङ्गं प्रथमं तत्र कानडाङ्गं द्वितीयकम् ।
सारङ्गाङ्गं तृतीयं स्यादिति मतिमतां मतम् ॥ ९९॥
काफी धानी सैन्धवी च धनाश्रीश्च पलासिका ।
पिल्वाख्याद्या मतास्तज्ज्ञै रागाः काफ्यङ्गमण्डिताः ॥ १००॥
अडाणः साहना सूहा सुघ्रायी स्याद्धुसेनिका ।
सारङ्गस्योपभेदाश्च सारङ्गाङ्गविभूषिताः ॥ १०१॥
कानडाङ्गा मताः केचिन्मल्लारस्योपभेदकाः ।
सारङ्गाङ्गाः केचिदन्ये ये तदङ्गेन शोभिताः ॥ १०२॥
अड्डाणः
काफीमेलसमुद्भूतो रागोऽड्डाणो मतः पुनः ।
तारषड्जांशकन्यासो मध्यरात्र्युचितस्तथा ॥ १०३॥
कर्णाटस्य विशेषोऽयं प्रायो लक्ष्ये समीरितः ।
तारस्थानविचित्रः सन्नूनं रक्तिप्रदो नृणाम् ॥ १०४॥
दौर्बल्ये धगयोरत्र सारङ्गे भ्रान्तिरुद्भवेत् ।
गान्धारस्य समावेशे तदङ्गं दूरतां व्रजेत् ॥ १०५॥
व्यस्तत्वं मध्यमे निष्ठं भवेत्सूहाप्रदर्शकम् ।
तत्र कर्णाटपूर्वाङ्गं सुव्यक्तं नात्र तत्पुनः ॥ १०६॥
गाधारस्य समायोगे सूरदास्यप्यसम्भवा ।
न सारङ्गो न कोऽप्यन्य एतल्लक्षणलक्षितः ॥ १०७॥
मेघश्च मध्यमादिश्च रूपकेऽस्मिन्नियोजितौ ।
इति केचित्तर्कयन्ति लक्ष्यलक्षणकोविदाः ॥ १०८॥
हुसेनीसन्निभं रूपमेतद्भाति यतो जने ।
अडाणे स्यान्मतं कैश्चित्कोमलत्वं नु धैवते ॥ १०९॥
साहाना
हरप्रियाह्वमेलाच्च साहानोत्पत्तिरीरिता ।
आधुनिकं रूपमेतत्पांशकं गुणिसम्मतम् ॥ ११०॥
रात्रिगेया रागिणीयं मन्यते लक्ष्यवर्त्मनि ।
अडाणाख्यस्य सामीप्यमप्यस्या बहुसम्मतम् ॥ १११॥
धैवतस्य प्रयोगोऽत्र विलोमे क्षम्यते मनाक् ।
तेन व्यक्ता भवेत्तस्या अडाणाख्यात्पुनर्भिदा ॥ ११२॥
उपस्थित्या गस्वरस्य कथं सारङ्गसम्भवः ।
आरोहणे त्यक्तधेन काफ्यादिका निवारिताः ॥ ११३॥
प्रतिरूपं दिवा तस्याः सुघ्राईनामिका भवेत् ।
गीतवैचित्र्यमेवैतद्विदग्धप्रतिपादितम् ॥ ११४॥
कानडायाः प्रभेदोऽयमङ्गीकृतो यतो बुधैः ।
प्रयोगो गधयोश्चापि नैवोद्वेगकरो भवेत् ॥ ११५॥
दरबारमेघयोश्च सम्मिश्रणादियं भवेत् ।
उद्भूता रागिणीत्याहुः केचिद्गानविशारदाः ॥ ११६॥
हुसेनी
काफीमेले मता तज्ज्ञैर्हुसेनी रागिणी स्वयं
साक्षाद्यावनिकं रूपं प्रसिद्धं लक्ष्यवर्त्मनि ॥ ११७॥
उत्थानं स्यान्मध्यमेन यथाड्डाणे पुरोदितम् ।
प्राचुर्यात्कानडाङ्गस्य ह्यडाणाद्भेदमर्हयेत् ॥ ११८॥
अडाणो मेघरागश्च हुसेनी साहना सुहा ।
सुघ्रायीसूरमल्लारौ सारङ्गाङ्गा इमे मताः ॥ ११९॥
तारषड्जस्य वैचित्र्यं बहुष्वेतेषु लक्षितम् ।
प्रामाण्यं गधयोर्युक्तं केवलं भेददर्शकम् ॥ १२०॥
ग्रन्थे सारामृते पूर्णा हुसेनी सायमीरिता ।
काफीमेले प्रगेया तद्विचार्यं सुविचक्षणैः ॥ १२१॥
तुरुष्काद्या मता तोडी हुसेनी सोमसूरिणा ।
भैरवी मेलजा पूर्णा सङ्गवे गांशमण्डिता ॥ १२२॥
काफीमेलोत्थिता ज्ञेया हुसेनीकानडा स्वयम् ।
हुसेनीतोडिकाप्येकस्तोडीभेद इति स्फुटम् ॥ १२३॥
हुसेनीकानडा ख्याता रात्रिगेया सदा बुधैः ।
हुसेनीतोडिकाप्युक्ता प्रातर्गेया सुनिश्चितम् ॥ १२४॥
रागलक्ष्माभिधे ग्रन्थे हुसेनी कीर्तिता पुनः ।
आरोहणे सुसम्पूर्णाप्यवरोहे निवर्जिता ॥ १२५॥
नायकीकानडः
काफीमेलसमुत्पन्नो नायकीकानडो मतः ।
षाडवो धैवतत्यक्तो लक्ष्याध्वनि समीक्षितः ॥ १२६॥
पूर्वाङ्गे स्यात्सुहायोगः सारङ्गस्योत्तराङ्गके ।
मध्यमो निश्चितो वादी षड्जोऽमात्यनिभः स्वयम् ॥ १२७॥
देवशाखस्तथा सूहा कौशिको नायकी ततः ।
सारङ्गाङ्गा यतो ग्राह्या अवश्यं गाल्पका उत ॥ १२८॥
धकोमलं सुसम्पूर्णं वक्ररूपं तथैव च ।
अप्येनं निर्दिशन्त्येके न तल्लक्ष्येऽत्र युज्यते ॥ १२९॥
वागीश्वरी तथा कौंसी मिलितेऽस्मिन्यथोचितम् ।
इति केचिन्निर्णयन्ति गीतशास्त्रविशारदाः ॥ १३०॥
कौशिककानडः
हरप्रियाख्यमेले स्यात् कर्णाटः कौशिकाभिधः ।
सम्पूर्णो मध्यमांशश्च मुक्तमध्यममण्डितः ॥ १३१॥
रागस्यास्यापरं रूपं पूर्वमेव मयोदितम् ।
इति तत्कथनं चात्र केवलं स्यान्निरर्थकम् ॥ १३२॥
सङ्गतिर्मधयोः प्रायो विचित्रा रागदर्शिनी ।
तत्रैव स्वान्निश्चयेन मल्लार्यङ्गनिवारणम् ॥ १३३॥
कानडाया विशेषोऽयं यतः सर्वसुसम्मतः ।
तदङ्गतो भवेद्गानं नूनं नैव विसङ्गतम् ॥ १३४॥
सुहा
मेलात्कर्णाटिकाख्याच्च सुहोत्पत्तिः प्रकीर्तिता ।
आरोहे चावरोहेऽपि धैवतो वर्जितस्वरः ॥ १३५॥
मध्यमः सम्मतो वादी संवादी षड्जनामकः ।
गानं समीरितं लोके द्वितीयप्रहरे दिने ॥ १३६॥
यद्यप्युत्तरभागे स्याद्रूपं सारङ्गसन्निभम् ।
पूर्वाङ्गे व्यक्तगान्धारः कुर्यात्तस्य निवारणम् ॥ १३७॥
विश्लिष्टत्वं मध्यमस्य नूनं स्याद्रक्तिदायकम् ।
निपयोः सङ्गतिर्न्यासः समीचीनो हि मस्वरे ॥ १३८॥
दरबारमेघयोश्च मिश्रणादियमुद्भवेत् ।
वदन्ति पण्डिताः केचिल्लक्ष्यलक्षणकोविदाः ॥ १३९॥
यथाड्डाणो मतो रात्र्यां तथैवैषा मता दिवा ।
अत्र सारङ्गपूर्वाङ्गं तत्र चान्त्यं सुलक्षितम् ॥ १४०॥
सारङ्गस्य प्रकारेषु भवेद्गस्य विवर्जनम् ।
न तत्कर्णाटभेदेषु ततस्तद्भित्परिस्फुटा ॥ १४१॥
सुघरायी (सुघराई)
हरप्रियाख्यमेले च सुघरायीसमाह्वया ।
आरोहे धैवतोनाऽसौ द्वितीयप्रहरे दिने ॥ १४२॥
स्यातां संवादिनावत्र स्वरौ सपौ सतां मते ।
कर्णाटस्यैव भेदोऽयं सारङ्गाङ्गविभूषितः ॥ १४३॥
साहाना रात्रिगेयोक्ता गेयैषा नित्यशो दिवा ।
यथाऽड्डाणो मतो रात्र्यां दिनगेया पुनः सुहा ॥ १४४॥
वागीश्वरीमध्यमादिमेलनेऽस्या भवेज्जनुः ।
इति केचिद्वदन्तीह लक्ष्यलक्षणकोविदाः ॥ १४५॥
अड्डाणः कानडश्चापि वृन्दावनस्तथैव च ।
मिलन्त्यत्र यथान्यायमपरेषां मतं त्विदम् ॥ १४६॥
प्राचीनं रूपमप्येतदवश्यं रक्तिदायकम् ।
तरङ्गिण्यादिषु व्यक्तं दृश्यते लक्षणान्वितम् ॥ १४७॥
सुहायां धैवताभावो वृन्दावने न गस्वरः ।
तारषड्जविचित्रः सन्नडाणोऽपि धकोमलः ॥ १४८॥
देशाख्यः (देवशाखः)
हरप्रियाख्यमेलाच्च जातस्तत्र सुनामकः ।
देशाख्य इति विख्यातो रागः सर्वजनप्रियः ॥ १४९॥
समयोरेव संवादो दौर्बल्यं धगयोस्तथा ।
कानडामेघसंयुक्तं स्वरूपं बुधसम्मतम् ॥ १५०॥
धैवतस्य परित्यागं केचिदाहुः समूलकम् ।
प्रच्छादनं तत्स्वरस्य विशिष्टरक्तिदायकम् ॥ १५१॥
आन्दोलनं गस्वरे स्यान्न्यासो मे रुचिरः पुनः ।
कारयेत्सर्वश्रोतॄणां सुहायाः शङ्कनं स्वयम् ॥ १५२॥
देवशाख इति ख्यातो गीयते लक्ष्यवर्त्मनि ।
प्रातःकाले सदा प्रज्ञैः सारङ्गाङ्गेन मण्डितः ॥ १५३॥
ग्रन्थे सारामृते तत्र द्विगान्धारप्रयोजनम् ।
तथा रिवर्जनं शिष्टं न तल्लक्ष्येत्र सम्मतम् ॥ १५४॥
टिप्पनी
सर्वेष्वेतेषु रूपेषु मपयोः परिवर्जनम् ।
न चानुमोदितं नैव स्मरणार्हमिदं सदा ॥ १५५॥
निपयोः सङ्गतिः प्रायः सर्वगतोत्तराङ्गके ।
तथैव मगयोः प्रोक्ता यत्र शक्या तु पूर्वके ॥ १५६॥
गौणत्वं धैवते दृष्टं रात्रिगेयेषु मुख्यशः ।
गान्धारान्दोलनं नित्यं विलोमे मरिसङ्गतिः ॥ १५७॥
अडाणः साहना नक्तं हुसेनी नायकी यदि ।
सुहा सुघ्रायिका कौंसी देवशाखस्तथा दिवा ॥ १५८॥
यथोचितप्रमाणेन धगयोस्तत्र निर्णयः ।
इति तत्त्वं सुप्रसिद्धं स्मरणीयमहर्निशम् ॥ १५९॥
गरिसेति समासेन प्रत्यक्षः कानरो भवेत् ।
तन्निवृत्त्यर्थमाहुस्ते गमरिसेति सङ्गतिः ॥ १६०॥
मेघमल्लारः
हरप्रियाख्यमेलाच्च मेघमल्लारनामकः ।
सुधीभिर्निश्चितो नित्यं षाडवः सांशकः पुनः ॥ १६१॥
आरोहे चावरोहे स्याद्गान्धारस्य सुगोपनम् ।
आन्दोलनं समादिष्टं रिषभे रक्तिदायकम् ॥ १६२॥
केचिदुपदिशन्त्यत्र धगयोः परिवर्जनम् ।
येन स्यात्प्रकटं सद्यः सूरदासीप्रभेदनम् ॥ १६३॥
सूरदासी प्रेयसी यत् सारङ्गाङ्गा विशेषतः ।
सुयुक्तं मे मते नूनं तत्रैव धगलङ्घनम् ॥ १६४॥
प्रसिद्धो धगवर्जोऽपि रागो लक्ष्ये न संशयः ।
तत्रेषद्धस्य योगेन सूरदासी विभिद्यते ॥ १६५॥
मध्यमादृषभे पातो मेघे स्याद्रागवाचकः ।
अवश्यं शिक्षणीयोऽसौ नव्यशिक्षार्थिभिः सदा ॥ १६६॥
गम्भीरप्रकृती रागो विलम्बितलयोद्धृतः ।
उत्तालस्वरसङ्गीतो वर्षासु जनयेत्सुखम् ॥ १६७॥
सूरमल्लारः
काफीमेलसमुत्पन्नः सूरमल्लारनामकः ।
निर्मितः सूरदासेनेत्याहुर्लक्ष्यविदो जनाः ॥ १६८॥
आरोहे चावरोहेऽपि धगयोर्गोपनं मतम् ।
समयोरेव संवादः व्यस्तत्वं मध्यमस्य तत् ॥ १६९॥
दौर्बल्याद्धगयोर्नूनं सारङ्गाङ्गस्य सम्भवः ।
अतः स्पर्शो मतो धस्य बाधको न पुनर्मनाक् ॥ १७०॥
मध्यमादृषभे पातः सोरटीं दर्शयेद्यदि ।
अभावो धैवतस्यैव तदङ्गं दूरतां नयेत् ॥ १७१॥
सुहानाम्न्यां तथाऽड्डाणे गान्धारस्य यतो विधिः ।
तद्रूपयोः प्रभिन्नत्वे नो स्यात्कस्यापि संशयः ॥ १७२॥
मल्लारो मध्यमादिश्च मिश्रितावत्र रूपके ।
इति लक्ष्यविदां तावन्मतं भाति सुसङ्गतम् ॥ १७३॥
मीयाँमल्लारः
हरप्रियाभिधे मेले जायते विबुधप्रियः ।
मीयाँमल्लारनामाऽसौ वर्षासु सुखदायकः ॥ १७४॥
संवादिनौ सपौ प्रोक्तौ गान्धारे दोलनं शुभम् ।
निधयोरेव संयोगाद्भवेद्रागस्य मण्डनम् ॥ १७५॥
मन्द्रस्थानगतं गानं सर्वेषां हृदयङ्गमम् ।
विलम्बितलयालापो नूनमाकर्षयेन्मनः ॥ १७६॥
निषादद्वयसंयोगः स्वतन्त्रो रागवाचकः ।
प्रच्छन्नधैवतः कुर्याद्वाहारस्यापवारणम् ॥ १७७॥
कम्प्रगान्धारके स्पष्टः कर्णाटो व्यञ्जितो भवेत् ।
मध्यमादृषभे पातो मल्लार्यङ्गं सुनिर्णयेत् ॥ १७८॥
कर्णाटगौडसंयोगाद्यदयमुत्थितो मतः ।
प्रशस्तो मध्यमो व्यस्तो निपयोः सङ्गतिः सदा ॥ १७९॥
मध्यमादिः (मध्यमावती)
काफीमेलसमुत्पन्ना मध्यमादिः प्रकीर्तिता ।
व्यवहारे मता नित्यमौडवा धगवर्जिता ॥ १८०॥
स्वीकृतो ह्युपभेदोऽयं सारङ्गस्यैव सर्वथा ।
गानं चाभिमतं नूनं मध्याह्ने सर्वरक्तिदम् ॥ १८१॥
ऋषभस्यात्र वादित्वं लक्ष्ये लोकसुसम्मतम् ।
निषादस्यापि तत्प्रोक्तमहोबलमनीषिणा ॥ १८२॥
बहुलत्वं रिस्वरस्य ज्ञात्वा दिनेऽपवादकम् ।
विकल्पेन निषादस्य कदाचित्स्यात् प्रसूचितम् ॥ १८३॥
उत्तराङ्गे समादिष्टा निपयोः सङ्गतिः प्रिया ।
मध्यरात्रिप्रगेयेषु कर्णाटेष्वप्यसौ तथा ॥ १८४॥
प्रकारा बहवो लक्ष्ये सारङ्गस्य समीरिताः ।
तत्रापि सुप्रसिद्धा ये सङ्गृहीता मयाऽत्र ते ॥ १८५॥
संवादित्वं तु भिन्नेषु स्वरेषु परिकल्पनात् ।
निर्मितिर्भिन्नरूपाणां सम्भवेदिति मे मतिः ॥ १८६॥
टिप्पनी
मध्याह्ने मध्यरात्र्यां च सारङ्गाङ्गं स्वतन्त्रकम् ।
तत्कालगेयरूपेषु महद्वैचित्र्यकारणम् ॥ १८७॥
सुहासुघ्रीमुखाः प्रोक्ता दिनगेयास्तदङ्गजाः ।
साहानाड्डाणकाद्यास्ते रात्रिगेयास्तथैव च ॥ १८८॥
वृन्दावनी मध्यमादिः सारङ्गः शुद्धपूर्वकः ।
सामन्तो बडहंसश्च मीयाँसारङ्गनामकः ।
तथालङ्कादहनाख्य एते भेदा बहुश्रुताः ॥ १८९॥
शुद्धसारङ्गः
हरप्रियाह्वमेले स्याच्छुद्धसारङ्गसम्भवः ।
आरोहे चावरोहेपि गान्धारो वर्जितस्वरः ॥ १९०॥
रिषभोऽत्र मतो वादी संवादी पञ्चमो भवेत् ।
द्वितीयप्रहरे गानं सर्वरक्तिप्रदं भवेत् ॥ १९१॥
धैवतस्य प्रयोगोऽस्मिन् व्यक्तो यत्परिकीर्तितः ।
मध्यमादेः प्रभिन्नत्वं स्फुटमेव न संशयः ॥ १९२॥
ग्रन्थेषु दाक्षिणात्यानां गमौ तीव्रौ समीरितौ ।
न तल्लक्ष्ये सुप्रतीतं यतो न मे सुसम्मतम् ॥ १९३॥
मध्यमौ द्वौ निषादौ द्वौ पारिजाते समीरितौ ।
तदपि न यतो दृष्टं लक्ष्ये न स्यात् सुसङ्गतम् ॥ १९४॥
केचिदत्र मतीव्रत्वं प्रकल्प्य गानकोविदाः ।
कामोदसन्निभं रूपं स्वतन्त्रं मेनिरे ध्रुवम् ॥ १९५॥
तीव्रमध्यमसंयुक्तं धगस्वरविवर्जितम् ।
सूरसारङ्गनामानं केचिदन्ये पुनर्जगुः ॥ १९६॥
एवं मया समाख्याता मतभेदा अमायया ।
यथायोग्यं विमृश्यैतान् बुधैः कार्यः स्वनिर्णयः ॥ १९७॥
टिप्पनी
सारङ्गे गधवर्जत्वं मतं सामान्यलक्षणम् ।
तथापि च गवर्जत्वं रागव्यजनमीरितम् ॥ १९८॥
तानसेनप्रिया रागाः कानडाङ्गेन मण्डिताः ।
श्रूयन्ते यल्लक्षणं तत् सारङ्गेऽपि सुसङ्गतम् ॥ १९९॥
वृन्दावनसारङ्गः
कर्णाटस्यैव मेलाच्च वृन्दावन इतीरितः ।
सारङ्गः शोभनो रागः सर्वत्र गुणिसम्मतः ॥ २००॥
गधयोः स्यात्परित्याग आरोहे बहुसम्मतः ।
धैवतस्यावरोहेऽसावीषत्स्पर्शो न बाधकः ॥ २०१॥
रिषभो नियतो वादी संवादी पञ्चमो भवेत् ।
मध्यमादौ निषादे स्यादमात्यत्वं सुसङ्गतम् ॥ २०२॥
केचिद्वृन्दावनेऽप्याहुर्निषादं तीव्रसंज्ञितम् ।
यतस्तस्य सदैव स्याल्लोके व्यक्ता सुखं भिदा ॥ २०३॥
गधयोर्गोपनं लक्ष्ये मुख्यं सारङ्गलक्षणम् ।
यथायोग्यप्रमाणेन प्रायः सर्वत्र लक्षितम् ॥ २०४॥
मीयाँकृतसारङ्गः
हरप्रियाह्वये मेले मीयाँसारङ्ग उच्यते ।
अन्विष्टस्तानसेनेनेत्याहुर्लक्ष्ये विचक्षणाः ॥ २०५॥
यतः सारङ्गभेदोऽयं महत्वं रिस्वरे स्फुटम् ।
मन्द्रमध्यस्वरैर्गीतो रक्तेः कुर्याद्विवर्धनम् ॥ २०६॥
ईषद्धन्योः सङ्गतिः स्यान्मन्द्रे रागोपलब्धये ।
मीयाँमल्लारिकाच्छाया तत्रैव स्यात् सुलक्षिता ॥ २०७॥
कानडः सुप्रियो रागस्तानसेनस्य विश्रुतः ।
अत्रापि सङ्गतिस्तस्य केषाञ्चित्सम्मता ध्रुवम् ॥ २०८॥
यावनिकेषु रूपेषु ह्येतादृशेषु नित्यशः ।
केवलं लक्ष्यमादृत्य सत्कार्यं तत्र वर्तनम् ॥ २०९॥
वृन्दावने कोमलस्य निषादस्यैव लङ्घनात् ।
प्रत्यक्ष सम्भवेद्भेदः सुबोधोऽपि सतां मते ॥ २१०॥
धैवतस्य समायोगे शुद्धसारङ्ग नामकः ।
सुभिन्नमाप्नुयाद्रूपं निदौर्बल्यात्तथैव च ॥ २११॥
कामोदाङ्गेन विख्यातः सूरसारङ्गसंज्ञितः ।
न भेदं दर्शयेत्तीव्रमध्यमेन स्वरेण किम् ॥ २१२॥
मध्यमादौ रिधौ नस्त आरोहे चावरोहणे
पूर्णः स्याल्लूमसारङ्ग एवं भेदाः परिस्फुटाः ॥ २१३॥
सुगायनलक्षणम्
रत्नाकरे
हृद्यशब्दः सुशारीरो ग्रहमोक्षविचक्षणः ।
रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः ॥ १॥
प्रबन्धगाननिष्णातो विविधालप्तितत्ववित् ।
सर्वस्थानोच्चगमकेष्वनायासलसद्गतिः ॥ २॥
आयत्तकण्ठस्तालज्ञः सावधानो जितश्रमः ।
शुद्धच्छायालगाभिज्ञः सर्वकाकुविशेषवित् ॥ ३॥
अपारस्थायसञ्चारः सर्वदोषविवर्जितः ।
क्रियापरोऽजस्रलयः सुघटो धारणान्वितः ॥ ४॥
स्फूर्जन्निर्जवनो हारिरहःकृद्भजनोद्धुरः ।
सुसम्प्रदायो गीतज्ञैर्गीयते गायनाग्रणीः ॥ ५॥
सदोषगायनलक्षणम्
सन्दष्टोद्घृष्टसूत्कारिभीतशङ्कितकम्पिताः ।
कराली विकलः काकी वितालकरभोद्वडाः ॥ ६॥
झोम्बकस्तुम्बकी वक्री प्रसारी विनिमीलकः ।
विरसापस्वराव्यक्तस्थानभ्रष्टाव्यवस्थिताः ॥ ७॥
मिश्रकोऽनवधानश्च तथाऽन्यः सानुनासिकः ।
पञ्चविंशतिरित्येते गायना निन्दिता मताः ॥ ८॥
सुशारीरलक्षणम्
रागाभिव्यक्तिशक्तत्वमनभ्यासेऽपि यद्ध्वनेः ।
तच्छारीरमिति प्रोक्तं शरीरेण सहोद्भवात् ॥ ९॥
तारानुध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः ।
घनतास्निग्धताकान्तिप्राचुर्यादिगुणैर्युतम् ॥ १०॥
तत्सुशारीरमित्युक्तं लक्ष्यलक्षणकोविदः ।
अनुध्वानविहीनत्वं रुक्षत्वं त्यक्तरक्तिता ॥ ११॥
निःसारता विस्वरता काकित्वं स्थानविच्युतिः ।
कार्श्यं कार्कश्यमित्याद्यैः कुशारीरं कुदूषणैः ॥ १२॥
प्रस्तुतसङ्गीतस्थितिः
अस्मत्सङ्गीतं स्वायत्तीकृतमशिक्षितैर्जनैः ।
अतोऽत्र दोषबाहुल्यं स्वभावादुपलभ्यते ॥ १३॥
सङ्गीतस्य सुशिक्षितशिक्षकाभावतोऽधुना ।
तारतम्यपरिज्ञानसाधनं नैव विद्यते ॥ १४॥
सम्यक्तयाऽन्यथा वैतदत एवाभिमन्यते ।
सङ्गीतं मोहिनीरूपमित्याहुः सत्यमेव तत् ॥ १५॥
योग्यरसभावभाषारागप्रभृतिसाधनैः ।
गायकः श्रोतृमनसि नियतं जनयेत्फलम् ॥ १६॥
अस्मदीयेष्वाधुनिकगायकेषु समन्ततः ।
यथोक्तनियमान् ज्ञात्वा गायन्तो विरला जनाः ॥ १७॥
भाषाऽव्यक्ता हावभावाः प्रतीयन्ते विसङ्गताः ।
व्यस्ताश्चेष्टास्तथाऽऽक्रोशाः केवलं कर्कशा मताः ॥ १८॥
एतादृग्गायनान्न स्यात्परिणामो ह्यभीप्सितः ।
ततो हास्यरसस्यैव केवलं स्यात् समुद्भवः ॥ १९॥
अर्थं विना हावभावा वीररसस्य ये सदा ।
दृश्यन्ते गायके तेभ्यः कथं स्यादुत्तमं फलम् ॥ २०॥
अनुसृत्यैव शब्दार्थं ध्वनेः सङ्क्रमणं भवेत् ।
गायकास्तादृशा दृष्टाः स्वपद्यार्थं न ये विदुः ॥ २१॥
कथमेते विजानीयू रसभावरहस्यकम् ।
तथैव ते कथं विद्युः सङ्गीतस्वरसङ्क्रमम् ॥ २२॥
उपसंहारः
भिद्यतेऽनेकधादेशी सङ्गीतमिति विश्रुतम् ।
ययोः कयोरपि भवेद्ग्रन्थयोर्नैकवाक्यता ॥ २३॥
अत एवातिकठिनं तादृग्ग्रन्थस्य लेखनम् ।
यः सर्वत्रोपयुज्येत समभावेन केवलम् ॥ २४॥
नैव द्रव्यार्जनोद्देशः शङ्कनीयोऽत्र कश्चन ।
सङ्गीतेष्टाध्वशिक्षार्थं यत्नस्त्वेष मया कृतः ॥ २५॥
नूनं पद्धत्यनुगुणशिक्षणाभ्यासतः सताम् ।
आवश्यकतया तादृग्ग्रन्थापेक्षाऽपि विद्यते ॥ २६॥
कीदृग्ग्रन्था इष्टा इति प्रतीयेत सतां यदा ।
तदापि स्यान्मदायाससाफल्यमिति मे मतिः ॥ २७॥
नूत्नशिष्यापेक्षयादौ स्युरिष्टा योग्यशिक्षकाः ।
अध्यापयिष्यन्ति तेऽमुं विषयं सम्यगेव हि ॥ २८॥
ग्रन्थस्योद्देश आदौ स्यादस्य शिक्षकनिर्मितिः ।
शिष्यानध्यापयिष्यन्ति तादृशाः शिक्षकास्ततः ॥ २९॥
इति श्रीलक्ष्यसङ्गीतद्वितीयाध्याय ईरितः ।
चतुराख्येन भरतपूर्वखण्डनिवासिना ॥ ३०॥
एवं श्रीमल्लक्ष्यसङ्गीतनाम्नः ।
यत्नैर्नूत्नो निर्मितोऽयं प्रबन्धः ।
प्राचीनार्वाचीनसङ्गीतभक्तप्रीत्यै यातः पूर्णतामत्र सद्यः ॥ ३१॥
॥ इति श्रीमल्लक्ष्यसङ्गीतं सम्पूर्णम् ॥
भरतखण्डनिवासिचतुराख्यपण्डितेन
(अर्वाचीनसङ्गीतपद्धतिपरिचयसौकर्यसमेतम्)
निर्मितम् ।
१७७९
तच्च
मुम्बय्यां
निर्णयसागरयन्त्रालये मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् ।
शके १८३१, सन १९१०
॥ अथ श्रीमदर्पणश्लोकः ॥
चतुराख्येन भरत-पूर्वखण्डनिवासिना ।
लक्ष्यसङ्गीतग्रन्थोऽयं सत्पदाब्जयुगेऽर्पितः ॥ १॥
मुम्बय्यां
निर्णयसागराख्यमुद्रणालये प्रकाशयित्यर्थं बाळकृष्ण रामचन्द्र घाणेकर
इत्यनेन मुद्रितम् ।
This book was published under the pseudonym Chatur pandit, to make this cultural heritage accessible to the common man.
The appendix परिशिष्टः of the book is not included for its tabular form only suitable for a scholarly classification.
There is a second edition of this book which was discovered after this first edition was prepared. We will try to get it entered as time permits.
Proofread by Koushiki Kaledhonkar