॥ नाट्यशास्त्रम् अध्यायः ३ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ तृतीयोध्यायः । सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे । गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥ १॥ ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च । मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे ॥ २॥ यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः ॥ ३॥ नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् । जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥ ४॥ सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् । सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥ ५॥ मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा । मृत्युं च नियतिं चैव कालदण्डं तथैव च ॥ ६॥ विष्णुप्रहरणं चैव नागराजं च वासुकिम् । वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् ॥ ७॥ भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् । असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् ॥ ८॥ तथा नाट्यकुमारीश्च महाग्रामण्यमेव च । यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च ॥ ९॥ एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः । यथास्थानान्तरगतान्समावाह्य ततो वदेत् ॥ १०॥ भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः । साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः ॥ ११॥ सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च । जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥ १२॥ त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् । निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण ॥ १३॥ नृपस्य विजयं शंस रिपूणां च पराजयम् । गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् ॥ १४॥ एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे । निशायां तु प्रभातायां पूजनं प्रक्रमेदिह ॥ १५॥ आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु । आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥ १६॥ आचार्येण तु युक्तेन शुचिना दीक्षितेन च । रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥ १७॥ दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते । आचम्य तु यथान्यायं देवता वै निवेशयत् ॥ १८॥ रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः । रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् ॥ १९॥ यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः । नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥ २०॥ एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् । आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः ॥ २१॥ समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् । द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् ॥ २२॥ मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे । तयोः कक्ष्याविभागेन दैवतानि निवेशयत् ॥ २३॥ पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् । आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः ॥ २४॥ नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी । सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ॥ २५॥ पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह । विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा ॥ २६॥ दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः । पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत् ॥ २७॥ नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् । पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् ॥ २८॥ वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् । तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ॥ २९॥ उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् । नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् ॥ ३०॥ तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् । ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् ॥ ३१॥ स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च । ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् ॥ ३२॥ अनेनैअव विधानेन यथास्थानं यथाविधि । सुप्रसादानि सर्वाणि दैवतानि निवेशयत् ॥ ३३॥ स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः । तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः ॥ ३४॥ देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् । गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् ॥ ३५॥ गन्धं माल्यं च धूपं च यथावदनुपूर्वशः । दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः ॥ ३६॥ ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् । शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ॥ ३७॥ घृतौदनेन हुतभुक्सोमर्कौ तु गुडौदनैः । विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ॥ ३८॥ यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा । पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् ॥ ३९॥ पक्वानेन तु मांसेन सुरासीथुफलासवैः । अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः ॥ ४०॥ अनेनैव विधानेन सम्पूज्या मत्तवारणी । पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ॥ ४१॥ सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् । शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः ॥ ४२॥ मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा । सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ॥ ४३॥ नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् । वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः ॥ ४४॥ मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः । अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् ॥ ४५॥ एवमेषां बलिः कार्यो नानाभोजनसंश्रयः । पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते ॥ ४६॥ देवदेव महाभाग सर्वलोकपितामह । मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् ॥ ४७॥ देवदेव महाभाग गणेश त्रिपुरान्तक । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ४८॥ नारायणामितगते पद्मनाभ सुरोत्तम । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः ॥ ४९॥ पुरन्दरामरपते वज्रपाणे शतक्रतो । प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः ॥ ५०॥ देवसेनापते स्कन्द भगवन् शङ्करप्रिय । बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ॥ ५१॥ (महादेव महायोगिन्देवदेव सुरोत्तम । संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥ ) देवि देवमहाभागे सरस्वति हरिप्रिये । प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥ ५२॥ नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् ॥ ५३॥ लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः । मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् ॥ ५४॥ सर्वभूतानुभावज्ञ लोकजीवन मारुत । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ५५॥ देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन । भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ ५६॥ सर्वग्रहाणां प्रवर तेजोराशे दिवाकर । भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ ५७॥ सर्वग्रहपते सोम द्विजराज जगत्प्रिय । प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः ॥ ५८॥ महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः ॥ ५९॥ नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् । (भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः ।) कामपाल नमो नित्यं यस्यायं ते विधिः कृतः ॥ ६०॥ नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः । परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् ॥ ६१॥ यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ । इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् ॥ ६२॥ रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः । दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः ॥ ६३॥ सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । पूजितः प्रीतमानस्तु ससमुद्रनदीनदः ॥ ६४॥ वैनतेय महासत्व सर्वपक्षिपते विभो । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ६५॥ धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ॥ ६६॥ नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् ॥ ६७॥ रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् । विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ॥ ६८॥ तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ । मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥ ६९॥ याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः । मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥ ७०॥ अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः । दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः ॥ ७१॥ कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् । स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ॥ ७२॥ (आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥ पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः ॥ ७३॥ श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि । विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि ॥ ७४॥ मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना । सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥ ७५॥ आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् ॥ ७६॥ सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ॥ ७७॥ अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः । निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः ॥ ७८॥ शिरस्ते रक्षतु ब्रह्मा सर्वैर्देवगुणैअः तह । द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ॥ ७९॥ चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः । नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव ॥ ८०॥ नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन । जयं चाभ्युदयं चैव पार्थिवस्य समावह ॥ ८१॥ जर्जरं पूजयित्वैअवं बलिं सर्वं निविद्य च । अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् ॥ ८२॥ हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् । नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् ॥ ८३॥ अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा । मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ॥ ८४॥ महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः । यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः ॥ ८५॥ एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः । नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ॥ ८६॥ सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः । पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः ॥ ८७॥ होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् । भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ॥ ८८॥ अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् । भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः ॥ ८९॥ भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः । प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ॥ ९०॥ क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः । रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् ॥ ९१॥ शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा । सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् ॥ ९२॥ तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् । क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ॥ ९३॥ सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् । पुरस्याबालवृद्धस्य तथा जानपदस्य च ॥ ९४॥ दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् ॥ ९५॥ य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥ ९६॥ यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् ॥ ९७॥ पूजिताः पूजयन्त्येते मानिता मानयन्ति च । तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ॥ ९८॥ न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ ९९॥ शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च । नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ॥१००॥ स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः । मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ॥ १०१॥ इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने । नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः ॥ १०२॥ इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः । Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 3
% File name             : natya03.itx
% itxtitle              : nATyashAstram adhyAyaH 03
% engtitle              : Natya Shastra Chapter 3
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : May 24, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP